लक्ष्मीनारायणः
यो वा॒ भूतेर्भूति॑रासी त्सा॒वा॒न॒न्दं प्र॑त्यान॒न्दम् । सञ्जु॑षन्व्रजामि सत्यं सत्याय स्वाहा ॥११.१॥
श्रीकृष्णः
स॒त्यस्स॒त्यस्थ॑ स्सत्यलो॑कस्स्थ स्स॒त्यं सञ्ज॑नि॒त्र मा॒सीत् ।
स॒त्यं स॒त्याय॒ रंह॑से॒ स्वाहाा᳚ ॥११.२॥
सर्वशेषी
ऋ॒तग्ꣳ स॒त्यममि॑तं पुरा॒ण मादिं॑ जनि॒त्रममृ॑तं सुरेन्द्र᳚म् ।
सञ्ज्यो॑तिषां जु॒षमा॑णं जुषस्व॒ स्वाहा᳚ ॥११.३॥
अमृतात्मा
अं रा॑जिम॒न्तं सक॑लस्य गु॒प्तिं सोमे॑ जुष॒न्तममृ॑तं बिभर्ति ।
रयि॑मत्सु॒पुष्टिं॒ गुण॑ वन्त॒मत्र॒ तस्मै सुपु॒ण्याय॒ वर॑दाय पित्रे॒ स्वाहा᳚ ॥११.४॥
श्रीमन्नरायणः
मामा᳚त्मगु॒प्तां सत्व॑स्य॒ स॒र्वस्य॒ विता॑नरू॒पां सं॒जूजु॑ष॒न्तीं पर॑मां प॒वित्रा᳚म् ।
सन्ता॑रयन्तीं॒ स्वय॑मप्र॒मत्तां॒ संयो॑जयि॒त्रे वर॑दाय पित्रे॒ स्वाहा᳚ ॥११.५॥
पित्रे॒ स्वाहा᳚ द्वे च ॥
ॐ वैखा॑नसा॒याऽच्युत॑ सग्ग्ꣳश्र॒याय॑ तपो᳚ग्र नि॒ष्ठाय॑ च ब्रह्म॑दर्शिने स्वाहा᳚ ।