8.1 जगद्भद्रः
यत्सा॑रभू॒तं सक॑लं ध॒रित्रं॒ मोदप्राये॒णानु॑भूत॒-मनु॑विद्धम् ।
सू॒क्ष्मस्सु॑रे॒श स्सक॑लं बि॒भर्ति॒ तस्मै॑ सुरे॒शाय॑ स॒कलं॑ सुपुण्य॒ग्ग्ꣳ स्वाहा᳚ ॥८.१॥
8.2 फलस्वरूपः
फलो॒वा ए॒ष लो॒काना॒मज॑रो महात्मा विश्वं॒ यः पा॑ति॒ विम॑लोऽमलाख्यः ।
तस्मै॑ वर॒त्रे वर॒दस्य॒ पुष्ट्यै॒ स्वाहा᳚ ॥८.२॥
8.3 कल्किरूपः
धूर्नो॑ वह॒न्तां॒ र॒तये॑ रम॒न्तां पुम्भू॑तिमन्त॒ स्सम॑य स्सुशुम्ना᳚ ।
अं॒रा॑जिम॒न्तं सक॑लस्य॒ गुप्त्यै॒ स्वाहा᳚ ॥८.३॥
8.4 सर्वरक्षकः
विश्वं॑ बि॒भर्षि॒ प्रसु॑रोरुद॒न्तं सं रा॑जिम॒न्तं सकल प्ररू॒ढम् ।
सनो॑ वितत्य॒ प्रहिणोतु॒ पत्रे॒ स्वाहा᳚ ॥८.४॥
8.5 जनार्दनः
सोवा᳚ स्व॒रूप॒स् समदृक्॒ समग्रो॒ विधु॑दं तु॒दन्यो॒ विद॑धत्प॒दंवा᳚ विय॑ति प्रका॒शं बृह॑ते (रु॒)ग्रहेण॒ तं बि॑म्बव॒न्तं स॒मदं॑ समग्र॒ग्ꣳ स्वाहा᳚ ॥
8.6 जगत्सृष्टिकारणः
भू॒र्॒ र्भुवं॒ वा भु॑वो॒ वा सु॑वो॒ वा किञ्चि॑त्स्व॒नन्तं॒ सुषु॑वे सम॒स्तम् ।
सर्व॑स्य॒ दा॒तार॑म॒जरं॑ जरित्रे॒ स्वाहा᳚ ॥८.६॥
8.7 धुरन्धरः
दा॒क्षा॒य॒ण्यां प्रसृ॑तं स॒मस्तं॒ सङ्को॑चयि॒त्वा सक॑लं वितानम् ।
संवासन्यस् सक॑लं व॒रिष्टं॒ तस्मै॑ प्रजे॒शाय धु॒रन्ध॑राय स्वाहा᳚ ॥८.७॥
8.8 सर्वरक्षकः
आशास्स्मस्ताः प्रतरन्न्वन्तस्तास्ता वसेद्यास् सकमला समस्ता ।
सा मे गृहे वा समधत्त पुष्टिꣳ स्वाहा ॥८.८॥
आशा᳚स्स॒मस्ताः॒ प्रत॒रन्नस्त स्तास्ताव’से॒द्या सकम’ला स॒मस्ता᳚ ।
सा मे’ गृहे॒ वा सम’धत्त पु॒ष्टिग्ग्ꣳ स्वाहा’’ ॥८.८॥
8.09 जगद्भर्ता
यो ज॑ङ्गमा॒नां सक॑लं बिभ॒र्षि सर्वं॑ विय॒द्वा विच॑रेत॒ शक्ष्यन् ।
तन्नौर्ज॒लेवा व पु॒ष्यन्त्य॒॑जस्र॒ग्ग्॒ꣳ स्वाहा᳚ ॥८.९॥
8.10 जगत्सृष्टिकारणः
यो वा॑ दशा॒नां प्रसृ॑ता स्स॒मस्ता᳚ तां स्तान्द॑धा॒ना स्सम॑या त्स॒बी᳚जाः ।
श॒ब्दाति॑रि॒क्त्यै॒ स्व॑ब॒लं ब॑लाय॒ स्वाहा᳚ ॥८.१०॥
समग्र॒ग्ग्ꣳ स्वाहा॑ । ब॒लाय॒ स्वाहा᳚ ॥