प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ꣳ॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ तन्नोपा᳚ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम्
विश्वास-प्रस्तुतिः
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ꣳ॒ सोम॒माह॑रत् ।
तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत ।
तन्नोपा᳚ह्वयत ।
पु॒त्रम्मे॑ऽवधी॒रिति॑ ।
स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिबत् ।
तस्य॒ यद॒त्यशि॑ष्यत॒ ..
तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तयत् ।
स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।
मूलम्
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ꣳ॒ सोम॒माह॑रत् ।
तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत ।
तन्नोपा᳚ह्वयत ।
पु॒त्रम्मे॑ऽवधी॒रिति॑ ।
स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिबत् ।
तस्य॒ यद॒त्यशि॑ष्यत॒ ..
तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तयत् ।
स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।
भट्टभास्कर-टीका
1त्वष्टा हतपुत्र इत्यादि ॥ व्याख्यातम् ।
विश्वास-प्रस्तुतिः
यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
मूलम्
यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
भट्टभास्कर-टीका
यदिति । यस्मादेनमाहवनीयं त्वष्टा अवर्तयत् उपप्रावर्तयत् पीतशेषेण सोमेनादीपयत् तस्मात्ततो जातः वृत्रः वृत्र इति व्यपदेश्यः भवति । वृतेर्ण्यन्तादौणादिकः कर्मणि रक्प्रत्ययः, ‘बहुलमन्यत्रापि’ इति णिलुक् ॥
मूलम् (संयुक्तम्)
यदब्र॑वी॒थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒तस्मा॑दस्य [8] इन्द्र॒श्शत्रु॑रभव॒थ्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒थ्स इ॑षुमा॒त्रमि॑षुमात्र॒व्ँविष्व॑ङ्ङवर्धत॒ स इ॒माल्ँ लो॒कान॑वृणो॒द्यदि॒माल्ँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभेत्
विश्वास-प्रस्तुतिः
यदब्र॑वी॒थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।
तस्मा॑दस्येन्द्र॒श्शत्रु॑रभवत् ।
मूलम्
यदब्र॑वी॒थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।
तस्मा॑दस्येन्द्र॒श्शत्रु॑रभवत् ।
भट्टभास्कर-टीका
2यदब्रवीदिति ॥ इन्द्रस्य शत्रुर्वर्धस्व इति विवक्षन् अन्तोदात्तं इन्द्रशत्रुशब्दं आद्युदात्तम् । ततः [शदेर्ण्यन्तात्] औणादिके क्रुन्प्रत्यये ‘बहुलमन्यत्रापि’ इति णिलुक् । उक्तञ्च – ‘यथेन्द्रशत्रुस्स्वरतोपराधात्’ इति ।
विश्वास-प्रस्तुतिः
स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भवत् ।
स इ॑षुमा॒त्रमि॑षुमात्र॒व्ँविष्व॑ङ्ङवर्धत ।
मूलम्
स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भवत् ।
स इ॑षुमा॒त्रमि॑षुमात्र॒व्ँविष्व॑ङ्ङवर्धत ।
भट्टभास्कर-टीका
स संभवन्नित्यादि । व्याख्यातम् ।
विश्वास-प्रस्तुतिः
स इ॒माल्ँ लो॒कान॑वृणोत् ।
यदि॒माल्ँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
तस्मा॒दिन्द्रो॑ऽबिभेत् ।
मूलम्
स इ॒माल्ँ लो॒कान॑वृणोत् ।
यदि॒माल्ँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
तस्मा॒दिन्द्रो॑ऽबिभेत् ।
भट्टभास्कर-टीका
वृत्रत्वमिति । वृणोतेः त्रप्रत्ययः । इदं द्वितीयं वृत्रत्वमस्य ॥
मूलम् (संयुक्तम्)
स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्रꣳ॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [9] प्र हा॑रा॒वम॒न्तस्स्व॒ इति॒ मम॒ वै यु॒वꣵ स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒न्ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छत्
विश्वास-प्रस्तुतिः
स प्र॒जाप॑ति॒मुपा॑धावत् ।
शत्रु॑र्मेऽज॒नीति॑ ।
मूलम्
स प्र॒जाप॑ति॒मुपा॑धावत् ।
शत्रु॑र्मेऽज॒नीति॑ ।
भट्टभास्कर-टीका
3स प्रजापतिमित्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
तस्मै॒ वज्रꣳ॑ सि॒क्त्वा प्राय॑च्छत् ।
ए॒तेन॑ ज॒हीति॑ ।
मूलम्
तस्मै॒ वज्रꣳ॑ सि॒क्त्वा प्राय॑च्छत् ।
ए॒तेन॑ ज॒हीति॑ ।
भट्टभास्कर-टीका
सिक्त्वा तीक्ष्णं कृत्वा । उत्पाद्येत्येके ।
विश्वास-प्रस्तुतिः
तेना॒भ्या॑यत ।
मूलम्
तेना॒भ्या॑यत ।
भट्टभास्कर-टीका
अथेन्द्रस्तेन वज्रेण सह वृत्रमभ्यागच्छत् ।
विश्वास-प्रस्तुतिः
ताव॑ब्रूताम् ।
अ॒ग्नीषोमौ॒ मा प्र हाः॑ ।
आ॒वम॒न्तस्स्व॒ इति॑ ।
मूलम्
ताव॑ब्रूताम् ।
अ॒ग्नीषोमौ॒ मा प्र हाः॑ ।
आ॒वम॒न्तस्स्व॒ इति॑ ।
भट्टभास्कर-टीका
अथ यदग्नीषोमौ पूर्वं स संभवन् वृत्रोभिसमभवत् [तौ] अग्नीषोमौ प्रहर्तुकाममब्रूतां मा त्वमावां प्रहार्षीः, ।
यं त्वं प्रहर्तुमारभसे अत्रान्तर्भूतौ स्वः आवामिति । हरतेर्लुङि सिचि वृद्धौ ‘बहुलं छन्दसि’ इतीडभावः ।
विश्वास-प्रस्तुतिः
मम॒ वै यु॒वꣵ स्थ॒ इत्य॑ब्रवीत् ।
मूलम्
मम॒ वै यु॒वꣵ स्थ॒ इत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
अथेन्द्रोऽब्रवीत् मदीया सृहृदौ युवां स्थः ।
विश्वास-प्रस्तुतिः
माम॒भ्येत॒मिति॑ ।
मूलम्
माम॒भ्येत॒मिति॑ ।
भट्टभास्कर-टीका
इतिकरणो हेतौ । यस्मादेवं तस्मात् मामेवाभ्येतं त्यज्यतामयं जाल्म इति ।
विश्वास-प्रस्तुतिः
तौ भा॑ग॒धेय॑मैच्छेताम् ।
मूलम्
तौ भा॑ग॒धेय॑मैच्छेताम् ।
भट्टभास्कर-टीका
अथाग्नीषोमौ भागधेयं किञ्चिदात्मीयं भागं इन्द्राल्लब्धुमैच्छताम् ।
विश्वास-प्रस्तुतिः
ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छत् ।
मूलम्
ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छत् ।
भट्टभास्कर-टीका
अथ विदिताभिप्राय इन्द्रः ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे आग्नेयस्य अनुनिर्वाप्यं प्रायच्छत् प्रादात् ‘द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च’ इति छः । तस्मादग्नीषोमीयमेकादशकपालं पूर्णमासे प्रधानमेव कुर्यादिति विधिरनुमीयते ॥
मूलम् (संयुक्तम्)
ताव॑ब्रूताम॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मन॑श्शीतरू॒राव॑जनय॒त्तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒वꣳ शी॑तरू॒रयो॒र्जन्म॒ वेद॑ [10] नैनꣳ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒त्तस्मा᳚ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम्
विश्वास-प्रस्तुतिः
ताव॑ब्रूताम् ।
अ॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॑ ।
मूलम्
ताव॑ब्रूताम् ।
अ॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॑ ।
भट्टभास्कर-टीका
4अथाग्नीषोमौ लब्धभागावपि पुनरप्यब्रूतां आवामत्र वृत्रभोगे अभिसन्दष्टौ स्वः लग्नाविव भवावः । तस्मादिमं हित्वा त्वामैतुमागन्तुं न शक्नुवः न क्षमावह इति ।
विश्वास-प्रस्तुतिः
स इन्द्र॑ आ॒त्मन॑श्शीतरू॒राव॑जनयत् ।
मूलम्
स इन्द्र॑ आ॒त्मन॑श्शीतरू॒राव॑जनयत् ।
भट्टभास्कर-टीका
अथेन्द्र आत्मनश्शीतरूराख्यौ रोगविशेषौ मूलस्य जृंभणकारिणौ अजनयत् । देहस्यायासकरौ यत्नविशेषावित्येके ।
विश्वास-प्रस्तुतिः
तच्छी॑तरू॒रयो॒र्जन्म॑ ।
य ए॒वꣳ शी॑तरू॒रयो॒र्जन्म॒ वेद॑ ।
मूलम्
तच्छी॑तरू॒रयो॒र्जन्म॑ ।
य ए॒वꣳ शी॑तरू॒रयो॒र्जन्म॒ वेद॑ ।
भट्टभास्कर-टीका
तदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
नैनꣳ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नयत् ।
मूलम्
नैनꣳ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नयत् ।
भट्टभास्कर-टीका
अथेन्द्रस्ताभ्यां शीतरूराभ्यामेनं वृत्रमभ्यनयत् अभिसंप्राप्तमकरोत् । यद्वा - अन्येनाविष्टस्य तन्मयत्वं प्रतिपन्नस्य तदात्मतया चेष्टा अभिनयः तत्कारिणं वृत्रमकरोत् । शीतरूरावावेश्य तद्भावापन्नं वृत्रमभिनयतिस्म ।
विश्वास-प्रस्तुतिः
तस्मा᳚ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम् ।
मूलम्
तस्मा᳚ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम् ।
भट्टभास्कर-टीका
ततः तस्माज्जञ्जभ्यमानात् शीतरूरावेशनेन आस्यं व्यादाय जृम्भमाणगात्रात् वृत्रात् अग्नीषोमौ निरक्रामतां निष्क्रान्तौ । ‘लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्’ इति यङ् ॥
मूलम् (संयुक्तम्)
प्राणापा॒नौ वा ए॑न॒न्तद॑जहिताम्प्रा॒णो वै दख्षो॑ऽपा॒नᳵ क्रतु॒स्तस्मा᳚ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दख्षक्र॒तू इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नौ वा ए॑न॒न्तद॑जहिताम् ।
मूलम्
प्रा॒णा॒पा॒नौ वा ए॑न॒न्तद॑जहिताम् ।
भट्टभास्कर-टीका
5अथ प्रसङ्गात् इदं परमुच्यते । यदाऽग्नीषोमौ वृत्रमत्यजतां तत् तदा प्राणापानावेव खल्वेतं वृत्रमजहितां अत्यजताम् ।
विश्वास-प्रस्तुतिः
प्रा॒णो वै दख्षो॑ऽपा॒नᳵ क्रतुः॑ ।
मूलम्
प्रा॒णो वै दख्षो॑ऽपा॒नᳵ क्रतुः॑ ।
भट्टभास्कर-टीका
किञ्च - प्राणो दक्षः दक्षयिता । अपानः क्रतुः कारयिता ।
विश्वास-प्रस्तुतिः
तस्मा᳚ज्जञ्ज॒भ्यमा॑नो ब्रूयात् ।
मयि॑ दख्षक्र॒तू इति॑ ।
मूलम्
तस्मा᳚ज्जञ्ज॒भ्यमा॑नो ब्रूयात् ।
मयि॑ दख्षक्र॒तू इति॑ ।
भट्टभास्कर-टीका
तस्माज्जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति न निष्क्रान्ताविति ।
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नावे॒वात्मन्ध॑त्ते ।
मूलम्
प्रा॒णा॒पा॒नावे॒वात्मन्ध॑त्ते ।
भट्टभास्कर-टीका
एवं ब्रुवन्प्राणापानावात्मनि स्थापयते ।
विश्वास-प्रस्तुतिः
सर्व॒मायु॑रेति ।
मूलम्
सर्व॒मायु॑रेति ।
भट्टभास्कर-टीका
ततस्सर्वमायुः प्राप्नोति । इदं च क्रत्वङ्गमेवेति राद्धान्तितं - ‘अहीनवत्पुरुषधर्मस्तदर्थत्वात्’ इत्यत्र ॥
मूलम् (संयुक्तम्)
स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नꣳ ह॒विᳶ पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑स॒ आ [11] अ॒मा॒वा॒स्या॑याम्प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू᳚च्येते॒ वृध॑न्वती अमावा॒स्या॑याम्
विश्वास-प्रस्तुतिः
स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नꣳ ह॒विᳶ पू॒र्णमा॑से॒ निर॑वपत् ।
मूलम्
स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नꣳ ह॒विᳶ पू॒र्णमा॑से॒ निर॑वपत् ।
भट्टभास्कर-टीका
6अथाज्यभागयोर्वीशेष उच्यते - अथेन्द्रो देवता अग्नीषोमादीन् वृत्रान्निर्हूय निर्गतान् कृत्वा हन्तुं योग्यं वृत्रं कृत्वा पूर्णमासे वार्त्रर्घ्नं वृत्रहस्सम्बन्धि हविराज्यभागलक्षणम् । यद्वा - वृत्रहन्त्रर्थं हविराज्यं निरवपत् स्थाल्यां प्रथमं कृतवान् ।
विश्वास-प्रस्तुतिः
घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑से ।
आमा॑वा॒स्या॑याम्प्याययन्ति ।
मूलम्
घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑से ।
आमा॑वा॒स्या॑याम्प्याययन्ति ।
भट्टभास्कर-टीका
हेतुमाह - एनं हि वृत्रं पूर्णमासे देवा घ्नन्ति तमोरूपत्वाद्विनाशोपायस्तदा भवति ।
विश्वास-प्रस्तुतिः
तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू᳚च्येते॒ वृध॑न्वती अमावा॒स्या॑याम् ।
मूलम्
तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू᳚च्येते॒ वृध॑न्वती अमावा॒स्या॑याम् ।
भट्टभास्कर-टीका
तस्माद्वार्त्रघ्नी वृत्रहन्तुः सम्बन्धिन्यौ तल्लिङ्गवत्यौ ऋचौ पूर्णमासेऽनूच्येते आज्यभागयोः पुरोनुवाक्ये क्रियेते [… ते ‘अग्निर्वृत्राणि’ ‘त्वं सोम’ इत्येते । वृधन्वती वृधिधातुयुक्ते अमावास्यायां] ‘अग्निः प्रत्नेन’ ‘सोम गीर्भिः’ इत्येते । वृधेरौणादिके कनिन्प्रत्यये मतुप्, अनो नुट्च । वार्त्रघ्न्योः वृत्रस्यैव वृद्धिश्शब्देनोच्यते । स एव पौर्णमासे हन्यते । वृधन्वत्योस्तु सोमस्य वृद्धिश्शब्देनोच्यते । तद्वृद्ध्या वृत्रस्य वृद्धिरित्यर्थात् गम्यते । वृत्रश्च तदानीं वर्धते इति समृद्धिः । उभयत्रापि ‘वाच्छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ॥
मूलम् (संयुक्तम्)
तथ्स॒ꣵ॒स्थाप्य॒ वार्त्र॑घ्नꣳ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूता॒व्ँवर॑व्ँवृणावहै॒ नख्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्रवि॑हिता॒ऽहमिती॒यन्तस्मा॒न्नख्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यय्ँय ए॒वन्द्यावा॑पृथि॒व्योः [12]
वर॒व्ँवेदैन॒व्ँवरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्रꣳ ह॒त्वाऽग्नीषोमा॑वब्रुवन्ह॒व्यन्नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚ऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति
विश्वास-प्रस्तुतिः
तथ्स॒ꣵ॒स्थाप्य॒ वार्त्र॑घ्नꣳ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत।
मूलम्
तथ्स॒ꣵ॒स्थाप्य॒ वार्त्र॑घ्नꣳ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत।
भट्टभास्कर-टीका
7तत्संस्थाप्येत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
ते अ॑ब्रूताम् ।
द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॑ ।
मूलम्
ते अ॑ब्रूताम् ।
द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॑ ।
भट्टभास्कर-टीका
ते इत्यादि । पूर्वं वर्धमानो वृत्रो ये द्यावापृथिव्यौ अभिसमभवत् ते अब्रूतां मा आवां प्रहाः प्रहार्षीः आवयोः खल्वसौ वृत्रः श्रितः तस्मादस्मदाश्रयं प्रहर्तुं नार्हसीति ।
विश्वास-प्रस्तुतिः
ते अ॑ब्रूताम् ।
वर॑व्ँवृणावहै ।
नख्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीत् ।
मूलम्
ते अ॑ब्रूताम् ।
वर॑व्ँवृणावहै ।
नख्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीत् ।
भट्टभास्कर-टीका
पुनश्च ते अब्रूतां - वरमित्यादि । नक्षत्रविहिता नक्षत्रैर्विविधं विहिता स्थापिता नक्षत्राधीनस्थितिः । यद्वा - नक्षत्रैः विशिष्टावस्थानशरीरा ।
विश्वास-प्रस्तुतिः
चि॒त्रवि॑हिता॒ऽहमिती॒यम् ..
तस्मा॒न्नख्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यम् ।
य ए॒वन्द्यावा॑पृथि॒व्योः वर॒व्ँवेद ।
एन॒व्ँवरो॑ गच्छति ।
मूलम्
चि॒त्रवि॑हिता॒ऽहमिती॒यम् ..
तस्मा॒न्नख्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यम् ।
य ए॒वन्द्यावा॑पृथि॒व्योः वर॒व्ँवेद ।
एन॒व्ँवरो॑ गच्छति ।
भट्टभास्कर-टीका
चित्रविहिता चित्रैः नानाविधैः पूजितैर्वा कुलशैलैः समुद्रादिभिः विहिता तदधीनस्थितिः, तद्वित्शिष्टावस्थाना वा । उभयत्रापि ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
स आ॒भ्यामे॒व प्रसू॑ते ।
इन्द्रो॑ वृ॒त्रम॑हन् ।
मूलम्
स आ॒भ्यामे॒व प्रसू॑ते ।
इन्द्रो॑ वृ॒त्रम॑हन् ।
भट्टभास्कर-टीका
स इत्यादि । तत्र इन्द्रः द्यावापृथिवीभ्यां प्रसूतः अनुज्ञातः वृत्रं हतवान् ।
विश्वास-प्रस्तुतिः
ते दे॒वा वृ॒त्रꣳ ह॒त्वाऽग्नीषोमा॑वब्रुवन् ।
ह॒व्यन्नो॑ वहत॒मिति॑ ।
मूलम्
ते दे॒वा वृ॒त्रꣳ ह॒त्वाऽग्नीषोमा॑वब्रुवन् ।
ह॒व्यन्नो॑ वहत॒मिति॑ ।
भट्टभास्कर-टीका
अथ ते देवा इन्द्रेण राज्ञा वृत्रं हत्वा ।
अग्नीषोमावित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
ताव॑ब्रूताम् ।
अप॑तेजसौ॒ वै त्यौ ।
मूलम्
ताव॑ब्रूताम् ।
अप॑तेजसौ॒ वै त्यौ ।
भट्टभास्कर-टीका
त्याविति । ताविमौ वामपगततेजस्कौ स्वः वृत्रे खलु त्ययोः । [योस्तेज इति ।
विश्वास-प्रस्तुतिः
वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚ऽब्रुवन् ।
क इ॒दमच्छै॒तीति॑ ।
गौरित्य॑ब्रुवन् ।
गौर्वाव सर्व॑स्य मि॒त्रमिति॑ ।
मूलम्
वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚ऽब्रुवन् ।
क इ॒दमच्छै॒तीति॑ ।
गौरित्य॑ब्रुवन् ।
गौर्वाव सर्व॑स्य मि॒त्रमिति॑ ।
भट्टभास्कर-टीका
ते देवा अब्रुवन् को नामेदं तेन आप्तुं गच्छतीति] पुनः स्वयमेव देवा अब्रुवन् ननु गौः सर्वस्य मित्रं भवति तस्मात् सर्वत्र गच्छन्तीमिमां न कश्चिन्निवारयति तस्मादियमेव गत्वा तत्तेज आहरत्विति ॥
मूलम् (संयुक्तम्)
साऽब्र॑वीत् [13] वर॑व्ँवृणै॒ मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त्तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तथ्सोम॑स्य॒ यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति
विश्वास-प्रस्तुतिः
साऽब्र॑वीत् ।
वर॑व्ँवृणै ।
मूलम्
साऽब्र॑वीत् ।
वर॑व्ँवृणै ।
भट्टभास्कर-टीका
8साऽब्रवीदित्यादि ॥ यथाऽऽज्ञापितं देवैः तदिदं क्रियत एव मया, अहमपि किञ्चित् वरं वृणै वरितुं प्राप्तकालाऽहम् ।
विश्वास-प्रस्तुतिः
मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॑ ।
मूलम्
मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॑ ।
भट्टभास्कर-टीका
किं तदिति चेत्? इदं विज्ञाप्यते - मय्येव सता उभयेन घृतेन पयसा च भुनजाध्वै सुहिता भवितुमर्हथ । भोगेन सौहित्यं लक्ष्यते । लेटि आडागमः, ‘वैतोन्यत्र’ इत्यैकारः, ‘छन्दस्युभयथा’ इति लेटि आर्धधातुकत्वेन ङित्त्वाभावात् ‘श्नसोरल्लोपः’ इति न प्रवर्तते ।
विश्वास-प्रस्तुतिः
तद्गौराह॑रत् ।
तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जते ।
ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तम्,
ए॒तथ्सोम॑स्य॒ यत्पयः॑ ,
य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ ।
ते॒ज॒स्व्ये॑व भ॑वति ।
मूलम्
तद्गौराह॑रत् ।
तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जते ।
ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तम्,
ए॒तथ्सोम॑स्य॒ यत्पयः॑ ,
य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ ।
ते॒ज॒स्व्ये॑व भ॑वति ।
भट्टभास्कर-टीका
तदित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॒ तस्मा᳚ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति ॥ [14]
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
भट्टभास्कर-टीका
9आज्यभागयोर्वीधिः - ब्रह्मवादिन इत्यादि ॥ कस्यै देवतायै इदम् । ‘देवतान्तात्तादर्थ्ये यत्’ । पौर्णमास्यां कार्यं कर्म पौर्णमासम् ।
विश्वास-प्रस्तुतिः
कि॒न्दे॒व॒त्य॑म्पौर्णमा॒समिति॑ ।
प्रा॒जा॒प॒त्यमिति॑ ब्रूयात् ।
मूलम्
कि॒न्दे॒व॒त्य॑म्पौर्णमा॒समिति॑ ।
प्रा॒जा॒प॒त्यमिति॑ ब्रूयात् ।
भट्टभास्कर-टीका
तदिदं किंदेवत्यमिति यावद्ब्रह्मवादिनः पृच्छेयुः तदा ब्रूयादुत्तरं - प्राजापत्यमिति । प्रदर्शनार्थत्वात् आमावास्यमपि गृह्यते ।
विश्वास-प्रस्तुतिः
तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॑ ।
मूलम्
तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॑ ।
भट्टभास्कर-टीका
यदुक्तं ‘परमेष्ठिनो वा एष यज्ञोग्र आसीत्’ इति । तदवसरे स्मारयति । इन्द्रग्रहणं चोपलक्षणं तत्रोक्तानां त्रयाणां इन्द्राग्निसोमानाम् । एतदुक्तं भवति - प्रशस्ततमान् पुत्रान् इन्द्राग्निसोमान् प्रजापतिरनेन कर्मणा निरवासाययत् देवान्तरेभ्यो व्यावृत्तानकरोत् प्रशस्ततमान् मन्यमानो ज्येष्ठभागमिन्द्राग्न्यादिभ्यः कर्मैतदुक्तवानिति ।
विश्वास-प्रस्तुतिः
तस्मा᳚ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति ॥
मूलम्
तस्मा᳚ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति ॥
भट्टभास्कर-टीका
तस्मादित्यादि । वयसा विद्यादिना वा प्रशस्यतमं पुत्रं धनेन निरवसाययन्ति पुत्रान्तरेभ्यो व्यावृत्तमधिकधनं कुर्वन्ति पितरः । ‘शाच्छासाह्वाव्यावेपाम्’ इति युक्, ‘गतिर्गतौ’ इति पूर्वस्य निघाताभावः ‘उदात्तवता तिङा’ इति समासः ॥
इति द्वितीये पञ्चमे द्वितीयोऽनुवाकः ॥