श्री श्री श्रीनिवासाय नमः श्रीवैखानसमन्त्रप्रश्नाष्टके सप्तमप्रश्नः पारमात्मिकोपनिषत् श्री श्री निवास दीक्षितीय भाष्यानुसारी

हरिः ओं ७.२.१.१ [१.१] विष्णुस्सर्वेषामधिपतिः परमः पुराणः परो लोकानामजितो जितात्मन् भवतेऽभवाय स्वाहा ७.२.१.२ [१.२] सुसूक्ष्मस्सार्वस्1 सर्वेषामन्तरात्मा2 तस्थुस्तस्थुषां जंगमो जंगमानाम् विभुर्विभूणां विभवोद्भवाय स्वाहा ७.२.१.३ [१.३] ज्योतिर्वा पारमात्मिकं सार्वं विश्वभवं भवाय प्रभूतं प्राहिण्वन्3 परम्पराय सुकृतं कृताय तस्मै वराय ईशिषे स्वाहा ७.२.१.४ [१.४] ईशो यस्माद्विततं वितत्य कं कं धृतं कामहुतो जुहोति ककुदं ककुच्छित्वा भूयः पराय स्वाहा ७.२.१.५ [१.५] रायामीशो रहितो भरन्त्यै रां रां वहन्त्या आहितः रायां पतिं रां रां धरते धरित्र्यै रां वहतोद्वहाय स्वाहा

७.२.२.१ [१.६] यो ब्रह्मशब्दः प्रणवः प्रधानश्शब्दश्शब्दान्तरात्मा नित्यो वियत्तः प्रतरन् प्रकामम् प्राजापत्यं प्रतरं प्रकुर्वन् भूयो भूत्यै अचरं चराय स्वाहा ७.२.२.२ [१.७] यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं जुषाणस्सकलं विदत्ते त्रिस्त्रिस्त्रिधात्मा त्रिधा त्रिधा वा विदधे समस्तं त्रिधा त्रिरूपं सकलंधराय स्वाहा ७.२.२.३ [१.८] यद्वा कृतममृतं चराणां यत्सर्वनिष्ठमजरं समस्तम् यत्पश्यमानमात्माभिजुषाणमन्तस्सुषुप्त्यान्4अभिगम्यमानाय स्वाहा ७.२.२.४ [१.९] कः5 कोशमङ्गे कुशलं विधाय साकृतं कृण्वतेऽग्र इदं सुकान्तम् ककुद्वते कामचरं चराय स्वाहा ७.२.२.५ [१.१०] यं यज्ञैर्मुनयो जुषन्ति यं देवाः परमं पवित्रं भविष्यन्त्यार्तिषु प्रणताः प्रधानाः यँ सूरयो जपन्तो योगिनस्सूक्ष्मैस्सुप्रदर्शनैः पश्यन्तीश्वराय स्वाहा

७.२.०.१ उद्वहाय स्वाहेश्वराय स्वाहा

७.२.३.१ [२.१] यो वा गविष्ठः परमः प्रधानः पदं वा यस्य सत्वमासीत् यस्योपरित्वं मुनयोऽनुपश्यन्ति तस्मै मुख्याय विष्णवे स्वाहा ७.२.३.२ [२.२] यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णो स त्वं देवान्मनुष्यान्मृतान् परिसंजीवसे स्वाहा ७.२.३.३ [२.३] त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यषे स्वाहा ७.२.३.४ [२.४] त्वं6 जीवस्त्वमापस्सर्वेषां जनिता त्वमाहारः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ७.२.३.५ [२.५] भूमेर्वितन्वन् प्रतरन् प्रकामः पोपूयमानः पञ्चभिस्स्वगुणैः प्रसन्नैस्सर्वाणि मान् धारयिष्यसि स्वाहा

७.२.४.१ [२.६] मनस्त्वं भूत्वा प्रतरन् प्रदोऽग्रे त्वत्तो भूतं संभावयिष्यसि सर्वेषां कायानामर्हमर्हते स्वाहा ७.२.४.२ [२.७] त्वं बुद्धिर्भूतानामन्तरात्मा पुण्यवतां पुण्येषु सज्जमानः त्वं बुद्ध्या विचिन्वमानः पुण्यरूपाय स्वाहा ७.२.४.३ [२.८] यस्सूक्ष्मान् संचरमाणान् भावाभावान् भव्याभव्यान् कुर्वन्नात्मीयममितो धुनोति धुरं वहिष्यसे स्वाहा ७.२.४.४ [२.९] यस्य वा भयाद्भगवानुत्तस्थे स्वयं सूर्यस्सत्यं कालं वहमानः यस्मात्तेज आत्मियं कृत्वा सर्वानस्मान् पालयिष्यसि स्वाहा ७.२.४.५ [२.१०] यं त्वां सर्वं पालनायाभिभूतं देवास्सर्वे पश्ये विचरन्ति ते देवास्त्वमेव सर्वे माया मायैषा ते स्वाहा

७.२.०.२ यिष्यसि स्वाहा मायैषा ते स्वाहा

७.२.५.१ [३.१] यस्त्वं भूत्वा पर्जन्यो बिभेति रन्ध्रे प्रजाभिर् आकृष्यमाणः सत्यं कालं व्रतेन पालयन् ह्लादयिष्यसे स्वाहा ७.२.५.२ [३.२] कामो भूत्वा प्रजानामन्तरा स्थितस्सर्वा लोकान् ह्लादयञ्जीवमानः सन्दर्पणाय हरये वराय स्वाहा ७.२.५.३ [३.३] अङ्गादङ्गादनुप्राविशत्सर्वान् लोकान् संरक्षणाय यो वा वसन् देवो मातरिश्वा स योऽस्माकं भूत्यै भूतये स्वाहा ७.२.५.४ [३.४] यो मोहयन् भूतानाँ7 सर्गाधिरक्षणाय यस्संकोचस्संकोचनाय भवतात्स्वाहा ७.२.५.५ [३.५] यो वा दशात्मा उपरि स्पृशन् वा देवानां ज्योतिर्ज्योतिषाम् उत्तरः स्वयं वा स्पृशन् ज्योतिर्ज्योतिषे स्वाहा

७.२.६.१ [३.६] यो ब्रह्मा ब्रह्मविदामात्मा स्यादात्मचक्षुषाम् भूतिर्भूतिमतां सुकृतं कृताय स्वाहा ७.२.६.२ [३.७] सारस्वतो वा एष देवोऽयं न वा हयः पारमात्मिकः भयोऽभयो वा सर्वं संधुषे स्वाहा ७.२.६.३ [३.८] यो वा परं ज्योतिः परं सन्दधानः परमात्मा पुरुषं सञ्जनयिष्यसे स्वाहा ७.२.६.४ [३.९] यो दोषश्चतुरश्चतुर्थश्चतुरः पदार्थान् सर्वं लोकस्य सन्दधानस्सते सत्वमादधानाय स्वाहा ७.२.६.५ [३.१०] यस्यैता ब्रह्ममूर्तयो बृहद्ब्रह्माणं ब्रह्म आदधानः यं ब्रह्म ब्रह्मगुप्तये परंपराय स्वाहा

७.२.०.३ ज्योतिषे स्वाहा पराय स्वाहा

७.२.७.१ [४.१] वाको वा अनुवाको वाकं वाकं संजुषमाणः देवस्स स्वं स्वगुप्तये स्वयं ज्योतिषे ज्योतिषे स्वाहा ७.२.७.२ [४.२] द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते यश्चैको भुनक्ति भोक्त्रे स्वाहा ७.२.७.३ [४.३] यो वा आयुः परमात्मानं8 मीढुषः पारंपर्यात्परः परायणः परो लोकानां परमा दधानः परतः पराय स्वाहा ७.२.७.४ [४.४] यो वा तेजस्तेजसां तेजस्तेज आदधानः सत्यस्तेजस्तेजसां तेजस्तेजस्तेजसे स्वाहा ७.२.७.५ [४.५] सह संपायास्त्वमाशिषमाशीर्भूताभूतम् आशिषमाशीरासीराशिरनुभूमिस्9 स्वाहा

७.२.८.१ [४.६] यो वा संयोगस्संजुषमाणस्सन्धुस्सन्धुक्षणानाम् संयोगं सन्दधानः पुण्यः पुण्यानां पुण्याय स्वाहा ७.२.८.२ [४.७] सहस्रं वा यस्यैव वितानमादधानस्सहस्रं वा आसिषस्सासिकाः सहस्रं यस्य वै सासिकास्सहस्रं सहस्राय स्वाहा ७.२.८.३ [४.८] स्वातिगा गुप्तयो गुप्तिस्सत्यं सत्यानां सात्वं पदम् तत्सत्वं सत्वमासीत्सात्वं सात्वं वै सात्वमादधानाय स्वाहा ७.२.८.४ [४.९] सत्वं वा उद्रेकमासीद्यत्सत्वमुभयोरनुगोप्ता तत्सत्वं सत्यंवदाय सत्याय स्वाहा ७.२.८.५ [४.१०] सत्यो ज्योतिस्सत्यान्तरात्मा सत्योद्योगस्सत्यस्सत्कर्म सत्यं सत्यवितानमासीत्सत्यसत्याय स्वाहा

७.२.०.४ भूमि स्वाहा सत्याय स्वाहा

७.२.९.१ [५.१] सत्यस्सत्वं पुण्यमासीत्पुण्यो वा दैविकं सत्यं सत्वमार्षं सत्यं सत्वं सत्पथाय स्वाहा ७.२.९.२ [५.२] सत्यो ज्योतिस्सत्वं प्राणास्सत्वाधारास्सत्वसंधानः सत्यस्सत्वं प्रकाशं ज्योतिर्ज्योतिषे स्वाहा ७.२.९.३ [५.३] कामीमुमामीशिषमीशिष सत्यमीशिषमीशिषाणां तत्सत्यं सत्यरूपं सत्यं सत्याय सन्दधानाय स्वाहा ७.२.९.४ [५.४] आरिणी वा आरन्द आवारन्दो अयमारन्दः मारन्द आनन्दते स्वाहा ७.२.९.५ [५.५] तत्सत्वो वा विष्णुरुद्योगस्सूर्यो गो वा विष्णुर्विशत् विश्वं विश्वं सन्दधानस्तद्विश्वं विष्णवे विश्वरूपाय स्वाहा

७.२.१०.१ [५.६] तद्भूर्भूस्थं भूस्थो वा विश्वरूपस्तद्भूः प्राणसंख्यातः भूर्भूरासीद्भूरसि भुवोऽसि सुवरसि भूर्भूतये स्वाहा ७.२.१०.२ [५.७] आपो वा आप आपोऽन्तरात्मा यो वेदो वेदानामाधारः वेदान्तरात्मा सरसो रससंख्यातो रसं रसमासीद्रसाय स्वाहा ७.२.१०.३ [५.८] त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकम् त्रयी वा ज्योतिस्त्रिगुणं त्रिगुणात्मकं तस्मै त्रेताग्नये त्रिगुणाय स्वाहा ७.२.१०.४ [५.९] द्वौ वा मुख्यौ मुख्याधारौ ससुखौ सानन्दौ सस्मेरौ स्मेरायतौ सानन्दमानन्दते स्वाहा ७.२.१०.५ [५.१०] स एकैकस्साधारस्साधिष्ठानो इनाधिष्ठानः कं कं पदे पदे पातः पादाय पादिते स्वाहा

७.२.०.५ विश्वरूपाय10 स्वाहा पादिते स्वाहा

७.२.११.१ [६.१] स्वयमादिस्सर्वान्तरात्मा देवस्स स्वयं क्रीडात्मकमवासृजत् यस्स्वयं लोकमवधारमवधारयन्त्स्वाहा ७.२.११.२ [६.२] यस्स्वयं सृष्टमात्मना गुप्तमनु संवितानमचरं चरन्तम् स्वयं क्रीडन् क्रीडयन् क्रीडान्तरमनुप्राविशत्स्वाहा ७.२.११.३ [६.३] स्वौजसा सर्वमादधाति यः पापीयाँसमनुपदमाहिँसत् सुपुण्यं पुण्यात्मकं11 पुण्यवितानन् दधार देवाय स्वाहा ७.२.११.४ [६.४] क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु सुपतन्तीम् स्वयं भूत्वा वराहो वर उज्जहार तस्मै देवाय सुकृताय पित्रे स्वाहा ७.२.११.५ [६.५] यः कुन्धरमाणः कुन्धरान् कुंधरतामित्यवोचत् तां सानुमतो विदधत्स्वतेजसा तस्मै वरिष्ठाय वरदाय पित्रे स्वाहा

७.२.१२.१ [६.६] यो वा पृथां प्रस्खलन्तीं प्रमृज्यामृजांगीम् य ऊर्वोरुपदधात्तस्मै मुख्याय वरदाय पित्रे स्वाहा ७.२.१२.२ [६.७] यां गामुशन्तीमुशनाभिपूर्णामारक्तनीलाममृतां रजन्तीम् आलालयन्12 लालित13कंकणां तां तस्मै प्रजेशाय वरदाय पित्रे स्वाहा ७.२.१२.३ [६.८] प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहा ७.२.१२.४ [६.९] यो धूर्धुरं धूर्धुरं धूर्वराणाम् सुधूर्धूरसि धूर्धुराणां धूरसि धूर्वंग मे14 स्वाहा ७.२.१२.५ [६.१०] यो वा व्यहिंषीज्जरयाजरन्तं तन् दैत्यमुख्यममृतात्मरूपम् सुखुरं खुराणां किञ्चित्स्वनन्तं तस्मै नृसिंहाय सुरेशपित्रे स्वाहा

७.२.०.६ वरदाय पित्रे स्वाहा सुरेशपित्रे स्वाहा

७.२.१३.१ [७.१] तपोनिधिं तपसां रयिन्दं रयिमायुरंगं व्यसनौघहिंस्रम् सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरबृन्दकर्त्रे स्वाहा ७.२.१३.२ [७.२] यो वा नृसिंहो विजयं बिभर्षि राराजिमन्तं रयिदं कवीनाम् सराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुशेवधये शेवधये स्वाहा ७.२.१३.३ [७.३] रयिः ककुद्मान् विदधद्विनष्टं15 रयिमद्विधानम् तस्मै ककुत्रे विकटाय पित्रे स्वाहा ७.२.१३.४ [७.४] राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नस्सुभगा बोधतु त्मना16 सीव्यत्वपस्सूच्याच्चिद्यमान या ददातु वीरँ शतदायमुक्थ्यँ स्वाहा ७.२.१३.५ [७.५] वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते स्वाहा

७.२.१४.१ [७.६] दिग्दोषा यस्य विदिशस्स्वकर्णौ द्यौरास वक्त्रमुदरन्नभो वा सासि ष्म वा यास्स्वयमाप दंतं तस्मै वरत्रे वरदाय कस्मै स्वाहा ७.२.१४.२ [७.७] पद्मास्यवक्षाः परमस्सुपुण्यः पद्मा जनित्री परमस्य वासः सूक्ष्मं सावित्रं स्वयमादधानस्सावित्ररूपं परमं सुपुण्यँ स्वाहा ७.२.१४.३ [७.८] यः पुण्डरीकः परमान्तरात्मा कम्रांगरूपं कमलं दधार सरसे रसाय स्वाहा ७.२.१४.४ [७.९] रयीणां पतिं बृहन्तं रारागमुक्तं गुरुं सनीकम्17 तं रायो रूपं रयिभूतभूतं रयिमत्सुरमित्रे18 स्वाहा ७.२.१४.५ [७.१०] रायां पतत्रे रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुष्टाम् राराजिमन्तं रतये रमन्तं तं बिंबवन्तं ककुदाय भद्रे स्वाहा

७.२.०.७ यदास्ते स्वाहा भद्रे स्वाहा

७.२.१५.१ [८.१] यत्सारभूतं सकलं धरित्रं मोदप्रायेणानुभूतमनुविद्धम् सूक्ष्मस्सुरेशस्सकलं बिभर्ति तस्मै सुरेशाय सकलं सुपुण्यँ स्वाहा ७.२.१५.२ [८.२] फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति विमलोऽमलाख्यः तस्मै वरत्रे वरदस्य पुष्ट्यै स्वाहा ७.२.१५.३ [८.३] धूर्नो वहन्तां रतये रमन्तां पुंभूतिमन्तस्समयस्सुषुम्ना अं राजिमन्तं सकलस्य गुप्त्यै स्वाहा ७.२.१५.४ [८.४] विश्वं बिभर्षि प्रसुरो रुदन्तं संराजिमन्तं सकलं प्ररूढम् स नो वितत्य प्रहिणोतु पत्रे स्वाहा ७.२.१५.५ [८.५] सो वा स्वरूपस्समदृक्समग्रो विधुदं तुदन् यो विदधत्पदं वा वियति प्रकाशं बृहते रुहेण तं बिंबवन्तं समदं समग्रँ स्वाहा

७.२.१६.१ [८.६] भूर्भुवं वा भुवो वा सुवो वा किञ्चित्स्वनन्तं सुषुवे समस्तम् सर्वस्य दातारमजरं जरित्रे स्वाः ७.२.१६.२ [८.७] दाक्षायण्यां प्रसृतं समस्तं सम्कोचयित्वा सकलं वितानम् संवासयन्मे सकलं वरिष्टं तस्मै प्रजेशाय धुरंधराय स्वाहा ७.२.१६.३ [८.८] आशास्समस्ताः प्रतरन् वन्तस्तास्ता वसेद्या कमला समस्ता सा मे गृहे वा समदत्त पुष्टिँ स्वाहा ७.२.१६.४ [८.९] यो जंगमानां सकलं बिभर्षि19 सर्वं वियद्वा विचरेत शक्ष्यन् तन्नौर्जले वपुष्यन्त्यजस्रँ स्वाहा ७.२.१६.५ [८.१०] यो वा दशानां प्रसृतास्समस्तास्तांस्तान् दधानास्समयात्सबीजाः शब्दातिरिक्त्यै स्वबलं बलाय स्वाहा

७.२.०.८ समग्रँ स्वाहा बलाय स्वाहा

७.२.१७.१ [९.१] चत्वारो दोषाः प्रहरन्ति यस्य सर्वस्य गोप्त्रे सरसाय धाम्ने सोमस्य पुण्यं रयिमत्प्रवृद्ध्यै स्वाहा ७.२.१७.२ [९.२] वक्षो वसत्यस्य वरां वरिष्ठं वाकन् दधाना ववृधे समस्तम् तस्मै वरिष्ठाय वरप्रवृद्ध्यै स्वाहा ७.२.१७.३ [९.३] अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशँ स्वाहा ७.२.१७.४ [९.४] विष्णुर्वरिष्ठो वरदानमुख्यो यो विश्वर्षीन् ध्यायन्नु कुर्वन् विश्वं हीषद्20 व्यदधत्तमत्र तद्विष्णवे याः प्रभविष्णवे या अमितं भरत्रे स्वाहा ७.२.१७.५ [९.५] अब्जो जुषन्तः प्रवदत्पतन्तः पूं पूं21 पुषन्तः पुनर्यः प्रवालः22 कं कं जनित्रे समतेजसन् ते स्वाहा

७.२.१८.१ [९.६] मामात्मगुप्तां वहते स्म भूत्यैतां राजिमन्तां सुधूर्धूरयन्तीम् धूरसि ध्रुवाय स्वाहा ७.२.१८.२ [९.७] यं चिन्तयन्तो निगमान्तरूपं यं विश्वरूपं परमात्मरूपम् तं विन्दमानां सकलं व्रजन्तीं तं देवमुख्यं सुरतं भवाय स्वाहा ७.२.१८.३ [९.८] पुण्यां च पुण्यः पुरुषे पुर्अग्रे तां राजिमन्तां निशि चोदितानाम् विदधाति पुष्ट्यै हरन्पराय स्वाहा ७.२.१८.४ [९.९] सो नो भूतो यो वामृतात्मा सुपुष्टिमस्मत्पितरं पवित्रम् सो नोऽस्तु भूत्यै कमलावराय स्वाहा ७.२.१८.५ [९.१०] स त्वेव नित्यं सकलास्समूर्तयस्सरतास्त्वनन्ताः ते जीजयन्तो वियति क्षयाणां तत्तत्शवित्रे हरते हराय स्वाहा

७.२.०.९ सन्ते स्वाहा हराय स्वाहा

७.२.१९.१ [१०.१] या गा वरिष्ठा सहसूर्धरित्री वसुं वसुं वै वसुनीह भद्रा रेरीजयन्तो रजितं रजते स्वाहा ७.२.१९.२ [१०.२.] वायुरन्तरात्मा वहती समस्तस्सपुण्य देवेति स सूरिमुक्तः सूरिस्सुराणां सुरसोऽप्यसुन्दस्समूह्य देवाय वरदाय पित्रे स्वाहा ७.२.१९.३ [१०.३] सर्वोपरिष्टादधि तिष्ठतात्मा यस्योपरिष्टात्परमस्समुक्तः तं नीरजन्तमनुसंपराय स्वाहा ७.२.१९.४ [१०.४] तमस्सर्वभूतमधुनोद्वरेण्यस्तं सत्वरूपं सकलं प्रकाश्य संक्लेशयन्त्सृष्टिनिमित्तये यस्तस्मै परंब्रह्मणे परंज्योतिषे स्वाहा ७.२.१९.५ [१०.५] ज्योतिर्ज्योतिषां ज्योतिरोजो बलं सत्वं सत्वात्मकं संज्योतिरित्थं तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा

७.२.२०.१23 [१०.६] सत्वं सत्वात्मकं वा रजो रजस आत्मकं तमस्तमस आधारस् साकृतं तं निरीश्वरमीश्वराय स्वाहा ७.२.२०.२ [१०.७] अनिर्भिण्णं यस्येदमासीदासीदुदकमात्मकम् यस्यो दावोदन्अर्थम्24 उच्चमुच्चैरुरुगाय स्वाहा ७.२.२०.३ [१०.८] यस्येच्छा लोके वा प्रजायतिर्लोके यन्नैवासीत्तन्नैवासीत् यद्वा संजातं यत्सर्वमीशमीशिषे स्वाहा ७.२.२०.४ [१०.९]25 यो वेदादिः परमः परो ब्रह्मा त्रिमात्रस्त्रयीमूर्तिकः शब्दश्शब्दातिगः परंब्रह्मणे परंज्योतिषे स्वाहा ७.२.२०.५ [१०.१०]26 यो वाऽव्यक्तं सकलं प्रवृद्ध्यै यदिदं सर्वमासीत् सानन्दं साकृतं तं हरन् पराय स्वाहा

७.२.०.१० तेजसे स्वाहा पराय स्वाहा

७.२.२१.१ [११.१]27 यो वा भूतेर्भूतिरासीत्सा वानन्दं प्रत्यानन्दम् संजुषन् व्रजामि28 सत्यं सत्याय स्वाहा ७.२.२१.२ [११.२] सत्यस्सत्यस्थस्सत्यलोकस्थस्सत्यं सञ्जनित्रमासीत् सत्यं सत्याय रंहसे स्वाहा ७.२.२१.३ [११.३] ऋतँ सत्यममितं पुराणमादिं जनित्रममृतं सुरेन्द्रम् संज्योतिषां जुषमाणं29 जुषस्व स्वाहा ७.२.२१.४ [११.४] अं राजिमन्तं सकलस्य गुप्तिं सोमे जुषन्तममृतं बिभर्ति रयिमत्सुपुष्टिं गुणवन्तमत्र तस्मै सुपुण्याय वरदाय पित्रे स्वाहा ७.२.२१.५ [११.५] मामात्मगुप्तां सत्वस्य सर्वस्य वितानरूपां संजूजुषन्तीं परमां पवित्राम् सन्तारयन्तीं स्वयमप्रमत्तां संयोजयित्रे वरदाय पित्रे स्वाहा

७.२.०.११ पित्रे स्वाहा द्वे च [Cओलोफोन्:]

हरिः ओम् तत्त्सत् श्री श्रीनिवासार्पणमस्तु


  1. Text: सार्व ↩︎

  2. Text: अन्मरात्मा ↩︎

  3. Text: प्राहिण्वन् ↩︎

  4. Vंড়् तेxत्१९८४ एदितिओन्: सुषुप्त्याग्. १९४६ एदितिओन्: सुषुप्त्यान्. ↩︎

  5. Text: कं ↩︎

  6. १९४६ एदितिओन्: तं ↩︎

  7. १९४६ एदितिओन् भूतानां ↩︎

  8. परमात्मानं रेअदस्परमात्मायं ↩︎

  9. Text: अनुभूमि ↩︎

  10. १९४६ एदितिओन्: रूपाय ↩︎

  11. १९४६ एदितिओन्: सुपुण्यात्मकम् ↩︎

  12. Text: आलाळयन् ↩︎

  13. Text: लाळित ↩︎

  14. Text: मेस् ↩︎

  15. Text: द्विनष्टं ↩︎

  16. १९४६ एदितिओन्: द्मना ↩︎

  17. Fरोम्: सनी, गिfत्. ंॣ प्. ११४१. ↩︎

  18. ড়ूB: सुरत्रे इन्स्तेअदोf सुरमित्रे; ऊष्: सुरत्रः इन्स्तेअदोf सुरमित्रे ↩︎

  19. Text: बिभिर्षि ↩︎

  20. Text: हीहिषद् ↩︎

  21. Text: पूं ↩︎

  22. Text: प्रवाळः ↩︎

  23. २१ इन् बोओक् ↩︎

  24. Text: दावोधन्अर्धम् ↩︎

  25. ंिस्सिन्गिनूष् ↩︎

  26. ंिस्सिन्गिनूष् ↩︎

  27. ठिसध्याय मिस्सिन्गिनूष्. ↩︎

  28. Text: वृजामि ↩︎

  29. १९४६ एदितिओन्: ऋषमाणं ↩︎