श्री श्री श्रीनिवासाय नमः श्रीवैखानसमन्त्रप्रश्नाष्टके अष्टमप्रश्नः

८.१.१.१ तमेकनेमिं त्रिवृत्तँ षोडशान्तँ शतार्धारं विंशति प्रत्यतराभिरष्टकैष्षड्भिर्विश्वरूपैकपाशम् त्रिमार्गभेदं द्विनिमित्तैकमोहम् ८.१.१.२ प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वम् स नो ददातु द्रविणँ सुवीर्यँ रायस्पोषं विष्यतु नाभिमस्मे ८.१.१.३ रौक्मं कूर्मं ब्रह्मस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.१.४ तमेकनेमिं गजं प्रतिष्ठापयाम्यों नमः ८.१.१.५ शतधारँ हिरण्मयं गरुडं प्रतिष्ठापयाम्यों नमः ८.१.१.६ ब्रह्मा देवानां ब्रह्मण इमं ब्रह्ममणिं ब्रह्मस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.२.१ इन्द्रं प्रणयन्तमिन्द्रायेमं वज्रमणिमिन्द्रस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.२ अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः साहाकृत्य ब्रह्मणा ते जुहोमि1 मा देवानां मिथुया कर्भागधेयम् ८.१.२.३ अग्नय इमं मौक्तिकमग्निस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.४ यमो दाधार यमायेमं वैडूर्यमणिं यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.५ वसवः प्रथमः निरृतय इमं शङ्खजं निरृतिस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.३.१ ये ते शतं वरुणायेमं स्फटिकमणिं वरुणस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.२ मरुतः परमात्मा वायव इमं पुष्यकान्तमणिं वायुस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.३ सोमँ राजानं सोमायेमं चन्द्रकान्तमणिं सोमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.४ ईशानस्सर्वलोकानामीशानायेमं नीलमणिमीशानस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.५ शं नो निधत्तां वासुकय इमममृताश्मकमणिं वासुकिस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.४.१ धाता धातृणां भुवनस्य यस्पतिर्देवँ सवितारम्2 अभिमातिषाहम् इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ८.१.४.२ साध्येभ्य इमं लोहिताश्मकमणिं साध्यस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.३ विश्वेदेवस्य विश्वेभ्यो देवेभ्य इममुत्पलमणिं विश्वेदेवस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.४ अधि ब्रह्मा यततामेष देवो दिवस्पत्यां वाधि मरुतो वोभयेषाम् ८.१.४.५ तपोयोगी योग एकस्स्वाधिष्ठा निनीहि विश्वं भुवनस्य भूयः ८.१.४.६ सिद्धेभ्य इमं प्रवाल3मणिं सिद्धस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.७ इमां मूर्धन्या मम वाण्यसूनां पतेरिन्द्रियाणां मतेः प्रियाणाम् वाचो रुचीनाम्4 प्रवराय गायन्निधिं निदध्यन् प्रजया अस्तु भूत्यै

८.१.५.१ गन्धर्वेभ्य इमां मनश्शिलां गन्धर्वस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.५.२ अप्सरस्सु यो गन्धो गन्धर्वेषु च यद्यशः दैवो यो मानुषो गन्धस्स मा गन्धस्सुरभिर्जुषताम् ८.१.५.३ अप्सरोभ्य इमं शुक्तिजमप्सरस्थानेऽहं प्रतिष्टापयाम्यों नमः ८.१.५.४ यङ्काद्रवेया5 अधिगास्समूहे शेरते वीरास्तस्य परिबर्हि विश्वम् तं वासुके भूतसहस्रमूर्ते तुभ्यं नमः प्रथये भूतये त्वा ८.१.५.५ नागेभ्य इमं विमलमणिं नागस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.५.६ अर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणः अर्यम्ण इमं कुर्विन्दमर्यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.५.७ इन्द्रं प्रणयन्तमिन्द्रायेमं गैरिकमिन्द्रस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.६.१ अग्नावग्निः अग्नय इमं हरितालकम्6 अग्निस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.२ यमो दाधार यमायेमां मनश्शिलां यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.३ वसवः प्रथमः निरृतय इममंजनं निरृतिस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.४ ये ते शतं वरुणायेमं कासीसं वरुणस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.५ मरुतः परमात्मा वायव इमं पारदं वायुस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.७.१ सोमँ राजानं सोमायेमं सौराष्ट्रँ सोमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.७.२ ईशानस्सर्वलोकानामीशानायेमं गोरोचनमीशानस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.७.३ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् श्येनो गृद्ध्राणाँ7 स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन्8 ८.१.७.४ ब्रह्मण इमानि सर्वगन्धानि ब्रह्मस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.७.५ इन्द्रं प्रणयन्तमिन्द्रायेमानि9 षष्तिकान् व्रीहीनीन्द्रस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.८.१ अग्नावग्निः अग्नय इमौ कुलुद्धमाषाव्10 अग्निस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.२ यमो दाधार यमायेमौ गोधूममुद्गौ यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.३ वसवः प्रथमः निरृतय इमौ तिलतिल्वौ निरृतिस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.४ ये ते शतं वरुणायेमौ वंशयवौ11 वरुणस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.५ मरुतः परमात्मा वायव इमौ नीवारप्रियांगू वायुस्थानेऽहं प्रतिष्ठापयाम्यों नमः

८.१.९.१ सोमँ राजानं सोमायेमौ गोधूमयवौ सोमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.९.२ ईशानस्सर्वलोकानामीशानयेमानि सर्वबीजानीशानस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.९.३ भूय आत्मवृत्या बलतेजोजनन्या देवोपवाह्या मनसा ययासन्न् दाक्षायण्या धन्यै12 यजेय13 ८.१.९.४ श्रीवत्त्सं प्रतिष्ठापयाम्यों नमः ८.१.९.५ नमस्सुलोम सुलोमि भुवि भुवो चित्तल14 गुहल15 दोणीयत् ८.१.९.६ पूर्णकुम्भं प्रतिष्ठापयाम्यों नमः ८.१.९.७ स एको भूद्दिवानि शं नस्सञ्चारि भवोद्भवः स्रष्टुस्सृष्टेश्च सञ्चितः

८.१.१०.१ भेरीं प्रतिष्ठापयाम्यों नमः ८.१.१०.२ देवस्य त्वा आदर्शं प्रतिष्ठापयाम्यों नमः ८.१.१०.३ अतो देवा मत्स्ययुग्मं प्रतिष्ठापयाम्यों नमः ८.१.१०.४ क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु सुपतन्तीम् स्वयं भूत्वा वराहो वर उज्जहार तस्मै देवाय सुकृताय पित्रे ८.१.१०.५ अङ्कुशं प्रतिष्ठापयाम्यों नमः ८.१.१०.६ तन्मा यशोऽग्रे शङ्कं प्रतिष्ठापयाम्यों नमः

८.१.११.१ ब्रह्मा देवानामावर्तं प्रतिष्ठापयाम्यों नमः ८.१.११.२ भूमानन्तोऽग्रे गदाचक्रासिशरान् प्रतिष्ठापयाम्यों नमः ८.१.११.३ तन्मा यशोऽग्रे शङ्खशार्ङ्गखेटकान् प्रतिष्ठापयाम्यों नमः ८.१.११.४ ब्रह्म16 ब्रह्मान्तरात्मा ब्रह्मपूतान्तरात्मा ब्रह्मणि ब्रह्मनिष्ठो ब्रह्मगुप्तो गुप्तोऽहमस्मि ८.१.११.५ स्रुवकमण्डलुतुलातोदयुगलाङ्गलादिवर्णचिह्नानि प्रतिष्ठापयाम्यों नमः

८.१.१२.१ ये ते शतं मेघविद्युल्लांछनं प्रतिष्ठापयाम्यों नमः ८.१.१२.२ श्रिये जातः श्रीरूपं प्रतिष्ठापयाम्यों नमः ८.१.१२.३ मेदिनी देवी हरिणीरूपं प्रतिष्ठापयाम्यों नमः ८.१.१२.४ अतो देवा ८.१.१२.५ ओं कनिक्रदज्जनुषम् ८.१.१२.६ प्र तद्विष्णुः ८.१.१२.७ विष्णोर्नु कमा त्वाहार्षमेकाक्षरँ सहस्रशीर्षा पुरुषः

८.१.१३.१ विष्णोर्नु कमतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.१३.२ सुवर्भुवर्भूः ८.१.१३.३ यमं17 ओं ८.१.१३.४ एकाक्षरममाम् ८.१.१३.५ आत्मात्मा परमान्तरात्मा ८.१.१३.६ इदं विष्णुः ८.१.१३.७ आयातु भगवान् ८.१.१३.८ विष्णुमावाहयामि ८.१.१३.९ श्रीमोम् ८.१.१३.१० श्रिये जातः आयातु भगवती ८.१.१३.११ श्रियमावाहयामि लमोम् ८.१.१३.१२ मेदिनी देवी ८.१.१३.१३ आयातु भगवती हरिणीमावाहयामि

८.०.१ ब्रह्म देवानां नमः प्रतिष्ठपयाम्यों नमोऽस्तु भूत्यै प्रणयन्तं मरुतः परमात्मा प्रतिष्ठापयाम्यों नमो नमस्सञ्चारि भवोद्भवस्तन्मा यशोऽग्रे नमः पुरुष ओँ सप्त च

८.१.१४.१ उद्वयं तमस उदु त्यं जातवेदशम् ८.१.१४.२ प्र तद्विष्णुः ८.१.१४.३ विमानं प्रपद्ये ८.१.१४.४ विष्णुमयं प्रपद्ये ८.१.१४.५ देवावासं प्रपद्ये ८.१.१४.६ वैकुण्ठोद्भवं प्रपद्ये ८.१.१४.७ मणिकं प्रपद्ये ८.१.१४.८ महाबलं प्रपद्ये ८.१.१४.९ विमलं प्रपद्ये ८.१.१४.१० द्वारपालकं प्रपद्ये

८.१.१५.१ निरस्तँ रक्षो निरस्तोऽघशँसो निरस्ता अरातयः ८.१.१५.२ ससोमा देवा रक्षध्वम् ८.१.१५.३ हिरण्यपाणिमूतये सवितारमुप ह्वये स चेत्ता देवता पदम् ८.१.१५.४ दिवं विवृणोतु दिवि स्वर्गं पिहितद्वारं विवृनोतु ८.१.१५.५ दिव्यन्तरिक्षे देवतानाँ साप्सरोगणमभिदर्शयताम् ८.१.१५.६ भुवङ्गाय नमः ८.१.१५.७ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं पदँ तद्विप्रासः ८.१.१५.८ उद्दीप्यस्व जातवेदोऽपघ्नं निरृतिं मम पशूँश्च मह्यमावह जीवनञ्च दिशोदिश

८.१.१६.१ शाम्यन्तु घोराणि ८.१.१६.२ शाम्यन्तु पापानि ८.१.१६.३ शाम्यन्तु ईतयः ८.१.१६.४ भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा18 भगवतः कर्मणा ८.१.१६.५ भगवतानुगृहीतो भगवतानुद्ध्यातो भगवद्ध्यात्वा19 भगवत्कर्म करिष्यामि तद्भगवाननुमन्यताम् ८.१.१६.६ नर्यप्रजां मे गोपाय ८.१.१६.७ अमृतत्वाय जीवसे जातां जनिष्यमाणाञ्च अमृते सत्ये प्रतिष्ठिताम् ८.१.१६.८ अथर्व पितुं मे गोपाय रसमन्नमिहायुषे20

८.१.१७.१ अदब्धायोऽशीतनो ८.१.१७.२ अविषन्नः पितुं कृणु ८.१.१७.३ शँस्य पशून्मे गोपाय ८.१.१७.४ द्विपादो ये चतुष्पदः अष्टा शफाश्च य इहाग्ने ये चैकशफा आशुगाः21 ८.१.१७.५ सप्रथ सभां मे गोपाय ८.१.१७.६ ये च सभ्यास्सभासदः तानिन्द्रियावतः कुरु

८.१.१८.१ सर्वमायुरुपासताम् ८.१.१८.२ अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः ऋचस्सामानि यजूँषि ८.१.१८.३ सा हि22 श्रीरमृता सताम् ८.१.१८.४ मा नो हिँसीज्जातवेदो गामश्वं पुरुषं जगत् अबिभ्रदग्न आगहि श्रिया मा परिपातय ८.१.१८.५ सम्राजं च विराजं चाभि श्रीर्या च नो गृहे लक्ष्मी राष्ट्रस्य या मुखे तया मा सँ सृजामसि

८.१.१९.१ इन्द्रस्य त्वा वज्रेणाभ्युप विशामि वह काले वह श्रियं माभिवह23 ८.१.१९.२ अश्वोऽसि हयोऽस्यतोऽसि नरोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणा असि ययुर्नामास्यादित्यानां पत्वान्विहि ८.१.१९.३ आगोदानात्पठेदिदम् ८.१.१९.४ देवस्य त्वा ब्रह्म जज्ञानँ ८.१.१९.५ हिरण्यगर्भः ८.१.१९.६ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये विराजमानं तमजं प्रपद्ये ८.१.१९.७ तेजोमयं तेजसामप्यगम्यँ सर्वात्मानं तमसः पारभूतं भूत्या विश्वं पाति यस्तं प्रपद्ये ८.१.१९.८ विष्णुं प्रपद्ये ८.१.१९.९ पुरुषं प्रपद्ये

८.१.२०.१ सत्यं प्रपद्ये ८.१.२०.२ अच्युतं प्रपद्ये ८.१.२०.३ अनिरुद्धं प्रपद्ये ८.१.२०.४ वरं रंह आस्थास्ये गारुदं रंहमास्थास्ये गारुत्मंतं रंह आस्थास्ये ८.१.२०.५ सर्वं सर्वं रंहो वैष्णवमहमास्थास्ये ८.१.२०.६ भूरसि भूः प्रतिष्ठित्यै ८.१.२०.७ भुवोऽसि भुवः प्रतिष्ठित्यै ८.१.२०.८ सुवरसि सुवः प्रतिष्ठित्यै ८.१.२०.९ भूर्भुवस्सुवरसि सुवः प्रतिष्ठित्यै ८.१.२०.१० सानन्दस्सर्वेषामन्तरात्मा भव

८.१.२१.१ पूतः पूतान्तरात्मा भव ८.१.२१.२ पुण्यः पुण्यान्तरात्मा भव ८.१.२१.३ ब्रह्म ब्रह्मान्तरात्मा भव ८.१.२१.४ विष्णुं प्रतिष्ठापयामि ८.१.२१.५ अवधूतँ रक्षोऽवधूता अरातयः ८.१.२१.६ अवधूतस्सोऽस्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.२१.७ आशासु सप्तस्वपि कञ्जरेखा आपस्समग्रास्समुदावहामि ८.१.२१.८ सोमाग्निसूर्यामृतपुष्करीणामापस्समावाह्य पुरस्करिष्ये ८.१.२१.९ सोमँ राजानं वरुणमग्निमन्वारभामहे आदित्यान् विष्णुँ सूर्यं ब्रह्माणं च बृहस्पतिम्

८.१.२२.१ आ मा वाजस्य शुची वो हव्या ८.१.२२.२ दुहतान् दिवमिन्द्रस्सवितेमां दुहतां मेदिनीम् ८.१.२२.३ तदुभयं प्रजानां निरीतये निरुद्वेगाय ८.१.२२.४ जाह्नवीं लोकपावनीम् ८.१.२२.५ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमँ सचता परुष्णिया असिक्निया मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ८.१.२२.६ आद्यमभिगृह्णामि श्रीमन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः ८.१.२२.७ तत्त्सवितुर्वरेण्यम्

८.१.२३.१ अर्वाञ्चमिन्द्रम् ८.१.२३.२ स्वस्ति नो मिमीतां कनिक्रदज्जनुषम् ८.१.२३.३ सोमँ राजानमिदमापश्शिवाः ८.१.२३.४ भगवतो बलेन ८.१.२३.५ नश्यन्ति जगतामीतयो निरस्तः परावसुस्24 सह पाप्मना ८.१.२३.६ अहमेवेदं करिष्यामि विभोः कर्तुं निधास्यति ८.१.२३.७ करिष्याम्यत्र यत्किञ्चित्25 तन्मे देवो इनुमन्यताम् ८.१.२३.८ पूतस्तस्य ८.१.२३.९ ओं भूर्भुवस्सुवः ८.१.२३.१० नारायणाय

८.१.२४.१ ओं विष्णवे नमः ८.१.२४.२ ओं पुरुषाय नमः ८.१.२४.३ ओं सत्याय नमः ८.१.२४.४ ओमच्युताय नमः ८.१.२४.५ ओमनिरुद्धाय नमः ८.१.२४.६ उद्यन्तं वावादित्यमग्निरनुसमारोहति ८.१.२४.७ तस्माद्धूम एवाग्नेर्दिवा ददृशे ८.१.२४.८ भूरनिलया भूतया भूतया परिषिञ्चामि भुवस्सुषुम्नया प्राणवत्या परिषिञ्चामि स्वरमृतवत्या ज्योतिष्मत्या च परिषिञ्चामि ८.१.२४.९ ताँ सवितुर्वरेण्यस्य चित्रामहं26 वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत्27 प्रपीनाँ सहस्रधारां पयसा महीं गाम् ८.१.२४.१० आग्नेयो यस्मात्प्रैषामधीशः

८.१.२५.१ विष्वक्सेनं प्रपद्ये ८.१.२५.२ शान्तं प्रपद्ये ८.१.२५.३ हरं प्रपद्ये ८.१.२५.४ अमितं प्रपद्ये ८.१.२५.५ सूत्रवतीं प्रपद्ये ८.१.२५.६ जयां प्रपद्ये ८.१.२५.७ मार्कण्डेयाय नमः ८.१.२५.८ भृगवे नमः ८.१.२५.९ ब्रह्मणे नमः ८.१.२५.१० शङ्कराय नमः ८.१.२६.१ सूर्याय नमः ८.१.२६.२ सोमाय नमः ८.१.२६.३ अङ्गारकाय नमः ८.१.२६.४ सौम्याय नमः ८.१.२६.५ बृहस्पतये नमः ८.१.२६.६ भार्गवाय नमः ८.१.२६.७ सौरये नमः ८.१.२६.८ राहवे नमः ८.१.२६.९ केतवे नमः ८.१.२६.१० धात्रे नमः

८.१.२७.१ विधात्रे नमः ८.१.२७.२ भुवङ्गाय नमः ८.१.२७.३ पतङ्गाय नमः ८.१.२७.४ पतिराय नमः ८.१.२७.५ वरणाय नमः ८.१.२७.६ धर्माय नमः ८.१.२७.७ ज्ञानाय नमः ८.१.२७.८ ऐश्वर्याय नमः ८.१.२७.९ गजलक्ष्म्यै नमः ८.१.२७.१० मणिकाय नमः

८.१.२८.१ सन्ध्यायै नमः ८.१.२८.२ न्यक्ष्याय नमः ८.१.२८.३ इन्द्राय नमः ८.१.२८.४ तापसाय नमः ८.१.२८.५ सिद्धिदाय नमः ८.१.२८.६ किष्किन्धाय नमः ८.१.२८.७ तीर्थाय नमः ८.१.२८.८ नागराजाय नमः ८.१.२८.९ गणेशाय नमः ८.१.२८.१० शङ्खनिधये नमः

८.१.२९.१ पद्मनिधये नमः ८.१.२९.२ तुहिणाय नमः ८.१.२९.३ बलिन्दाय नमः ८.१.२९.४ खड्गाय नमः ८.१.२९.५ शार्ङ्गाय नमः ८.१.२९.६ शङ्खचूलिणे28 नमः ८.१.२९.७ चक्रचूलिणे29 नमः ८.१.२९.८ चण्डाय नमः ८.१.२९.९ प्रचण्डाय नमः ८.१.२९.१० श्रीभूताय नमः

८.१.३०.१ गरुडाय नमः ८.१.३०.२ चक्राय नमः ८.१.३०.३ ध्वजाय नमः ८.१.३०.४ शङ्खाय नमः ८.१.३०.५ यूथाधिपाय30 नमः ८.१.३०.६ अक्षहन्त्रे नमः ८.१.३०.७ हविरक्षकाय नमः ८.१.३०.८ अग्नये नमः ८.१.३०.९ विवस्वते नमः ८.१.३०.१० यमाय नमः

८.१.३१.१ बलिरक्षकाय नमः ८.१.३१.२ निरृतये नमः ८.१.३१.३ मित्राय नमः ८.१.३१.४ वरुणाय नमः ८.१.३१.५ पुष्परक्षकाय नमः ८.१.३१.६ वायवे नमः ८.१.३१.७ क्षत्रे नमः ८.१.३१.८ कुबेराय नमः ८.१.३१.९ भास्कराय नमः ८.१.३१.१० ईशानाय नमः

८.१.३२.१31 अविघ्नाय नमः ८.१.३२.२ आमोदाय नमः ८.१.३२.३ प्रमोदाय नमः ८.१.३२.४ प्रमुखाय नमः ८.१.३२.५ दुर्मुखाय नमः ८.१.३२.६ विघ्णकर्त्रे नमः ८.१.३२.७ भूतेभ्यो नमः ८.१.३२.८ यक्षेभ्यो नमः ८.१.३२.९ पिशाचेभ्यो नमः ८.१.३२.१० नागेभ्यो नमः

८.०.२ प्रपद्ये दिशोदिश गोपायेन्द्रियावतः कुरु सँ सृजामसि प्रपद्येऽन्तरात्मा भव बृहस्पतिं तत्सवितुर्वरेण्यँ नारायणाय प्रैषामधीशश्शङ्कराय नमो धात्रे नमो मणिकाय नमश्शङ्खनिधये नमश्श्रीभूताय नमो यमाय नम ईशानाय नमो नागेभ्यो नमः

८.१.३३.१ धारासु सप्तसु शुचि वो हव्या ८.१.३३.२ मार्ताण्डमावाहयामि ८.१.३३.३ ज्येष्ठामावाहयामि ८.१.३३.४ सागरमावाहयामि ८.१.३३.५ शुक्रमावाहयामि ८.१.३३.६ धर्मज्ञमावाहयामि ८.१.३३.७ खगाधिपतिमावाहयामि ८.१.३३.८ फणिराजमावाहयामि ८.१.३३.९ धर्ममावाहयामि

८.१.३४.१ विष्णुमावाहयामि ८.१.३४.२ रुद्रमावाहयामि ८.१.३४.३ ब्रह्माणमावाहयामि ८.१.३४.४ वरुणमावाहयामि ८.१.३४.५ वनस्पतिमावाहयामि ८.१.३४.६ रविमावाहयामि ८.१.३४.७ पितॄनावाहयामि ८.१.३४.८ भूमिमावाहयामि ८.१.३४.९ जाह्नवीमावाहयामि ८.१.३४.१० वसन्तमावाहयामि

८.१.३५.१ काश्यपमावाहयामि ८.१.३५.२ फुल्लमावाहयामि ८.१.३५.३ पृथिवीमावाहयामि ८.१.३५.४ बृहस्पतिमावाहयामि ८.१.३५.५ श्रियमावाहयामि ८.१.३५.६ शशधरमावाहयामि ८.१.३५.७ सामवेदमावाहयामि ८.१.३५.८ पितॄनावाहयामि ८.१.३५.९ शेषमावाहयामि ८.१.३५.१० वायुमावाहयामि

८.१.३६.१ निशाकरमावाहयामि ८.१.३६.२ फुल्लमावाहयामि ८.१.३६.३ वाचस्पतिमावाहयामि ८.१.३६.४ मेदिनीमावाहयामि ८.१.३६.५ प्रचेतसमावाहयामि ८.१.३६.६ पाञ्चजन्यमावाहयामि ८.१.३६.७ अमरानावाहयामि ८.१.३६.८ नन्दीशमावाहयामि ८.१.३६.९ सामवेदमावाहयामि ८.१.३६.१० शर्वमावाहयामि

८.१.३७.१ अप्सरस आवाहयामि ८.१.३७.२ अथर्वणवेदमावाहयामि ८.१.३७.३ यजुर्वेदमावाहयामि ८.१.३७.४ सुधांशुमावाहयामि ८.१.३७.५ रविमण्डलमावाहयामि ८.१.३७.६ त्वष्टारमावाहयामि ८.१.३७.७ सूर्यमावाहयामि ८.१.३७.८ निशाकरमावाहयामि ८.१.३७.९ षण्मुखमावाहयामि ८.१.३७.१० वह्निमावाहयामि

८.१.३८.१ रुद्रमावाहयामि ८.१.३८.२ ऋग्वेदमावाहयामि ८.१.३८.३ वासुकिमावाहयामि ८.१.३८.४ त्रिमूर्तीरावाहयामि ८.१.३८.५ क्रौञ्चनन्दनमावाहयामि ८.१.३८.६ खगाधिपतिमावाहयामि ८.१.३८.७ कपिराजमावाहयामि ८.१.३८.८ ब्रह्माणमावाहयामि ८.१.३८.९ वेदानावाहयामि ८.१.३८.१० षड्आननमावाहयामि

८.१.३९.१ नागानावाहयामि ८.१.३९.२ वीशमावाहयामि ८.१.३९.३ शङ्खमावाहयामि ८.१.३९.४ चक्रमावाहयामि ८.१.३९.५ महादेवमावाहयामि ८.१.३९.६ कला32निधिमावाहयामि ८.१.३९.७ वरुणमावाहयामि ८.१.३९.८ पृथिवीमावाहयामि ८.१.३९.९ सर्वतीर्थान्यावाहयामि ८.१.३९.१० नागराजमावाहयामि

८.१.४०.१ पाकशासनमावाहयामि ८.१.४०.२ हिमांशुमावाहयामि ८.१.४०.३ आदित्यमावाहयामि ८.१.४०.४ वसिष्ठमावाहयामि ८.१.४०.५ सोममावाहयामि ८.१.४०.६ यज्ञाङ्गमावाहयामि ८.१.४०.७ इन्दुमावाहयामि ८.१.४०.८ चन्द्रमावाहयामि ८.१.४०.९ विमलमावाहयामि ८.१.४०.१० मृगाङ्कमावाहयामि ८.१.४०.११ दिवाकरमावाहयामि ८.१.४०.१२ कमलासनमावाहयामि ८.१.४०.१३ सूर्यमावाहयामि ८.१.४०.१४ पाञ्चभौतकमावाहयामि ८.१.४०.१५ गरुडमावाहयामि ८.१.४०.१६ हिरण्यगर्भमावाहयामि ८.१.४०.१७ नारायणमावाहयामि

८.०.३ धर्ममावाहयामि. पसन्तमावाहयामि. वायुमावाहयामि. शर्वमावाहयामि. वह्निमावाहयामि. शड्आननमावाहयामि. नागराजमावाहयामि. मृगाङ्कमावाहयामि. सप्त च. ८.१.४१.१ अग्निश्शुचिव्रततमश्शुचिर्विप्रश्शुचिः कविः शुची रोचत आहुतः उदग्ने शुचयस्तव शुक्रा ब्राजन्त ईरते तव ज्योतीँष्यर्चयः ८.१.४१.२ तत्त्सवितुर्वरेण्यम् ८.१.४१.३ धारासु सप्तसु ८.१.४१.४ इदमापश्शिवाः ८.१.४१.५ नारायणाय ८.१.४१.६ भूः प्रपद्ये ८.१.४१.७ वैखाणसायाच्युतसँश्रयाय तपोइग्र निष्ठाय च ब्रह्मदर्षिने33

८.१.४२.१ धनुर्धरायै34 विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् ८.१.४२.२ सर्वभूतनिवारणायै हुं फत्स्वाहा ८.१.४२.३ भूर्भुवस्सुवरोम् ८.१.४२.४ आधारशक्त्यै नमः ८.१.४२.५ अनन्तासनाय नमः ८.१.४२.६ कूर्मासनाय नमः ८.१.४२.७ विमलासनाय नमः ८.१.४२.८ पद्मासनाय नमः

८.१.४३.१ हुं फट्स्वाहा ८.१.४३.२ इन्द्राय नमः ८.१.४३.३ अग्नये नमः ८.१.४३.४ यमाय नमः ८.१.४३.५ निरृतये नमः ८.१.४३.६ वरुणाय नमः ८.१.४३.७ वायवे नमः ८.१.४३.८ सोमाय नमः ८.१.४३.९ ईशानाय नमः ८.१.४३.१० ओं भूः

८.१.४४.१ ओं भुवः ८.१.४४.२ ओँ सुवः ८.१.४४.३ ओं महः ८.१.४४.४ ओं जनः ८.१.४४.५ ओं तपः ८.१.४४.६ ओँ सत्यम् ८.१.४४.७ ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ८.१.४४.८ ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ८.१.४४.९ भूमेर्वितन्वन् प्रतरन् प्रकामः पोपूयमानः पञ्चभिस्स्वगुणैः प्रसन्नैस्सर्वाणि मान् धारयिष्यसि स्वाहा

८.१.४५.१ पृथिव्यै हुं फट्स्वाहा ८.१.४५.२ अप्सु पृथिवीं प्रविलापयामि ८.१.४५.३ अनिरुद्धमूर्तिं ध्यायामि ८.१.४५.४ त्वं जीवस्त्वमापस्सर्वेषां जनिता त्वमाहारः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ८.१.४५.५ अमृताय हुं फट्स्वाहा ८.१.४५.६ अग्नावपह्प्रविलापयामि ८.१.४५.७ अच्युतमूर्तिं ध्यायामि ८.१.४५.८ त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा

८.१.४६.१ अग्नये हुं फट्स्वाहा ८.१.४६.२ वायावग्निं प्रविलापयामि ८.१.४६.३ सत्यमूर्तिं ध्यायामि ८.१.४६.४ यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णो स त्वं देवान्मनुष्यान्मृतान् परिसंजीवसे स्वाहा ८.१.४६.५ वायवे हुं फट्स्वाहा ८.१.४६.६ आकाशे वायुं प्रविलापयामि ८.१.४६.७ पुरुषमूर्तिं ध्यायामि ८.१.४६.८ यो वा गविष्ठः परमः प्रधानः35 पदं वा यस्य सत्वमासीत् यस्योपरित्वं मुनयोऽनुपश्यन्ति तस्मै मुख्याय विष्णवे स्वाहा36

८.१.४७.१ आकाशमहङ्कारे प्रविलापयामि ८.१.४७.२ अहङ्कारं महत्तत्वे प्रविलापयामि ८.१.४७.३ महत्तत्वं प्रकृतौ प्रविलापयामि ८.१.४७.४ तां प्रकृतिं परब्रह्मणि प्रविलापयामि ८.१.४७.५ विष्णुमूर्तिं ध्यायामि ८.१.४७.६ आ वात वाहि भेषजं वि वात वाहि यद्रपः त्वँ हि विश्वभेषजो देवानां दूत ईयसे ८.१.४७.७ अग्ने रक्षा णो अँहसः प्रति ष्म देव रीषतः तपिष्ठैरजरो दह37

८.१.४८.१ अग्ने हँसि न्यत्रिणम् ८.१.४८.२ यददो वात ते गृहेऽमृतस्य निधिर्हितः ततो नो देहि जीवसे ततो नो धेहि भेषजम् ८.१.४८.३ स्योना पृथिवी भवानृक्षरा निवेशनी यच्चा नश्शर्म सप्रथाः ८.१.४८.४ यो वा गविष्ठः ८.१.४८.५ आत्मन आकाशस्सम्भूतः ८.१.४८.६ परमात्मनः प्रकृतिं त्रिगुणात्मिकां प्रतिष्ठापयामि ८.१.४८.७ प्रकृतेर्महान्तमुत्पादयामि

८.१.४९.१ महतोऽहङ्कारमुत्पादयामि ८.१.४९.२ अहङ्कारादाकाशं प्रतिष्ठापयामि ८.१.४९.३ यो वा वायुः आकाशाद्वायुं प्रतिष्ठापयामि ८.१.४९.४ त्वमग्ने त्रिगुणो वरिष्ठः वायोरग्निं प्रतिष्ठापयामि ८.१.४९.५ त्वं जीवः अग्नेरपः प्रतिष्ठापयामि ८.१.४९.६ भूमेर्वितन्वन् अद्भ्यः पृथिवीं प्रतिष्ठापयामि

८.१.५०.१ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ज्योक्पश्येम सूर्यमुच्चरंतमनुमते मृलया नस्स्वस्ति ८.१.५०.२ अमृतं वै प्राना अमृतमापः प्राणानेव यथास्थानमुपह्वयते ८.१.५०.३ मम प्राण इह प्राणः ८.१.५०.४ मम जीव इह जीवस्स्थितः ८.१.५०.५ मम सर्वेन्द्रियाणि वाङ्मनोबुद्ध्य्अहंकारकामरागान्तं ८.१.५०.६ पृथिव्य्अप्तेजोवाय्व्आकाशशब्दस्पर्शरूपरसगन्धत्वक्चक्षुश्श्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु ह्रीं स्वाहा ८.१.५०.७ मम हृदये परमात्मनस्सकाकाज्जीवात्मानं प्रतिष्ठापयाम्योन्नमः ८.१.५०.८ हंसहंसाय विद्महे परमहंसाय धीमहि तंन्नो हंसः प्रचोदयात्

८.१.५१.१ यो वा संयोगस्संजुषमाणस्सन्धुस्सन्धुक्षणानाम् संयोगं सन्दधानः38 पुण्यः पुण्यानां पुण्याय स्वाहा ८.१.५१.२ सह संपायास्त्वमाशिषमाशीर्भूताभूतम् आशिषमाशीरासीर्39 आशिरनुभूमिस्40 स्वाहा ८.१.५१.३ यो वा तेजस्तेजसां तेजस्तेज आदधानः सत्यस्तेजस्तेजसां तेजस्तेजस्तेजसे स्वाहा ८.१.५१.४ यो वा आयुः परमात्मानं मीढुषः परंपर्यात्परः परायणः परो लोकानां परमा दधानः परतः पराय स्वाहा ८.१.५१.५ विष्णुस्सर्वेषामधिपतिः परमः पुराणः परो लोकानामजितो जितात्मन् भवतेऽभवाय स्वाहा

८.१.५२.१ यो वेदादिः परमः परो ब्रह्मा त्रिमात्रस्त्रयिमूर्तिकः शब्दश्शब्दातिगः परंब्रह्मणे परंज्योतिषे स्वाहा ८.१.५२.२ यो वा गविष्ठः ८.१.५२.३ पराय परमेष्ठ्य्आत्मने विष्णवे आकाशाय नमः ८.१.५२.४ यो वा वायुः ८.१.५२.५ पराय पुरुषात्मने पुरुषाय वायवे नमः ८.१.५२.६ त्वमग्ने त्रिगुणो वरिष्ठः ८.१.५२.७ पराय विश्वात्मने सत्यायाग्नये नमः ८.१.५२.८ त्वं जीवस्त्वमापः ८.१.५२.९ पराय निवृत्य्आत्मने अच्युतायद्भ्यो नमः

८.१.५३.१ भूमेर्वितन्वन्न् ८.१.५३.२ पराय सर्वात्मनेऽनिरुद्धाय पृथिव्यै नमः ८.१.५३.३ ब्रह्म ब्रह्मान्तरात्मा ब्रह्मपूतान्तरात्मा ब्रह्मणि ब्रह्मनिष्ठो ब्रह्मगुप्तो गुप्तोऽहमस्मि ८.१.५३.४ द्यौर्द्यौरसि सर्व इमे प्राणा स्थाणव आसन्न् ८.१.५३.५ शिखे उद्वर्तयामि ८.१.५३.६ सवेदास्समन्त्रास्सार्षास्ससोमा देवाः परिवर्तयन्ताम् ८.१.५३.७ देवानामयुधैः41 परिबाधयामि ८.१.५३.८ ब्रह्मणो मन्त्रैरीशस्योजसा भृगूणामङ्गिरसां तपसा सर्वमातनोमि ८.१.५३.९ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्

८.१.५४.१ सुदर्शनमभिगृह्णामि ८.१.५४.२ रविपामभिगृह्णामि ८.१.५४.३ सूर्योऽसि सूर्यान्तरात्मा ८.१.५४.४ चक्षुरसि सर्वमसि सर्वं धेहि ८.१.५४.५ चन्द्रोऽसि यज्ञोऽसि यज्ञायाधानमसि ८.१.५४.६ यज्ञस्य मोषदसि ८.१.५४.७ आभुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रम् ८.१.५४.८ अन्तरस्मिन्निमे लोकाः ८.१.५४.९ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.५४.१० ज्ञानाय हृदयाय नमः

८.१.५५.१ शक्त्यै शिरसे स्वाहा ८.१.५५.२ बलाय शिखायै वषट् ८.१.५५.३ ऐश्वर्याय कवचाय हुम् ८.१.५५.४ वीर्याय नेत्रत्रयाय वौषट् ८.१.५५.५ तेजसे अस्त्राय फट् ८.१.५५.६ भूर्भुवस्सुवरोम्42 ८.१.५५.७ केशवाय नमः ८.१.५५.८ नारायणाय नमः ८.१.५५.९ माधवाय नमः ८.१.५५.१० गोविन्दाय नमः

८.१.५६.१ विष्णवे नमः ८.१.५६.२ मधुसूदनाय नमः ८.१.५६.३ त्रिविक्रमाय नमः ८.१.५६.४ वामणाय नमः ८.१.५६.५ श्रीधराय नमः ८.१.५६.६ हृशीकेशाय नमः ८.१.५६.७ पद्मनाभाय नमः ८.१.५६.८ दामोदराय नमः ८.१.५६.९ सङ्कर्षणाय नमः ८.१.५६.१० वासुदेवाय नमः

८.१.५७.१ प्रद्युम्नाय नमः ८.१.५७.२ अनिरुद्धाय नमः ८.१.५७.३ पुरुषोत्तमाय नमः ८.१.५७.४ अधोक्षजाय नमः ८.१.५७.५ नारसिंहाय नमः ८.१.५७.६ अच्युताय नमः ८.१.५७.७ जनार्दनाय नमः ८.१.५७.८ उपेन्द्राय नमः ८.१.५७.९ हरये नमः ८.१.५७.१० श्रीकृष्णाय नमः

८.१.५८.१ एकाक्षरं ८.१.५८.२ विश्वे निमग्नः ८.१.५८.३ प्राणः प्रसूतिर् ८.१.५८.४ वितत्य बाणं ८.१.५८.५ त्वं वज्रभृद् ८.१.५८.६ धाता विधाता ८.१.५८.७ ऋचो यजूँषि ८.१.५८.८ स एष देवस् ८.१.५८.९ स सर्ववेत्ता ८.१.५८.१० सामैश्च साङ्गं43 ८.१.५८.११ त्वँ स्त्री पुमान् ८.१.५८.१२ मित्रस्सुपर्णस् ८.१.५८.१३ त्वं विष्णुर्भूतानि ८.१.५८.१४ त्वं भूर्भुवस्त्वँ ८.१.५८.१५ य एवं नित्यं ८.१.५८.१६ बुद्धिमतां परां गतिम् ८.१.५८.१७ ओं धनुषे नमः ८.१.५८.१८ शक्त्यै स्वाहा ८.१.५८.१९ गदायै वषट् ८.१.५८.२० खड्गाय हुम् ८.१.५८.२१ चक्राय वौषट् ८.१.५८.२२ वासुकये फट् ८.१.५८.२३ विष्णुर्मां रक्षतु ८.१.५८.२४ जाम्बूनदप्रभाय चक्रधराय केशवाय नमः ८.१.५८.२५ चन्द्रप्रभाय धनुर्धराय गोविन्दाय स्वाहा

८.१.५९.१ नीलजीमूतसन्निभाय शङ्खधराय44 नारायणाय वषट् ८.१.५९.२ पद्मकिञ्जल्कसन्निभाय हलधराय विष्णवे हुम् ८.१.५९.३ अरविन्दाभाय मुसलधराय मधुसूदनाय वौषट् ८.१.५९.४ ज्वलनप्रभाय खड्गधराय त्रिविक्रमाय फट् ८.१.५९.५ तरुणादित्यसन्निभाय वज्रधराय वामनाय नमः ८.१.५९.६ पुण्डरीकाक्षाय पट्टसधराय श्रीधराय स्वाहा ८.१.५९.७ इन्दीवरदल45श्यामाय कौमोदकीधराय गदाधराय वषट् ८.१.५९.८ विद्युत्प्रभाय मुद्गरधराय हृशीकेशाय हुम् ८.१.५९.९ चित्रवर्णधराय पाशहस्ताय विष्णवे वौषट् ८.१.५९.१० इन्द्रनीलप्रभायापराजिताय व्यापिनारायणाय फट्

८.१.६०.१ भूर्भुवस्सुवरोम् ८.१.६०.२ ओं नमो नारायणाय ८.१.६०.३ ब्रह्मैव भूतानां ज्येष्ठं तेन कोऽर्हति स्पर्धितुम् ८.१.६०.४ तत्त्सवितुर्वरेण्यम् ८.१.६०.५ आत्मात्मा परमान्तरात्मा ८.१.६०.६ सुवर्भुवर्भूः ८.१.६०.७ श्रिये जातः ८.१.६०.८ मेदिनी देवी ८.१.६०.९ संयुक्तमेतत्क्षऋअतेऽक्षरन् तु व्यक्ताव्यक्तं भवते विश्वमस्मात् ८.१.६०.१० आनीश आत्मा बद्ध्यते भोक्तृभावाद्ज्ञात्वा देवं मुच्यते सर्वपापैः

८.१.६१.१ इदं विष्णुः ८.१.६१.२ आयातु भगवान् ८.१.६१.३ ओं विष्णुमावाहयामि ८.१.६१.४ पुरुषमावाहयामि ८.१.६१.५ सत्यमावाहयामि ८.१.६१.६ अच्युतमावाहयामि ८.१.६१.७ अनिरुद्धमावाहयामि ८.१.६१.८ श्रिये जातश्श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिधा मितद्रौ ८.१.६१.९46 आयातु भगवती श्रीस्स्वर्णवर्णा सगणा ससैन्य श्री परमपुरुषसहाया सह देवताभिरनुमन्यताम्

८.१.६२.१ या पद्मासना पद्महस्ता हंसनिर्याख्यवाहिनी नित्यमृषिभिश्चानुगामिनी तामजां पुण्डरीकनेत्रीं भगवतीं श्रीम् ८.१.६२.२ ओं श्रियमावाहयामि ८.१.६२.३ धृतिमावाहयामि ८.१.६२.४ पवित्रीमावाहयामि ८.१.६२.५ प्रमोदायिनीमावाहयामि ८.१.६२.६ मेदिनी देवी वसुन्धरी स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितॄणाँ श्रोत्रं विष्णुर्मनः ८.१.६२.७47 आयातु भगवती हरिणी श्यामवर्णा सगणा ससैन्या श्री परमपुरुषसहाया सह देवताभिरनुमन्यताम् ८.१.६२.८ या नीलोत्पलासना नीलोत्पलहस्ता महाचातकवाहिनी नित्यमृषिभिश्चानुगामिनी तामजां नीलोत्पलनेत्रीं भगवतीं48 लम् ८.१.६२.९ ओं हरिणीमावाहयामि

८.१.६३.१ पौष्णीमावाहयामि ८.१.६३.२ क्षोनीमावाहयामि ८.१.६३.३ महीमावाहयामि ८.१.६३.४ ओं मह्यै नमः ८.१.६३.५ सर्वाधाराय नमः ८.१.६३.६ सनातनाय नमः ८.१.६३.७ दिव्याय नमः ८.१.६३.८ कमठरूपिणे 49नमः ८.१.६३.९ आदिकूर्माय नमः ८.१.६३.१० शेषाय नमः ८.१.६३.११ दिग्गजेभ्यो नमः ८.१.६३.१२ आधारशक्त्यै नमः ८.१.६३.१३ सप्तार्णवेभ्यो नमः ८.१.६३.१४ सहस्रपत्रयुतकमलाय नमः ८.१.६३.१५ रक्ताम्बुजमणियमपद्मपीठाय नमः ८.१.६३.१६ श्रीमन्नारायणाय नमः

८.०.४ सँश्रयाय नमो भूस्स्वगुणैर्ज्योतिरासीद्देवरीषत उत्पादयामि प्रतिष्ठापयामि प्रचोदयात्स्वाहा नमः प्रचोदयान्नमो नमो देवाय नमश्श्री कृष्णाय नमस्स्वाहा फट्50 सर्वपापैरनुमन्यतामावाहयामि नमष्षट्च

८.१.६४.१ प्र तद्विष्णुः ८.१.६४.२ अस्त्वासनं शुभं लोके ब्रुसी शुद्धस्तपोमयम् ८.१.६४.३ तपश्चायुस्तथा योगमस्तु ते परमं पदम् ८.१.६४.४ विश्वादिकानां जननादिकर्त्रे धात्रे तपोयज्ञसुवेदमूर्ते ८.१.६४.५ सुस्वागतं यत्र तं तत्र यस्मात्तत्ते पदँ51 सूरिभिस्स्वागतन् ते ८.१.६४.६ मनोऽभिमन्ता मानवस्सुधर्मा यन्मातरं वचसो मानसेषु अमोघमोघं प्रति वेदवेद्यस्वकं जनानामनुमन्यतामिदम् ८.१.६४.७ त्वँ स्त्री त्वं पुमान्मानसी52 त्वं देवकुमार इदं नादः कुमारी ८.१.६४.८ त्वं जीर्णस्त्वं जनिं गच्छसि त्वं जातो निवासीर्विश्वतो मुखः ८.१.६४.९ त्रीणि पदा

८.१.६५.१ इन्द्रोऽभिमन्ता मनवो वायवश्चापस्समग्रा अभितो यस्य दद्यात् ८.१.६५.२ विष्णो इमान् वैष्णवाँस्तर्पयामि प्रसीद देवाधिकतेजसैनम् ८.१.६५.३ अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ८.१.६५.४ आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ८.१.६५.५ त्रिर्देवः53 ८.१.६५.६ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु इन्द्र तानि त आ वृणे ८.१.६५.७ अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरं उत्ते शुष्मं त्रिरामसि ८.१.६५.८ योगेयोगे शं नो देवी ८.१.६५.९ घतात्परि मण्ड इवाप्सु स्नेहस्सर्वाधिकस्सर्वधत्तेषु शर्वः ८.१.६५.१० स चेतनश्चेतयते स्वशक्त्या ८.१.६५.११ एको लोकान् गर्भवत्पातु सर्वान् ८.१.६५.१२ विचक्रमे पृथिवी

८.०.५ त्रीणि पदा शं नो देवीश्चत्वारि च

८.१.६६.१ भूः प्रपद्ये ८.१.६६.२ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते ८.१.६६.३ त्रीणि पदा ८.१.६६.४ आ मा वाजस्य प्रसवो जगम्यादा द्यावापृथिवी विश्वशम्भू आ मा गन्तां पितरा मातरा चा मा सोमो अमृतत्वाय गम्यात् ८.१.६६.५ शं नो देवीः ८.१.६६.६ उपानहावध्यवरोहामि

८.१.६७.१ स्वस्ति नो मिमीताम् ८.१.६७.२ परं रंह आस्थास्ये ८.१.६७.३ प्र तद्विष्णुस्त्रीणि पदा शं नो देवीः ८.१.६७.४ अन्नाद्याय व्यूहध्वं दीर्घायुरहमन्नादो भूयासम् ८.१.६७.५ तेन मे तप तेन मे ज्वल तेन मे दीदिहि यावद्देवाः ८.१.६७.६ इदं ब्रह्म पुनीमहे ब्रह्म पुनातु ८.१.६७.७ योगेयोगे तवस्तरं वाजेवाजे हवामहे सखाय इन्द्रमूतये ८.१.६७.८ यन्मे गर्भे वसतः पापमुग्रं यज्जायमानस्य च किञ्च दैर्घ्यम् पापं जातस्य यस्य भुवि वर्ततो मे तस्य तत्पावमानीभिरहं पुनामि

८.१.६८.१ शं नो देवीः ८.१.६८.२ अतो देवाः इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.६८.३ ओं नमो नारायणाय ८.१.६८.४ कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः दृढा चिदारुजे वसु ८.१.६८.५ परिलिखितँ रक्षः परिलिखिता अरातयः ८.१.६८.६ परिलिखितस्सोऽस्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.६८.७ वारीश्चतस्रश्शन्नो देवीः ८.१.६८.८ नमो वरुणश्शुद्धश्शुद्धोऽहमस्मि ८.१.६८.९ शुद्धो ब्रह्मवीरो हरिर्यथा शुद्धः पञ्चभूतास्तथा शुद्धाश्शुद्धोऽहमस्मि

८.१.६९.१ ब्रह्माहमस्मि हरिरस्मि ८.१.६९.२ ईश ईशोऽस्मि भवं भवामहे ८.१.६९.३ सिनीवालिपृथुष्टुके या देवानामसि स्वसा जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ८.१.६९.४ भूरनिलया भूतया भूतया परिषिञ्चामि भुवस्सुषुम्नया प्राणवत्या परिषिञ्चामि स्वरमृतवत्या ज्योतिष्मत्या च परिषिञ्चामि ८.१.६९.५ ताँ सवितुर्वरेण्यस्य चित्रामहं54 वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत्प्रपीनाँ सहस्रधारां पयसा महीं गाम् ८.१.६९.६ अग्निमीळ इषे त्वोर्जे त्वा गन्धद्वारां सहस्रशीर्षा पुरुषः ८.१.६९.७ सहस्रशीर्षं देवमतो देवा

८.१.७०.१ मित्रस्सुपर्णश्चन्द्र इन्द्रोऽथ रुद्रस्त्वष्ता विष्णुस्सविता गोपतिस्त्वम् त्वं विष्णुर्भूतानि तत्रासि दैत्यस्त्वया वृतं जगदुल्बेन गर्भः ८.१.७०.२ अथा वयमादित्य व्रते तवानागसो अदितये स्याम ८.१.७०.३ युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः अवातिरतमनृतानि विश्वा ऋतेन मित्रा वरुणा सचेथे ८.१.७०.४ त्रीणि पदा शं नो देवीः ८.१.७०.५ भूरसि भूः प्रतिष्ठित्यै त्रिर्देवः ८.१.७०.६ अतो देवा ओं नमो नारायणाय

८.०.६ अवरोहाम्यहं पुनाम्यहमस्मि देवमतो देवा नारायणाय

८.१.७१.१ तेजो वत्स्यावस्सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ८.१.७१.२ सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूरा विश ८.१.७१.३ शं नो देवीः ८.१.७१.४ इदं ब्रह्म पुनीमहे ८.१.७१.५ ब्रह्म पुनातु ८.१.७१.६ शं नो देवीः ८.१.७१.७ ओं नमो नारायणाय ८.१.७१.८ विष्णोर्नु कम् ८.१.७१.९ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम्

८.१.७२.१ भूतो भूतेषु चरति प्रविष्टस्स भूतानामधिपतिर्बभूव ८.१.७२.२ तस्य मृत्यौ चरति राजसूयँ स राजा राज्यमनुमन्यतामिदम् ८.१.७२.३ तद्विष्णोः परमम् ८.१.७२.४ इमास्सुमनसश्श्रेष्ठा दिव्यपुष्पाधिवासिताः ८.१.७२.५ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ८.१.७२.६ तद्विप्रासः ८.१.७२.७ इमे गन्धास्55 सुरभिनो दिव्यगन्धाधिवासिताः ८.१.७२.८ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ८.१.७२.९ यदाञ्जनं त्रैककुदं जातँ हिमवत उपरि ८.१.७२.१० तेन वामाञ्जे तेजसे वर्चसे भगाय च

८.१.७३.१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ८.१.७३.२ विष्णवे नमः ८.१.७३.३ पुरुषाय नमः ८.१.७३.४ सत्याय नमः ८.१.७३.५ अच्युताय नमः ८.१.७३.६ अनिरुद्धाय नमः ८.१.७३.७ कपिलाय नमः ८.१.७३.८ यज्ञाय नमः ८.१.७३.९ नारायणाय नमः ८.१.७३.१० पुण्याय नमः

८.१.७४.१ श्रियै नमः ८.१.७४.२ धृत्यै नमः ८.१.७४.३ पवित्र्यै नमः ८.१.७४.४ प्रमोदायिन्यै नमः ८.१.७४.५ हरिण्यै नमः ८.१.७४.६ पौष्ण्यै नमः ८.१.७४.७ क्षोण्यै नमः ८.१.७४.८ मह्यै नमः ८.१.७४.९ वाराहाय नमः ८.१.७४.१० नारसिंहाय नमः

८.१.७५.१ वामनाय नमः ८.१.७५.२ त्रिविक्रमाय नमः ८.१.७५.३ सुभद्राय नमः ८.१.७५.४ ईशितात्मने नमः ८.१.७५.५ सर्वोद्वहाय नमः ८.१.७५.६ सर्वविद्येस्वराय नमः ८.१.७५.७ इन्द्राय नमः ८.१.७५.८ यमाय नमः ८.१.७५.९ वरुणाय नमः ८.१.७५.१० कुबेराय नमः

८.१.७६.१ अग्नये नमः ८.१.७६.२ निरृतये नमः ८.१.७६.३ वायवे नमः ८.१.७६.४ ईशानाय नमः ८.१.७६.५ सुभद्राय नमः ८.१.७६.६ हयात्मकाय नमः ८.१.७६.७ रामदेवाय नमः ८.१.७६.८ पुण्यदेवाय नमः ८.१.७६.९ सर्वाय नमः ८.१.७६.१० सुखावहाय नमः

८.१.७७.१ संवहाय नमः ८.१.७७.२ सुवहाय नमः ८.१.७७.३ शिवं प्रपद्ये ८.१.७७.४ विश्वं प्रपद्ये ८.१.७७.५ मित्रं प्रपद्ये ८.१.७७.६ अत्रिं प्रपद्ये ८.१.७७.७ सनत्कुमारं प्रपद्ये ८.१.७७.८ सनकं प्रपद्ये ८.१.७७.९ सनातनं प्रपद्ये ८.१.७७.१० सनंदनं प्रपद्ये

८.१.७८.१56 इन्द्राय नमः ८.१.७८.२ यमाय नमः ८.१.७८.३ वरुणाय नमः ८.१.७८.४ कुबेराय नमः ८.१.७८.५ अग्नये नमः ८.१.७८.६ निरृतये नमः ८.१.७८.७ वायवे नमः ८.१.७८.८ ईशानाय नमः ८.१.७८.९ परो मात्रया ८.१.७८.१० बृहस्पतिर्देवानाम्

८.१.७९.१ इमे धूपास्सुरभिनो दिव्यधूपाधिवासिताः ८.१.७९.२ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ८.१.७९.३ विष्णोः कर्माणि ८.१.७९.४ शुभ्रा ज्योतिश्च देवानां तेजश्च सततप्रभः प्रभास्करो महातेजा दीपोऽयं प्रतिगृह्यताम् ८.१.७९.५ त्रिर्देवः ८.१.७९.६ इन्द्रियाणि शतक्रतो त्रीणि पदा योगेयोगे शं नो देवीः ८.१.७९.७ शुची वो हव्याः ८.१.७९.८ वरुणमावाहयामि ८.१.७९.९ वाराहमावाहयामि

८.१.८०.१ नारसिंहमावाहयामि ८.१.८०.२ वामनमावाहयामि ८.१.८०.३ त्रिविक्रममावाहयामि ८.१.८०.४ श्रियमावाहयामि ८.१.८०.५ लक्ष्मीमावाहयामि ८.१.८०.६ सरस्वतीमावाहयामि ८.१.८०.७ भवमावाहयामि ८.१.८०.८ विष्णुस्त्वाँ रक्षतु शुभ्रा ज्योतिर्योगेयोगे शं नो देवीः ८.१.८०.९ ओं नमो भगवते वासुदेवाय ओं नमो नारायणाय

८.१.८१.१ देवस्य त्वा ८.१.८१.२ मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम् परमात्मानं मन्ये अजरं योऽग्निरहमन्नं वायवे ८.१.८१.३ सोमँ राजानम् ८.१.८१.४ मरुतो गणानां प्रथमस्सप्तधानां57 मूर्धा वायो अन्यमजरँ श्रियम् होतारं वै रयन् त्वाहुर्58 अग्ने हव्यं मरुद्भ्यः ८.१.८१.५ अश्वोऽसि हयोऽस्यतो59ऽसि नरोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणा असि ययुर्नामास्यादित्यानां पत्वान्विहि ८.१.८१.६ अतो देवा अग्निमीळे इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.८१.७ सोमँ राजानम् ८.१.८१.८ घृतात्परि मण्ड इवाप्सु स्नेहस्सर्वाधिकस्सर्वधत्तेषु शर्वः ८.१.८१.९ स चेतनश्चेतयते स्वशक्त्या ८.१.८१.१० एको लोकान् गर्भवत्पातु सर्वान् ८.१.८१.११ आ वात वाहि भेषजं वि वात वाहि यद्रपः त्वँ हि विश्वभेषजो देवानां दूत ईयसे ८.१.८१.१२ देवस्य त्वा ८.१.८१.१३ ओं नमो भगवते वासुदेवाय ८.१.८१.१४ ओं नमो नारायणाय

८.०.७ सुक्रतुं भगाय च पुण्याय नमो नारसिंहाय नमः कुबेराय नमस्सुखावहाय नमस्सनंदनं प्रपद्ये देवानां वाराहमावाहयामि नारायणाय सर्वधत्तेषु शर्वस्सप्त च

८.१.८२.१ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ८.१.८२.२ यन्मधुनो मधव्यम् ८.१.८२.३ योगेयोगे शं नो देवीः ८.१.८२.४ अथावनीदम् ८.१.८२.५ आ मा वाजस्य चित्रं देवानामादित्यमावाहयामि ८.१.८२.६ भास्करमावाहयामि ८.१.८२.७ सूर्यमावाहयामि ८.१.८२.८ विवस्वन्तमावाहयामि

८.१.८३.१ आदित्यं प्रपद्ये ८.१.८३.२ भास्करं प्रपद्ये ८.१.८३.३ सूर्यं प्रपद्ये ८.१.८३.४ मार्ताण्डं प्रपद्ये ८.१.८३.५ विवस्वन्तं प्रपद्ये ८.१.८३.६ देवस्य त्वा ८.१.८३.७ अमृतोपस्तरणमसि ८.१.८३.८ नारायणाय ८.१.८३.९ यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् ८.१.८३.१० तस्यामृतत्वस्येशानो ८.१.८३.११ माहं पौत्रमघँ रुदम्

८.१.८४.१ वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् ८.१.८४.२ तथामृतत्वस्येशानो ८.१.८४.३ माहं पौत्रमघँ रुदम् ८.१.८४.४ ओं नमो नारायणाय ८.१.८४.५ तत्सवितुर्वरेण्यम् अहमस्मि प्रथमजा60 ८.१.८४.६ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ८.१.८४.७ सुभूस्स्वयम्भूः प्रथमं61 महत्यर्णवे दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः ८.१.८४.८ विश्वभेषजँ सुभेषजम् ८.१.४८.९ यथा स्थित इदं मे विश्वभेषजम्

८.१.८५.१ अश्विना प्रावतं युवम् इदमहँ सेनाया अभीत्वर्यै ८.१.८५.२ त्वं जुषज62 भेषजं वैश्वानराय63 भेषजम् अथो अस्मभ्यं भेषजँ सुभेषजम् ८.१.८५.३ इदं विष्णुर्विचक्रमे योगेयोगे त्रिर्देवः ८.१.८५.४ त्रीणि पदा ८.१.८५.५ समाने वृक्षे पुरुषो निमग्नो इनीशतया शोचति मुह्यमानः जुष्टं यदा पश्यत्यन्यमीशं तदाभीमानमेति64 वीतशोकः ८.१.८५.६ योगेयोगे शन्नो देवीर्विचक्रमे पृथिवी ८.१.८५.७ ओं नमो भगवते वासुदेवाय

८.१.८६.१ ओं नमो नारायणाय ८.१.८६.२ भूः प्रपद्ये अतो देवा सहस्रशीर्षा पुरुषस्सहस्रशीर्षं देवमेकाक्षरं शुभ्रा ज्योतिः ८.१.८६.३ उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ८.१.८६.४ तत्सवितुर्वरेण्यम् ८.१.८६.५ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य त्रीधा बद्धो वृषभो रोरवीति महो देवो मर्त्या(ग्)मा विवेश ८.१.८६.६ इन्द्राय नमः ८.१.८६.७ ब्रह्मणे नमः ८.१.८६.८ सोमाय नमः

८.१.८७.१ यथा ह तत् ८.१.८७.२ अदिते इनुमन्यस्व ८.१.८७.३ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.८७.४ विष्णवे स्वाहा ८.१.८७.५ भूर्भुवस्सुवस्स्वाहा ८.१.८७.६ अग्निमीळ इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.८७.७ अदिते इन्वमँस्थाः ८.१.८७.८ भूतिस्मा ते ८.१.८७.९ आदित्यस्सोमो नमः ८.१.८७.१० आपो हि ष्ठा मयोभुवः ८.१.८७.११ यत्ते अग्ने ८.१.८७.१२ उद्वयन् तमसः ८.१.८७.१३ वैश्वानरस्य रूपम्

८.०.८ विवस्वन्तमावाहयामि पौत्रमघँ रुदं विश्वभेषजं वासुदेवाय सोमाय नमो भुवस्त्रीणि च

८.१.८८.१ त्रिर्देवः ८.१.८८.२ योगेयोगे शं नो देवीः ८.१.८८.३ विश्वान् बलिरक्षितसर्वदेवान् तस्माद्बलिँ रक्षतु भूतये ८.१.८८.४ बलिरक्षकमावाहयामि ८.१.८८.५ दन्ड्यमावाहयामि ८.१.८८.६ सर्वज्ञमावाहयामि ८.१.८८.७ सममावाहयामि ८.१.८८.८ शतधारँ हिरण्मयम् ८.१.८८.९ गरुडमावाहयामि

८.१.८९.१ रथन्तरमसि वामदेव्यमसि बृहदसि ८.१.८९.२ अङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनु सञ्चरन्तौ दूरे हेतिरिन्द्रियावान् पतत्री ते नोऽग्नयः पप्रयः पारयन्तु ८.१.८९.३ अयं वामश्विनौ65 रथो मा दुःखे मा सुखे रिषत् अरिष्ट स्वस्ति गच्छतु विविघ्नन् पृतना यतः ८.१.८९.४ इह धृतिरिह विधृतिरिह रन्तिरिह रमतिः ८.१.८९.५ स्वस्ति नो मिमीताम् ८.१.८९.६ योगेशमावाहयामि ८.१.८९.७ परब्रह्माणमावाहयामि ८.१.८९.८ परमात्मानमावाहयामि

८.१.९०.१ भक्तवत्सलमावाहयामि ८.१.९०.२ अतो देवा उद्यन्तं वावादित्यं देवस्य त्वा विष्णुस्त्वाँ रक्षतु ८.१.९०.३ सोमँ राजानं मरुतः परमात्मा ८.१.९०.४ वायुपरी जलशयनी स्वयन्धारा सत्यन्थो परिमेदिनी सोपरि धत्तंगाय ८.१.९०.५ मणिकाय नमः ८.१.९०.६ सन्ध्यायै नमः ८.१.९०.७ ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु ८.१.९०.८ विष्णोर्नु कं वीर्याणि सहस्रशीर्षा पुरुषः ८.१.९०.९ ओं नमो नारायणाय ८.१.९०.१० ओं नमो भगवते वासुदेवाय ८.१.९०.११ सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याः ८.१.९०.१२ उद्वयं तमसः ८.१.९०.१३ इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु ८.१.९०.१४ प्रजापतये पुष्टिपतयेऽग्निपतये रयिपतये कामायान्नाद्याय ८.१.९०.१५ अग्ने नय सुपथा66 राये अस्मान्

८.०.९ गरुडमावाहयामि परमात्मानमावाहयामि पुरुषस्सप्त च

८.१.९१.१ विष्णोर्नु कं वीर्याणि इमास्सुमनस इमे गन्धा इमे धूपाश्शुभ्रा ज्योतिः ८.१.९१.२ हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ८.१.९१.३ ये ते शतम् ८.१.९१.४ इदं विष्णुः ८.१.९१.५ योगेयोगे ८.१.९१.६ शं नो देवीर्विचक्रमे ८.१.९१.७ यमर्पयन्ति मुनयो हविर्योऽजोऽहिजानिर्विबुधा विराजन्न् तं मयि दोषा यस्याननाग्नौ विपिनानि पतन्तु

८.१.९२.१ शेषमावाहयामि ८.१.९२.२ सहस्रशीर्षमावाहयामि ८.१.९२.३ अनन्तमावाहयामि ८.१.९२.४ नागराजमावाहयामि ८.१.९२.५ यद्वैष्णवँ शयने शयानं तत्सह देवैस्सहऋषिभिः तत्सर्वदेवा अनुमन्यतां प्रोक्तो वैष्णवोऽहँ शयितं करोमि ८.१.९२.६ तँ शयने देवेशं दैत्यनाशाय तत्सर्वदेवैरनुमन्यताम् ८.१.९२.७ अविघ्नं पुण्यँ सम्पद्यतां तद्भगवाननुमन्यताम् ८.१.९२.८ यद्वैष्णवत्वँ समताँ समत्वं वैष्णवोऽहं वहतां वहामि ८.१.९२.९ विष्णोरहं जिष्णुमहः प्रपद्ये स्वाहा स्वधा वै शिरसा वहामि

८.१.९३.१ सिन्धोः पतिं वरुणं मा विदन्तु विष्णुं शयने शाययामि ८.१.९३.२ श्रिये जातः श्रियं शयने शाययामि ८.१.९३.३ मेदिनी देवी हरिणीं शयने शाययामि ८.१.९३.४ अग्निमीळ इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.९३.५ इयं जाग्रतिः प्रथमं प्रविश्य देवा भवन्तु मनुजा वरेण्यः ८.१.९३.६ महात्मन्ने नो हरते नमस्ते ८.१.९३.७ अघौघविध्वंसममुं कुरुष्व

८.१.९४.१ भूरग्नये च पृथिव्यै च महते च नमो भुवो वायवे चान्तरिक्षाय च महते च नमस्सुवरादित्याय च दिवे च महते च नमो भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च नमः67 ८.१.९४.२ यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानस्सचन्ते यत्र पूर्वे साध्यास्सन्ति देवाः ८.१.९४.३ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ८.१.९४.४ शुक्रन् त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ८.१.९४.५ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि

८.१.९५.१ आ त्वाहार्षमन्तरभूः ८.१.९५.२ ओमर्चितस्सुष्टुतश्चापि सुपर्णगरुडध्वज चक्रपाणे महाबाहो यथेष्टं वस ओं नमः ८.१.९५.३ सहस्रशीर्षा पुरुषः ८.१.९५.४ विष्णोर्नु कं वीर्याणि ८.१.९५.५ सहस्रशीर्षं देवम् ८.१.९५.६ नारायणाय ८.१.९५.७ अतो देवा ८.१.९५.८ ओं नमो नारायणाय ८.१.९५.९ ओं नमो भगवते वासुदेवाय ८.१.९५.१० सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याः

८.०.१० विपिनानि पतन्तु शिरसा वहाम्यमुं कुरुष्व बृहते करोमि वासुदेवायैकञ्च

८.१.९६.१ आशासु सप्तसु ८.१.९६.२ सोमँ राजानम् ८.१.९६.३ स्व्आसस्थं देवेभ्यः ८.१.९६.४ तत्त्सवितुः ८.१.९६.५ सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.९६.६ हिरण्यपाणिमूतये सवितारमुप ह्वये स चेत्ता देवता पदम् ८.१.९६.७ देवस्य त्वा ८.१.९६.८ ओं भूर्भुवस्सुवः ८.१.९६.९ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः68

८.१.९७.१ इषे त्वोर्जे त्वा ८.१.९७.२ शुची वो हव्या इमे धूपाः ८.१.९७.३ धारासु सप्तसु ८.१.९७.४ इदमापश्शिवाः ८.१.९७.५ अप उन्दन्तु जीवसे ८.१.९७.६ आपो वा इदँ सर्वम् ८.१.९७.७ धारासु सप्तसु ८.१.९७.८ उदु त्यं चित्रम् ८.१.९७.९ इन्द्राविष्णू हविषा वावृधानाग्राध्वाना नमसा रातहव्या घृतासुती द्रविणं धत्तमस्मे समुद्रस्थः कलशस्सोमधानः69

८.१.९८.१ शुक्रन् ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ८.१.९८.२ सोम ओषधीनां वरुणो बृहस्पतिः ८.१.९८.३ प्रजापते न त्वदेतानि…70 ८.१.९८.४ अन्ये देवा नीरदाः ८.१.९८.५ शँ सा नि[यच्छत्य्] नमस्सुलोम स एकोऽभूद्देवस्य त्वा ८.१.९८.६ अतो देवा क्ष्मामेकान् तन्मा यशोऽग्रे ब्रह्मा देवानाम् ८.१.९८.७ इदं विष्णुः ८.१.९८.८ शुक्रमसि ज्योतिरसि तेजोऽसि देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिश् शुक्रन् त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे ग्र्ह्णामि

८.१.९९.१ दधिक्राव्णो71 अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्र ण आयूँषि तारिषत् ८.१.९९.२ आ प्यायस्व समेतु ते विश्वतस्सोम वृष्णियम्72 भवा वाजस्य सङ्गथे73 ८.१.९९.३ गन्धद्वारान् दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरीँ सर्वभूतानां तामिहोप ह्वये श्रियम् ८.१.९९.४ तत्सवितुर्वरेण्यम् ८.१.९९.५ त्र्य्अम्बकम् ८.१.९९.६ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुतः

८.१.१००.१ घृतप्रतीको घृतयोनिरग्निर्घृतैस्समिद्धो घृतमस्यान्नम् घृतपृषस्त्वा सरितो वहन्ति घृतं पिबन्त्सुयजा यक्षि देवान् ८.१.१००.२ यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् तेनाहं मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमोऽन्नादो मधव्योऽसानि ८.१.१००.३ दधिक्राव्णः74 ८.१.१००.४ शं नो देवीरा प्यायस्व ८.१.१००.५ गन्धद्वारामिमा ओषधयः ८.१.१००.६ सोमँ राजानम् ८.१.१००.७ यतस्75 स्वमासीदतो देवा ८.१.१००.८ ब्रह्मा देवानाम्

८.१.१०१.१ चित्रन् देवानामिमास्सुमनसः ८.१.१०१.२ वन्द्यो76 न एष वसुषु निदध्यात् त्रिधा त्रिधामा बिभृयाददीनान् ८.१.१०१.३ ये ते शतं वारीश्चतस्रः ८.१.१०१.४ रुद्रमन्यं सिनीवालीमे गन्धाः ८.१.१०१.५ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ८.१.१०१.६ नारायणाय ८.१.१०१.७ ओं जयामावाहयामि ८.१.१०१.८ इन्द्रं प्रणयन्तम्

८.१.१०२.१ ऋचो यजूँषि प्रैषामधीशश्शतधारँ हिरण्मयम् ८.१.१०२.२ कनिक्रदज्जनुषम् ८.१.१०२.३ परं रंह आस्थास्ये ८.१.१०२.४ ओं सुवर्भुवर्भूः ८.१.१०२.५ त्रीणि पदा शं नो देवीः ८.१.१०२.६ कृणुष्व पाजस्स्वस्तिदा विशस्पतिः ८.१.१०२.७ वेदाहमेतं यद्वैष्णवँ शयने शयानम् ८.१.१०२.८ अग्निमीळे इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.१०२.९ आपो हि ष्ठा मयोभुवः ८.१.१०२.१० हिरण्यवर्णाः पवमानस्सुवर्जनः

८.१.१०३.१ भूमिर्भूम्ना ८.१.१०३.२ ओं भूमिमावाहयामि ८.१.१०३.३ उर्वीमावाहयामि ८.१.१०३.४ धरणीमावाहयामि ८.१.१०३.५ रत्नगर्भामावाहयामि ८.१.१०३.६ हरिणीमावाहयामि ८.१.१०३.७ पौष्णीमावाहयामि ८.१.१०३.८ क्षोणीमावाहयामि ८.१.१०३.९ महीमावाहयामि ८.१.१०३.१० अग्ने नय सुपथा राये अस्मान्

८.१.१०४.१ अग्निमावाहयामि ८.१.१०४.२ जातवेदसमावाहयामि ८.१.१०४.३ सहोजसमावाहयामि ८.१.१०४.४ अजिराप्रभमावाहयामि ८.१.१०४.५ वैश्वाणरमावाहयामि ८.१.१०४.६ नर्यापसमावाहयामि ८.१.१०४.७ पङ्क्तिराधसमावाहयामि ८.१.१०४.८ विसर्पिणमावाहयामि ८.१.१०४.९ मरुतः परमात्मा ८.१.१०४.१० वायुमावाहयामि

८.१.१०५.१ जवनमावाहयामि ८.१.१०५.२ भूतात्मकमावाहयामि ८.१.१०५.३ उदानमावाहयामि ८.१.१०५.४ शतधारँ हिरण्मयम् ८.१.१०५.५ तार्क्ष्यमावाहयामि ८.१.१०५.६ पक्षिरूपमावाहयामि ८.१.१०५.७ सुपर्णमावाहयामि ८.१.१०५.८ अङ्कुराधिपमावाहयामि ८.१.१०५.९ इन्द्रं प्रणयन्तम् ८.१.१०५.१० इन्द्रमावाहयामि

८.१.१०६.१ शचीपतिमावाहयामि ८.१.१०६.२ पुरुहूतमावाहयामि ८.१.१०६.३ पुरन्दरमावाहयामि ८.१.१०६.४ हरिहयमावाहयामि ८.१.१०६.५ वज्रपाणिमावाहयामि ८.१.१०६.६ अर्यम्णमावाहयामि ८.१.१०६.७ त्रिलोकाधिपमावाहयामि ८.१.१०६.८ रुद्रमन्यम् ८.१.१०६.९ पञ्चगव्यमावाहयामि ८.१.१०६.१० शिवमावाहयामि

८.१.१०७.१ ईशमावाहयामि ८.१.१०७.२ अव्यक्तमावाहयामि ८.१.१०७.३ विश्वे देवाश्शृणुतेमँ हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ८.१.१०७.४ विश्वान् देवानावाहयामि ८.१.१०७.५ सर्वान् देवानावाहयामि ८.१.१०७.६ विश्वपुत्रानावाहयामि ८.१.१०७.७ धर्मसूनुकानावाहयामि ८.१.१०७.८ अग्न आ याहि ८.१.१०७.९ घृतमावाहयामि

८.१.१०८.१ सामवेदमावाहयामि ८.१.१०८.२ वज्रमावाहयामि ८.१.१०८.३ यज्ञमावाहयामि ८.१.१०८.४ संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीदुवत्सरोऽसि इद्वत्सरोऽसि वत्सरोऽसि तस्य ते वसन्तश्शिरः ८.१.१०८.५ वत्सरानावाहयामि ८.१.१०८.६ वसुसुतानावाहयामि ८.१.१०८.७ निधीनावाहयामि ८.१.१०८.८ धर्मसूनुकानावाहयामि ८.१.१०८.९ अग्निमीळे

८.१.१०९.१ मधु आवाहयामि ८.१.१०९.२ ऋग्वेदमावाहयामि ८.१.१०९.३ सोममावाहयामि ८.१.१०९.४ क्रतुमावाहयामि ८.१.१०९.५ मरुतः परमात्मा ८.१.१०९.६ प्राणमावाहयामि ८.१.१०९.७ अपानमावाहयामि ८.१.१०९.८ व्यानमावाहयामि ८.१.१०९.९ उदानमावाहयामि ८.१.१०९.१० समानमावाहयामि

८.१.११०.१ इषे त्वोर्जे त्वा ८.१.११०.२ दधि आवाहयामि ८.१.११०.३ यजुर्वेदमावाहयामि ८.१.११०.४ इष्टमावाहयामि ८.१.११०.५ मिश्रमावाहयामि ८.१.११०.६ त्र्य्अम्बकं यजामहे ८.१.११०.७ ईशानमावाहयामि ८.१.११०.८ कपालिनमावाहयामि ८.१.११०.९ भवमावाहयामि ८.१.११०.१० सुहादेवमावाहयामि

८.१.१११.१ शं नो देवीः क्षीरमावाहयामि ८.१.१११.२ अथर्ववेदमावाहयामि ८.१.१११.३ पवित्रमावाहयामि ८.१.१११.४ पुण्यमावाहयामि ८.१.१११.५ तदश्विनावश्वयुजोपयातां शुभं गमिष्ठौ सुयमेभिरश्वैः स्वं नक्षत्रँ हविषा यजन्तौ मध्वा संपृक्तौ यजुषा समक्तौ ८.१.१११.६ अश्विनावावाहयामि ८.१.१११.७ मरुतावावाहयामि ८.१.१११.८ युग्ममावाहयामि

८.१.११२.१ त्वाष्ट्र77पुत्रावावाहयामि ८.१.११२.२ वसन्तेनर्तुना देवाः वसवस्त्रिवृता स्तुतम् रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः78 ८.१.११२.३ शडृतूनावाहयामि ८.१.११२.४ सहराशीनावाहयामि ८.१.११२.५ गन्धानावाहयामि ८.१.११२.६ तीर्थानावाहयामि ८.१.११२.७ आ वायो भूष शुचिपा उप नस्सहस्रन् ते नियुतो विश्ववार उपो ते अन्धो79 मद्यमयामि यस्य देव दधिषे पूर्वपेयम्

८.१.११३.१ मरुतानावाहयामि ८.१.११३.२ लोकधरानावाहयामि ८.१.११३.३ सप्तसप्तगणानावाहयामि ८.१.११३.४ मरुद्वतीसुतानावाहयामि ८.१.११३.५ प्रजापतिं प्रथमं यज्ञियानाम् ८.१.११३.६ अक्षतानावाहयामि ८.१.११३.७ काश्यपमावाहयामि ८.१.११३.८ अनन्तमावाहयामि ८.१.११३.९ विश्वमूर्तिमावाहयामि ८.१.११३.१० बृहस्पते अति यत्

८.१.११४.१ बृहस्पतिमावाहयामि ८.१.११४.२ पीतवर्णमावाहयामि ८.१.११४.३ गुरुमावाहयामि ८.१.११४.४ तैष्यमावाहयामि ८.१.११४.५ सोमो धेनुं फलोदकमावाहयामि ८.१.११४.६ सोममावाहयामि ८.१.११४.७ पुण्यमावाहयामि ८.१.११४.८ अमितमावाहयामि ८.१.११४.९ शं नो निधत्ताम्

८.१.११५.१ नागराजमावाहयामि ८.१.११५.२ सहस्रशीर्षमावाहयामि ८.१.११५.३ अनन्तमावाहयामि ८.१.११५.४ वासुकिमावाहयामि ८.१.११५.५ यतस्80 स्वमासीत् ८.१.११५.६ कुशानावाहयामि ८.१.११५.७ तपोनथान्81 आवाहयामि ८.१.११५.८ मुनीनावाहयामि ८.१.११५.९ पापविनाशिन आवाहयामि ८.१.११५.१० यमर्पयन्ति

८.१.११६.१ तक्षकमावाहयामि ८.१.११६.२ सर्पराजमावाहयामि ८.१.११६.३ क्षितिजमावाहयामि ८.१.११६.४ धराधरमावाहयामि ८.१.११६.५ इदं विष्णुः ८.१.११६.६ रत्नमावाहयामि ८.१.११६.७ विष्णुमावाहयामि ८.१.११६.८ व्यापिनमावाहयामि ८.१.११६.९ विश्वमावाहयामि ८.१.११६.१० अप्सरस्सु यो गन्धो गन्धर्वेषु च यद्यशः दैवो यो मानुषो गन्धस्स मा गन्धस्सुरभिर्जुषताम्82

८.१.११७.१ गन्धर्वानावाहयामि ८.१.११७.२ रम्यानावाहयामि ८.१.११७.३ स्वरजानावाहयामि ८.१.११७.४ सौम्यजानावाहयामि ८.१.११७.५ यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ८.१.११७.६ जप्यमावाहयामि ८.१.११७.७ पवित्रमावाहयामि ८.१.११७.८ मन्त्रमावाहयामि ८.१.११७.९ शुद्धमावाहयामि

८.१.११८.१ इह पुष्टिं पुष्टिपतिर्दधातु ८.१.११८.२ विद्याधरानावाहयामि ८.१.११८.३ मन्त्रबलानावाहयामि ८.१.११८.४ पुष्पजानावाहयामि ८.१.११८.५ भोगजानावाहयामि ८.१.११८.६ चित्रन् देवानाम् ८.१.११८.७ सर्वौषधमावाहयामि ८.१.११८.८ आदित्यमावाहयामि ८.१.११८.९ अण्डजमावाहयामि ८.१.११८.१० सूर्यमावाहयामि

८.१.११९.१ अप्सरासु या मेधा गन्धर्वेषु च यन्मनः दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् ८.१.११९.२ अप्सरस आवाहयामि ८.१.११९.३ मुदावहा आवाहयामि ८.१.११९.४ भोगवहा आवाहयामि ८.१.११९.५ स्वप्नजा आवाहयामि ८.१.११९.६ धातास्य विश्वं हि बिभर्ति यो वै पुष्पाणि रक्षन्निह जीवलोके ८.१.११९.७ धातारमावाहयामि ८.१.११९.८ सुरज्येष्ठमावाहयामि

८.१.१२०.१ परमेष्ठिनमावाहयामि ८.१.१२०.२ चतुराननमावाहयामि ८.१.१२०.३ भूमानन्तोऽग्रे चक्रमावाहयामि ८.१.१२०.४ सुदर्शनमावाहयामि ८.१.१२०.५ सहस्रविकचमावाहयामि ८.१.१२०.६ अनपायिनमावाहयामि ८.१.१२०.७ उदुत्तमम् ८.१.१२०.८ वरुणमावाहयामि ८.१.१२०.९ प्रचेतसमावाहयामि

८.१.१२१.१ रक्ताम्बरधरमावाहयामि ८.१.१२१.२ यादस्पतिमावाहयामि ८.१.१२१.३ जगद्भुवम् ८.१.१२१.४ जगद्भुवमावाहयामि ८.१.१२१.५ यजद्भुवमावाहयामि ८.१.१२१.६ विश्वभुवमावाहयामि ८.१.१२१.७ ब्रह्मभुवमावाहयामि ८.१.१२१.८ रुद्रभुवमावाहयामि ८.१.१२१.९ भुवद्भुवमावाहयामि ८.१.१२१.१० रुद्रमन्यम्

८.१.१२२.१ रुद्रमावाहयामि ८.१.१२२.२ ओषधीशानावाहयामि ८.१.१२२.३ त्र्य्अम्बकमावाहयामि ८.१.१२२.४ कपालिनमावाहयामि ८.१.१२२.५ सिनीवालिपृथुष्टुके ८.१.१२२.६ सिनीवालिमावाहयामि ८.१.१२२.७ गभस्तिनीमावाहयामि ८.१.१२२.८ हितदामावाहयामि ८.१.१२२.९ पुण्यदामावाहयामि ८.१.१२२.१० त्रातारमिन्द्रम्

८.१.१२३.१ इन्द्रमावाहयामि ८.१.१२३.२ भोगमावाहयामि ८.१.१२३.३ गन्धमावाहयामि ८.१.१२३.४ शतक्रतुमावाहयामि ८.१.१२३.५ हिरण्यगर्भस्समवर्तताग्रे ८.१.१२३.६ त्वष्टारमावाहयामि ८.१.१२३.७ रूपजातमावाहयामि ८.१.१२३.८ निधिजमावाहयामि ८.१.१२३.९ प्लोताधिपमावाहयामि ८.१.१२३.१० प्रजापते त्वं निधिपाः पुराणो देवानां पिता जनिता प्रजानाम् पतिर्विश्वस्य जगतः परस्पा हविर्नो देव विहवे जुषस्व83

८.१.१२४.१ प्रजापतिमावाहयामि ८.१.१२४.२ स्रष्टारमावाहयामि ८.१.१२४.३ वेदमयमावाहयामि ८.१.१२४.४ ब्रह्मरूपमावाहयामि ८.१.१२४.५ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ८.१.१२४.६ दुर्गामावाहयामि ८.१.१२४.७ कात्यायनीमावाहयामि ८.१.१२४.८ वैष्णवीमावाहयामि

८.१.१२५.१ विन्ध्यवासिनीमावाहयामि ८.१.१२५.२ आ सत्येन ८.१.१२५.३ आदित्यमावाहयामि ८.१.१२५.४ काश्यपमावाहयामि ८.१.१२५.५ भास्करमावाहयामि ८.१.१२५.६ सूर्यमावाहयामि ८.१.१२५.७ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु तेभिर्नो विश्वैस्सुमना अहेदन् राजन्थ्84 सोम प्रति हव्या गृभाय ८.१.१२५.८ निशाकरमावाहयामि ८.१.१२५.९ चन्द्रमावाहयामि

८.१.१२६.१ आत्रेयमावाहयामि ८.१.१२६.२ इन्दुमावाहयामि ८.१.१२६.३ जगद्भुवस्सुब्रह्मण्यः कृत्तिकासुतः षष्टिकाय ८.१.१२६.४ कुमारमावाहयामि ८.१.१२६.५ शक्तिधरमावाहयामि ८.१.१२६.६ शिखिवाहमावाहयामि ८.१.१२६.७ षड्आननमावाहयामि ८.१.१२६.८ अग्निं दूतम् ८.१.१२६.९ अग्निमावाहयामि

८.१.१२७.१ जातवेदसमावाहयामि ८.१.१२७.२ पावकमावाहयामि ८.१.१२७.३ हुताशनमावाहयामि ८.१.१२७.४ रक्षस्व त्वं महाबाहो सम्पूर्णान् देवपूरितान् ईडितांस्त्रिदशैस्तीर्थैः पवित्रानुत्तमाञ्छुभान् ८.१.१२७.५ हर स्वेदं वरं दिव्यं कलशं समलङ्कृतम् नवद्वयगणैः पूज्यं पुरुषाय समानय ८.१.१२७.६ एकाक्षरम् ८.१.१२७.७ विष्णुं मृदा स्नापयामि ८.१.१२७.८ विश्वे निमग्नः

८.१.१२८.१ विष्णुं पर्वतेन प्रदक्षिणं कारयामि ८.१.१२८.२ प्राण प्रसूतिः ८.१.१२८.३ विष्णुं धान्यैस्स्नापयामि ८.१.१२८.४ वितत्य बानम् ८.१.१२८.५ विष्णुमङ्कुरैरर्चयामि ८.१.१२८.६ त्वं वज्रभृत् ८.१.१२८.७ विष्णुं मंगलेन85 प्रदक्षिणं कारयामि ८.१.१२८.८ वसोः पवित्रमसि ८.१.१२८.९ विष्णुं पञ्चगव्येन स्नापयामि ८.१.१२८.१० वारीश्चतस्रः

८.१.१२९.१ विष्णुमुपस्नानेन स्नापयामि ८.१.१२९.२ आपो हि ष्ठा मयोभुवः ८.१.१२९.३ विष्णुमुष्णोदकेन स्नापयामि ८.१.१२९.४ अग्न आ याहि ८.१.१२९.५ विष्णुं घृतेन स्नापयामि ८.१.१२९.६ अग्निमीळे ८.१.१२९.७ विष्णुं मधुना स्नापयामि ८.१.१२९.८ इषे त्वोर्जे त्वा ८.१.१२९.९ विष्णुं दध्ना स्नापयामि ८.१.१२९.१० शं नो देवीः

८.१.१३०.१ विष्णुं क्षीरेण स्नापयामि ८.१.१३०.२ अभि त्वा शूर ८.१.१३०.३ विष्णुं गन्धोदकेन स्नापयामि ८.१.१३०.४ इमा ओषधयः ८.१.१३०.५ विष्णुमक्षतोदकेन स्नापयामि ८.१.१३०.६ जपन् दत्वानुवदेम साम सोमान्ध्य मान्दोः कर्मण्यन्ध मान्धो निनतु ८.१.१३०.७ विष्णुं फलोदकेन स्नापयामि ८.१.१३०.८ चत्वारि वाक् ८.१.१३०.९ विष्णुं कुशोदकेन स्नापयामि

८.१.१३१.१ नारायणाय ८.१.१३१.२ विष्णुं रत्नोदकेन स्नापयामि ८.१.१३१.३ पूतस्तस्य ८.१.१३१.४ विष्णुं जप्योदकेन स्नापयामि ८.१.१३१.५ चत्वारि शृङ्गा त्रयो अस्य पादाः ८.१.१३१.६ विष्णुं सर्वौशध्य्उदकेन स्नापयामि ८.१.१३१.७ धाता विधाता ८.१.१३१.८ विष्णुं पुण्यपुष्पैरर्चयामि ८.१.१३१.९ ऋचो यजूँषि ८.१.१३१.१० विष्णुं जातीफलादिचूर्नेन स्नापयामि

८.१.१३२.१ स एष देवोऽम्बरयानचक्रे विष्णुं कषायचूर्णेनोद्वर्तयामि ८.१.१३२.२ स सर्ववेत्ता ८.१.१३२.३ विष्णुं तीर्थोदकैस्स्नापयामि ८.१.१३२.४ सामैश्च साङ्गम् ८.१.१३२.५ विष्णुं वनौषधीभिर्मार्जयामि ८.१.१३२.६ अतो देवा ८.१.१३२.७ विष्णुं हरिद्राचूर्णेन स्नापयामि ८.१.१३२.८ त्वँ स्त्री पुमान् ८.१.१३२.९ विष्णुं सर्वगन्धेनोद्वर्तयामि

८.१.१३३.१ आपो हि ष्ठा मयोभुवः ८.१.१३३.२ विष्णुमुष्णोदकेन स्नापयामि ८.१.१३३.३ सहस्रशीर्षा पुरुषः ८.१.१३३.४ विष्णुं शुद्धोदकेन स्नापयामि ८.१.१३३.५ योगेयोगे शं नो देवीः ८.१.१३३.६ मित्रस्सुपर्णः ८.१.१३३.७ विष्नुं प्लोतेन विमृजामि ८.१.१३३.८ तेजो वत्स्यावस्सोमस्य तनूरसि भूतो भूतेषु चरति प्रविष्ठः ८.१.१३३.९ अग्निं दूतम् ८.१.१३३.१० त्वं भूर्भुवस्त्वम् ८.१.१३३.११ विष्णुं मूलगन्धेन मार्जयामि ८.१.१३३.१२ बुद्धिमतां पराङ्गतिम् ८.१.१३३.१३ विष्णुं धातुभिरलङ्करोमि ८.१.१३३.१४ कनिक्रदज्जनुषम्

८.०.११ धियस्ता रातहव्या यजुषे गृह्णामि पातवे सुतर्देवानां प्रणयन्तं सुवर्जन अग्ने नय सुपथा राये अस्मान् वायुमावाहयामीन्द्रमावाहयामि शिवमावाहयामि घृतमावाहयाम्यग्निमीळे समानमावाहयामि महादेवमावाहयामि युग्ममावाहयामि पूर्वपेयमति यच्छं नो निधत्तां यमर्पयन्ति यशश्शुद्धमावाहयामि सूर्यमावाहयामि सुरज्येष्ठमावाहयामि प्रचेतसमावाहयामि रुद्रमन्यं त्रातारमिन्द्रं प्रजानां वैष्णवीमावाहयामि चन्द्रमावाहयाम्यग्निमावाहयामि विश्वे निमग्न वारीश्चतस्रश्शं नो देवीः कुशोदकेन स्नापयामि चूर्णेन स्नापयामि गन्धेनोद्वर्तयाम्यग्निं दूतं पञ्च च

८.१.१३४.१ वास्तोष्पते दद्भ्यस्स्वाहा ८.१.१३४.२ शतधारं कदापि सृजते ८.१.१३४.३ आसाग्र अग्र ओजोबलाय ८.१.१३४.४ अतो देवा इदं विष्णुः ८.१.१३४.५ आपो हि ष्ठा मयोभुवः ८.१.१३४.६ धारासु सप्तसु ८.१.१३४.७ इदमापश्शिवाः ८.१.१३४.८ आपो वा इदँ सर्वं ८.१.१३४.९ नारायणाय

८.१.१३५.१ तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि तं नो गरुडः प्रचोदयात् ८.१.१३५.२ इषे त्वोर्जे त्वा ८.१.१३५.३ आप उन्दंतु ८.१.१३५.४ सहस्रशीर्षा पुरुषः ८.१.१३५.५ अतो देवा इदं विष्णुः ८.१.१३५.६ आपो हि ष्ठा मयोभुवः ८.१.१३५.७ हिरण्यवर्णाः पवमानस्सुवर्जनः ८.१.१३५.८ शं नो देवीस्सहस्रशीर्षा पुरुषः ८.१.१३५.९ अतो देवा इदं विष्णुः

८.१.१३६.१ आत्मात्मा धारासु सप्तसु ८.१.१३६.२ वैनतेयो महावीर्यः काश्यपोऽग्निसमप्रभः आयातु भगवान् राजा सर्पजिद्विष्णुवाहनः ८.१.१३६.३ शतधारं कदापि सृजते ८.१.१३६.४ आपो हि ष्ठा मयोभुवः ८.१.१३६.५ हिरण्यवर्णाः पवमानस्सुवर्जनः ८.१.१३६.६ स्वस्तिदा विशस्पतिः ८.१.१३६.७ वेदाहमेतम् ८.१.१३६.८शतधारं कदापि सृजते ८.१.१३६.९86 ओमायातु तार्क्ष्य बीजाक्षर रक्तवर्ण श्वेतानन वज्रनख वज्रपक्ष स्वामिकार्य धुरंधराष्टनागसहित मरुत्सहाय सह देवताभिरनुमन्यताम्

८.१.१३७.१ यस्तु शुकवर्णांबरधरः पुष्करसञ्चारिणं लोहिताक्षं गरुत्मन्तमोम् ८.१.१३७.२ गरुडमावाहयामि ८.१.१३७.३ पक्षिराजमावाहयामि ८.१.१३७.४ सुपर्णपक्षमावाहयामि ८.१.१३७.५ खगाधिपतिमावाहयामि ८.१.१३७.६ अतो देवा विष्णोर्नु कँ सहस्रशीर्षा पुरुषः ८.१.१३७.७ आसाग्र अग्र ओजोबलाय ८.१.१३७.८ शतधारं कदापि सृजते ८.१.१३७.९ भूस्स्वाहा ८.१.१३७.१० शतधारं कदापि सृजते ८.१.१३७.११ ओं भूः गरुडमावाहयामि ८.१.१३७.१२ तत्पुरुषाय विद्महे ८.१.१३७.१३ आग्नेयो यस्मात् ८.१.१३७.१४ प्रैषामधीशः ८.१.१३७.१५ भूमानन्तोऽग्रे वन्द्यो न एषः

८.०.१२ विद्महे विष्णुरनुमन्यतां सृजते पञ्च च

८.१.१३८.१ शुची वो हव्या ८.१.१३८.२ अग्निश्शुचिः ८.१.१३८.३ ओं भूतेशमावाहयामि ८.१.१३८.४ महाभूतमावाहयामि ८.१.१३८.५ विष्णुभक्तमावाहयामि ८.१.१३८.६ गदाधरमावाहयामि ८.१.१३८.७ प्रजापतिमावाहयामि ८.१.१३८.८ शेषमावाहयामि ८.१.१३८.९ सूर्यमावाहयामि ८.१.१३८.१० चन्द्रमावाहयामि

८.१.१३९.१ सप्तमातॄरावाहयामि ८.१.१३९.२ भूमिमावाहयामि ८.१.१३९.३ वृषभमावाहयामि ८.१.१३९.४ इन्द्रमावाहयामि ८.१.१३९.५ वाचस्पतिमावाहयामि ८.१.१३९.६ नंदीशमावाहयामि ८.१.१३९.७ अदिते इनुमन्यस्व ८.१.१३९.८ भूतेशाय स्वाहा ८.१.१३९.९ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.१३९.१० भूस्स्वाहा

८.१.१४०.१ अदिते इन्वमँस्थाः ८.१.१४०.२ उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् स दुंदुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ८.१.१४०.३ आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः अप प्रोथ दुंदुभे दुच्छुनाँ87 इत इन्द्रस्य मुष्टिरसि वीडयस्व ८.१.१४०.४ आमूरज प्रत्यावर्तयेमाः केतुमद्दुंधुभिर्वावदीति समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ८.१.१४०.५ ओं भूर्भुवस्सुवः ८.१.१४०.६ इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयित् ८.१.१४०.७ यज्ञस्य घोषदसि

८.०.१३ चन्द्रमावाहयामि भूस्स्वाहा यज्ञस्य घोषदसि

८.१.१४१.१ उद्यन्तं बृहस्पते अति यत् ८.१.१४१.२ मार्कण्डेयाय नमः ८.१.१४१.३ भृगवे नमः ८.१.१४१.४ ब्रह्म जज्ञानम् ८.१.१४१.५ पिता विराजां ब्रह्म देवा अन्तरस्मिन् ब्रह्मन् देवाश्चतस्र आशाः

८.०.१४ उद्यन्तं पञ्च च

८.१.१४२.१ हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीन् द्यामुतेमां कस्मै देवाय हविषा विधेम ८.१.१४२.२ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ८.१.१४२.३ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ८.१.१४२.४ यस्येमे हिमवन्तो महित्वा यस्य समुद्रँ रसया सहाहुः यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ८.१.१४२.५ यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने यत्राधि सूर उदितौ व्येति88 कस्मै देवाय हविषा विधेम ८.१.१४२.६ येन द्यौरुग्रा पृथिवी च दृढे89 येन सुवस्स्तभितं येन नाकः यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ८.१.१४२.७ आपो ह यन्महतीर्90 विश्वमायन् दक्षं91 दधाना जनयन्तीरग्निम् ततो देवानां निरवर्ततासुर्92 एकः कस्मै देवाय हविषा विधेम ८.१.१४२.८ यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीरग्निम्93 यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम

८.०.१५ विधेम षट्च

८.१.१४३.१ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः अस्माकमस्तु केवलः ८.१.१४३.२ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ८.१.१४३.३ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु इन्द्र तानि त आ वृणे ८.१.१४३.४ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनुवृत्र हत्यै94 अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनुते नृषह्ये ८.१.१४३.५ युजे रथं गवेषणँ हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः वि बाधिष्टा95 स्य रोदसी महित्वा इन्द्रो वृत्राण्यप्रती जघन्वान्96

८.१.१४४.१ इन्द्रं नरो युजे रथम् ८.१.१४४.२ जगृभ्णा97 ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् विद्मा हि त्वा गोपतिँ शूर गोनामस्मभ्यं चित्रं वृषणँ रयिं दाः ८.१.१४४.३ तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षुषा सूर्यस्य गवामसि गोपतिरेक इन्द्रः भक्षीमहि ते प्रयतस्य वस्वः98

८.१.१४५.१ समिन्द्र णो मनसा नेषि गोभिः सँ सूरिभिर्मघवन्थ्99 सँ स्वस्त्या100 सं ब्रह्मणा देवकृतं101 यदस्ति सं देवानाँ सुमत्या यज्ञियानाम् ८.१.१४५.२ आराच्छत्रुमप बाधस्व दूरमुग्रो यश्शम्बः102 पुरुहूत तेन अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ८.१.१४५.३ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचस्सुदिनत्वमह्नाम् ८.१.१४५.४ भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः भुवो नॄँश्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ८.१.१४५.५ इन्द्रं प्रणयन्तं वपुरिन्द्रँ स्रवन्तँ सवितारमिन्द्रं दधातु शक्रस्सुकृतष्य लोकमिन्द्रं मन्ये पितरं मातारञ्च ८.१.१४५.६ एन्द्र सानसिँ रयिँ सजित्वानँ सदासहम्103 वर्षिष्ठमूतये भर

८.०.१६ जुजुषाणमस्थुरेक इन्द्रोऽस्मे सप्त च

८.१.१४६.१ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान् ते नमोक्तिं विधेम ८.१.१४६.२ प्र वश्शुक्राय भानवे भरध्वँ हव्यं मतिं चाग्नये सुपूतम् यो दैव्यानि मानुषा जनूँष्यन्तर्विश्वानि विद्मना जिगाति ८.१.१४६.३ अच्छा104 गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः सुसंदृशँ सुप्रतीकँ स्वञ्चँ हव्यवाहम्105 अरतिं मानुषाणाम् ८.१.१४६.४ अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः पुनरस्मभ्यँ सुविताय देव क्षां विश्वेभिरजरेभिर्यजत्र ८.१.१४६.५ अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः

८.१.१४७.१ प्र कारवो मनना वच्यमाना देवद्रीचीं नयथ106 देवयन्तः दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ८.१.१४७.२ अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि ८.१.१४७.३ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ८.१.१४७.४ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनिरुत स देवामेह वक्षति ८.१.१४७.५ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे यशसं वीरवत्तमम्

८.१.१४८.१ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि स इद्देवेषु गच्छति ८.१.१४८.२ अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः देवो देवेभिरागमत् ८.१.१४८.३ अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागयम् ८.१.१४८.४ अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् दधद्रयिं मयि पोषम् ८.१.१४८.५ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपाँ रेताँसि जिन्वति ८.१.१४८.६ उद्बुद्ध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सँसृजेथा मयं च पुनः कृण्वँस्त्वा पितरं युवानमन्वाताँसीत्त्वयि तन्तुमेतम्

८.०.१७ शं योर्वीरवत्तमं जिन्वति द्वे च

८.१.१४९.१ आयातु देवस्सुमनाभिरूतिभिर्यमो हवेह प्रयताभिरक्ता आ सीदताँ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै ८.१.१४९.२ यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः आ सीदतँ स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ८.१.१४९.३ यमाय सोमँ सुनुत यमाय जुहुता हविः यमँ ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ८.१.१४९.४ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत सो नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ८.१.१४९.५ यमाय मधुमत्तमँ राज्ञे हव्यं जुहोतन इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः

८.१.१५०.१ योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी यमं भङ्ग्यश्रवो गाय यो राजा अनपरोध्यः ८.१.१५०.२ यमं गाय भङ्ग्यश्रवो यो राजा अनपरोध्यः येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा ८.१.१५०.३ हिरण्यकक्ष्यान्त्सुधुरान् हिरण्याक्षानयश्शफान् अश्वाननश्यतो दानं यमो राजा अभितिष्ठति ८.१.१५०.४ यमो दाधार पृथिवीं यमो विश्वमिदं जगत् यमाय सर्वमित्त्रस्थे107 यत्प्राणद्वायुरक्षितम् ८.१.१५०.५ यथा पञ्च यथा षड्यथा पञ्चदशर्षयः यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते

८.१.१५१.१ त्रिकद्रुकेभिः पतति108 षडुर्वीरेकमिद्बृहत् गायत्री त्रिष्टुप्109 छन्दाँसि सर्वा ता यम आहिता ८.१.१५१.२ अहर्अहर्नयमानो गामश्वं पुरुषं जगत् वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः ८.१.१५१.३ वैवस्वते विविच्यन्ते यमे राजनि ते जनाः ये चेह सत्येनेच्छन्ते य उ चानृतवादिनः ८.१.१५१.४ ते राजन्निह विविच्यन्तेऽथायन्ति110 त्वामुप देवाँश्च ये नमस्यन्ति ब्राह्मणाँश्चापचित्यति ८.१.१५१.५ यस्मिन् वृक्षे सुपलाशे देवैस्संपिबते यमः अत्रा नो विश्पतिः पिता पुराणा111 अनु वेनति ८.१.१५१.६ यमो दाधार पृथिवीं यमो द्यामुत सूर्यः112 यमस्सर्वमृत्युस्ते नः113 प्राणानां वायूनाम्

८.०.१८ पथिकृद्भ्यो विजानते इनुवेनति द्वे च

८.१.१५२.१ नमस्सुते निरृते विश्वरूपेऽयस्मयं वि चृता बन्धमेतम् यमेन त्वं यम्या संविदानोत्तमन्नाकमधि रोहयेमम् ८.१.१५२.२ यत्ते देवी निऋऋतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् इदं ते तद्वि ष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः ८.१.१५२.३ यस्यास्ते अस्याः क्रूर आसञ्जुहोम्येषां बन्धानामवसर्जनाय भूमिरिति त्वा जना विदुर्निरृतिरिति त्वाहं परि वेद विश्वतः ८.१.१५२.४ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यान्वेषि अन्यमस्मदिच्छ सा त इत्या नमो देवि निरृते तुभ्यमस्तु ८.१.१५२.५ देवीमहं निरृतिं वन्दमानः पितेव पुत्रं दसये वचोभिः विश्वस्य या जायमानस्य वेद शिरश्शिरः प्रति सूरी विचष्ते ८.१.१५२.६ निवेशनस्संगमनो वसूनां विश्वा रूपाभिचष्टे शचीभिः दुर्गानरातीरपानुद वीरपत्नी ८.१.१५२.७ यमेन यम्यायुषा संविदाना114 पितेव पुत्रमभिरक्षतन्नः ८.१.१५२.८ नमस्ते निरृतये घनतेजाय तस्मै विसृज बन्धनात् ८.१.१५२.९ यम नय त्वँ सविता देव उत्तमाननीके अभिरोचय यायिनाम् ८.१.१५२.१० वसवः प्रथमो देवतानाँ सोऽस्य प्रजां पशून् पाहि ८.१.१५२.११ अतो देवेभ्यः पशुभिर्यो वै वसवस्स्वस्त्यस्तु ८.१.१५२.१२ सहस्राक्षो वा अयमग्निः पितरो देवतानाम् ८.१.१५२.१३ वसून् यत्र वसवो भूतानां पालयन्ति तस्मा अन्यवसुभ्यः

८.०.१९ विचष्टेऽष्टौ च

८.१.१५३.१ अस्तभ्नाद्115 द्यामृषभो अन्तरिक्षममिमीत वरीमाणं पृथिव्या आसीदद्विश्वा भुवनानि संराड्विश्वेत्तानि वरुणस्य व्रतानि ८.१.१५३.२ यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् मिनीमसि द्यविद्यवि ८.१.१५३.३ यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ८.१.१५३.४ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म सर्वा ता वि ष्य शिथिरेव देवाथा116 ते स्याम वरुण पियासः ८.१.१५३.५ अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः क्षयन्नस्मभ्यमसुर प्रचेतो117 राजन्नेनाँसि शिश्रथः कृतानि

८.१.१५४.१ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमँ श्रथाय अथा वयमादित्य व्रते तवानागसो अदितये स्याम ८.१.१५४.२ इमं मे वरुण श्रुधी हवमद्या च मृडय त्वामवस्युरा चके ८.१.१५४.३ तत्118 त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्र मोषीः ८.१.१५४.४ त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽव यासिसीष्ठाः यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाँसि प्र मुमुग्ध्यस्मत् ८.१.१५४.५ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ अव यक्ष्व नो वरुणँ रराणो वीहि119 मृडीकँ सुहवो न एधि ८.१.१५४.६ त्वमग्ने अयास्यया सन्मनसा हितः अया सन् हव्यमूहिषे अया नो धेहि भेषजम् ८.१.१५४.७ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वेदेवा मुञ्चन्तु मरुतस्स्वस्त्या

८.०.२० कृतान्येधि चत्वारि च

८.१.१५५.१ पीवोन्नाँ120 रयिवृधस्सुमेधाश्श्वेतस्सिषक्ति नियुतामभिश्रीः ते वायवे समनसो वि तस्थुर्विश्वेन्नरस्स्वपत्यानि चक्रुः ८.१.१५५.२ राये इनु यं जज्ञतू रोदसी121 उभे राये देवी धिषणा धाति देवम् अधा122 वायुं नियुतस्सश्चत स्वा उत श्वेतं वसुधितिं निरेके123 ८.१.१५५.३ आ वायो भूष शुचिपा उप नस्सहस्रं ते नियुतो विश्ववार उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ८.१.१५५.४ प्र याभिर्यासि दाश्वाँसमच्छा नियुद्भिर्वायविष्टये दुरोणे नि नो रयिँ सुभोजसं युवेह नि वीरवद्124 गव्यमश्वियं च राधः ८.१.१५५.५ प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववाराँ125 रथप्राम् दुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो

८.१.१५६.१ आ नो नियुद्भिश्शतिनीभिरध्वरँ सहस्रिणीभिरुप याहि यज्ञम् वायो अस्मिन् हविषि मादयस्व यूयं पात स्वस्तिभिस्सदा नः ८.१.१५६.२ वायो शतँ हरीणां युवस्व पोष्याणाम् उत वा ते सहस्रिणो रथ आ यातु पाजसा ८.१.१५६.३ प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ८.१.१५६.४ प्रक्रम्याथ126 ऊर्ध्वं पुरुषजो विवेश प्रजासु वृत्याय असून् ददाति सोऽहमस्मिन् यजानि समापातु ८.१.१५६.५ यो मातरिश्वा वियज्जातो127ऽंशको वृतो हूयते यस्य सतँ समेतु ८.१.१५६.६ मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम् परमात्मानं मन्ये अजरं योऽग्निरहमन्नं वायवे ८.१.१५६.७ मरुतो गणानां प्रथमस्सप्तधानां मूर्धा वायो अन्यमजरँ श्रियम् होतारं वै रयन् त्वाहुरग्ने हव्यं मरुद्भ्यः

८.०.२१ प्रयज्यो समेतु चत्वारि च

८.१.१५७.१128 अद्भ्यस्तिरोधाजायत तव वैश्रवणस्सदा तिरोधेहि सपत्नान्नो ये अपो अश्नन्ति केचन ८.१.१५७.२ त्वाष्ट्रीं मायां वैश्रवणो रथँ सहस्रवन्धुरम् पुरुश्चक्रँ सहस्राश्वमास्थायायाहि नो बलिम् ८.१.१५७.३ यस्मै भूतानि बलिमावहन्ति धनं गावो हस्ति हिरण्यमश्वान् असाम सुमतौ यज्ञियस्य श्रियं बिभ्रतो इन्नमुखीं विराजम् ८.१.१५७.४ सुदर्शने च क्रौञ्चे च मैनागे च महागिरौ सत द्वाट्टारगमन्ता सँहार्यं नगरं तव ८.१.१५७.५ इति मन्त्राः. कल्पोऽत ऊर्ध्वम् ८.१.१५७.६ यदि बलिँ हरेद्धिरण्यनाभये वितुदये कौबेरायायं बलिः

८.१.१५८.१ सर्वभूताधिपतये नम इत्यथ बलिँ हृत्वोपतिष्ठेत क्षत्रं क्षत्रं वैश्रवणो ब्राह्मणा वयँ स्मः ८.१.१५८.२ नमस्ते अस्तु मा मा हिँसीरस्मात्प्रविश्यान्नमद्धीती अथ तमग्निमादधीत यस्मिन्नेतत्कर्म प्रयुञ्जीत ८.१.१५८.३ तिरोधा भूस्तिरोधा भुवः तिरोधास्129 स्वस्तिरोधा भूर्भुवस्स्वः ८.१.१५८.४ सर्वेषां लोकानामाधिपत्ये सीदेत्यथ तमग्निमिन्धीत यस्मिन्नेतत्कर्म प्रयुञ्जीत तिरोधा भूस्स्वाहा ८.१.१५८.५ तिरोधा भुवस्स्वाहा तिरोधा स्वस्स्वाहा तिरोधा भूर्भुवस्स्वस्स्वाहा यस्मिन्नस्य काले सर्वा आहुतीर्हुता भवेयुः

८.१.१५९.१ अपि ब्राह्मणमुखीनास्तस्मिन्नह्नः काले प्रयुञ्जीत परस्सुप्तजनाद्वेपि मा स्म प्रमाद्यन्तमाध्यापयेत्130 ८.१.१५९.२ सर्वार्थास्सिद्ध्यन्ते य एवं वेद क्षुध्यन्निदमजानतां सर्वाथा न सिद्ध्यन्ते131 ८.१.१५९.३ यस्ते विघातुको भ्राता ममान्तर्हृदये श्रितः तस्मा इममग्रपिण्डं जुहोमि स मेऽर्थान्मा विवधीन्मयि स्वाहा132 ८.१.१५९.४ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु133 ८.१.१५९.५ कुबेराय वैश्रवणाय महाराजाय नमः134 ८.१.१५९.६ रायस्पोषायायुषा त्वा निधीशो भ्रातृव्याणां महसां चाधिपत्यै135 ८.१.१५९.७ मिश्रवाससः कौबेरका रक्षोराजेन प्रेषिताः ग्रामँ सजानयो गच्छन्तीछन्तो परिदाकृतान् ८.१.१५९.८ एतान् घ्नतैतान् गृह्णीतेत्ययं ब्रह्मणस्पुत्रः तानग्निः पर्यसरत्तानिन्द्रस्तान् बृहस्पतिः तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान्

८.०.२२ अयं बलिर्भवेयुश्चाधिपत्यै पञ्च च

८.१.१६०.१ स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन्नि वपन्तु सेनाः ८.१.१६०.२ परि णो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ८.१.१६०.३ मीढुष्टम शिवतम136 शिवो नस्सुमना भव परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकं बिभ्रदा गहि ८.१.१६०.४ अर्हन् बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपमर्हन्निदं दयसे विश्वमब्भुवं137 न वा ओजीयो रुद्र त्वदस्ति ८.१.१६०.५ त्वमग्ने रुद्रो असुरो महो दिवस्त्वँ शर्धो मारुतं पृक्ष ईशिषे त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा138 विधतः पासि नु त्मना

८.१.१६१.१ आ वो राजानमध्वरस्य रुद्रँ होतारँ सत्ययजँ रोदस्योः अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ८.१.१६१.२ नमस्ते रुद्र मन्यव उतो त इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ८.१.१६१.३ या त इषुश्शिवतमा शिवं बभूव ते धनुः शिवा शरव्या या तव तया नो रुद्र मृडय ८.१.१६१.४ रुद्रमन्यं बहुतो हुतं वृषभं नमस्ते अस्तु तन्मे अस्तु बाहुभ्यां वीतये ८.१.१६१.५ त्र्य्अम्बकं यजामहे सुगन्धिं139 पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ८.१.१६१.६ ईशानस्सर्वलोकानां त्र्यम्बकस्सर्वविद्यानाम् न द्वितीयो भवोद्भवाय ८.१.१६१.७ ईश ईशित्रे भूर्भुवस्सुवरीशाय लोकानाम् भीमाय वामदेवाय नमः

८.०.२३ विधतः पासि सु त्मनामृताच्चत्वारि च

८.१.१६२.१ कनिक्रदज्जनुषम् स्वस्तिदा विशस्पतिः ८.१.१६२.२ सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुस्स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दाँस्यङ्गानि धिष्णियाश्शफा यजूँषि नाम ८.१.१६२.३ सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ८.१.१६२.४ हविष्मतीरिमा आपो हविष्मान् देवो अध्वरो हविष्मा(ग्)मा विवासति हविष्मा(ग्)मस्तु सूर्यः ८.१.१६२.५ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्तेन्द्राग्नियोर्भागधेयीस्स्थ मित्रावरुणयोर्भागधेयीस्स्थ विश्वेषां देवानां भागधेयीस्स्थ यज्ञे जागृत ८.१.१६२.६ भूरसि भूः प्रतिष्ठित्यै ८.१.१६२.७ ध्वजं प्रतिष्ठापयामि ८.१.१६२.८ जयाय नमः अत्युच्छ्रिताय नमः

८.१.१६३.१ धन्याय नमः ८.१.१६३.२ ध्वजाय नमः ८.१.१६३.३ इन्द्राय नमः ८.१.१६३.४ अग्नये नमः ८.१.१६३.५ यमाय नमः ८.१.१६३.६ निरृतये नमः ८.१.१६३.७ वरुणाय नमः ८.१.१६३.८ वायवे नमः ८.१.१६३.९ कुबेराय नमः ८.१.१६३.१० ईशानाय नमः ८.१.१६४.१ ब्रह्मणे नमः ८.१.१६४.२ सूर्याय नमः ८.१.१६४.३ इन्दवे नमः ८.१.१६४.४ अग्नये नमः ८.१.१६४.५ सुदर्शनाय नमः ८.१.१६४.६ वासुकये नमः ८.१.१६४.७ ब्रह्मणे नमः ८.१.१६४.८ विष्णवे नमः ८.१.१६४.९ रुद्राय नमः ८.१.१६४.१० ब्रह्मणे नमः ८.१.१६४.११ सरस्वत्यै नमः

८.०.२४ अत्युच्छ्रिताय नमः ईशानाय नमो ब्रह्मणे नम एकञ्च

८.१.१६५.१ ईङ्काराय स्वाहा ८.१.१६५.२ ईङ्कृताय स्वाहा ८.१.१६५.३ क्रन्दते स्वाहा ८.१.१६५.४ अवक्रन्दते स्वाहा ८.१.१६५.५ प्रोथते स्वाहा ८.१.१६५.६ प्रप्रोथते स्वाहा ८.१.१६५.७ गन्धाय स्वाहा ८.१.१६५.८ घ्राताय स्वाहा ८.१.१६५.९ प्राणाय स्वाहा ८.१.१६५.१० व्यानाय स्वाहा

८.१.१६६.१ अपानाय स्वाहा ८.१.१६६.२ सन्दीयमानाय स्वाहा ८.१.१६६.३ सन्दिताय स्वाहा ८.१.१६६.४ विचृत्यमानाय स्वाहा ८.१.१६६.५ विचृत्ताय स्वाहा ८.१.१६६.६ पलायिष्यमाणाय स्वाहा ८.१.१६६.७ पलायिताय स्वाहा ८.१.१६६.८ उपरँस्यते स्वाहा ८.१.१६६.९ उपरताय स्वाहा ८.१.१६६.१० निवेक्ष्यते स्वाहा

८.१.१६७.१ निविशमानाय स्वाहा ८.१.१६७.२ निविष्टाय स्वाहा ८.१.१६७.३ निषत्स्यते स्वाहा ८.१.१६७.४ निषीदते स्वाहा ८.१.१६७.५ निषण्णाय स्वाहा ८.१.१६७.६ आसिष्यते स्वाहा ८.१.१६७.७ आसीनाय स्वाहा ८.१.१६७.८ आसिताय स्वाहा ८.१.१६७.९ निपत्स्यते स्वाहा ८.१.१६७.१० निपद्यमानाय स्वाहा

८.१.१६८.१ निपन्नाय स्वाहा ८.१.१६८.२ शयिष्यते स्वाहा ८.१.१६८.३ शयानाय स्वाहा ८.१.१६८.४ शयिताय स्वाहा ८.१.१६८.५ संमीलिष्यते स्वाहा ८.१.१६८.६ संमीलते स्वाहा ८.१.१६८.७ संमीलिताय स्वाहा ८.१.१६८.८ स्वप्स्यते140 स्वाहा ८.१.१६८.९ स्वपते स्वाहा ८.१.१६८.१० सुप्ताय स्वाहा

८.१.१६९.१ प्रभोत्स्यते141 स्वाहा ८.१.१६९.२ प्रबुद्ध्यमानाय स्वाहा ८.१.१६९.३ प्रबुद्धाय स्वाहा ८.१.१६९.४ जागरिष्यते स्वाहा ८.१.१६९.५ जाग्रते स्वाहा ८.१.१६९.६ जागरिताय स्वाहा ८.१.१६९.७ शुश्रूषमाणाय स्वाहा ८.१.१६९.८ शृण्वते स्वाहा ८.१.१६९.९ श्रुताय स्वाहा ८.१.१६९.१० वीक्षिस्यते स्वाहा

८.१.१७०.१ वीक्षमाणाय स्वाहा ८.१.१७०.२ वीक्षिताय स्वाहा ८.१.१७०.३ सँहास्यते स्वाहा ८.१.१७०.४ संजिहानाय स्वाहा ८.१.१७०.५ उज्जिहानाय स्वाहा ८.१.१७०.६ विवर्त्स्यते142 स्वाहा ८.१.१७०.७ विवर्तमानाय स्वाहा ८.१.१७०.८ विवृत्ताय स्वाहा ८.१.१७०.९ उत्थास्यते स्वाहा ८.१.१७०.१० उत्तिष्ठते स्वाहा

८.१.१७१.१ उत्थिताय स्वाहा ८.१.१७१.२ विधविष्यते143 स्वाहा ८.१.१७१.३ विधून्वानाय स्वाहा ८.१.१७१.४ विधूताय स्वाहा ८.१.१७१.५ उत्कृँस्यते स्वाहा ८.१.१७१.६ उत्क्रामते स्वाहा ८.१.१७१.७ उत्क्रान्ताय स्वाहा ८.१.१७१.८ चङ्क्रमिष्यते स्वाहा ८.१.१७१.९ चङ्क्रम्यमाणाय स्वाहा ८.१.१७१.१० चङ्क्रमिताय स्वाहा

८.१.१७२.१ कण्डूयिष्यते स्वाहा ८.१.१७२.२ कण्डूयमानाय स्वाहा ८.१.१७२.३ कण्डूयिताय स्वाहा ८.१.१७२.४ निकषिष्यते स्वाहा ८.१.१७२.५ निकषमाणाय स्वाहा ८.१.१७२.६ निकषिताय स्वाहा ८.१.१७२.७ यदत्ति तस्मै स्वाहा ८.१.१७२.८ यत्पिबति तस्मै स्वाहा ८.१.१७२.९ यन्मेहति तस्मै स्वाहा ८.१.१७२.१० यच्छकृत्करोति तस्मै स्वाहा ८.१.१७२.११ रेतसे स्वाहा ८.१.१७२.१२ प्रजाभ्यस्स्वाहा ८.१.१७२.१३ प्रजननाय स्वाहा ८.१.१७२.१४ सर्वस्मै स्वाहा

८.०.२५ व्यानाय स्वाहा निवेक्ष्यते स्वाहा निपद्यमानाय स्वाहा सुप्ताय स्वाहा वीक्षिष्यते स्वाहोत्तिष्ठते स्वाहा चङ्क्रमिताय स्वाहा करोति तस्मै स्वाहा चत्वारि च

८.१.१७३.१ आगोदानात्पठेदिदं ब्राह्मीयं ब्रह्मनिर्मितम् सूक्तं तत्पारमात्मिकमात्मा देवानामजरोऽमरेशः144 ८.१.१७३.२ संफुल्लाग्रे पुण्डरीके निविष्टस्तालार्धायामो145 रक्तनेत्रः शङ्खस्फटिकसङ्काशस्तेषां देवानामन्तरासीदन्तरात्मा ८.१.१७३.३ अजितो देवो यक्षाणां विद्याधराणां गन्धर्वाणामन्तरात्मा ब्रह्मणश्चान्तरात्मा ब्राह्मीको रौद्रिक उदानकस्स मनुष्याणां रौक्मो रुक्मो वा ८.१.१७३.४ अङ्गुष्ठमात्रो हृदये सन्निविष्टस्तस्थुषामन्तरात्मा अग्निराविष्टो यद्रूपं तस्य प्रवा असि स जीव इत्यभिशस्यते

८.०.२६ आगोदानात्पठेदष्टौ च

८.१.१७४.१ ओमासश्चर्षणीधृतो विश्वे देवास आ गत दाश्वांसो दाशुषस्सुतम् ८.१.१७४.२ विश्वे देवासो अप्तुरस्सुतमा गंत तूर्णयः उस्रा इव स्वसराणि ८.१.१७४.३ विश्वे देवासो अस्रिध146 एहि मायासो अद्रुहः मेधं जुषन्त वह्नयः ८.१.१७४.४ पावका नस्सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धियावसुः ८.१.१७४.५ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् यज्ञं दधे सरश्वती ८.१.१७४.६ महो अर्णस्सरस्वती प्र चेतयति केतुना धियो विश्वा वि राजति

८.०.२७ सरस्वती द्वे च

८.१.१७५.१ रात्री व्यख्यदायती पुरुत्रा देव्या १ऽक्षभिः147 विश्वा अधि श्रियोऽधित ८.१.१७५.२ ओर्वप्रा अमर्त्या निवतो देव्यू१ वतः ज्योतिषा बाधते तमः ८.१.१७५.३ निरु स्वसारमस्कृतोषसं देव्यायती अपेदु हासते तमः ८.१.१७५.४ सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि वृक्षे न वसतिं वयः ८.१.१७५.५ नि ग्रामासो अविक्षत नि पद्वंतो नि पक्षिणः नि श्येनासश्चिदर्थिनः

८.१.१७६.१ यावया वृक्यं148 १ वृकं यवय स्तेनमूर्म्ये अथा नस्सुतरा भव ८.१.१७६.२ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित उष ऋणेव यातय ८.१.१७६.३ उप ते गा149 इवाकरं वृणीष्व दुहितर्दिवः रात्रि स्तोमं न जिग्युषे ८.१.१७६.४150 आ रात्रि पार्थिवं रजः पितुरप्रायि151 धामभिः दिवस्सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ८.१.१७६.५ ये ते रात्री नृचक्षसो युक्तासो152 नवतिर्नव अशीतिस्संत्व्153 अष्टा उतो ते सप्त सप्ततीः ८.१.१७६.६ रात्रीं प्र पद्ये जननीं सर्वभूतनिवेशनीम् भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ८.१.१७६.७ संवेशिनीं154 संयमिनीं155 ग्रहनक्षत्रमालिनीम् प्रपन्नोऽहं शिवां रात्रीं भद्रे पारमशीमहि भद्रे पारमशीमह्यों नमः

८.०.२८ अर्थिनस्सप्ततीश्चत्वारि च

८.१.१७७.१ हिरण्यगर्भ आपो ह यत्प्रजापते ८.१.१७७.२ स वेद पुत्रः पितरँ स मातरँ स सूनुर्भुवत्स भुवत्पुनर्मघः स द्यामौर्णोदन्तरिक्षँ स सुवस्स विश्वा भुवो अभवत्स आ भवत् ८.१.१७७.३ स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता156 बृहत्ततन्थ भानुना ८.१.१७७.४ नि काव्या वेधसश्157 शश्वतस्कर्हस्ते दधानो नर्या पुरूणि अग्निर्भुवद्रयिपती रयीणाँ सत्रा चक्राणो अमृतानि विश्वा ८.१.१७७.५ हिरण्यपाणिमूतये सवितारमुप ह्वये स चेत्ता देवता पदम् ८.१.१७७.६ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यँ सावीः वामस्य हि क्षयस्य देव भूरेरया धिय वामभाजस्स्यम ८.१.१७७.७ बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि प्र या भूमि प्रवत्वति मह्ना जिनोषि महिनि158

८.१.१७८.१ स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ८.१.१७८.२ ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्य्अश्व पीतः अयं यस्सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यच्छ ८.१.१७८.३ आपान्तमन्युस् तृपलप्रभर्मा धुनिश्शिमीवाञ्छरुमा(ग्)मृजीषी सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ८.१.१७८.४ प्र सुवानस्सोम ऋतयुश्चिकेतेन्द्राय ब्रह्म जमदग्निरर्चन्न् वृषायन्तासि शवसस्तुरस्यान्तर्यच्छ गृणते धर्त्रं दृँह ८.१.१७८.५ सबाधस्ते मदं च शुष्मयं च ब्रह्म नरो ब्रह्मकृतस्सपर्यन् अर्को वा यत्तुरते सोमचक्षास्तत्रेदिन्द्रो दधते पृत्सु159 तुर्याम्160

८.१.१७९.१ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिस्सदा नः ८.१.१७९.२ प्र तत्ते अद्य शिपिविष्ट नामार्यश्शँसामि वयुनानि विद्वान् तं त्वा गृणामि तवसमतवीयान् क्षयन्तमस्य रजसः पराके ८.१.१७९.३ किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि मा वर्पो अस्मदप गूह एतद्यदन्यरूपस्समिथे बभूथ ८.१.१७९.४ अग्ने दा दशुषे रयिं वीरवन्तं परीणसं शिशीहि नस्सूनुमतः ८.१.१७९.५ दा नो अग्ने शतिनो दास्सहस्रिणो दुरो न वाजँ श्रुत्या अपा वृधि प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर्ण शुक्रमुषसो वि दिद्युतुः

८.१.१८०.१ अग्निर्दा द्रविणं वीरपेशा अग्निरृषिं यस्सहस्रा सनोति अग्निर्दिवि हव्यमा त तनाग्नेर्धामानि विभृता पुरुत्रा ८.१.१८०.२ मा नो मर्धीरा तू भर ८.१.१८०.३ घृतं न पूतं तनूररेपाश्शुचि हिरण्यं तत्ते रुक्मो न रोचत स्वधावः ८.१.१८०.४ उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषँ स्तोतृभ्य आ भर ८.१.१८०.५ वायो शतँ हरीणां युवस्व पोष्याणामुत वा ते सहस्रिणो रथ आ यातु पाजसा ८.१.१८०.६ प्र याभिर्यासि दाश्वाँसमच्छा नियुद्भिर्वायविष्टये दुरोणे नि नो रयिँ सुभोजसं युवेह नि वीरवद्गव्यमश्वियं च राधः ८.१.१८०.७ रेवतीर्नस्सधमाद इन्द्रे सन्तु तुविवाजाः क्षुमन्तो याभिर्मदेम ८.१.१८०.८ रेवा(ग्)मिद्रेवतस्स्तोता स्यात्त्वावतो मघोनः प्रेदु हरिवस्श्रुतस्य

८.०.२९ पृथिविस्सपर्यन् विदिद्युतुश्च राधश्चत्वारि च

८.१.१८१.१ विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ८.१.१८१.२ अभिभुवेऽभिभंगाय वन्वतेऽषाल्हाय सहमानाय वेधसे तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ८.१.१८१.३ सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः वृतंचयस्सहुरिर्विक्ष्वारित161 इन्द्रस्य वोचं प्र कृतानि वीर्या ८.१.१८१.४ अनानुदो वृषभो दोधतो वधो गंभीर ऋष्वो असमष्टकाव्यः रध्रचोदश्श्नथनो वीलितस्पृथुरिन्द्रस्सुयज्ञ उषसस्स्वर्जनत् ८.१.१८१.५ यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत

८.१.१८२.१ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचस्सुदिनत्वमह्नाम् ८.१.१८२.२ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत्सोममपिबद्विष्णुना सुतं यथावशत् स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ८.१.१८२.३ अध त्विषीमां162 अभ्योजसा क्रिविं युधाभवद् आ रोदसी अपृणदस्य मज्मना प्र वावृधे अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं163 सत्य इन्दुः ८.१.१८२.४ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैस्सासहिर्मृधो विचर्षणिः दाता राधस्स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं164 सत्य इन्दुः ८.१.१८२.५ तव त्यन्नर्यं165 नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् यद्देवस्य शवसा प्रारिणा असुं रिणंनपः भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतु विदादिषम्

८.०.३० द्रविणान्याशताप एकञ्च

८.१.१८३.१ विष्णवे स्वाहा ८.१.१८३.२ विष्णवे स्वस्तिदाय स्वाहा ८.१.१८३.३ विष्णवे सर्वंधराय स्वाहा ८.१.१८३.४ विष्णवे सर्वगोप्त्रे स्वाहा ८.१.१८३.५ विष्णवे सर्वात्मने स्वाहा ८.१.१८३.६ विष्णवे सर्वदेवात्मने स्वाहा ८.१.१८३.७ विष्णवे सर्ववेदात्मने स्वाहा ८.१.१८३.८ विष्णवे सर्वमुनीनामात्मने स्वाहा ८.१.१८३.९ विष्णवे योगसन्धारणाय स्वाहा ८.१.१८३.१० विष्णवे सर्वप्रतिष्ठाय स्वाहा

८.१.१८४.१ नारायणाय स्वाहा ८.१.१८४.२ नारायणात्मने स्वाहा ८.१.१८४.३ नारायणाय सर्वदेवात्मने स्वाहा ८.१.१८४.४ नारायणायेन्द्ररूपाय स्वाहा ८.१.१८४.५ नारायणाय संयमनाधिपतये स्वाहा ८.१.१८४.६ नारायणाय सम्भोगपतये स्वाहा ८.१.१८४.७ नारायणाय सर्वतृप्तिप्रदाय स्वाहा ८.१.१८४.८ नारायणायानन्तात्मने स्वाहा ८.१.१८४.९ नारायणाय ब्रह्मेशात्मने स्वाहा ८.१.१८४.१० नारायणाय प्रजापतये स्वाहा

८.१.१८५.१ नारायणायानन्तशयनाय स्वाहा ८.१.१८५.२ पुण्यनारायणाय स्वाहा ८.१.१८५.३ पुण्यनारायणाय त्रिदशाधिपतये स्वाहा ८.१.१८५.४ पुण्यनारायणाय वटाक्षवासिने स्वाहा ८.१.१८५.५ पुण्यनारायणाय पादार्चिषे स्वाहा ८.१.१८५.६ पुण्यनारायणाय बालरूपिणे स्वाहा ८.१.१८५.७ पुण्यनारायणाय मायारूपिणे स्वाहा ८.१.१८५.८ पुण्यनारायणाय प्रबोधिने स्वाहा ८.१.१८५.९ पुण्यनारायणाय सर्वाधिष्ठानाय स्वाहा ८.१.१८५.१० पुण्यनारायणाय सर्वप्रवरणाय स्वाहा

८.१.१८६.१ पुण्यनारायणाय मूर्ध्नि स्थानाय स्वाहा ८.१.१८६.२ बालाय स्वाहा ८.१.१८६.३ बालाय वटपत्रशायिने स्वाहा ८.१.१८६.४ सत्याय स्वाहा ८.१.१८६.५ सत्यनिष्ठाय स्वाहा ८.१.१८६.६ सत्यात्मने स्वाहा ८.१.१८६.७ सत्यनित्याय स्वाहा ८.१.१८६.८ सर्वे त्वँ हि सत्ये सत्यं प्रतिष्ठाय स्वाहा ८.१.१८६.९ सत्याय सर्वलोकप्रवर्तिने स्वाहा ८.१.१८६.१० सत्यात्मदेवाय स्वाहा

८.१.१८७.१ सत्यमोदाय स्वाहा ८.१.१८७.२ सत्यसोपानकाय स्वाहा ८.१.१८७.३ त्वँ हि सत्यात्मन्त्सत्यनिष्ठोद्भवाय स्वाहा ८.१.१८७.४ पुरुषाय स्वाहा ८.१.१८७.५ पुरुषसँस्तुताय स्वाहा ८.१.१८७.६ पुरुषसमधीताय स्वाहा ८.१.१८७.७ पुरुषनिष्ठाय स्वाहा ८.१.१८७.८ पुरुषात्मने स्वाहा ८.१.१८७.९ पुरुषपुरुषाय स्वाहा ८.१.१८७.१० पुरुषाय जगन्मित्राय स्वाहा

८.१.१८८.१ पुरुषाय जगद्आधाराय स्वाहा ८.१.१८८.२ पुरुषाय जगत्प्रवर्तिने स्वाहा ८.१.१८८.३ पुरुषाय जगद्धेतवे स्वाहा ८.१.१८८.४ विष्णुक्रीडात्मने स्वाहा ८.१.१८८.५ भूमिसङ्क्रीडात्मने स्वाहा ८.१.१८८.६ जगन्मोदाय स्वाहा ८.१.१८८.७ जगद्धिताय स्वाहा ८.१.१८८.८ निखुर्यपाय166 स्वाहा ८.१.१८८.९ काय स्वाहा ८.१.१८८.१० कस्मै स्वाहा

८.१.१८९.१ कतमस्मै स्वाहा ८.१.१८९.२ सर्वस्मै स्वाहा ८.१.१८९.३ विष्णवे स्वाहा ८.१.१८९.४ विष्णवे मन्त्रसन्द्रुहणाय स्वाहा ८.१.१८९.५ ध्रुवरूपिणे स्वाहा ८.१.१८९.६ संवृतात्मने स्वाहा ८.१.१८९.७ संप्रीतिकराय स्वाहा ८.१.१८९.८ सर्वशुभप्रदाय स्वाहा ८.१.१८९.९ अशुभनाशाय स्वाहा ८.१.१८९.१० शुभसंबर्हणाय स्वाहा

८.१.१९०.१ पुण्याय स्वाहा ८.१.१९०.२ पुण्याय बलोर्जिताय स्वाहा ८.१.१९०.३ पुण्याय जयसमृद्धाय स्वाहा ८.१.१९०.४ पुण्याय कामानन्दजननाय स्वाहा ८.१.१९०.५ पुण्याय सर्वानन्दाय स्वाहा ८.१.१९०.६ पुण्याय समृद्धाय स्वाहा ८.१.१९०.७ पुण्याय श्रीनिधानाय स्वाहा ८.१.१९०.८ पुण्याय ब्रह्मसन्द्रुहणाय स्वाहा ८.१.१९०.९ पुण्याय वरस्थानाय स्वाहा ८.१.१९०.१० पुण्याय लोकसम्भावनाय स्वाहा ८.१.१९०.११ पुण्यायाद्भुताय स्वाहा ८.१.१९०.१२ पुण्यायानादिनिधनाय स्वाहा ८.१.१९०.१३ पुण्यायामितमहिम्ने स्वाहा ८.१.१९०.१४ पुण्यायात्यन्तहिताय स्वाहा ८.१.१९०.१५ पुण्याय सर्वप्रतिष्ठाय स्वाहा ८.१.१९०.१६ पुण्याय सर्वलोकप्रतिष्ठाय स्वाहा ८.१.१९०.१७ पुण्याय सर्वलोकशुभावहाय स्वाहा ८.१.१९०.१८ पुण्याय सर्वात्मने स्वाहा

८.०.३१ प्रतिष्ठाय स्वाहा प्रजापतये स्वाहा सर्वप्रहरणाय स्वाहा सत्यात्मदेवाय स्वाहा जगन्मित्राय स्वाहा कस्मै स्वाहा शुभसम्बर्हणाय स्वाहा लोकसम्भवनाय स्वाहाष्टौ च


  1. Text: जहोमि ↩︎

  2. RV: त्रातारम्; TS, Vंড়्: सवितारम् ↩︎

  3. Text: प्रवाळ ↩︎

  4. १९२६,ऽ४६,ऽ८४ एदितिओन्स्: ऋचीनाम् ↩︎

  5. १९२६ एदितिओन्: काद्रवेया; १९४६,ऽ८४ एद्स्.: कार्द्रवेया ↩︎

  6. Text: हरिताळकम् ↩︎

  7. RV: गृध्राणाँ ↩︎

  8. Text: रेभन्न् ↩︎

  9. Text: इन्दायेमानि ↩︎

  10. Text: कुळुद्धमाषाव् ↩︎

  11. १९४६ एदितिओन्: यववंशयवौ ↩︎

  12. Text: थन्यै ↩︎

  13. Cf. Vंড়् ६.३४.४: यजेयँ ↩︎

  14. Text: चित्तळ ↩︎

  15. Text: गुहळ ↩︎

  16. १९४६ एदितिओन्: ब्रह्म; १९८४ एदितिओन्: ब्रह्मा ↩︎

  17. १९४६ एदितिओन्: आं ↩︎

  18. Text: त्सेजसा ↩︎

  19. १९८४ एदितिओन्: भगवं द्ध्यात्वा; १९२६, १९४६ एद्स्.: भगवद्ध्यात्वा ↩︎

  20. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १६. ↩︎

  21. १९४६ एदितिओन्: अशुगाः ↩︎

  22. Vंড়् तेxत्: हिश्; TB: हि ↩︎

  23. Text: माभीर्वह ↩︎

  24. आच्चोर्दिन्ग्तो ंॣ, प्. ५९०, परावसु इस नमे “ओf अ ङन्धर्व (अस्सोचिअतेद्wइथ्Vइश्ववसु)”. ↩︎

  25. १९८४ एदितिओन्: यतिञ्चत्; १९४६ एदितिओन्: यतिञ्चित् ↩︎

  26. १९८४ एदितिओन्: अहं; १९४६ एदितिओन्: आहं ↩︎

  27. Text: आदुहत् ↩︎

  28. Text: चूळिणे ↩︎

  29. Text: चूळिणे ↩︎

  30. Text: यूधाधिपाय ↩︎

  31. Vंড়् लिस्त्स्थिस्सेच्तिओनस्थे प्रेविओउसोने, अस्३१. णेxत्चोमेस्३३. ॡए हवे चोर्रेच्तेद्थिसध्याय नुम्बेर्तो ३२. ↩︎

  32. Text: कळा ↩︎

  33. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ४२. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ४१. ↩︎

  34. १९४६ एदितिओन्: थरायै; १९८४ एदितिओन्: थराय ↩︎

  35. Text: प्रथानः ↩︎

  36. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ४७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ४६. ↩︎

  37. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ४८. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ४७. ↩︎

  38. Text: सन्धधानः ↩︎

  39. Text: आसीरासीर् ↩︎

  40. Text: अनुभूमि ↩︎

  41. Text: अयुथैः ↩︎

  42. श्रीमों हृदयाय नमः । द्रामों शिरसे स्वाहा । आमों शिखायै वषट् । ह्रामों कवचाय हुम् । क्लीमों नेत्रत्रयाय वौषट् । रामोमस्त्राय फट् । भूर्भुवस्सुवरोम् । अमामिमीमुमूमृं ॠं ळं ॡऽमेमैमोमौमामाः । गोविन्दाय नमः । महीधराय नमः । हृषीकेशाय नमः ॥ त्रिविक्रमाय नमः । विष्णवे नमः । माधवाय नमः ॥ ↩︎

  43. Eकूप्(ऊष्, षू, Oऊ): चिद्अन्तः इन् प्लचे ओf च साङ्गं ↩︎

  44. Text: थराय ↩︎

  45. Text: दळ ↩︎

  46. ठेरे अरे नो अच्चेन्त्मर्क्सिन् थे तेxत्fरोम् ८.१.६१.९ थ्रोउघ्८.१.६२.१. ↩︎

  47. ठेरे अरे नो अच्चेन्त्मर्क्सिन् थे तेxत्fरोम् ८.१.६२.८ थ्रोउघ्८.१.६२.९. ↩︎

  48. Text: भगवती ↩︎

  49. ठे तेxत्सिन्सेर्त्स्थे wओर्द्य हेरे wहिछ्wए हवे ओमित्तेद्. ↩︎

  50. Text: पट् ↩︎

  51. Text: पदग्चोर्रेच्तेद्तो पदँ ↩︎

  52. १९४६ एदितिओन्: मानसी; १९८४ एदितिओन्: मानसि ↩︎

  53. Text: द्रेवः ↩︎

  54. १९८४, १९४६ एदितिओन्स्: आहं, चोर्रेच्तेद्तो अहं. ↩︎

  55. Text: गन्थास् ↩︎

  56. Vंড়् ओमित्स्नुमेरल्७८ fओर्सेच्तिओन् ७८. ↩︎

  57. १९८४ एदितिओन्: सप्तथानां ↩︎

  58. १९८४ एदितिओन्: वाहुर् ↩︎

  59. १९४६, १९८४ एदितिओन्स्: अत्यो चोर्रेच्तेद्तो अतो. Cf. Vंড়् ८.१.१९.३ ↩︎

  60. टू ३.१०.६; TB २.८.८.१; टा ९.१०.६.१ (VC प्. १४९) ↩︎

  61. VS: प्रथमोऽन्तर् ↩︎

  62. TS: तं जुषस्व रेप्लचेस्त्वं जुषज ↩︎

  63. TS: गवेऽश्वाय पुरुषाय रेप्लचेस्वैश्वानराय ↩︎

  64. श्वेतू, ंुण्डू: अस्य महिमानमिति रेप्लचेस्तदाभीमानमेति ↩︎

  65. AP-MB: अश्विना ↩︎

  66. Text: सुपधा ↩︎

  67. टा, ंहानू गिवे स्वाहा इन् प्लचे ओf नमः इन् थिस्वेर्से. Cf. Vंড়् ६.११.७ ↩︎

  68. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ९७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ९६. ↩︎

  69. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ९८. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ९७. ↩︎

  70. Text: एतान् चोर्रेच्तेद्तो एतानि ↩︎

  71. Text: दधिक्राव्ण्णो ↩︎

  72. Vंড়् हस्मेत्रिचलि. ↩︎

  73. Text: सङ्गधे ↩︎

  74. Text: दधिक्राव्ण्णः ↩︎

  75. Text: यत ↩︎

  76. १९८४ एदितिओन्: वन्ध्यो ↩︎

  77. १९४६ एदितिओन्: त्वाष्ट्री ↩︎

  78. Text: दथुः ↩︎

  79. Text: अन्थो ↩︎

  80. Text: यत ↩︎

  81. १९८४ एदितिओन्: तपोधना ↩︎

  82. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ११७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ११६. ↩︎

  83. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १२४. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १२३. ↩︎

  84. RV: राजन् ↩︎

  85. Text: मंगळेन ↩︎

  86. ईन् थिस्वेर्से, थे तेxथस्नो अच्चेन्त्मर्क्स्fरोमों थ्रोउघ्थे fइर्स्त्स्य्ल्लब्ले, अ, इननुमन्यताम्. ↩︎

  87. RV: दुछुना; TS: दुच्छुनां. ড়्रोओf थत्Vऐखानसस्fओल्लोw TS. ↩︎

  88. RV: उदितो विभाति रेप्लचेसुदितौ व्येति ↩︎

  89. RV: दृधा ↩︎

  90. RV: यद्बृहतीर्रेप्लचेस्यन्महतीर् ↩︎

  91. RV: गर्भम् ↩︎

  92. RV: समवर्ततासुर् ↩︎

  93. RV: यज्ञम् ↩︎

  94. RV, TS, TB: हत्ये ↩︎

  95. RV, AV: बाधिष्ट; TB: बाधिष्टा ↩︎

  96. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १४४. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १४३. ↩︎

  97. RV: जगृभ्मा; TB: जगृभ्णा ↩︎

  98. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १४५. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १४४. ↩︎

  99. RV: हरिवः ↩︎

  100. RV: स्वस्ति ↩︎

  101. RV: हितम् ↩︎

  102. १९८४ एदितिओन्: शम्भुः; १९४६ एदितिओन्, RV: शम्बः ↩︎

  103. RV, TS: सदासहम्; Vंড়्: सदासहम् ↩︎

  104. RV: अछा; TB: अच्छा ↩︎

  105. RV, TB: हव्यवाह; Vंড়्: हव्यमाह ↩︎

  106. RV: नयत ↩︎

  107. टा: त्रस्थे; KS: तस्थे; Vंড়्: रस्थे ↩︎

  108. RV पतति; टा: पतति ↩︎

  109. RV: त्रिष्टुप्गायत्री ↩︎

  110. Text: यन्तित् ↩︎

  111. RV: पुराणां ↩︎

  112. KS: सूर्यम् ↩︎

  113. Cf. Vंড়् ६.१९.१: स्तेनः इन्स्तेअदोf ते नः ↩︎

  114. १९८४ एदितिओन्: संविधाना; १९४६ एदितिओन्, : संविदाना ↩︎

  115. Text: अस्तभ्ना ↩︎

  116. RV: देवाधा ↩︎

  117. RV: प्रचेता ↩︎

  118. Text: त ↩︎

  119. Text: वीह ↩︎

  120. RV: पीवोअन्नां ↩︎

  121. RV: रोदसीमे ↩︎

  122. RV: अध ↩︎

  123. Vंড়् fओल्लोwस्TB ↩︎

  124. RV: युवस्व नि वीरं रेप्लचेस्युवेह नि वीरवद् ↩︎

  125. RV: विश्ववारं; TB: विश्ववारां ↩︎

  126. Text: प्रक्रम्याध ↩︎

  127. १९८४ एदितिओन्: वियज्ञातो इन्स्तेअदोf वियज्जातो ↩︎

  128. आल्लोf ८.१.१५७ इस चोन्तिनुओउसॄउओते fरों टा १.३१.१२ ओन्ल्य्. ↩︎

  129. Vंড়्: तिरोधा, चोर्रेच्तेद्तो तिरोधास्, थे वेर्सिओनिन् टा. ↩︎

  130. टा १.३१.५ ओन्ल्य्(नोतिन् VC) ↩︎

  131. टा १.३१.५ ओन्ल्य्(नोतिन् VC) ↩︎

  132. टा १.३१.५६ ओन्ल्य्(VC प्. ७७१) ↩︎

  133. टा १.३१.६ ओन्ल्य्(VC प्. ८२१) ↩︎

  134. टा १.३१.६ ओन्ल्य्(VC प्. ३२८) ↩︎

  135. ईन् VC प्प्. ८२४८२५, थेरे अरे त्wओ चोलुम्न्सोf रायस्पोष्… बुत्नो मत्छ्तो थिस्वेर्से. ↩︎

  136. Vंড়्: शिवतमश्; TS: शिवतम ↩︎

  137. RV: अभ्वं ↩︎

  138. Text: पूंषा ↩︎

  139. RV: सुगन्धिं; TS: सुगन्धिं ↩︎

  140. Text: स्वप्स्यते ↩︎

  141. Text: प्रबोत्स्यते ↩︎

  142. Text: विवर्त्स्यते ↩︎

  143. १९८४ एदितिओन्: विथविष्यते ↩︎

  144. Fउल्ल्वेर्से fओर्प्रतीक आगोदानात्. णोते fउल्ल्वेर्से चोमेसfतेर्, नोत्बेfओरे, थे प्रतीक. ↩︎

  145. Text: तालार्थायामो ↩︎

  146. RV: अस्रिध; ंष्: अस्रिधा. णोते Vंড়्=RV, नोत्ंष्. ↩︎

  147. RV: देव्य्१ क्षभिः; TB: देव्यक्षभिः ↩︎

  148. Text: वृक्यां ↩︎

  149. Vंড়्: वा; RV, TB, एत्च्: गा ↩︎

  150. Vएर्सेस्८.१.१७६.४७ चोर्रेस्पोन्द्तो वेर्सेस्४.२.१४ ओf थे ऋग्Vएद Kहिल, थे “ऋआत्री Kहिल”. Vएर्सेस्८.१.१७६.४५ अल्सो चोर्रेस्पोन्द्तो AV १९.४७.१ अन्द्१९.४७.३ रेस्पेच्तिवेल्य्. ईन् Cओबुर्न्ऽस्डेवि ंाहात्म्य, प्. २६५, हे सय्स्थत्थे सोले वरिअन्त्बेत्wएएनृVKहन्दाV इस्थे AVऽस्रेअदिन्गोf द्रष्टारो fओर्युक्तासो. ःोwएवेरिन् ॡहित्नेय्ऽसाथर्व Vएद षंहिता, वोल्. २, प्. ९७५, हे इन्दिचतेसनोथेर्वरिअन्तिसाVऽस्रेअदिन्गोf सन्ति fओर्सन्तु. ↩︎

  151. Vंড়्: पितरः प्रायु; AV, RVKh: पितुरप्रायि ↩︎

  152. AV: द्रष्टारो ↩︎

  153. AV: सन्ति ↩︎

  154. RVKh: वेशनीं ↩︎

  155. RVKh: संयमनीं ↩︎

  156. ठे १९४६ अन्द्१९८४ एदितिओन्सोf थे Vंড়् तेxथेरे इन्सेर्त fओओत्नोते थत्रेअद्स्: उदुत्यं चित्रम्, wहिछिस्थे ओन्ल्य्पर्त्मिस्सिन्गिननोथेर्wइसे चोन्तिनुओउसॄउओते fरों TS२.२.१२. Kएइथ्ऽस्त्रन्स्लतिओन् fओर्थिस्प्रतीक (हिस्TS२.२.१२ ) इस्: “ठे रदिअन्त्.” ↩︎

  157. Text: वेथसश् ↩︎

  158. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १७८. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १७७. ↩︎

  159. Text: पृत्सु ↩︎

  160. Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १७९. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १७८. ↩︎

  161. Text: इक्ष्वारित ↩︎

  162. Text: त्विषींमां ↩︎

  163. Vंড়् ओमित्स्सश्चद्देवो देवं सत्यमिन्द्रं, wहिछिसिनृV, अन्धस्= इनित्स्प्लचे इन् थे तेxत्. ↩︎

  164. Vंড়् ओमित्स्देवो देवं सत्यमिन्द्रं, wहिछिसिनृV, अन्धस्= इनित्स्प्लचे इन् थे तेxत्. ↩︎

  165. Text: नर्य ↩︎

  166. आच्चोर्दिन्ग्तो ंॣ, प्. ५४५, निखुर्यप = णमे ओf Vइष्णु इन् TS. ↩︎