प्रजापतिः ऋषिः ।
मूलम् (संयुक्तम्)
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑मासीथ्स्व॒स्रीयोऽसु॑राणा॒न्तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन्थ्सोम॒पानꣳ॑ सुरा॒पान॑म॒न्नाद॑न॒ꣳ॒ स प्र॒त्यख्ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोख्ष॒मसु॑रेभ्य॒स्सर्व॑स्मै॒ वै प्र॒त्यख्ष॑म्भा॒गव्ँव॑दन्ति॒ यस्मा॑ ए॒व प॒रोख्ष॒व्ँवद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति
विश्वास-प्रस्तुतिः
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑मासीत् ।
मूलम्
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑मासीत् ।
भट्टभास्कर-टीका
1अथ दर्शपूर्णमासब्राह्मणं प्राजापत्यं काण्डं विश्वरूप इत्यादयः षडनुवाकाः । तत्राग्नीषोमीयमेकादशकपालं पूर्णमासे विधास्यन् तदर्थमर्थवादं प्रस्तौति - विश्वरूपो नाम त्वष्टुः पुत्रः देवानां पुरोहितः आसीत् । ‘पुरोऽव्ययम्’ इति गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
स्व॒स्रीयोऽसु॑राणाम् +++(आसीत्)+++।
मूलम्
स्व॒स्रीयोऽसु॑राणाम् +++(आसीत्)+++।
भट्टभास्कर-टीका
असुराणां स्वस्रीयः स्वसुः पुत्रः । ‘स्वसुश्छः’ इति छः, ईयादेशश्च ।
विश्वास-प्रस्तुतिः
तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन् ।
मूलम्
तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन् ।
भट्टभास्कर-टीका
तस्य सोमपानादीनि त्रीणि शीर्षाण्यासन् ‘शीर्षन् छन्दसि’ इति शीर्षादेशः ।
विश्वास-प्रस्तुतिः
सोम॒पानꣳ॑ सुरा॒पान॑म॒न्नाद॑नम् ।
मूलम्
सोम॒पानꣳ॑ सुरा॒पान॑म॒न्नाद॑नम् ।
भट्टभास्कर-टीका
सोमः प्रीयते अनेन इति करणे ल्युट् । एवं सर्वत्र ।
विश्वास-प्रस्तुतिः
स प्र॒त्यख्ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत् ।
मूलम्
स प्र॒त्यख्ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत् ।
भट्टभास्कर-टीका
स देवेभ्यः प्रत्यक्षं भागमवदत् यूयमेव भागार्हा इति देवानां सन्निधौ देवानवदत् । प्रत्यक्षपरोक्षशब्दौ व्याख्यातौ ।
विश्वास-प्रस्तुतिः
प॒रोख्ष॒मसु॑रेभ्यः +++(भागमवदत्)+++ ।
मूलम्
प॒रोख्ष॒मसु॑रेभ्यः +++(भागमवदत्)+++ ।
भट्टभास्कर-टीका
असुरेभ्यस्तु परोक्षं भागमवदत् स्वस्रीयत्वात्तेषामसन्निधावेवासुरा भागार्हा इत्यवदत् ।
विश्वास-प्रस्तुतिः
सर्व॑स्मै॒ वै प्र॒त्यख्ष॑म्भा॒गव्ँव॑दन्ति ।
मूलम्
सर्व॑स्मै॒ वै प्र॒त्यख्ष॑म्भा॒गव्ँव॑दन्ति ।
भट्टभास्कर-टीका
अथैवं कुर्वतोऽस्य दुष्टाभिप्रायत्वमस्तीत्याह - सर्वस्मा इति । यस्मै भागं दास्यन् भवति तस्मै सर्वस्मा अप्रत्यक्षं भागं वदति लौकिकः । त्वमेव सर्वमर्हसि, इति सन्निधावपहृदया एव वदन्ति ।
विश्वास-प्रस्तुतिः
यस्मा॑ ए॒व प॒रोख्ष॒व्ँवद॑न्ति ।
तस्य॑ भा॒ग उ॑दि॒तः ।
मूलम्
यस्मा॑ ए॒व प॒रोख्ष॒व्ँवद॑न्ति ।
तस्य॑ भा॒ग उ॑दि॒तः ।
भट्टभास्कर-टीका
तस्माद्यस्मा एव परोक्षं वदन्ति असन्निधौ स्वयमेव भागभाक्त्वेन बहुमन्यते तस्य भागः उदितः उक्तः उद्भूतः सुनिश्चितः इति यावत्, अन्योऽनुक्तप्रायः । यद्वा - हस्तस्थप्रायः । ‘कर्षात्वतो घञोन्त उदात्तः’ इति भागशब्दः अन्तोदात्तः ।
विश्वास-प्रस्तुतिः
तस्मा॒दिन्द्रो॑ऽबिभेत् ।
ई॒दृङ्वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति॑ ।
मूलम्
तस्मा॒दिन्द्रो॑ऽबिभेत् ।
ई॒दृङ्वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति॑ ।
भट्टभास्कर-टीका
तस्मात् तथा कुर्वतो विश्वरूपादिन्द्रोऽबिभेत् ईदृक् ईदृशमाचरन् राष्ट्रमपि अस्माकमपि विपर्यावर्तयति अस्मत्तोऽपहृत्य असुरेभ्यो दास्यतीति ॥
मूलम् (संयुक्तम्)
तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिन॒द्यथ्सो॑म॒पान᳚म् [1] आसी॒थ्स क॒पिञ्ज॑लोऽभव॒द्यथ्सु॑रा॒पान॒ꣳ॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑न॒ꣳ॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ताꣳ स॑व्ँवथ्स॒रम॑बिभ॒स्तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॒ साब्र॑वी॒द्वर॑व्ँवृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते᳚ [2] स॒व्ँव॒थ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त्तस्मा᳚त्पु॒रा स॑व्ँवथ्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृत॒ꣵ॒ ह्य॑स्यै॒ तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णात्
विश्वास-प्रस्तुतिः
तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिनत् ।
मूलम्
तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिनत् ।
भट्टभास्कर-टीका
2तस्येत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
यथ्सो॑म॒पान᳚मासी᳚त्।
स क॒पिञ्ज॑लोऽभवत् ।
मूलम्
यथ्सो॑म॒पान᳚मासी᳚त्।
स क॒पिञ्ज॑लोऽभवत् ।
भट्टभास्कर-टीका
कपिञ्जलः अपाश्वाति(?) ।
विश्वास-प्रस्तुतिः
यथ्सु॑रा॒पान॒ꣳ॒ स क॑ल॒विङ्कः॑ ।
मूलम्
यथ्सु॑रा॒पान॒ꣳ॒ स क॑ल॒विङ्कः॑ ।
भट्टभास्कर-टीका
कलविङ्कश्चटकविशेषः ।
विश्वास-प्रस्तुतिः
यद॒न्नाद॑न॒ꣳ॒ स ति॑त्ति॒रिः ।
मूलम्
यद॒न्नाद॑न॒ꣳ॒ स ति॑त्ति॒रिः ।
भट्टभास्कर-टीका
तित्तिरिः तिरश्चिदीनि [तित्तिरिति] कटुकरावीति ।
विश्वास-प्रस्तुतिः
तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णात् ।
मूलम्
तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णात् ।
भट्टभास्कर-टीका
अञ्जलिनेति । बुद्धिपूर्वकृतत्वख्यापनार्थं अञ्जलिग्रहणम् । तस्येति संबन्धसामान्ये षष्ठी तत्सबन्धेन आत्मनः ब्रह्महत्येति । तस्य वधेनेति वा सामर्थ्याल्लभ्यते । ‘हनस्तच’ इति हन्तेः क्यंप् ।
विश्वास-प्रस्तुतिः
ताꣳ स॑व्ँवथ्स॒रम॑बिभः ।
मूलम्
ताꣳ स॑व्ँवथ्स॒रम॑बिभः ।
भट्टभास्कर-टीका
तामिति । अकृतप्रायश्चित्त एव तां ब्रह्महत्यां संवत्सरं भृतवान् ।
विश्वास-प्रस्तुतिः
तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॑ ।
मूलम्
तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॑ ।
भट्टभास्कर-टीका
ब्रह्महन् इति ब्राह्मणं हतवानिति । किंरूपमिदं तवेति तं भूतानि भूतजातान्यनिन्दन् । यद्वा - तस्याभिमुखे स्थित्वा भूतानि ब्रह्महन्नित्याक्रोशमकुर्वन् ।
विश्वास-प्रस्तुतिः
स पृ॑थि॒वीमुपा॑सीदत् ।
मूलम्
स पृ॑थि॒वीमुपा॑सीदत् ।
भट्टभास्कर-टीका
ततः स इन्द्रः पृथिवीमुपासीदत् ।
विश्वास-प्रस्तुतिः
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॑ ।
मूलम्
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॑ ।
भट्टभास्कर-टीका
उपसन्न आह - अस्या ब्रह्महत्यायास्तृतीयं भागं प्रतिगृहाण इति । ‘पूरणाद्भागे तीयादन्’ इति स्वार्थिकोऽन् प्रत्ययः । षष्ठ्यर्थे चतुर्थी ।
विश्वास-प्रस्तुतिः
साब्र॑वीत् ।
मूलम्
साब्र॑वीत् ।
भट्टभास्कर-टीका
सेत्यादि । किं वृणौ । प्राप्तकाले लोट् ।
विश्वास-प्रस्तुतिः
वर॑व्ँवृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये ।
मूलम्
वर॑व्ँवृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये ।
भट्टभास्कर-टीका
खातात् भूमेः यत्र मृदं खनति, पराभवो विनाशः, पराभविष्यामीति मन्ये ।
विश्वास-प्रस्तुतिः
ततो॒ मा परा॑ भूव॒मिति॑ ।
मूलम्
ततो॒ मा परा॑ भूव॒मिति॑ ।
भट्टभास्कर-टीका
ततो निमित्तात् अहं मा पराभूवमिति ।
विश्वास-प्रस्तुतिः
पु॒रा ते स॒व्ँव॒थ्स॒रादपि॑ रोहा॒दित्य॑ब्रवीत् ।
मूलम्
पु॒रा ते स॒व्ँव॒थ्स॒रादपि॑ रोहा॒दित्य॑ब्रवीत् ।
भट्टभास्कर-टीका
अथेन्द्रोऽब्रवीत् - संवत्सरसमाप्तेः प्राक् तव खातमपि रोहात् विरोहति । लेट्याडागमः ।
विश्वास-प्रस्तुतिः
तस्मा᳚त्पु॒रा स॑व्ँवथ्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति ।
मूलम्
तस्मा᳚त्पु॒रा स॑व्ँवथ्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति ।
भट्टभास्कर-टीका
तस्मादित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
वारे॑वृत॒ꣵ॒ ह्य॑स्यै॒ तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णात् ।
मूलम्
वारे॑वृत॒ꣵ॒ ह्य॑स्यै॒ तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णात् ।
भट्टभास्कर-टीका
वरे हितः वरणकालः । ततस्तृतीयं प्रत्यगृह्णात् पृथिवी ब्रह्महत्यायाः ॥
मूलम् (संयुक्तम्)
तथ्स्वकृ॑त॒मिरि॑णमभव॒त्तस्मा॒दाहि॑ताग्निश्श्र॒द्धादे॑व॒स्स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः
विश्वास-प्रस्तुतिः
तथ्स्वकृ॑त॒मिरि॑णमभवत् ।
मूलम्
तथ्स्वकृ॑त॒मिरि॑णमभवत् ।
भट्टभास्कर-टीका
3तदित्यादि ॥ स्वेनैव कृतेन कारणान्तरेण कृतं स्वकृतम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
तस्मा॒दाहि॑ताग्निश्श्र॒द्धादे॑व॒स्स्वकृ॑त॒ इरि॑णे॒ नाव॑स्येत् ।
मूलम्
तस्मा॒दाहि॑ताग्निश्श्र॒द्धादे॑व॒स्स्वकृ॑त॒ इरि॑णे॒ नाव॑स्येत् ।
भट्टभास्कर-टीका
इरिणं ऊषरं श्रद्धादेवः धार्मिकः नावस्येत् न वसेत् । कश्चिदाह – श्रद्धावान्यष्टुकः श्रद्धादेवः स स्वकृते इरिणे देवयजनाध्यवसानं न कुर्यादिति ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑ष वर्णः॑ ।
मूलम्
ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑ष वर्णः॑ ।
भट्टभास्कर-टीका
अत्रैव हेतुः ‘ब्रह्महत्यायै ह्येष वर्णः’ इति ॥
मूलम् (संयुक्तम्)
स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ते᳚ऽब्रुव॒न्वर॑व्ँवृणामहै वृ॒क्णात् [3] प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त्तस्मा॑दा॒व्रश्च॑नाद्वृ॒ख्षाणा॒म्भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒ꣵ॒ ह्ये॑षा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्स नि॑र्या॒सो॑ऽभव॒त्तस्मा᳚न्निर्या॒सस्य॒ नाश्य॑म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः
विश्वास-प्रस्तुतिः
स वन॒स्पती॒नुपा॑सीत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑ ।
ते᳚ऽब्रुवन् ।
वर॑व्ँवृणामहै ।
मूलम्
स वन॒स्पती॒नुपा॑सीत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑ ।
ते᳚ऽब्रुवन् ।
वर॑व्ँवृणामहै ।
भट्टभास्कर-टीका
4स वनस्पतीनित्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
वृ॒क्णात् प॑राभवि॒ष्यन्तो॑ मन्यामहे ।
ततो॒ मा परा॑ भू॒मेति॑ ।
आ॒व्रश्च॑नाद्वो॒ भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवीत् ।
तस्मा॑दा॒व्रश्च॑नाद्वृ॒ख्षाणा॒म्भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति ।
वारे॑वृत॒ꣵ॒ ह्ये॑षा॒न्तृती॑यम्
ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
स नि॑र्या॒सो॑ऽभवत् ।
तस्मा᳚न्निर्या॒सस्य॒ नाश्य॑म् ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑ष वर्णः॑।
मूलम्
वृ॒क्णात् प॑राभवि॒ष्यन्तो॑ मन्यामहे ।
ततो॒ मा परा॑ भू॒मेति॑ ।
आ॒व्रश्च॑नाद्वो॒ भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवीत् ।
तस्मा॑दा॒व्रश्च॑नाद्वृ॒ख्षाणा॒म्भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति ।
वारे॑वृत॒ꣵ॒ ह्ये॑षा॒न्तृती॑यम्
ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
स नि॑र्या॒सो॑ऽभवत् ।
तस्मा᳚न्निर्या॒सस्य॒ नाश्य॑म् ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑ष वर्णः॑।
भट्टभास्कर-टीका
वृक्णादिति । छिन्नात् तदवयवात् । वृश्चतेः निष्ठायां ‘ओदितश्च’ इति निष्ठानत्वं, तस्यासिद्धत्वात् ‘स्कोस्संयोगाद्योरन्ते च’ इति सलोपः, ‘खरि च’ इति चर्त्वम् ॥
मूलम् (संयुक्तम्)
अथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्य᳚म् [4] काम॑म॒न्यस्य
विश्वास-प्रस्तुतिः
अथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति ।
मूलम्
अथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति ।
भट्टभास्कर-टीका
5अथो खलु अस्ति पक्षान्तरं लोहितो लोहितवर्णः यो वाव्रश्चनान्निर्येषति निर्गच्छति । येषु प्रयत्ने अनुदात्तेत्, व्यत्ययेन परस्मैपदम् ।
विश्वास-प्रस्तुतिः
तस्य॒ नाश्य᳚म् काम॑म॒न्यस्य॑।
मूलम्
तस्य॒ नाश्य᳚म् काम॑म॒न्यस्य॑।
भट्टभास्कर-टीका
अन्यस्येति । अलोहितस्य अनाव्रश्चनान्निर्गतस्य निर्यासस्य कामं आश्यं नाश्यं वा । काम्यत इति कामम् ॥
मूलम् (संयुक्तम्)
स स्त्री॑षꣳसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वर॑व्ँवृणामहा॒ ऋत्वि॑यात्प्र॒जाव्ँवि॑न्दामहै॒ काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒थ्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते॒ काम॒मा विज॑नितो॒स्सम्भ॑वन्ति
विश्वास-प्रस्तुतिः
स स्त्री॑षꣳसा॒दमुपा॑सीदत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑ ।
ता अ॑ब्रुवन् ।
वर॑व्ँवृणामहै ।
मूलम्
स स्त्री॑षꣳसा॒दमुपा॑सीदत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑ ।
ता अ॑ब्रुवन् ।
वर॑व्ँवृणामहै ।
भट्टभास्कर-टीका
6स स्त्रीषंसादमित्यादि ॥ स्त्रियः सह सीदन्त्यस्मिन्निति स्त्रीषंसादं स्त्रीसमूहः । छान्दसं सांहितिकं षत्वम् ॥
विश्वास-प्रस्तुतिः
ऋत्वि॑यात्प्र॒जाव्ँवि॑न्दामहै ।
काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॑ ।
तस्मा॒दृत्वि॑या॒थ्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते ।
मूलम्
ऋत्वि॑यात्प्र॒जाव्ँवि॑न्दामहै ।
काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॑ ।
तस्मा॒दृत्वि॑या॒थ्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते ।
भट्टभास्कर-टीका
ऋत्वियादिति । ऋतुः प्राप्तोऽस्येति ऋत्वियं आर्तवं उच्यते । ‘छन्दसि घस्’ इति घस्प्रत्ययः, वृषादिः द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॑ ।
मूलम्
काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॑ ।
भट्टभास्कर-टीका
विजननं प्रसवः । ‘भावलक्षणे स्थेण्’ इति जनेस्तोसुन् प्रत्ययः । संभवः संयोगः ।
विश्वास-प्रस्तुतिः
तस्मा॒दृत्वि॑या॒थ्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते ।
मूलम्
तस्मा॒दृत्वि॑या॒थ्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते ।
भट्टभास्कर-टीका
प्रथमसंयोगे गर्भो भवतीति यद्यपि द्वितीयादिप्रवृत्तिः अप्रजार्था, तथापि कामानुरूपं आविजनितोः संभवाम, गर्भस्सुखं वर्धतामिति ॥
मूलम् (संयुक्तम्)
वारे॑वृत॒ꣵ॒ ह्या॑सा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्सा मल॑वद्वासा अभव॒त्तस्मा॒न्मल॑वद्वाससा॒ न सव्ँव॑देत [5] न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑न॒व्ँवाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति
विश्वास-प्रस्तुतिः
वारे॑वृत॒ꣵ॒ ह्या॑सा॒न्तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
सा मल॑वद्वासा अभवत् ।
मूलम्
वारे॑वृत॒ꣵ॒ ह्या॑सा॒न्तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
सा मल॑वद्वासा अभवत् ।
भट्टभास्कर-टीका
7मलवद्वासा रजस्वला । वासोग्रहणं वाससि रजस्पर्शात्प्रभृति अज्ञातेप्यप्रायत्यमस्तीति सूचनार्थम् । तेन वासस्यस्पृष्टे ज्ञानादूर्ध्वमेवाशुद्धिः ।
विश्वास-प्रस्तुतिः
तस्मा॒न्मल॑वद्वाससा॒ न सव्ँव॑देत ।
+++(मलवद्वाससा)+++न स॒हासी॑त ।
मूलम्
तस्मा॒न्मल॑वद्वाससा॒ न सव्ँव॑देत ।
+++(मलवद्वाससा)+++न स॒हासी॑त ।
भट्टभास्कर-टीका
तस्मादिति । सहभाषणं संवादः । तस्य प्रतिषेधः पुरुषार्थः प्रासङ्गिकः । एवं सर्वत्र ।
विश्वास-प्रस्तुतिः
नास्या॒ अन्न॑मद्यात् ।
मूलम्
नास्या॒ अन्न॑मद्यात् ।
भट्टभास्कर-टीका
नास्या इति । अनया स्पर्शादिना दूषितं नाद्यात् ।अनया वा दत्तं न गृह्णीयात् ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्ते ।
मूलम्
ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्ते ।
भट्टभास्कर-टीका
एषा हि ब्रह्महत्याया वर्णं प्रतिमुच्य देहे बद्ध्वाऽऽस्ते ।
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुः ।
मूलम्
अथो॒ खल्वा॑हुः ।
भट्टभास्कर-टीका
अथो अपि खल्वाहुस्तद्विदः ।
विश्वास-प्रस्तुतिः
अ॒भ्यञ्ज॑न॒व्ँवाव स्त्रि॒या अन्न॑म् , अ॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति॑ ।
मूलम्
अ॒भ्यञ्ज॑न॒व्ँवाव स्त्रि॒या अन्न॑म् , अ॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति॑ ।
भट्टभास्कर-टीका
अभ्यज्यते परिष्क्रियते शरीरमनेनेत्यभ्यञ्जनं तैलादि । तच्चान्नं स्त्रीणां प्रियतमत्वात्, तस्मात् तदेव तस्या अन्नं न प्रतिग्राह्यम् । केचिदाहुः - तया अभ्यञ्जनं न कर्तव्यमिति । ब्रह्महत्यात्मिकायास्तस्या अभिमततमं सर्वदा वर्ज्यमिति विवक्षितम् ॥
मूलम् (संयुक्तम्)
याम्मल॑वद्वाससꣳ स॒म्भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो याम्परा॑ची॒न्तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒फ्सु मारु॑को॒ या [6] अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो या रज्जुꣳ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र्व्र॒तञ्च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥ [7]
विश्वास-प्रस्तुतिः
याम्मल॑वद्वाससꣳ स॒म्भव॑न्ति ।
यस्ततो॒ जाय॑ते॒ सो॑ऽभि॒शस्तः।
यामर॑ण्ये॒ तस्यै᳚ स्ते॒नः ।
मूलम्
याम्मल॑वद्वाससꣳ स॒म्भव॑न्ति ।
यस्ततो॒ जाय॑ते॒ सो॑ऽभि॒शस्तः।
यामर॑ण्ये॒ तस्यै᳚ स्ते॒नः ।
भट्टभास्कर-टीका
8यामित्यादि ॥ अभिशस्तः मिथ्यारोपितपातकेन दूषितः गृहे अभिशस्तः, अरण्ये स्तेनः चोरः ।
विश्वास-प्रस्तुतिः
याम्परा॑ची॒न्तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भः ।
मूलम्
याम्परा॑ची॒न्तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भः ।
भट्टभास्कर-टीका
पराचीं स्वापाशनादिना अन्यपराम् ।
अवाङ्मुखं शयानामित्येके । ह्रीतमुखी लज्जावनतवदनः । कर्मधारयादिनिः । अप्रगल्भोऽपगतगल्भः ।
विश्वास-प्रस्तुतिः
या स्नाति॒ तस्या॑ अ॒फ्सु मारु॑कः ।
मूलम्
या स्नाति॒ तस्या॑ अ॒फ्सु मारु॑कः ।
भट्टभास्कर-टीका
अप्सु मारुकः अप्सु मरणशीलः । छान्दस उकञ् ।
विश्वास-प्रस्तुतिः
याऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा᳚ ।
मूलम्
याऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा᳚ ।
भट्टभास्कर-टीका
दुश्चर्मा कुष्ठी । खलतिः केशशून्यमस्तकः ।
विश्वास-प्रस्तुतिः
या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री ।
मूलम्
या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री ।
भट्टभास्कर-टीका
अपमारी अपमृत्युमान् । यद्वा - कुत्सितमरणः ।
विश्वास-प्रस्तुतिः
याऽऽङ्क्ते तस्यै॑ का॒णः ।
मूलम्
याऽऽङ्क्ते तस्यै॑ का॒णः ।
भट्टभास्कर-टीका
काणः कुण्ठिताक्षः ।
विश्वास-प्रस्तुतिः
या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वदन्न्॑ ।
मूलम्
या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वदन्न्॑ ।
भट्टभास्कर-टीका
श्यावदन् व्याध्यापन्नदन्तः, मलिनदन्तो वा । ‘विभाषा श्यावारोकाभ्याम्’ दाति दतृभावः ।
विश्वास-प्रस्तुतिः
या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी ।
मूलम्
या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी ।
भट्टभास्कर-टीका
कुनखी कुत्सितनखः । कृणत्ति कटं सृजति । विकरणव्यत्ययेन श्नम् ।
विश्वास-प्रस्तुतिः
या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बः ।
मूलम्
या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बः ।
भट्टभास्कर-टीका
क्लीबः यो न स्त्री न पुमान् ।
विश्वास-प्रस्तुतिः
या रज्जुꣳ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑कः ।
मूलम्
या रज्जुꣳ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑कः ।
भट्टभास्कर-टीका
उद्बन्धुकः यो रज्ज्वा उद्बध्य आत्मानं व्यापादयति । पर्णेन पद्मदळादिना ।
विश्वास-प्रस्तुतिः
या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑कः ।
मूलम्
या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑कः ।
भट्टभास्कर-टीका
उन्मादुकः उन्मदनशीलः । पूर्ववदुकञ् ।
विश्वास-प्रस्तुतिः
या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वः ।
मूलम्
या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वः ।
भट्टभास्कर-टीका
खर्वः खरैनसोर्वर्तते(?) खण्डिताङ्गः खर्व इति केचित् ।
विश्वास-प्रस्तुतिः
ति॒स्रो रात्री᳚र्व्र॒तञ्च॑रेत् ।
अ॒ञ्ज॒लिना॑ वा॒ पिबे᳚त् ।
अख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥
मूलम्
ति॒स्रो रात्री᳚र्व्र॒तञ्च॑रेत् ।
अ॒ञ्ज॒लिना॑ वा॒ पिबे᳚त् ।
अख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥
भट्टभास्कर-टीका
व्रतं यथोक्तस्वरूपं प्रजाया रक्षणार्थम् । औणादिकस्थप्रत्ययः, इडागमश्च ॥
इति द्वितीये पञ्चमे प्रथमोऽनुवाकः ॥