०४

भ्रातृव्यतः पशुकामस्य च यागौ । सान्नायदेवता च।

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑स॒स्सेन्द्र॑ ऐ॒न्द्रन्दध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वश्श्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो भवति

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वै द॑र्शपूर्णमा॒सौ य॑जेत ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वै द॑र्शपूर्णमा॒सौ य॑जेत ।

भट्टभास्कर-टीका

1ब्रह्मवादिन इत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ ।
वै॒मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति ।
तेन॑ पू॒र्णमा॑स॒स्सेन्द्र॑ ऐ॒न्द्रन्दध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा᳚।

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
सेन्द्रा॑वे॒वैनौ॑ यजते ।
श्वश्श्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो भवति ।

मूलम्

य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ ।
वै॒मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति ।
तेन॑ पू॒र्णमा॑स॒स्सेन्द्र॑ ऐ॒न्द्रन्दध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा᳚।

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
सेन्द्रा॑वे॒वैनौ॑ यजते ।
श्वश्श्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो भवति ।

भट्टभास्कर-टीका

एनावित्यादि । अविदुषो नार्थः । पूर्णमासे वैमृधेन अमावास्यायामैन्द्रेण दध्ना च इत्येवं विदित्वेष्टवते यजमानायोत्तरमुत्तरं दिनं प्रशस्ततरं भवति ॥

मूलम् (संयुक्तम्)

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ताम् [22] इष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपाल॒ꣳ॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुन्ताम्पौ᳚र्णमा॒सꣳ स॒ꣵ॒स्थाप्यानु॒ निर॑वप॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स पौ᳚र्णमा॒सꣳ स॒ꣵ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत्पौर्णमा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान्प॒शून्थ्सा॑रस्व॒ताभ्या॒य्ँयाव॑दे॒वास्यास्ति॒ तत् [23] सर्व॑व्ँवृङ्क्ते

विश्वास-प्रस्तुतिः

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तामिष्टि॑मपश्यन् ।

आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम् ।
सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुन्ताम्पौ᳚र्णमा॒सꣳ स॒ꣵ॒स्थाप्यानु॒ निर॑वपन् ।
ततो॑ दे॒वा अभ॑वन् ।
परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्यात् ।
स पौ᳚र्णमा॒सꣳ स॒ꣵ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् ।

मूलम्

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तामिष्टि॑मपश्यन् ।

आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम् ।
सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुन्ताम्पौ᳚र्णमा॒सꣳ स॒ꣵ॒स्थाप्यानु॒ निर॑वपन् ।
ततो॑ दे॒वा अभ॑वन् ।
परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्यात् ।
स पौ᳚र्णमा॒सꣳ स॒ꣵ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् ।

भट्टभास्कर-टीका

2देवा वा इत्यादि ॥ गतम् । एतामिष्टिमिति । वक्ष्यमाणां त्रिहविष्कां पौर्णमासीसमाप्त्यनन्तरं तस्या अनुनिर्वाप्यामकुर्वन् । पौर्णमास्येवानुनिर्वाप्यसहिता फलं ददाति (कूग[कुहू]श्च) ।

विश्वास-प्रस्तुतिः

पौ॒र्ण॒मा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते ।

मि॒थु॒नान्प॒शून्थ्सा॑रस्व॒ताभ्या॒य्ँयाव॑दे॒वास्यास्ति॒ तथ्सर्व॑व्ँवृङ्क्ते ।

मूलम्

पौ॒र्ण॒मा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते ।

मि॒थु॒नान्प॒शून्थ्सा॑रस्व॒ताभ्या॒य्ँयाव॑दे॒वास्यास्ति॒ तथ्सर्व॑व्ँवृङ्क्ते ।

भट्टभास्कर-टीका

पौर्णमासेनैवेत्यादि । वृङ्क्ते वर्जयति स्वयं गृह्णाति । यस्मादेवं तस्माद्यावत्किञ्चित् भ्रातृव्यस्य विद्यते तत्सर्वमनयेष्ट्या वृङ्क्ते ॥

मूलम् (संयुक्तम्)

पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑ ह॒त्वा भ्रातृ॑व्य॒न्ना प्या॑ययति

विश्वास-प्रस्तुतिः

पौ॒र्ण॒मा॒सीमे॒व य॑जेत ।
भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑ ह॒त्वा भ्रातृ॑व्य॒न्ना प्या॑ययति ।

मूलम्

पौ॒र्ण॒मा॒सीमे॒व य॑जेत ।
भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑ ह॒त्वा भ्रातृ॑व्य॒न्ना प्या॑ययति ।

भट्टभास्कर-टीका

3नामावास्यामिति ॥ तत्र पितृयज्ञ एव क्रियते । तत्राप्यायितस्य वधादनाप्यायनमेव श्रेयः इति लुप्यते, ‘अमावास्यायां प्याययन्ति’ इति । तद्वत्पौर्णमास्या पौर्णमासे भ्रातृव्यं हत्वा अमावास्यालोपेनाप्यायनं अस्य निवर्तयति । यावदमावास्यामाप्यायितस्य वृद्ध्या वृत्रस्य अमावास्याया ऊर्ध्वं वधः क्रियते । तत्राप्यायितस्य वधादनाप्यायनमेव श्रेय इति लुप्यते अमावास्या ॥

मूलम् (संयुक्तम्)

साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्य॑न्तृ॒प्त ए॒वैन॒मिन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति

विश्वास-प्रस्तुतिः

साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मः ।
यस्मै॒ वा अल्पे॑ना॒हर॑न्ति ।
नात्मना॒ तृप्य॑ति ।
नान्यस्मै॑ ददाति ।

मूलम्

साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मः ।
यस्मै॒ वा अल्पे॑ना॒हर॑न्ति ।
नात्मना॒ तृप्य॑ति ।
नान्यस्मै॑ ददाति ।

भट्टभास्कर-टीका

4साकंप्रस्थायीयेनेति ॥ साकं सह ब्राह्मणैः प्रतिष्ठते होतुमिति साकंप्रस्थायी अध्वर्युः । तस्य सम्बन्धी साकंप्रस्थायीयो यागः । तत्र द्वौ सायं दोहौ द्वौ प्रातर्दोहौ । तत्र ब्राह्मणाः पूर्णपात्रैः अध्वर्युं जुह्वन्तमनुजुह्वति । अमावास्यैव (स्या)विक्रियते ।

विश्वास-प्रस्तुतिः

यस्मै॑ मह॒ता तृप्य॑ति ।
आ॒त्मना॒ ददा᳚ति ।

मूलम्

यस्मै॑ मह॒ता तृप्य॑ति ।
आ॒त्मना॒ ददा᳚ति ।

भट्टभास्कर-टीका

यस्मै वेति । यस्मै अल्पेन प्रमाणेन धनादिकमाहरन्ति अथ स नात्मना तृप्यति । येनात्मनि तृप्तिर्नास्ति असौ धनान्तरं च नान्यस्मै दातुं शक्नोति ।

विश्वास-प्रस्तुतिः

अ॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्य᳚म् ।
तृ॒प्त ए॒वैन॒मिन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति ।

मूलम्

अ॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्य᳚म् ।
तृ॒प्त ए॒वैन॒मिन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति ।

भट्टभास्कर-टीका

यदि महता प्रमाणेन अस्मा आहरन्ति, स स्वयं च तृप्यति, अन्यस्मै चायं महता प्रमाणेन ददाति, तस्याप्यतृप्तिर्भवतीतिभावः ॥

विश्वास-प्रस्तुतिः

दा॒रु॒पा॒त्रेण॑ जुहोति ।

मूलम्

दा॒रु॒पा॒त्रेण॑ जुहोति ।

भट्टभास्कर-टीका

5दारुपात्रेणेति ॥ औदुम्बरैश्चतुर्भिः पात्रैः ।

विश्वास-प्रस्तुतिः

न हि मृ॒न्मय॒माहु॑तिमानशे ।

मूलम्

न हि मृ॒न्मय॒माहु॑तिमानशे ।

भट्टभास्कर-टीका

न हीति । मृन्मयं कुम्भादिकं न ह्याहुतिमानशे अश्नुते आहुतिसाधनं न भवति । मृन्मयेन हुता आहुतिरेव न स्यादिति यावत् । ‘एकाचो नित्यं मयटमिच्छन्ति’ इति मयट् ॥

मूलम् (संयुक्तम्)

औदु॑म्बरम् [24] भ॒व॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

औदु॑म्बरम्भवति ।
ऊ्ग्वा उ॑दु॒म्बरः ।
ऊर्क्प॒शवः॑ ।
ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ।

मूलम्

औदु॑म्बरम्भवति ।
ऊ्ग्वा उ॑दु॒म्बरः ।
ऊर्क्प॒शवः॑ ।
ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ।

भट्टभास्कर-टीका

6औदुम्बरमित्यादि ॥ गतम् । ‘अनुदात्तादेरञ्" ॥

मूलम् (संयुक्तम्)

नाग॑तश्रीर्महे॒न्द्रय्ँय॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यश्शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषा᳚म्महे॒न्द्रो दे॒वता

विश्वास-प्रस्तुतिः

नाग॑तश्रीर्महे॒न्द्रय्ँय॑जेत ।

त्रयो॒ वै ग॒तश्रि॑यश्शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्यः॑।

मूलम्

नाग॑तश्रीर्महे॒न्द्रय्ँय॑जेत ।

त्रयो॒ वै ग॒तश्रि॑यश्शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्यः॑।

भट्टभास्कर-टीका

7नागतश्रीरित्यादि ॥ शुश्रुवान् षडङ्गवेदत्रयवेदी श्रुतसंपन्नः । स च प्राप्तश्रीः, ‘सा हि श्रीरमृता सताम्’ इति श्रीत्वाद्वेदानाम् । ग्रामणीः ग्रामाध्यक्षः । राज्ञोपत्यं राजन्यः । ‘राजश्वशुराद्यत्’, ‘राज्ञोपत्ये जातिग्रहणम्’ इति क्षत्रिय उच्यते ।

विश्वास-प्रस्तुतिः

तेषा᳚म्महे॒न्द्रो दे॒वता᳚ ।

मूलम्

तेषा᳚म्महे॒न्द्रो दे॒वता᳚ ।

भट्टभास्कर-टीका

स्पष्टमेतयोर्गतश्रीत्वं, यतो हिन्द्र एषां देवता । तस्मादेभ्योऽन्योऽगतश्रीः महेन्द्रं यष्टुं नार्हति ॥

मूलम् (संयुक्तम्)

यो वै स्वान्दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म्प्राप्नो॑ति॒ पापी॑यान्भवति

विश्वास-प्रस्तुतिः

यो वै स्वान्दे॒वता॑मति॒यज॑ते ।
प्र स्वायै॑ दे॒वता॑यै च्यवते ।
न परा॒म्प्राप्नो॑ति ।

मूलम्

यो वै स्वान्दे॒वता॑मति॒यज॑ते ।
प्र स्वायै॑ दे॒वता॑यै च्यवते ।
न परा॒म्प्राप्नो॑ति ।

भट्टभास्कर-टीका

8यो वा इत्यादि ॥ आत्मीयदेवतातिक्रमेण योऽर्न्यां देवतां यजते स स्वाया देवतायास्तावत् प्रच्यवते तस्या अनुग्राह्यो न भवति ।

विश्वास-प्रस्तुतिः

पापी॑यान्भवति ।

मूलम्

पापी॑यान्भवति ।

भट्टभास्कर-टीका

ततश्च पापीयान् पापतरो भवति । अयष्टुरस्यापापत्वमेव । यष्टुः पापतरत्वं स्यात्, देवतावत्त्वाभावात् ॥

मूलम् (संयुक्तम्)

स॒व्ँव॒थ्स॒रमिन्द्र॑य्ँयजेत सव्ँवथ्स॒रꣳ हि व्र॒तन्नाति॒ स्वा [25] ए॒वैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे॒ वसी॑यान्भवति

विश्वास-प्रस्तुतिः

स॒व्ँव॒थ्स॒रमिन्द्र॑य्ँयजेत ।
स॒व्ँव॒थ्स॒रꣳ हि व्र॒तम् ।
नाति॒ स्वै॒वैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे ।

मूलम्

स॒व्ँव॒थ्स॒रमिन्द्र॑य्ँयजेत ।
स॒व्ँव॒थ्स॒रꣳ हि व्र॒तम् ।
नाति॒ स्वै॒वैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे ।

भट्टभास्कर-टीका

9संवत्सरमित्यादि ॥ संवत्सरातिक्रमे व्रतं नास्ति । तस्मात् गतश्रीत्वाय संवत्सरं व्रतं चरन्तं स्वा आत्मीया देवता इन्द्र इज्यमाना एनमवग्तश्रियं भूत्यर्थं इन्धे दीपयति ।

विश्वास-प्रस्तुतिः

वसी॑यान्भवति ।

मूलम्

वसी॑यान्भवति ।

भट्टभास्कर-टीका

ततो वसीयान् वसुमत्तरो भवति, महेन्द्रयागार्हो गतश्रीरेव भवति, गता श्रीः आत्मीया देवता अनेनेति कृत्वा ॥

मूलम् (संयुक्तम्)

सव्ँवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् सव्ँवथ्स॒रमे॒वैन॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ काम॑य्ँयजेत ॥ [26]

विश्वास-प्रस्तुतिः

स॒व्ँव॒थ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।

मूलम्

स॒व्ँव॒थ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।

भट्टभास्कर-टीका

10ततस्समाप्ते संवत्सरे गते अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ।

विश्वास-प्रस्तुतिः

स॒व्ँव॒थ्स॒रमे॒वैन॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति।

मूलम्

स॒व्ँव॒थ्स॒रमे॒वैन॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति।

भट्टभास्कर-टीका

सोऽग्निर्व्रतपतिः तृप्तः एनं व्रतफलमालम्भयति गतश्रीत्वमस्योत्पादयति स्वयमप्यनुज्ञाय स्थिरीकरोति । कीदृशमित्याह - संवत्सरं व्रतं चरित्वा वृत्रं वारकं पापं महेन्द्रयागानर्हत्वलक्षणं जघ्निवांसं अभिभवर्न्तं तत्फलं प्रापयति । यथा इन्द्रो वृत्रं हत्वा इन्द्रो महेन्द्रोऽभवत्, एवमयमपि त्वयोग्यतालक्षण वत्रवधेन महेन्द्रयागयोग्यो भवति ।

विश्वास-प्रस्तुतिः

ततोऽधि॒ काम॑य्ँयजेत ॥

मूलम्

ततोऽधि॒ काम॑य्ँयजेत ॥

भट्टभास्कर-टीका

तत उपरि कामं यथेष्टं महेन्द्रमेव यजेत ॥

इति द्वितीये पञ्चमे चतुर्थोऽनुवाकः ॥