०५ अभ्युदयेष्टिः

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

नासो॑मयाजी॒ सन्न॑ये॒दना॑गत॒व्ँवा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी स॒न्नये᳚त्परिमो॒ष ए॒व सोऽनृ॑तङ्करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सन्न॑येत् ।

विश्वास-प्रस्तुतिः

नासो॑मयाजी॒ सन्न॑येत् ।

मूलम्

नासो॑मयाजी॒ सन्न॑येत् ।

भट्टभास्कर-टीका

1नासोमयजी सं नयेदित्यादि ॥ दधिपयोभ्यां यागस्सन्नयनम् ।

विश्वास-प्रस्तुतिः

अना॑गत॒व्ँवा ए॒तस्य॒ पयः॑ ।

मूलम्

अना॑गत॒व्ँवा ए॒तस्य॒ पयः॑ ।

भट्टभास्कर-टीका

अनागतमिति । असोमयाजिनः पयस्सम्बन्धो नास्ति सर्वरसकारणेन सोमेन सम्बन्धाभावात् ।

विश्वास-प्रस्तुतिः

योऽसो॑मयाजी॒ यदसो॑मयाजी स॒न्नये᳚त् ।
प॒रि॒मो॒ष ए॒व सोऽनृ॑तङ्करोति ।

मूलम्

योऽसो॑मयाजी॒ यदसो॑मयाजी स॒न्नये᳚त् ।
प॒रि॒मो॒ष ए॒व सोऽनृ॑तङ्करोति ।

भट्टभास्कर-टीका

तस्मादसोमयाजी यदि सन्नयेत् स परिमोषश्चौर्यमेव, अस्वेन यष्टुं प्रवृत्तत्वात् । तस्मादयमनृतं करोति व्रतचारिणो यत्प्रतिषिद्धं तदेवानृतं करोति ।

विश्वास-प्रस्तुतिः

अथो॒ परै॒व सि॑च्यते ।
सो॒म॒या॒ज्ये॑व सन्न॑येत् ।

मूलम्

अथो॒ परै॒व सि॑च्यते ।
सो॒म॒या॒ज्ये॑व सन्न॑येत् ।

भट्टभास्कर-टीका

अथो अपि च परैव सिच्यते एतद्यष्टव्यं परा सिच्यते अस्थाने विनाश्यत एव । तस्मात्सोमयाज्येव सन्नयेदिति ॥

मूलम् (संयुक्तम्)

पयो॒ वै सोम॒ᳶ पय॑स्सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते

विश्वास-प्रस्तुतिः

पयो॒ वै सोमः॑ ।
पय॑स्सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते ।

मूलम्

पयो॒ वै सोमः॑ ।
पय॑स्सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

2पयो वा इत्यादि ॥ उभयोः पयस्त्वात्पयसा सोमेन स आत्मनि पयस्सान्नाय्यं धत्ते स्थापयति ॥

मूलम् (संयुक्तम्)

वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्य॒य्ँयस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता᳚च्च॒न्द्रमाः᳚ [27] अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान्वि भ॑जे॒द्ये म॑ध्य॒मास्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्यात्

विश्वास-प्रस्तुतिः

वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति ।

मूलम्

वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति ।

भट्टभास्कर-टीका

3वि वा एतमित्यादि ॥ यस्य निरुप्तुं हविरभिलक्ष्य निर्वापे कृते पुरस्तात् पूर्वस्यां दिशि चन्द्रमा उदेति एनं प्रजया पशुभिश्च व्यर्धयति ।

विश्वास-प्रस्तुतिः

व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यम् ।
यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता᳚च्च॒न्द्रमा॑ अ॒भ्यु॑देति॑ ।
त्रे॒धा त॑ण्डु॒लान् वि भ॑जेत् ।
ये म॑ध्य॒मास्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्यात् ।

मूलम्

व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यम् ।
यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता᳚च्च॒न्द्रमा॑ अ॒भ्यु॑देति॑ ।
त्रे॒धा त॑ण्डु॒लान् वि भ॑जेत् ।
ये म॑ध्य॒मास्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्यात् ।

भट्टभास्कर-टीका

वर्धयति चास्य भ्रातृव्यं शत्रुं, तथोद्यंश्चन्द्रमाः । विनष्टचन्द्रमायां हि तिथौ कर्मैतद्दर्शाख्यं क्रियते । अनेन चेष्ट्वा प्रजावान् पशुमान् भ्रातृव्यवांश्च संपद्यते । हविरभ्युद्यंश्चायं विपरीतफलस्स्यात् । तस्मान्निर्वापयागयोर्मध्ये यथा चन्द्रमसः पुरस्तादुदयो न भवति तथा कालो ग्रह्यः ॥

अत्र ब्रूमः - अस्य चन्द्रमसो द्वादश दृश्यादृश्यकला अंशाः एतेरंशैरयं दृश्यश्चादृश्यश्च भवति । तत्र स्फुटजिज्ञासायां वखा [शून्यखा] ग्निभिः शतत्रयेण द्वादशभागान् सङ्गणय्य पूर्वस्यां दिशि उदयेऽस्तमये च विचार्यमाणे कर्मद्वयसंस्कृतेनोदयराशिना विभज्य लब्धेनांशादिना युक्तस्स्फुटोर्क उदयार्को भवति । तद्युक्तो यावान् स्फुटोर्कः तावान्यदा गणितानीतोर्को भवति तदा चन्द्रमा उदेति अथ तेनैवांशादिना रहितस्स्फुटोर्को वा अस्तमयार्को वा भवति । तावान्यदा स्फुटोर्को भवति तदा चन्द्रमा अस्तमेति । यदा पुनः प्राच्यां दिश्युदयोस्तमयो वा विचार्यते तदा पूर्ववत्संगुणितान् द्वादशभागान् चन्द्रकर्मद्वयसंस्कृतेऽस्तमयराशिना विभज्य लब्धेनांशादिना स्फुटोर्क उदययुक्त उदयार्को भवति । तद्रहितोस्तमया र्कः । तत्र चन्द्रस्य उदयार्केणास्तमयार्केण वा सह यदन्तरं तस्मिन्नन्तरे यावान् कालः तेन कालेन घटिकादिना उदितोस्तं गतो वा भवति । तत्र द्वेधा चन्द्रस्योदयास्तमयौ यथा प्रतिदिनं च भवतः गोळका प्राप्तिपरित्यागाभ्यां सूर्यस्येव । तथाऽऽदित्यस्यैव सन्निकर्षाद्विप्रकर्षाच्च अस्योदयास्तमयौ भवतः । तदपि कथ्यते - अयं चन्द्रश्शीघ्रगतित्वात् प्रत्यहमर्कसमीपमागच्छति यावत्प्राच्यामस्तं व्रजति । अस्तं गतश्च ततश्शीघ्रगतित्वात् आदित्यमनुदिनं परित्यजति यावत्प्रतीच्यामुदेति । एवमस्यादित्यसन्निकर्षात् विप्रकर्षाच्च प्राच्यामस्तमयः प्रतीच्यामुदयः । तच्चन्द्रार्कयोर्भुक्त्यन्ताः द्वादशमहाभागाः अंशाः । तेन गोळार्धभागानामशीतिशतसङ्ख्यभागे हृते लब्धं पञ्चदश प्रतिपदादयस्तिथयः । तिथिभागघटिके द्वे, दृश्यगोळार्धभागस्य त्रिंशत्घटिकात्वात् । तत्र चन्द्रार्कयोः परो विप्रकर्षः पौर्णमासी, परस्सन्निकर्षोमावास्या । तत्राभीष्टकाले स्फुटभुक्त्यन्तरं स्फुटकालांशादधिकं वा भवेत्तदन्यूनं वा ; अधिकत्वे पञ्चदश्यामपि चन्द्रो दृश्यस्स्यात् । न्यूनत्वे तु चतुर्दश्यां अपि न दृश्येत । तस्मात्तादृशः सूक्ष्मगणनाकौशलशालिना कालोन्वेष्यः ॥

प्रमादाच्चेद्दुष्टः काल आपतेत् तदा त्रेधा तण्डुलानित्यादि कर्माचरेत् । तत्र निरुप्तमनिरुप्तं वा प्रवृत्तं हविर्यदाऽभ्युदेति तदेदं कर्म कर्तव्यमिति मीमांसकाः; यथोक्तम् - ‘निरुप्ते स्यात् तत्संयोगात्’ इत्यत्र । तथा हि ‘अभिरभागे’ इत्यभेदलक्षणे कर्मप्रवचनीयत्वम् । लक्षणं च ज्ञापकम् । तथा प्रवृत्तं ज्ञापकमिति यस्य निरुप्तं हविरभ्युदेतीति विधीयते । तदा निरुप्तमिति यागावयवानामुपलक्षणं वाक्यं, उभयविधाने वाक्यभेदप्रसङ्गात् । ततश्चाग्न्यन्वाधानप्रभृति यावद्ब्राह्मणभोजनमुदयोस्य परिहर्तव्यः इत्युक्तं भवति । तत्र च ‘अभ्युदये कालापराधादिज्याचोदना स्यात् यथा पञ्चशरावे’ इति त्रेधेत्यादिकं न कर्मान्तरविधानं, अपि तु अपनीतदेवताकं तदेव प्राकृतं शूर्पे राशीकृतं हविर्देवतान्तरैः संयुज्यत इति राद्धान्तितम् । तत्राप्यनिरुप्तेऽभ्युदिते प्राकृतीभ्य एव देवताभ्यो निर्वापः कार्यः तण्डुलभूतेषु देवतापनयस्य विधानादिति सिद्धान्तितम् ‘अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेत्’ इत्यादौ ॥

मूलम् (संयुक्तम्)

ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धꣵश्च॒रुय्ँ येऽणि॑ष्ठा॒स्तान्विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम्

विश्वास-प्रस्तुतिः

ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धꣵश्च॒रुम् ।
येऽणि॑ष्ठा॒स्तान् विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम् ।

मूलम्

ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धꣵश्च॒रुम् ।
येऽणि॑ष्ठा॒स्तान् विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम् ।

भट्टभास्कर-टीका

4स्थविष्ठाः स्थूलराशिगताः ॥ ‘स्थूलदूर’ इति लोपो गुणश्च अणिष्ठा अणुराशिगताः । ‘टेः’ इति टिलोपः । एवं दातृत्वादिगुणेभ्योग्न्यादिभ्यो मध्यमादिभिरष्टाकपालादयः कार्याः । दधन्निति ‘सुपां सुलुक्’ इति सप्तम्या लुक् । अनङादेशे ‘विभाषा ङिश्योः’ इति लोपाभावः । शृतं पक्वं पयः ॥

मूलम् (संयुक्तम्)

अग्निरे॒वास्मै᳚ प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्र॒ᳶ प्र य॑च्छति य॒ज्ञो वै विष्णुᳶ॑ प॒शव॒श्शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति

विश्वास-प्रस्तुतिः

अ॒ग्निरे॒॒वास्मै᳚ प्र॒जाम्प्र॑ज॒नय॑ति ।
वृ॒द्धामिन्द्र॒ᳶ प्र य॑च्छति ।
य॒ज्ञो वै विष्णुः॑।

मूलम्

अ॒ग्निरे॒॒वास्मै᳚ प्र॒जाम्प्र॑ज॒नय॑ति ।
वृ॒द्धामिन्द्र॒ᳶ प्र य॑च्छति ।
य॒ज्ञो वै विष्णुः॑।

भट्टभास्कर-टीका

5अग्निरेवेत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

प॒शव॒श्शिपिः॑ ।
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।

मूलम्

प॒शव॒श्शिपिः॑ ।
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

पशवश्शिपिरिति । शिपयो रश्मयः तैर्विशिष्टः प्रविष्टश्शिपिविष्टः । निर्वेष्टितशेपश्शिपिविष्टः । इत्यन्ये । तत्र पशुहेतुत्वात्ताच्छब्द्यम् । यज्ञे पशुषु च प्रतिष्ठितो भवतीत्येव ॥

मूलम् (संयुक्तम्)

न द्वे [28] य॒जे॒त॒ यत्पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट्कु॑र्या॒द्यदुत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो᳚ऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्द्ध इ॑न्द्रि॒यमुत्त॑रया देवलो॒कमे॒व [29] पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै᳚त्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति

विश्वास-प्रस्तुतिः

न द्वे य॑जेत ।
यत्पूर्व॑या सम्प्र॒ति यजे॒त ..
उत्त॑रया छ॒म्बट्कु॑र्यात् ।

यदुत्त॑रया सम्प्र॒ति यजे॑त ..
पूर्व॑या छ॒म्बट्कु॑र्यात् ।

नेष्टि॒र्भव॑ति ।
न य॒ज्ञः।
तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यते ।
एका॑मे॒व य॑जेत ।
प्रग॒ल्भो᳚ऽस्य जायते ।
अना॑दृत्य॒ तद्द्वे ए॒व य॑जेत ।
यज्ञमु॒खमे॒व पूर्व॑या॒ऽऽलभ॑ते ।
यज॑त॒ उत्त॑रया ।
दे॒वता॑ ए॒व पूर्व॑याऽवरुन्द्धे ।
इ॑न्द्रि॒यमुत्त॑रया +++(अवरुन्धे)+++।
दे॒व॒लो॒कमे॒व पूर्व॑याऽभि॒जय॑ति ।
म॒नु॒ष्य॒लो॒कमुत्त॑रया +++(अभिजयति)+++।
भूय॑सो यज्ञक्र॒तूनुपै᳚ति ।
ए॒षा वै सु॒मना॒ नामेष्टिः॑ ।

यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देति ।
अ॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ।

मूलम्

न द्वे य॑जेत ।
यत्पूर्व॑या सम्प्र॒ति यजे॒त ..
उत्त॑रया छ॒म्बट्कु॑र्यात् ।

यदुत्त॑रया सम्प्र॒ति यजे॑त ..
पूर्व॑या छ॒म्बट्कु॑र्यात् ।

नेष्टि॒र्भव॑ति ।
न य॒ज्ञः।
तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यते ।
एका॑मे॒व य॑जेत ।
प्रग॒ल्भो᳚ऽस्य जायते ।
अना॑दृत्य॒ तद्द्वे ए॒व य॑जेत ।
यज्ञमु॒खमे॒व पूर्व॑या॒ऽऽलभ॑ते ।
यज॑त॒ उत्त॑रया ।
दे॒वता॑ ए॒व पूर्व॑याऽवरुन्द्धे ।
इ॑न्द्रि॒यमुत्त॑रया +++(अवरुन्धे)+++।
दे॒व॒लो॒कमे॒व पूर्व॑याऽभि॒जय॑ति ।
म॒नु॒ष्य॒लो॒कमुत्त॑रया +++(अभिजयति)+++।
भूय॑सो यज्ञक्र॒तूनुपै᳚ति ।
ए॒षा वै सु॒मना॒ नामेष्टिः॑ ।

यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देति ।
अ॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ।

भट्टभास्कर-टीका

6अथ शाखान्तरे ऋद्धिकाममधिकृत्योक्तम् - ‘द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः कामयेत’ भवतः । तत्र च यावदेवमुपपद्यते तावान् प्रकर्षस्सोप्य(?) इति चतुर्थोंशो दुष्टः । तत्र `यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा यजेत’ इत्युच्यते । तथा - ‘पक्षान्तेऽन्वाधानं पक्षादौ यागः’ ‘पूर्वेद्युरन्वाधानमुत्तरेद्युर्यागः’ इति च । अन्वाधानादियावदिष्ट्यन्तं चन्द्रोदयेऽभ्युदयेष्ट्या भाव्यम् । तथा पर्वसन्धेः पूर्वमिष्टिसमाप्तौ पुनर्यष्टव्यमित्याहुः । तत्र पर्वणः सूक्ष्मत्वात् प्रत्यासन्नतिथिद्वयलक्षणायां पञ्चदशीप्रतिपदौ पर्वणी उच्येते । तस्मात् स्फुटीकरणेन तिथिदृश्यांश एवानीय कालोन्वेष्टव्यः । तत्र पञ्चदश्यां प्रथमेंऽशे तिथिदृश्यांशक्षये चन्द्रोदयसम्भावना । तत्रोत्तरयोश्चन्द्रांशयोस्सन्धेः पूर्वं यागसमाप्तिस्स्यात् । चतुर्थे तु दोषद्वयाप्रसङ्गः । प्रतिपदाद्यंशे सर्वदोषाभावः । चतुर्थे तु तिथिदृश्यांशे भिभाय [श्व एव] चन्द्रोदयसम्भावना । अथ यदि पूर्वेद्युश्च पञ्चदशघटिका चतुर्दशी उत्तरेद्युरष्टौ घटिकाः पर्व, यदा च पूर्वेद्युरष्टादश घटिकाः पर्व उत्तरेद्युर्दश घटिकाः प्रतिपत् तत्र गत्यभावात् यष्टव्यमित्येके ।

ननु ‘यमद्येजानं’ इत्यादिदर्शनात् द्वितीयायामपि तत्सम्भवाद्यागोनुमीयते, मैवं श्वो दृश्यां क्षये प्रतिपद्येवोदयसम्भवाकाक्षासभवात् । एवं पश्वादिष्वपि निपुणं निरूपणीयमिति ग्रन्थविस्तरभयादुपरम्यते ॥

स्वर्गकामस्य दाक्षायणयज्ञः

मूलम् (संयुक्तम्)

दाख्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सन्न॑येन्मैत्रावरु॒ण्याऽऽमिख्ष॑यामावा॒स्या॑याय्ँयजेत

विश्वास-प्रस्तुतिः

दा॒ख्षा॒य॒ण॒य॒ज्ञेन॑ सुव॒र्गका॑मो यजेत ।

मूलम्

दा॒ख्षा॒य॒ण॒य॒ज्ञेन॑ सुव॒र्गका॑मो यजेत ।

भट्टभास्कर-टीका

7दाक्षायणयज्ञेनेति ॥ येन दाक्षायणा यजन्ते । दक्षात् ‘अत इङ्’ ‘यञञोश्च’ इति फक् ।

विश्वास-प्रस्तुतिः

पू॒र्णमा॑से॒ सन्न॑येन् मैत्रावरुण्या ।
आ॒मिख्ष॑याऽमावा॒स्या॑याय्ँयजेत ।

मूलम्

पू॒र्णमा॑से॒ सन्न॑येन् मैत्रावरुण्या ।
आ॒मिख्ष॑याऽमावा॒स्या॑याय्ँयजेत ।

भट्टभास्कर-टीका

पूर्णमास इति । द्वे पूर्णमास्यौ द्वे अमावास्ये यजेत । तत्र पौर्णमास्यां पूर्वेद्युराग्नेयोष्टाकपाल [ल अग्नीषोमीय एकादशकपालः । आग्नेयोष्टाकपालः] ऐन्द्रं दध्युत्तरेद्युः । अमावास्यायां पूर्वेद्युराग्नेयोष्टाकपालः ऐन्द्राग्न एकादशकपालः आग्नेयोष्टाकपालो मैत्रावरुण्यामिक्षा द्वितीयोत्तरेद्युः ॥

मूलम् (संयुक्तम्)

पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑त॒स्तेषा᳚म्मैत्रावरु॒णी व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑

विश्वास-प्रस्तुतिः

पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तः

मूलम्

पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तः

भट्टभास्कर-टीका

8पूर्णमासे वा इत्यादि ॥ देवानां सोमयागत्वेनायं स्तूयते । तत्र यो देवानां सोमयागः तत्स्वरूपं तावदाह ।

विश्वास-प्रस्तुतिः

तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑तः ।

मूलम्

तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑तः ।

भट्टभास्कर-टीका

देवा येन सोमेन यजन्ते तत्र पूर्णमासे सुतः अभिषुतः सोमः तेषां देवानां सोमः एतमनन्तरभाविनमर्धमासं सर्वः प्रसुतो भवति । तस्य प्रकृष्टा गतिर्यागः । यद्वा - प्रकर्षेणानुज्ञातः प्रसुतः हुतो भवति ।

विश्वास-प्रस्तुतिः

तेषा᳚म्मैत्रावरु॒णी व॒शाऽमा॑वा॒स्या॑यामनूब॒न्ध्या॑ ।

मूलम्

तेषा᳚म्मैत्रावरु॒णी व॒शाऽमा॑वा॒स्या॑यामनूब॒न्ध्या॑ ।

भट्टभास्कर-टीका

अथ तेषां देवानाममावास्यायां मैत्रावरुणी वशानूबन्ध्या भवति । एवं देवा अयजन्त इति ॥

मूलम् (संयुक्तम्)

यत् [30] पू॒र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒थ्सान॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व सम्मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याꣳ सम्पा॑दयति॒ स ए॒तम॑र्धमा॒सꣳ स॑ध॒माद॑न्दे॒वैस्सोम॑म्पिबति॒ यन्मै᳚त्रावरु॒ण्यामि॑ख्षयामावा॒स्या॑या॒य्ँयज॑ते॒ यैवासौ दे॒वाना᳚व्ँव॒शानू॑ब॒न्ध्या॑

विश्वास-प्रस्तुतिः

यत् पू॒र्वे॒द्युर्यज॑ते ।
वेदि॑मे॒व तत्क॑रोति।

मूलम्

यत् पू॒र्वे॒द्युर्यज॑ते ।
वेदि॑मे॒व तत्क॑रोति।

भट्टभास्कर-टीका

9इदानीं दाक्षायणयज्ञं तद्भावेन रूपयति ॥ पूर्वस्मिन् दिने यदग्नीषोमाभ्यां यजते उत्तरवेदिकरणस्थानीयं तत् ।

विश्वास-प्रस्तुतिः

यद्व॒थ्सान॑पाक॒रोति॑ ।
स॒दो॒ह॒वि॒र्धा॒ने ए॒व सम्मि॑नोति ।
यद्यज॑ते दे॒वैरे॒व सु॒त्याꣳ सम्पा॑दयति।

मूलम्

यद्व॒थ्सान॑पाक॒रोति॑ ।
स॒दो॒ह॒वि॒र्धा॒ने ए॒व सम्मि॑नोति ।
यद्यज॑ते दे॒वैरे॒व सु॒त्याꣳ सम्पा॑दयति।

भट्टभास्कर-टीका

यद्वत्सापाकरणं सदोहविर्धानयोस्सम्मितिस्थानीयं तत् । यदुत्तरस्मिन्नह्नि सान्नाय्येन यजते तत् देवैस्सहेन्द्रस्य सुत्यां यागं सम्पादयति, सुत्यास्थानीयोर्धमासः ।

विश्वास-प्रस्तुतिः

स ए॒तम॑र्धमा॒सꣳ स॑ध॒माद॑न्दे॒वैस्सोम॑म्पिबति ।

मूलम्

स ए॒तम॑र्धमा॒सꣳ स॑ध॒माद॑न्दे॒वैस्सोम॑म्पिबति ।

भट्टभास्कर-टीका

यस्मादेवं तस्मात्स इन्द्रः एतमागामिनमर्धमासं सर्वं देवैस्सधमादं सोमं पिबति । देवैस्सह मादयतीति सधमात् । ‘सधमादस्थयोः’ इति सधादेशः । यद्वा - सह मदित्वा ।

विश्वास-प्रस्तुतिः

यन्मै᳚त्रावरु॒ण्यामि॑ख्षयामावा॒स्या॑या॒य्ँयज॑ते ।
यैवासौ दे॒वाना᳚व्ँव॒शानू॑ब॒न्ध्या॑ ।

मूलम्

यन्मै᳚त्रावरु॒ण्यामि॑ख्षयामावा॒स्या॑या॒य्ँयज॑ते ।
यैवासौ दे॒वाना᳚व्ँव॒शानू॑ब॒न्ध्या॑ ।

भट्टभास्कर-टीका

मैत्रावरुण्यामिक्षा या सा देवानामनूबन्ध्यास्थानीया ॥

मूलम् (संयुक्तम्)

सो ए॒वैषैतस्य॑ सा॒ख्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षाय्ँय॒ज्ञम् [31]
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति

विश्वास-प्रस्तुतिः

सो ए॒वैषैतस्य॑ सा॒ख्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति ।
य ए॑षाय्ँय॒ज्ञम॑भ्या॒रोह॑ति ।

मूलम्

सो ए॒वैषैतस्य॑ सा॒ख्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति ।
य ए॑षाय्ँय॒ज्ञम॑भ्या॒रोह॑ति ।

भट्टभास्कर-टीका

10साक्षाद्वा इत्यादि ॥ इत्थमयमव्यवधानेन देवानभ्यारोहति देवसमूहमनुप्रविशति य एषां देवानां यज्ञमभ्यारोहति अनुष्ठानेनाक्रमति ।

विश्वास-प्रस्तुतिः

यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति ।

मूलम्

यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति ।

भट्टभास्कर-टीका

यथेत्यादि । यथा लोके श्रेयान् अश्रेयांसमभ्यारूढमात्मानं कामयते इतोप्यहं श्रेयान् भूयासमिति तथाऽयं दाक्षायणयज्ञयाजी करोति ॥

व्यावृत्कामस्य दाक्षायणेष्टिः (यज्ञः)

मूलम् (संयुक्तम्)

यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ख्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते

विश्वास-प्रस्तुतिः

यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति ।

मूलम्

यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति ।

भट्टभास्कर-टीका

11इदानीं यज्ञान्तरेभ्वोस्य वैलक्षण्यं दर्शयितुमाह - यदीति ॥ यागान्तरेषु यद्यवविध्यति विकलानुष्ठायी स्यात् । पापीयान् पापतरो भवति ।

विश्वास-प्रस्तुतिः

यदि॒ नाव॒विध्य॑ति स॒दृङ् ।

मूलम्

यदि॒ नाव॒विध्य॑ति स॒दृङ् ।

भट्टभास्कर-टीका

यदि वा नावविध्यति सदृङ् सदृश एव यजमानान्तरैः स्यात् न तु विशेषैश्वर्यस्स्यात् ।

विश्वास-प्रस्तुतिः

व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ।

मूलम्

व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ।

भट्टभास्कर-टीका

तस्मादन्येभ्यो यजमानेभ्यो व्यावृत्कामः एतेन यजेत । व्यावृत्तिर्व्यावृत् । सम्पदादिलक्षणः क्विप् ।

विश्वास-प्रस्तुतिः

ख्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते ।

मूलम्

ख्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते ।

भट्टभास्कर-टीका

कोस्य विशेष इत्याह - क्षुरपविः निश्चितफलः यथाङ्कुरच्छेदेन पविर्वज्रं सद्यः प्रत्ययकृदेवमयं यज्ञः ताजक् तदानीमेव प्रमीयते ॥

मूलम् (संयुक्तम्)

तस्यै॒तद्व्र॒तन्नानृ॑तव्ँवदे॒न्न मा॒ꣳ॒सम॑श्ञीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुरे॒तद्धि दे॒वास्सर्व॒न्न कु॒र्वन्ति॑ ॥ [32]

विश्वास-प्रस्तुतिः

तस्यै॒तद्व्र॒तम् ।
नानृ॑तव्ँवदेत् ।
न मा॒ꣳ॒सम॑श्ञीयात् ।
न स्त्रिय॒मुपे॑यात् ।
नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुः।

ए॒तद्धि दे॒वास्सर्व॒न्न कु॒र्वन्ति॑ ॥

मूलम्

तस्यै॒तद्व्र॒तम् ।
नानृ॑तव्ँवदेत् ।
न मा॒ꣳ॒सम॑श्ञीयात् ।
न स्त्रिय॒मुपे॑यात् ।
नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुः।

ए॒तद्धि दे॒वास्सर्व॒न्न कु॒र्वन्ति॑ ॥

भट्टभास्कर-टीका

12तस्येत्यादि ॥ गतम् । अनृतौ स्त्रियं नोपेयादित्येके । पल्पूलनं शोधनं उषादि, तेनास्य वासो न पल्पूलयेयुः । अनेनाश्मपीडनादिकमपि निषिध्यत इत्येके । पल्पूलयतिः स्नानकर्मा ॥

इति द्वितीये पञ्चमे पञ्चमोनुवाकः ॥