6.1 प्रळयवराह
स्व॒य॒मा॒दि॒स्सर्वा᳚न्तरा॒त्मा दे॒वस्स॒ स्वयं॑ क्री॒डात्म॑क॒ मवा॑सृजत् ।
यस्स्व॒यं लो॒क मव॑धारमवधारय॒न्त् स्वाहा ॥६.१॥
6.2 मत्स्यरूपः
यस्स्व॒यं सृ॒ष्टमा॒त्मना गुप्तमनु॑ संविता॒नमच॑रञ्चरन्तम् ।
स्व॒यं क्री॑डन् क्रीडय॑न् क्रीडान्त॑र॒मनु॒प्रावि॑श॒त् स्वाहा ॥६.२॥
6.3 बलराम
स्वौज॑सा॒ सर्व॒माद॑धाति॒ यः पापी॑यांस॒मनु॒पद॒ माहिग्॑ꣳसत् ।
सु॒पु॒ण्यं॒ पुण्या᳚त्मकं॒ पुण्य॑विता॒न् न्दाधार दे॒वाय॒ स्वाहा᳚ ॥६.३॥
6.4 आदिवराह
क्ष्मा मे॒कां सलि॑ला वस॒न्नां श्रु॒त्वा स्वनन्तीमनु॑सु॒पत॑न्तीम् ।
स्व॒यं भू॒त्वा व॑रा॒हो वर॒ उज्ज॑हार॒ तस्मै॑ दे॒वाय॒ सुकृ॑ताय॒ पित्रे॒ स्वाहा᳚ ॥६.४॥
6.5 कूर्मरूपः
यः कु॒न्धर॑माणः॒ कुन्ध॑रा॒न्कुन्ध॑रता॒मित्य॑वोचत् ।
ताग्ं सा॑नुमतो॒ विद॑धत्॒ स्वतेज॑सा॒ तस्मै॑ वरि॒ष्ठाय॒ वर॑दाय पित्रे॒ स्वाहा᳚ ॥६.५॥
6.6 वराह
यो वा॒ (प्र) पृथां प्रस्ख॑लन्तीं॒ प्रमृ॑ज्यामृजा॒ङ्गीम् ।
य ऊर्वोरुपदधा॒त्तस्मै॑ मु॒ख्याय॒ वर॑दाय पित्रे॒ स्वाहा᳚ ॥६.६॥
6.7 वराह
यां गा॑ मुशन्ती मुश॑नाभिपू॒र्णा मार॑क्तनी॒लाम् अ॒मृतां रज॒न्तीम्
आला॑लय॒न् लालि॑त कङ्कणां॒ तां तस्मै᳚ प्रजे॒शाय॒ वर॑दाय पित्रे॒ स्वाहा᳚ ॥६.७॥
6.8 प्रजापति
प्रजा॑पते॒ न त्व॑दे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग्ꣳ स्या॑म॒ पत॑यो रयी॒णाग्ꣳ स्वाहा᳚ ॥६.८॥
6.9 यज्ञवराह
यो धूर्धु॑रं॒ धूर्धु॑रं धूर्व॑रा॒णाम् । सुधूर्धूरसि॑ धूर्धुरा॒णां धूर॑सि॒ धूर्वङ्ग॑मे॒ स्वाहा᳚ ॥६.९॥
6.10 स्थूणजनृसिंह
यो वा᳚ व्यहिं॒सीज्जर॑या जर॒न्तं तं दै᳚त्यमु॒ख्यम॒मृता᳚त्मरूपम् ।
सुखु॑रं खुरा॒णां किञ्चि॑त्स्व॒नन्तं॒ तस्मै॑ नृसिं॒हाय॒ सुरेश॑पित्रे॒ स्वाहा᳚ ॥६.१०॥
वर॑दाय पित्रे॒ स्वाहा॑ । सुरेशपित्रे॒ स्वाहा᳚ ॥