4.1 वेदान्तरात्मा
वाको॒ वा अनु॑वाको॒ वाकं॒ वाकं॒ सञ्जुष॑माणः ।
दे॒व॒स्स॒स्वं॑ (स्वयं) स्व॒गुप्त॑ये स्वयं॒ ज्योति॑षे॒ ज्योति॑षे॒ स्वाहा᳚ ॥४.१॥
4.2 प्रकृतिपुरुषात्मा
द्वा वे॒तौ प॒क्षी अच॑रं चर॒न्तौ नाधु॒रं व्यधु॑नीते । यश्चै॒कं भु॑नक्ति॒ भोक्त्रे॒ स्वाहा᳚ ॥४.२॥
4.3 पुरुष
यो वा॒ आयुः॒ पर॑मात्मानं मी॒ढुषः॑ पारं प॒र्यात्प॒रः परायणः ।
प॒रो लो॒कानां᳚ पर॒माद॑धानः प॒रतः॑ पराय॒ स्वाहा᳚ ॥
4.4 सत्य
यो वा॒ तेज॒स्तेज॑सां॒ तेज॒स्तेज॒ आद॑धानः ।
स॒त्यस्तेज॒स्तेज॑सां॒ तेज॒(स्) तेज॒स् तेज॑से॒ स्वाहा᳚ ॥
4.5 अच्युत
स॒ह॒ सं॒पा॒या स्स्त्व॑मा॒शिष॑माशी(र्) भू॒ताभू॒तम् ।
आ॒शीष॑माशी रा॒शीरा॑शि॒र् अनु॑भूमि॒स्स्वाहा᳚ ॥
4.6 अनिरुद्ध
सं॒योग॒स्सन्द॑धानः पु॒ण्यः पु॒ण्यानां पु॒ण्याय॒ स्वाहा᳚ ॥
4.7 सङ्कर्षणः
स॒हस्रं॒ वा यस्य॒ वै वि॑ता॒नमाद᳚धानस्स॒हस्रं॒ वा आ॒शिष॑स्सासि॒काः ।
स॒ह॒स्रं॒ यस्य॒ वै सासि॑का स॒हस्रं॑ सहस्राय॒ स्वाहा᳚ ॥
4.8 प्रद्युम्नः
स्वा॒तिगा॒ गुप्त॑यो गु॒प्तिस्स॒त्यं स॒त्यानां॒ सात्वं प॒दम् ।
तत्स॒त्वं स॒त्वमा॑सी॒त्सात्वं॒ सात्वं॒ वै सा॒त्वमा॒दधा॒नाय॒ स्वाहा᳚ ॥
4.9
सत्वं वा उद्रेकमासीद् यत्सत्वमुभयोरनुगोप्ता । तत्सत्वं सत्यं वदाय सत्याया स्वाहा ॥
4.10 सत्यात्मा
स॒त्यो॒ ज्यो॒तिः॒ सत्या᳚न्तरा॒त्मा स॒त्योद्योग स्सत्यः॑ सत्क॒र्म ।
स॒त्यं स॒त्यविता॑नमासीत् स॒त्यं स॒त्याय॒ स्वाहा᳚ ॥
भूमि॒ स्वाहा॑ स॒त्याय॒ स्वाहा᳚ ॥