पौर्णमासे अनुनिर्वाप्यो वैमृधपुरोडाशः, अमावास्यायां सान्नाय्यदधियागश्च
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
इन्द्र॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॒म्मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तव्ँवै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त्तन्निर॑वप॒त्तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हतः
विश्वास-प्रस्तुतिः
इन्द्र॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॒म्मृधो॒ऽभि प्रावे॑पन्त ।
मूलम्
इन्द्र॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॒म्मृधो॒ऽभि प्रावे॑पन्त ।
भट्टभास्कर-टीका
1इन्द्रं वृत्रमित्यादि ॥ वैमृधस्यैकादशकपालस्य विधिः । वृत्रं हतवन्तमिन्द्रं मृधस्सङ्ग्रामाभिमुख्येन आगत्य प्रकर्षेणावेपयन् ।
विश्वास-प्रस्तुतिः
स ए॒तव्ँवै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्यत् ।
तन्निर॑वपत् ।
तेन॒ वै स मृधोऽपा॑हत ।
यद्वै॑मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति ।
मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हते ।
मूलम्
स ए॒तव्ँवै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्यत् ।
तन्निर॑वपत् ।
तेन॒ वै स मृधोऽपा॑हत ।
यद्वै॑मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति ।
मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हते ।
भट्टभास्कर-टीका
स एतमित्यादि । विमृदिन्द्रः तस्येदं कर्म वैमृधं प्रधानानन्तरं अनुनिर्वाप्यम् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्ध्यत॒ स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यदै॒न्द्रन्दधि॑ [15] तन्निर॑वप॒त्तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒यञ्चावा॑रुन्द्ध॒ यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑त्यै॒न्द्रन्दधि॑ दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्ध्यत ।
स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यत् ।
ऐ॒न्द्रन्दधि॒ तन्निर॑वपत् ।
तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒यञ्चावा॑रुन्द्धे ।
यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑ति ।
ऐ॒न्द्रन्दधि॑ दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्द्धे ।
मूलम्
इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्ध्यत ।
स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यत् ।
ऐ॒न्द्रन्दधि॒ तन्निर॑वपत् ।
तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒यञ्चावा॑रुन्द्धे ।
यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑ति ।
ऐ॒न्द्रन्दधि॑ दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्द्धे ।
भट्टभास्कर-टीका
2इन्द्रो वृत्रं हत्येत्यादि ॥ ऐन्द्राग्नस्य विधिः, ऐन्द्रस्य च दध्नः ॥
मूलम् (संयुक्तम्)
इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या᳚र्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्थ्स प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य᳚म् [16] पृ॒थि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिᳶ प॒शून॑ब्रवीदे॒तद॑स्मै॒ सन्न॑य॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नय॒न्तत्प्रत्य॑दुह॒न्यथ्स॒मन॑य॒न्तथ्सा᳚न्ना॒य्यस्य॑ सान्नाय्य॒त्वय्ँयत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वम्
विश्वास-प्रस्तुतिः
इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या᳚र्च्छत् ।
मूलम्
इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या᳚र्च्छत् ।
भट्टभास्कर-टीका
3इन्द्रस्य वृत्रं जघ्नुष इत्यादिना सान्नाय्यादीनामुत्पत्तिक्रमं दर्शयति - वृत्रं हतवत इन्द्रस्य इन्द्रियं वीर्यं च पृथिवीमनुप्रविश्य व्यार्छत् विविधं व्याप्तमभवत् । अर्तेः ‘पाघ्रा ’ इत्यादिना ऋच्छादेशः ।
विश्वास-प्रस्तुतिः
तदोष॑धयो वी॒रुधो॑ऽभवन् ।
मूलम्
तदोष॑धयो वी॒रुधो॑ऽभवन् ।
भट्टभास्कर-टीका
तच्च पृथिवीमनुप्रविष्टं इन्द्रियं वीर्यं च ओषधयो वीरुधश्चाभवन् तदात्मना परिणतमभूत् - ‘ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः’ इति ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑ति॒मुपा॑धावत् ।
वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य᳚म् पृ॒थि॒वीमनु॒ व्या॑रत् ।
तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॑ ।
मूलम्
स प्र॒जाप॑ति॒मुपा॑धावत् ।
वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य᳚म् पृ॒थि॒वीमनु॒ व्या॑रत् ।
तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॑ ।
भट्टभास्कर-टीका
अथेन्द्रः प्रजापतिमुपाधावत् ‘वृत्रं जघ्नुषः’ इत्यादि वदन् ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिᳶ प॒शून॑ब्रवीत् ।
ए॒तद॑स्मै॒ सन्न॑य॒तेति॑ ।
मूलम्
स प्र॒जाप॑तिᳶ प॒शून॑ब्रवीत् ।
ए॒तद॑स्मै॒ सन्न॑य॒तेति॑ ।
भट्टभास्कर-टीका
अथ तच्छ्रुत्वा प्रजापतिः पशूनब्रवीत् एतदिन्द्रियादिकमस्मै इन्द्राय संनयत सम्यगिमं प्रापयतेति ।
विश्वास-प्रस्तुतिः
तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नयन् ।
मूलम्
तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नयन् ।
भट्टभास्कर-टीका
पशवश्च ओषधीभ्यः ओषधीनां सकाशात् तृणादिभक्षणद्वारेण तदिन्द्रियादिकं आत्मन्यधिसमनयन् आत्मनि सम्यगानीतवन्तः ।
विश्वास-प्रस्तुतिः
तत्प्रत्य॑दुहन् ।
मूलम्
तत्प्रत्य॑दुहन् ।
भट्टभास्कर-टीका
तच्चानुनीतं सञ्जातं प्रत्यदुहन् ओषधीभ्य आत्मनि दुग्धं प्रत्यदुहन् इन्द्राय पुतरदुहन् ।
विश्वास-प्रस्तुतिः
यथ्स॒मन॑यन् ।
तथ्सा᳚न्ना॒य्यस्य॑ सान्नाय्य॒त्वम् ।
यत्प्र॒त्यदु॑हन् ।
तत्प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वम् ।
मूलम्
यथ्स॒मन॑यन् ।
तथ्सा᳚न्ना॒य्यस्य॑ सान्नाय्य॒त्वम् ।
यत्प्र॒त्यदु॑हन् ।
तत्प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वम् ।
भट्टभास्कर-टीका
एवं सन्नयनात् सान्नाय्यत्वं, प्रतिदोहनात् प्रतिधुक्त्वं पयसः । प्रतिदुह्यत इति प्रतिधुक्, छान्दसो वर्णविकारः । नयतेर्ण्यति ‘पाय्यसान्नाय्य’ इति निपात्यते, निपातनादेवाभिमतस्वरसिद्धिः ॥
मूलम् (संयुक्तम्)
सम॑नैषु॒ᳶ प्रत्य॑धुख्ष॒न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [17] शृ॒तङ्कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निन्द्रि॒यव्ँवावास्मि॑न्वी॒र्य॑न्तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वꣳ सम॑नैषु॒ᳶ प्रत्य॑धुख्षन्
विश्वास-प्रस्तुतिः
सम॑नैषु॒ᳶ प्रत्य॑धुख्षन् ।
न तु मयि॑ श्रयत॒ इत्य॑ब्रवीत् ।
मूलम्
सम॑नैषु॒ᳶ प्रत्य॑धुख्षन् ।
न तु मयि॑ श्रयत॒ इत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
4अथेन्द्रः प्रजापतिमब्रवीत् मदीयमिन्द्रियादिकं पशवः ओषधीभ्य आत्मनि समनैषुः । मह्यं च प्रत्यधुक्षन् । ‘शल इगुपधादनिटः क्सः’ । कर्तुमपि न श्रयते न पच्यते न मयि प्रीतिं करोति । श्रिञ् पाके, व्यत्ययेन शप् ।
विश्वास-प्रस्तुतिः
ए॒तद॑स्मै शृ॒तङ्कु॑रु॒तेत्य॑ब्रवीत् ।
मूलम्
ए॒तद॑स्मै शृ॒तङ्कु॑रु॒तेत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
अथ प्रजापतिः पशूनब्रवीत् एतदस्मै इन्द्राय शृतं पक्वं कुरुत । यद्वा - न तु मयि श्रयते स्थितिं न करोति । श्रीञ् सेवायाम् ।
विश्वास-प्रस्तुतिः
तद॑स्मै शृ॒तम॑कुर्वन् ।
इ॒न्द्रि॒यव्ँवावास्मि॑न्वी॒र्य॑न्तद॑श्रयन् ।
तच्छृ॒तस्य॑ शृत॒त्वम् ।
सम॑नैषु॒ᳶ प्रत्य॑धुख्षन् ।
मूलम्
तद॑स्मै शृ॒तम॑कुर्वन् ।
इ॒न्द्रि॒यव्ँवावास्मि॑न्वी॒र्य॑न्तद॑श्रयन् ।
तच्छृ॒तस्य॑ शृत॒त्वम् ।
सम॑नैषु॒ᳶ प्रत्य॑धुख्षन् ।
भट्टभास्कर-टीका
एवमिन्द्रेणोक्ते प्रजापतिरब्रवीत् एतदस्मै शृतं पक्वं कुरुत यथाऽस्मिन् श्रयत इति । शृतेति ‘शृतं पाके’ इति निपात्यते । यद्वा - शृणोतेः शृतमिति छान्दसं संप्रसारणम् ॥
मूलम् (संयुक्तम्)
शृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वम्
विश्वास-प्रस्तुतिः
शृ॒तम॑क्रन्न् ।
न तु मा॑ धिनो॒तीत्य॑ब्रवीत् ।
मूलम्
शृ॒तम॑क्रन्न् ।
न तु मा॑ धिनो॒तीत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
5अक्रन् ॥ लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्’ । धिवि प्रीणने, इदित्वान्नुम्, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः ।
विश्वास-प्रस्तुतिः
ए॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवीत् ।
मूलम्
ए॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
अथ प्रजापतिरब्रवीत् पशूनेतदस्मै दधि प्रीणनं कुरुतेति ।
विश्वास-प्रस्तुतिः
तद॑स्मै॒ दध्य॑कुर्वन् ।
मूलम्
तद॑स्मै॒ दध्य॑कुर्वन् ।
भट्टभास्कर-टीका
ते चास्मै प्रीणनमकुर्वन् ।
विश्वास-प्रस्तुतिः
तदे॑नमधिनोत् ।
मूलम्
तदे॑नमधिनोत् ।
भट्टभास्कर-टीका
तदेनमित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
तद्द॒ध्नो द॑धि॒त्वम् ।
मूलम्
तद्द॒ध्नो द॑धि॒त्वम् ।
भट्टभास्कर-टीका
धिनोतीति दधि । धिनोतेः किः द्विर्वचनादि । दधातिर्वा प्रीणने, (इदित्वान्नुम्,) ‘आदृगमहन’ इति किन्प्रत्ययः ।
दध्न इत्यनङादेशस्योदात्तत्वादुदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
मूलम् (संयुक्तम्)
ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नᳶ पूर्व॑स्याव॒देय᳚म् [18] दधि॒ हि पूर्व॑ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न्वी॒र्यꣵ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
द॒ध्नᳶ पूर्व॑स्याव॒देय᳚म् ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
द॒ध्नᳶ पूर्व॑स्याव॒देय᳚म् ।
भट्टभास्कर-टीका
6ब्रह्मवादिन इत्यादि ॥ अन्तिमायामेव रजन्यां दध्युत्पाद्यते उत्तरेद्युः प्रातर्दोह इति दध्नः पूर्वत्वमिति ।
विश्वास-प्रस्तुतिः
दधि॒ हि पूर्व॑ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येत् ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यꣵ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति ।
य॒था॒पू॒र्वमुपै॑ति ।
मूलम्
दधि॒ हि पूर्व॑ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येत् ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यꣵ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति ।
य॒था॒पू॒र्वमुपै॑ति ।
भट्टभास्कर-टीका
एतद्दूषयति - अनादृत्येत्यादि । यदिन्द्रस्येन्द्रियादिकमोषधीभ्य आनीय इन्द्राय प्रतिदुग्धं तदिन्द्रे प्रथमं श्रित्वा सेवितं पक्वं वा कृत्वा उपरिष्टादुत्तरकालं दधिभागेन इन्द्रं धिनोति तस्माच्छ्रितस्यैव पूर्वत्वम् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
यत्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यन्तद्यत्क्व॑लै राख्ष॒सन्तद्यत्त॑ण्डु॒लैर्वै᳚श्वदे॒वन्तद्यदा॒तञ्च॑नेन मानु॒षन्तद्यद्द॒ध्ना तथ्सेन्द्र॑न्द॒ध्ना त॑नक्ति [19] से॒न्द्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्यै
विश्वास-प्रस्तुतिः
यत्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यन्तत् ।
मूलम्
यत्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यन्तत् ।
भट्टभास्कर-टीका
7यदित्यादि ॥ पूतीकः सोमसदृशो लताविशेषः । पर्णवल्कः पलाशवृन्तम् । आतञ्चनं द्रव्यान्तरसंप्रयोगेन पयसो घनीभावः । तञ्चू सङ्कोचने ।
विश्वास-प्रस्तुतिः
यत्क्व॑लै राख्ष॒सन्तत् ।
मूलम्
यत्क्व॑लै राख्ष॒सन्तत् ।
भट्टभास्कर-टीका
क्वलः ह्रस्वह्रदः ।
विश्वास-प्रस्तुतिः
यत्त॑ण्डु॒लैर्वै᳚श्वदे॒वन्तत् ।
यदा॒तञ्च॑नेन मानु॒षन्तत् ।
मूलम्
यत्त॑ण्डु॒लैर्वै᳚श्वदे॒वन्तत् ।
यदा॒तञ्च॑नेन मानु॒षन्तत् ।
भट्टभास्कर-टीका
तण्डुलाः - गताः ।
विश्वास-प्रस्तुतिः
यद्द॒ध्ना तथ्सेन्द्र॑म् ।
द॒ध्ना त॑नक्ति ।
मूलम्
यद्द॒ध्ना तथ्सेन्द्र॑म् ।
द॒ध्ना त॑नक्ति ।
भट्टभास्कर-टीका
आतञ्चनद्रव्यं दधि प्रसिद्धम् ।
विश्वास-प्रस्तुतिः
से॒न्द्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्यै ।
मूलम्
से॒न्द्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्यै ।
भट्टभास्कर-टीका
सेन्द्रमिन्द्रेण देवतया सहितम् । अग्निहोत्रोच्छेषणं अग्निहोत्रशेषः यवागूशेषः । तदभ्यातनक्ति दध्ना आतच्य उपर्यातनक्ति यज्ञस्याविच्छेदाय ॥
मूलम् (संयुक्तम्)
इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परा᳚म्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तन्दे॒वता॒ᳶ प्रैष॑मैच्छ॒न्थ्सो᳚ऽब्रवीत्प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॒ तम्पि॒तरोऽन्व॑विन्द॒न्तस्मा᳚त्पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परा᳚म्परा॒वत॑मगच्छत् ।
मूलम्
इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परा᳚म्परा॒वत॑मगच्छत् ।
भट्टभास्कर-टीका
8इन्द्रो वृत्रं हत्वेति ॥ पितृयज्ञविधिः परां परावतमिति । देशमगच्छत् । ‘उपसर्गाच्छन्दसि धात्वर्थे’ इति वनिप् ।
विश्वास-प्रस्तुतिः
अपा॑राध॒मिति॒ मन्य॑मान॒स्तन्दे॒वता॒ᳶ प्रैष॑मैच्छन् ।
मूलम्
अपा॑राध॒मिति॒ मन्य॑मान॒स्तन्दे॒वता॒ᳶ प्रैष॑मैच्छन् ।
भट्टभास्कर-टीका
अपाराधं अपारात्सम् । छान्दसस्सिज्लुक् । वृत्रं हतवानिति सापराधमात्मानं मन्यमानो दूरात् गन्तुं श्रेय इति निश्चित्यागच्छत् । अथ देवास्तं प्रैषं प्राप्तुमैच्छन् । इष गतौ ।
विश्वास-प्रस्तुतिः
सो᳚ऽब्रवीत् ।
मूलम्
सो᳚ऽब्रवीत् ।
भट्टभास्कर-टीका
सोऽब्रवीदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॑ ।
तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॑ ।
तम्पि॒तरोऽन्व॑विन्दन् ।
तस्मा᳚त्पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते ।
मूलम्
प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॑ ।
तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॑ ।
तम्पि॒तरोऽन्व॑विन्दन् ।
तस्मा᳚त्पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते ।
भट्टभास्कर-टीका
अनुविन्दति अनुक्रमेण लभते । पूर्वेद्युः पूर्वस्मिन्नह्नि । ‘सद्यः परुत्’ इत्यादिना निपात्यते ॥
मूलम् (संयुक्तम्)
सो॑ऽमावा॒स्या᳚म्प्रत्याग॑च्छ॒त्तन्दे॒वा अ॒भि सम॑गच्छ॒न्तामा वै नः॑ [20] अ॒द्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वाना॒व्ँवसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वम्
विश्वास-प्रस्तुतिः
सो॑ऽमावा॒स्या᳚म्प्रत्याग॑च्छत् ।
मूलम्
सो॑ऽमावा॒स्या᳚म्प्रत्याग॑च्छत् ।
भट्टभास्कर-टीका
9अमावास्यां प्रति, लक्षणे कर्मप्रवचनीयत्वं, अमावास्यया गमनं लक्ष्यते इति ।
विश्वास-प्रस्तुतिः
तन्दे॒वा अ॒भि सम॑गच्छन् ।
मूलम्
तन्दे॒वा अ॒भि सम॑गच्छन् ।
भट्टभास्कर-टीका
अथामावास्यायां देवास्तमिन्द्रमभि समगच्छन्त आभिमुख्येन सङ्गता अभवन् ।
विश्वास-प्रस्तुतिः
तामा वै नो॒ऽद्य वसु॑ वस॒तीति॑ ।
मूलम्
तामा वै नो॒ऽद्य वसु॑ वस॒तीति॑ ।
भट्टभास्कर-टीका
कथं वदन्तः? अद्य अस्मिन्नह्नि नः अस्माकं वसु अस्मदीयं धनं इन्द्रोयं अमा सहास्माभिर्वसतीति । एवं देवा वदन्त एनमिन्द्रमभिगताः समागताः ।
विश्वास-प्रस्तुतिः
इन्द्रो॒ हि दे॒वाना॒व्ँवसु॑ ।
मूलम्
इन्द्रो॒ हि दे॒वाना॒व्ँवसु॑ ।
भट्टभास्कर-टीका
इन्द्रो हीति । वसु वरिष्ठं द्रव्यं(वा) ।
विश्वास-प्रस्तुतिः
तद॑मावा॒स्या॑या अमावास्य॒त्वम् ।
मूलम्
तद॑मावा॒स्या॑या अमावास्य॒त्वम् ।
भट्टभास्कर-टीका
अमावास्यत्वमिति अमा सह वसन्त्यस्यामिन्द्रो देवताश्चेत्यमावास्या । अधिकरणे ण्यत् । इदञ्च व्युत्पत्त्यन्तरं, अमा वसतः सुर्याचन्द्रमसावस्यामिति व्युत्पत्तिदर्शनात् ॥
मूलम् (संयुक्तम्)
ब्र॑ह्मवा॒दिनो॑ वदन्ति किन्देव॒त्यꣳ॑ सान्ना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेति
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कि॒न्दे॒व॒त्यꣳ॑ सान्ना॒य्यमिति॑ ।
वै॒श्व॒दे॒वमिति॑ ब्रूयात् ।
विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कि॒न्दे॒व॒त्यꣳ॑ सान्ना॒य्यमिति॑ ।
वै॒श्व॒दे॒वमिति॑ ब्रूयात् ।
विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेति॑ ।
भट्टभास्कर-टीका
10वैश्वदेवमिति ॥ वृत्रवधादनन्तरमिन्द्रियं वीर्यं च दूरतरं गतम् । पितृभिः प्रत्यानीतमिन्द्रममावास्यायां सान्नाय्येन प्रवृद्धेन्द्रियवीर्यं कर्तुं विश्वेदेवास्तत्सान्नाय्य एवैन्द्रं भागधेयं अभिसमगच्छन्त । तस्माद्वैश्वदेवं भवितुं युक्तमिति ॥
मूलम् (संयुक्तम्)
अथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्र॒व्ँवाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥ [21]
विश्वास-प्रस्तुतिः
अथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑यात् ।
इ॒न्द्र॒व्ँवाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥
मूलम्
अथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑यात् ।
इ॒न्द्र॒व्ँवाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥
भट्टभास्कर-टीका
11दूषयति - अथो इति ॥ तदानीं देवा इन्द्रं भिषज्यन्त एवाभिसमगच्छन्त न त्वात्मभागलब्धये । तल्लाभहेतौ शतृप्रत्ययः । इन्द्रभैषज्यार्थमेव अभिसमगच्छन्त । तस्माद्वीश्वे देवाः प्रसक्ता एवेति ऐन्द्रमित्येवोत्तरं समीचीनमिति । भिषज्यतिः कण्ड्वादिर्यगन्तः ॥
इति द्वितीये पञ्चमे तृतीयोनुवाकः ॥