ंहीशताष्टकम्
८.४.१.१ कमलायै स्वाहा ८.४.१.२ कमलावासायै स्वाहा ८.४.१.३ कञ्जनेत्रायै स्वाहा ८.४.१.४ मत्यै स्वाहा ८.४.१.५ धृत्यै स्वाहा ८.४.१.६ विशोकायै स्वाहा ८.४.१.७ हरिण्यै स्वाहा ८.४.१.८ पौष्ण्यै स्वाहा ८.४.१.९ क्षोण्यै स्वाहा ८.४.१.१० मह्यै स्वाहा
८.४.२.१ अतलायै स्वाहा ८.४.२.२ नितलायै स्वाहा ८.४.२.३ वितलायै स्वाहा ८.४.२.४ सुतलायै स्वाहा ८.४.२.५ रसातलायै स्वाहा ८.४.२.६ महातलायै स्वाहा ८.४.२.७ तलरूपायै स्वाहा ८.४.२.८ तलातलायै स्वाहा ८.४.२.९ भूम्यै स्वाहा ८.४.२.१० भूतलरूपायै स्वाहा
८.४.३.१ लोकरूपायै स्वाहा ८.४.३.२ उपसंहितायै स्वाहा ८.४.३.३ प्रकृत्यै स्वाहा ८.४.३.४ विकृत्यै स्वाहा ८.४.३.५ विश्वरूपायै स्वाहा ८.४.३.६ विश्वसाधिन्यै स्वाहा ८.४.३.७ धरित्र्यै स्वाहा ८.४.३.८ महत्र्यै स्वाहा ८.४.३.९ धात्र्यै स्वाहा ८.४.३.१० नदीरूपायै स्वाहा
८.४.४.१ सरस्वत्यै स्वाहा ८.४.४.२ आत्मम्भरायै स्वाहा ८.४.४.३ वर्धिन्यै स्वाहा ८.४.४.४ काश्यप्यै स्वाहा ८.४.४.५ महत्यै स्वाहा ८.४.४.६ स्थिरायै स्वाहा ८.४.४.७ धराधरसमाधारायै स्वाहा ८.४.४.८ भुवे स्वाहा ८.४.४.९ धराधररूपिण्यै स्वाहा ८.४.४.१० वसुंधरायै स्वाहा
८.४.५.१ वसुकरायै स्वाहा ८.४.५.२ वसुधायै स्वाहा ८.४.५.३ धनवर्धिन्यै स्वाहा ८.४.५.४ फलरूपायै स्वाहा ८.४.५.५ मनोरूपिण्यै स्वाहा ८.४.५.६ बुद्धिरूपिण्यै स्वाहा ८.४.५.७ चित्तरूपिण्यै स्वाहा ८.४.५.८ अहङ्काररूपिण्यै स्वाहा ८.४.५.९ भूतपञ्चकरूपायै स्वाहा ८.४.५.१० पृथ्व्यै स्वाहा
८.४.६.१ सागररूपिण्यै स्वाहा ८.४.६.२ अम्भुधिवर्धिन्यै स्वाहा ८.४.६.३ सर्वायै स्वाहा ८.४.६.४ सर्वकामप्रदायै स्वाहा ८.४.६.५ पृथायै स्वाहा ८.४.६.६ कामायै स्वाहा ८.४.६.७ मनोहरायै स्वाहा ८.४.६.८ सिद्धायै स्वाहा ८.४.६.९ सर्वमंगल1कारिण्यै स्वाहा ८.४.६.१० श्यामाङ्ग्यै स्वाहा
८.४.७.१ सन्निभायै स्वाहा ८.४.७.२ महाचातकवाहिन्यै स्वाहा ८.४.७.३ उत्पलहस्तायै स्वाहा ८.४.७.४ पुण्डरीकविलोचनायै स्वाहा ८.४.७.५ पुण्डरीकाक्षदयितायै स्वाहा ८.४.७.६ विश्वम्भरकुलायिन्यै स्वाहा ८.४.७.७ हरेः प्रियतमायै स्वाहा ८.४.७.८ वासस्थलायै स्वाहा ८.४.७.९ अतिकान्तिकायै स्वाहा ८.४.७.१० आदिमूर्त्यै स्वाहा
८.४.८.१ प्रियायै स्वाहा ८.४.८.२ नित्यायै स्वाहा ८.४.८.३ नन्दिन्यै स्वाहा ८.४.८.४ सत्यरूपिण्यै स्वाहा ८.४.८.५ सत्यप्रियायै स्वाहा ८.४.८.६ हिरण्याक्षान्तकारिण्यै स्वाहा ८.४.८.७ जीवव्रातसद्आधारायै स्वाहा ८.४.८.८ महालक्ष्मीप्रियायै स्वाहा ८.४.८.९ वरप्रसादिन्यै स्वाहा ८.४.८.१० रम्यायै स्वाहा
८.४.९.१ विपुलायै स्वाहा ८.४.९.२ वरमोदिन्यै स्वाहा ८.४.९.३ वररूपायै स्वाहा ८.४.९.४ पुण्याङ्गायै स्वाहा ८.४.९.५ पुण्यवत्यै स्वाहा ८.४.९.६ अब्धिमेखलायै स्वाहा ८.४.९.७ इष्टप्रदायै स्वाहा ८.४.९.८ यज्ञाङ्ग्यै स्वाहा ८.४.९.९ प्रकृत्यै स्वाहा ८.४.९.१० इष्टसाधिन्यै स्वाहा
८.४.१०.१ आत्मम्भरायै स्वाहा ८.४.१०.२ सर्वसहायै स्वाहा ८.४.१०.३ निर्निद्रायै स्वाहा ८.४.१०.४ निष्कृत्यै स्वाहा ८.४.१०.५ स्थित्यै स्वाहा ८.४.१०.६ स्वाहायै स्वाहा ८.४.१०.७ स्वधायै स्वाहा ८.४.१०.८ यज्ञयज्ञायै स्वाहा ८.४.१०.९ बृहत्यै स्वाहा ८.४.१०.१० ओङ्काररूपिण्यै स्वाहा
८.४.११.१ स्वाहाकारायै स्वाहा ८.४.११.२ स्वधाकारायै स्वाहा ८.४.११.३ वेदविद्यायै स्वाहा ८.४.११.४ सुरूपिण्यै स्वाहा ८.४.११.५ महादेव्यै स्वाहा ८.४.११.६ महामान्यायै स्वाहा ८.४.११.७ सर्वसिद्ध्यै स्वाहा ८.४.११.८ धनुर्2धरायै स्वाहा ८.४.११.९ तयादित्या ८.४.११.१० तत्त्रीण्य्3 एषा
८.१.१९१.१ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विस्णुः प्रचोदयात् ८.१.१९१.२ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ८.१.१९१.३ धनुर्4धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात्5 ८.१.१९१.४ श्रीभूसख्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो नीलाः6 प्रचोदयात् ८.१.१९१.५ लोकाध्यक्षाय विद्महे धराध्यक्षाय धीमहि तन्नः कूर्मः प्रचोदयात्
८.१.१९२.१ भूवराहाय विद्महे हिरण्यगर्भाय धीमहि तन्नः क्रोडः प्रचोदयात् ८.१.१९२.२ वज्रनखाय विद्महे तीक्ष्णदँष्ट्राय धीमहि तन्नो नारसिँहः प्रचोदयात् ८.१.१९२.३ वाग्ईश्वराय विद्महे हयग्रीवाय धीमहि तन्नो हँसः प्रचोदयात् ८.१.१९२.४ वेदान्तांगाय विद्महे हयग्रीवाय धीमहि तन्नो हयग्रीवः प्रचोदयात् ८.१.१९२.५ हंसहंसाय विद्महे परमहंषाय धीमहि तन्नो हंसः प्रचोदयात्
८.१.१९३.१ दाशरथाय7 विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ८.१.१९३.२ धनुर्धराय विद्महे रामभद्राय धीमहि तन्नो रामः प्रचोदयात् ८.१.१९३.३ सुदर्शनाय विद्महे हेतिराजाय धीमहि तन्नश्चक्रः प्रचोदयात् ८.१.१९३.४ ज्वालाचक्राय विद्महे महाचक्राय धीमहि तन्नश्चक्रः प्रचोदयात् ८.१.१९३.५ दामोदराय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात्
८.१.१९४.१ तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् ८.१.१९४.२ विष्वक्सेनाय विद्महे वेत्रहस्ताय धीमहि तन्नश्शान्तः प्रचोदयात् ८.१.१९४.३ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् ८.१.१९४.४ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ८.१.१९४.५ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तं नो दन्तिः8 प्रचोदयात्
८.१.१९५.१ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नष्षण्मुखः9 प्रचोदयात् ८.१.१९५.२ भास्कराय विद्महे महद्द्युतिकराय10 धीमहि तन्नो आदित्यः11 प्रचोदयात् ८.१.१९५.३ वैश्वानराय विद्महे लालीलाय12 धीमहे तं नो अग्निः प्रचोदयात् ८.१.१९५.४ कात्यायनाय13 विद्महे कन्यकुमारि14 धीमहि तन्नो दुर्गिः प्रचोदयात् ८.१.१९५.५ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
८.१.१९६.१ शब्दराशाय विद्महे वायुपुत्राय धीमहि तं नो हनुमत्प्रचोदयात् ८.१.१९६.२ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तं नो नन्दिः प्रचोदयात् ८.१.१९६.३ वार्धिजाताय विद्महे महाशङ्खाय धीमहि तन्नश्शङ्खः प्रचोदयात् ८.१.१९६.४ ओजोबलाय विद्महे अत्युच्छ्रयाय धीमहि तं नो ध्वजः प्रचोदयात् ८.१.१९६.५ महाभूताय विद्महे विष्णुभक्ताय धीमहि तन्नश्श्रीभूतः प्रचोदयात्
८.१.१९७.१ देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नश्शक्रः प्रचोदयात् ८.१.१९७.२ रुदनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् ८.१.१९७.३ वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् ८.१.१९७.४ निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् ८.१.१९७.५ सुधीश्वराय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् ८.१.१९७.६ जगत्प्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् ८.१.१९७.७ राजराजाय विद्महे धनाध्यक्ष्याय धीमहि तन्नस्सोमः प्रचोदयात् ८.१.१९७.८ रुदसखाय विद्महे वैश्रवणाय धीमहि तन्नः कुबेरः प्रचोदयात् ८.१.१९७.९ यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात्15
८.०.३२ प्रचोदयात्तन्नो हँसः प्रचोदयात्कृष्णः प्रचोदयाद्दन्तिः प्रचोदयाद्धियो यो नः प्रचोदयाच्छ्रीभूतः प्रचोदयात्तन्नो वरुणः प्रचोदयादष्टौ च
८.१.१९८.१ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ८.१.१९८.२ ओं शान्तिश्शान्तिश्शान्तिः
८.०.३३ नमो ब्रह्मणे त्रीणि
८.१.१९९.१ तच्छं योर्16 आ वृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम्, शं नो अस्तु द्विपदे शं चतुस्पदे, ओं शान्तिश्शान्तिश्शान्तिः
८.०.३४ तच्छंयोरा वृणीमहे नव
८.१.२००.१ नमो वाचे या चोदिता या चानूदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माहमृषीन्मन्त्रकृतो मन्त्रपतीस्परादां वैश्वदेवीं वाचमुद्यासँ शिवामदस्तां जुष्टां देवेभ्यश्शर्म मे द्यौश्शर्म पृथिवी शर्म विश्वमिदं जगत् शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती ८.१.२००.२ भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिश्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरो इनु मदन्तु ओं शान्तिश्शान्तिश्शान्तिः
८.०.३५ नमो वाचे चत्वारि
८.१.२०१.१ शं नो मित्रश्शं वरुणः शं नो भवत्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ८.१.२०१.२ नमो ब्रह्मणे ८.१.२०१.३ नमस्ते वायो ८.१.२०१.४ त्वमेव प्रत्यक्षं ब्रह्मासि ८.१.२०१.५ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ८.१.२०१.६ ऋतं वदिष्यामि ८.१.२०१.७ सत्यं वदिष्यामि ८.१.२०१.८ तन्मामवतु ८.१.२०१.९ तद्वक्तारमवतु ८.१.२०१.१० अवतु माम् ८.१.२०१.११ अवतु वक्तारम् ८.१.२०१.१२ ओं शान्तिश्शन्तिश्शान्तिः
८.०.३६ सत्यं वदिष्यामि पञ्च च ८.१.२०२.१ शं नो वातः पवतां मातरिश्वा17 शं नस्तपतु सूर्यः ८.१.२०२.२ अहानि शं भवन्तु नश्शँ रात्रिः प्रति धीयताम् ८.१.२०२.३ शमुषा नो व्युच्छतु शमादित्य उदेतु नः ८.१.२०२.४ शिवा नश्शन्तमा भव सुमृडीका सरस्वती मा ते व्योम संदृशि ८.१.२०२.५ इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्चित्स्म ह्यवास्तुस्स भुयाद्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.२०२.६ प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्चित्स्म ह्यप्रतिष्ठस्स भूयाद्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.२०२.७ आ वात वाहि भेषजं वि वात वाहि यद्रपः त्वँ हि विश्वभेषजो देवानां दूत ईयसे ८.१.२०२.८ द्वाविमौ वातौ वात आ सिन्धोरा परावतः दक्षं मे18 अन्य आ वातु परान्यो वातु यद्रपः19
८.१.२०३.१ यददो वात ते गृहेऽमृतस्य निधिर्हितः ततो नो देहि जीवसे ततो नो धेहि भेषजम् ८.१.२०३.२ ततो नो मह आवह वात आ वातु भेषजम् शंभूर्मयोभूर्नो हृदे प्र ण आयूँषि तारिषत् ८.१.२०३.३ इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः सह यन्मे अस्ति तेन ८.१.२०३.४ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्ये इनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ओं प्रपद्ये ८.१.२०३.५ अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातस्स्वस्त्या स्वस्तिमान् तया स्वस्त्या स्वस्तिमानसानि ८.१.२०३.६ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं ८.१.२०३.७ मयि मेधां मयि20 प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु
८.१.२०४.१ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामहन्तामदितिस्सिन्धुः पृथिवी उत द्यौः ८.१.२०४.२ कया नश्चित्र आ भुवदूती सदावृधस्सखा कया शचिष्ठयावृता ८.१.२०४.३ कस्त्वा सत्यो मदानां मँहिष्ठो मत्सद्21 अन्धसः दृढा चिदारुजे वसु ८.१.२०४.४ अभी षु णस्सखीनामविता जरितॄणाम् शतं भवास्यूतिभिः ८.१.२०४.५ वयस्सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्
८.१.२०५.१ शं नो देवीरभिष्टय आपो भवन्तु पीतये शं योरभि स्रवन्तु नः ८.१.२०५.२ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् अपो याचामि भेषजम् ८.१.२०५.३ सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ८.१.२०५.४ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन महे रणाय चक्षसे ८.१.२०५.५ यो वश्शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः ८.१.२०५.६ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा च नः22
८.१.२०६.१ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचँ शमयतु अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु ८.१.२०६.२ द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु ८.१.२०६.३ पृथिवी शान्तिरन्तरिक्षँ शान्तिर्द्यौश्शान्तिर् ८.१.२०६.४ दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्निश्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्तिर्नक्षत्राणि शान्तिर् ८.१.२०६.५ आपश्शान्तिरोषधयश्शान्तिर्वनस्पतयश्शान्तिर् ८.१.२०६.६ गौश्शान्तिरजा शान्तिरश्वश्शान्तिः पुरुषश्शान्तिर्ब्रह्मा शान्तिर्ब्राह्मनश्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः ८.१.२०६.७ तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ८.१.२०६.८ एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ८.१.२०६.९ उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृता(ग्)मनु ८.१.२०६.१० तच्चक्षुर्देवहितं पुरस्ताच्23 छुक्रमुच्चरत् पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतँ शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे ८.१.२०६.११ य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्स मा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ८.१.२०६.१२ ब्रह्मणश्श्चोतन्य्24 असि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि विस्रसत् ८.१.२०६.१३ मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि ८.१.२०६.१४ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ८.१.२०६.१५ ब्रह्म प्रावादिष्म तन्नो मा हासीत् ओं शान्तिश्शान्तिश्शान्तिः
८.०.३७ परावतो दधातु बद्धाञ्जिन्वथ दृशे सप्त च
८.०.३८25 तमेकनेमिमुद्वयन् तमस धारासु सप्ताग्निश्शुचिव्रततमश्शुचिः प्र तद्विष्णुर्भूः प्रपद्ये तेजोवत्स्यावस्सवितुरग्निमीळे त्रिर्देव विष्णोर्नु कमाशासु सप्तसु वास्तोष्पते शुची वो हव्योद्यन्तं वा हिरण्यगर्भस्समवर्ततेन्द्रं वोऽग्ने नय आयातु देव नमस्सुतेऽस्तभ्नाद्या पीवोन्ना मद्भ्यस्तिरोधास्तु26 हि श्रुतं कनिक्रददीङ्कारायागोदानादोमास रात्री व्यख्यदायती हिरण्यगर्भ विश्वजिते विष्णवे स्वाहा नारायणाय नमो ब्रह्मणे तच्छं योर्नमो वाचे शं नो मित्रश्शं नो वातः पवताँ सप्तत्रिँशत्
८.०.३९27 तमेकनेमिं शङ्खं प्रतिष्ठापयामि पूतः पूतान्तर्बलि रक्षकाय्[]आग्निश्शुचिव्रततम यो वा संयोग इदं विष्णुस्तेजोवत्स्यावस्सवितुर्देवस्य त्वा विष्णोर्नु कं चित्रन् देवानाँ शं नो देवी रक्ताम्बरधरमावाहयामि नारायणायोद्यन्तं वा त्रिकद्रुकेभिरा वो राजा नोत्थिताय स्वाहा विश्वजिते नारायणाय शं नो मित्रँ षडुत्तरद्विशततमम् तमेकनेमिन् त्रिवृतँ षोडशान्तमों शान्तिश्शान्तिश्शान्तिः हरिः ओं तत्त्सत् श्री कृष्नार्पणमस्तु
Vऐखानसमन्त्रप्रश्न (च्) ः.ञ्. ऋएस्निच्क्
-
Text: मंगळ ↩︎
-
Text: थनुर् ↩︎
-
Cf. Vंড়् ६.३३.५ ↩︎
-
Text: थनुर् ↩︎
-
Cf. Vंড়् ६.१०.६ ↩︎
-
Text: नीळाः ↩︎
-
Text: दाशरधाय ↩︎
-
ंहानू (ऊष्): दन्ती; टा, ंहानू (ष्V): दन्तिः ↩︎
-
ंहानू (ऊष्): षष्टः (ष्V): षण्मुखः ↩︎
-
Vंড়्: महद्युतिकराय; ंहानू (ष्V): महद्द्युतिकराय; (ऊष्): दिवाकराय ↩︎
-
ंहानू (ऊष्): सूर्यः ↩︎
-
ंहानू (ऊष्): लालेलाय ↩︎
-
ंहानू (ऊष्): कात्यायन्यै; (ष्V): कात्यायानाय ↩︎
-
ंहानू (ऊष्): कन्याकुमार्यै ↩︎
-
महादेवाय विद्महे शूलहस्ताय धीमहि तन्नश्शिवः प्रचोदयात् ↩︎
-
RVKh: छंय्योर् ↩︎
-
Vषोमित्स् ↩︎
-
RV: ते ↩︎
-
Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय २०३. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय २०२. ↩︎
-
ट्षोमित्स् ↩︎
-
RV: मत्सद् ↩︎
-
Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय २०६. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय २०५. ↩︎
-
RV ओमित्स् ↩︎
-
Vंড়्: ब्रह्मण श्चोतन्य् ↩︎
-
३७ इन् बोओक् ↩︎
-
Text: थिरोधास्तु ↩︎
-
२०६ इन् बोओक् ↩︎