श्री श्री विखनस महागुरवे नमः श्रीवैखानसमन्त्रप्रश्नाष्टके षष्टःप्रश्नप्रारम्भः
६.१.१ हरिः ओं ६.१.२ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्यास्सप्तधामभिस्स्वाहा ६.१.३ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् समूढमस्य पाँसुरे स्वाहा ६.१.४ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः [त्]अतो1 धर्माणि धारयन् स्वाहा ६.१.५ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यस्सखा स्वाहा ६.१.६ तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः दिवीव चक्षुराततँ स्वाहा ६.१.७ तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते विष्णोर्यत्परमं पदँ स्वाहा
६.०.१ चक्षुराततँ स्वाहा द्वे च
६.२.१2 सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् स भूमिं विश्वतो वृत्वात्यतिष्टद्दशाङ्गुलँ स्वाहा ६.२.२ पुरुष एवेदँ सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वस्येशानो यदन्नेनातिरोहति स्वाहा ६.२.३ एतावानस्य महिमातो ज्यायाँश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि स्वाहा ६.२.४ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विष्वङ्व्यक्रामत्साशनानशने अभि स्वाहा ६.२.५ तस्माद्विराड्3 अजायत विराजो अधि पूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरस्स्वाहा
६.३.१ यत्पुरुषेन हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविस्स्वाहा ६.३.२ सप्तास्यासन् परिधयस्त्रिस्सप्त समिधः कृताः देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुँ स्वाहा4 ६.३.३ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये स्वाहा ६.३.४ तस्माद्यज्ञाथ्5 सर्वहुतस्संभृतं पृषदाज्यं पशूँस्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये स्वाहा ६.३.५ तस्माद्यज्ञाथ्6 सर्वहुतो7 ऋचस्सामानि जज्ञिरे छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत स्वाहा
६.४.१ तस्मादश्वा अजायन्त ये के चोभयादतः गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयस्स्वाहा ६.४.२ यत्पुरुषं व्यदधुः कतिधा व्य्कल्पयन् मुखं किमस्य कौ बाहू का ऊरू पादाव्8 उच्येते स्वाहा ६.४.३ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत स्वाहा ६.४.४ चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत स्वाहा ६.४.५ नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौस्समवर्तत पद्भ्यां भूमिर्दिशश्श्रोत्रात्तथा लोका(ग्)मकल्पयन्9 स्वाहा ६.४.६ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरो10 नामानि कृत्वाभिवदन् यदास्ते स्वाहा ६.४.७ धाता पुरस्ताद्यमुदाजहार शक्रह्प्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वानमृत इह भवति नान्यह्पन्था अयनाय विद्यते स्वाहा11 ६.४.८ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्12 ते ह नाकं महिमानस्सचन्ते13 यत्र पूर्वे साध्यास्सन्ति देवास्स्वाहा14
६.०.२ पुर स्वाहाऽजायत स्वाहाऽकल्पयन् स्वाहा षट्च
६.५.१ हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजाम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह स्वाहा15 ६.५.२ तां म आवह जात वेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं स्वाहा16 ६.५.३ अश्वपूर्वां17 रथमध्यां हस्तिनादप्रबोधिनीम् श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषतां स्वाहा18 ६.५.४ कांसोस्मि तां हिरण्य प्राकारा मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् पद्मे स्थितां पद्मवर्णां त्वामिहोपह्वये श्रियं स्वाहा19 ६.५.५ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि स्वाहा20
६.६.१ आदित्यवर्णे तपसोऽधिजातो वनस्पति स्तव वृक्षोऽथ21 बिल्वः तस्य फलानि तपसा नुदन्तु मायान्तरा याश्च बाह्या अलक्ष्मीस्स्वाहा22 ६.६.२ उपैतु मां देवसखः कीर्तिश्च मणिना सह प्रादुर्भुतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे स्वाहा23 ६.६.३ क्षुत्पिपासामलां ज्येष्टामलक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात्स्वाहा24 ६.६.४ गन्धद्वारां दुराधर्षान्नित्य पुष्टां करीषिणिम् ईश्वरीँ सर्वभूतानां तामिहोप ह्वये श्रियं स्वाहा25 ६.६.५ मनसः काममाकुतिं वाचस्सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीश्श्रयतां यशस्स्वाहा26
६.७.१ कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियं वासय मे कुले27 मातरं पद्ममालिनीं स्वाहा28 ६.७.२ आपस्सृजन्तु स्निग्धानि29 चिक्लीत वस मे गृहे नि च देवीं मातरं श्रियं वासय मे कुले स्वाहा30 ६.७.३ आर्द्रां31 पुष्करिणीं पुष्टिं पिङ्गलां32 पद्ममालिनीम्33 ६.७.४ चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह स्वाहा34 ६.७.५ आर्द्रां यष्करिणीं35 यष्टिं सुवर्णां हेममालिनीम्36 ६.७.६ सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह37 स्वाहा38 ६.७.७ तां म आ वह जतवेदो लक्ष्मीमनपगामनीम् यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहं स्वाहा39 ६.७.८ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्स्वाहा
६.०.३ वृणोमि स्वाहा यश स्वाहा नहं स्वाहा द्वे च
६.८.१ भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे स्वाहा40 ६.८.२ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः पितरं च प्रयन् स्थुवस्41 स्वाहा42 ६.८.३ त्रिँशद्धाम वि राजति वाक्पतङ्गाय शिश्रिये प्रत्यस्य वह द्युभिस्स्वाहा43 ६.८.४ अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिषस्सुवस्स्वाहा44 ६.८.५ य45 त्वा क्रुद्धः परो वप मन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि स्वाहा46
६.९.१ यत्ते मन्युपरोप्तस्य पृथिवीमनु दध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् स्वाहा47 ६.९.२ मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिमं दधातु बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ताँ स्वाहा48 ६.९.३ सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा49 ६.९.४ पुनरूर्जा नि वर्तस्व पुनरग्न इषायुषा पुनर्नः पाहि विश्वतस्स्वाहा50 ६.९.५ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया विश्वप्स्निया विश्वतस्परि स्वाहा51
६.१०.१ मेदिनी देवी वसुंधरी स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणाँ श्रोत्रं विष्णुर्मनस्स्वाहा ६.१०.२ देवि हिरण्यगर्भिणी देवी प्रसोदरी रसने सत्यायने सीद स्वाहा ६.१०.३ समुद्रवती सावित्रीह नो देवी मह्यकी महाधरणी महोध्य तिष्ठ स्वाहा ६.१०.४ शृङ्गेशृङ्गे यज्ञेयज्ञे विभीषणी इन्द्रपत्नी व्याजनी सुरसित इह स्वाहा52 ६.१०.५ वायुपरी जलशयनी स्वयन्धारा सत्यन्थो परिमेदिनी सोपरि धत्तंगाय स्वाहा ६.१०.६ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धराः प्रचोदयात्स्वाहा
६.०.४ पुनस्त्वोद्दीपयामसि स्वाहा विश्वतस्परि स्वाहा सोपरि धत्तंगाय स्वाहा द्वे च53
६.११.१ स्वस्ति चैवेह स्वाहा ६.११.२ प्रजापतये स्वाहा ६.११.३ अग्निर्धीमतये स्वाहा ६.११.४ आदित्येभ्यस्स्वाहा ६.११.५ विश्वेभ्यो देवेभ्यस्स्वाहा ६.११.६ मरुद्गणेभ्यस्स्वाहा ६.११.७ भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा
६.१२.१ इमं मे वरुण प्रजापते न त्वच्चित्तं चाग्निर्भूतानामृताषाट् ६.१२.२ यद्देवा यद्देवा यददीव्यन्54 आयुष्टे वैश्वानराय ६.१२.३ चिरायुषं यं प्रवदन्ति धीरास्समस्तवेदार्थविदां वराय मार्कण्डेयाय महामुनये स्वाहा ६.१२.४ पुण्यौघनिष्ठाय पुरातनाय नित्यात्मने ब्रह्मविदां वराय स्वाहा ६.१२.५ पद्मापित्रे वेदभृतां वराय महावीर्यायामिततेजसे स्वाहा ६.१२.६ भृगवे महामुनये ब्रह्मनित्याय ब्रह्मात्मने ब्रह्मसुताय स्वाःा
६.१३.१ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः स बुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवस्स्वाहा ६.१३.२ हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम स्वाहा ६.१३.३ रुद्रमन्यं बहुतो हुतं वृषभं नमस्ते अस्तु तन्मे अस्तु बाहुभ्यां वीतये स्वाहा ६.१३.४ त्र्य्अम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्स्वाहा ६.१३.५ द्यावापृथिव्योश्शुगशुक्सन्नियोक्त्रोः सम्मान्ययोः ख्याती तु कौरमेताँ स्वाहा
६.१४.१ यस्याश्श्रियो वा अनुजा अग्रजाया यामेवाजस्रँ सुहुतं विश्वविद्भ्याम् ताभ्यां प्रसन्नाभ्याँ ह्रासवृद्धी भवेताँ स्वाहा ६.१४.२ तस्थुषो धृत्या धरते यानि शंसः यस्येह तस्मै भुव एवं जुहोमि स्वाहा ६.१४.३ य एष बिभ्रत्युरु तेजः पतङ्गः दिवस्परि स्थो भवतो यस्य वेत्तु स्वाहा ६.१४.४ वि तत्य विश्वं विदधात्यृतंन्नः55 वृत्या वृत्तं तस्य नीतं तमेतत्स्वाहा ६.१४.५ यो नोऽभिरक्षत्यवमाय नस्तु56 यस्त्रय्या संवर्धयन् पूरयति तस्मै सर्वछन्दसो संव्ययन् ताँ सा नो देवी मानसीमानमेताँ स्वाहा
६.१५.१ मुनीन्द्रं ब्रह्मनित्याय वरोत्कृष्टाय दौवारिकप्रधानाय मणिकाय स्वाहा ६.१५.२ सन्ध्यायै मुनिपत्न्यै प्रभावत्यै दृढव्रतायै स्वाहा ६.१५.३ वैखानसायाच्युतसँश्रयाय तपोइग्रनिष्ठाय च ब्रह्मदर्शिने स्वाहा ६.१५.४ तापसाय सिद्धिराजाय सँहिताय सहस्राश्वमेधिने स्वाहा ६.१५.५ किष्किन्धाय बहुमर्दनाय बहुसेनाय दृढव्रताय स्वाहा ६.१५.६ तीर्थाय सर्वसुखावहाय सर्वयोग्याय सर्वदर्शिने स्वाहा
६.०.५ महते च स्वाहा ब्रह्मसुताय स्वाहा कौरमेताँ स्वाहा मानमेताँ स्वाहा दृधव्रताय स्वाहा द्वे च
६.१६.१ त्रातारमिन्द्रमवितारमिन्द्रँ हवेहवे सुहवँ शूरमिन्द्रम् हुवे नु57 शक्रं पुरुहूतमिन्द्रँ स्वस्ति नो मघवा धात्विन्द्रस्स्वाहा58 ६.१६.२ महा(ग्)मिन्द्रो य ओजसा पर्जन्यो वृष्टिमा(ग्)मिव स्तोमैर्वत्सस्य59 वावृधे स्वाहा60 ६.१६.३ महा(ग्)मिन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनस्सहोभिः अस्मद्रियग्वावृधे वीर्यायोरुः पृथुस्सुकृतः कर्तृभिर्भूत्स्वाहा61 ६.१६.४ भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः भुवो नॄँश्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे स्वाहा62 ६.१६.५ एन्द्र सानसिँ रयिँ सजित्वानँ सदासहम् वर्षिष्ठमूतये भर स्वाहा63
६.१७.१ प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु इन्द्रा भर दक्षिणेना वसूनि पतिस्सिन्धूनामसि रेवतीनाँ स्वाहा64 ६.१७.२ अस्माकमिन्द्रस्समृतेषु ध्वजेष्व्65 अस्माकं या इषवस्ता जयन्तु अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु स्वाहा66 ६.१७.३ इन्द्रोऽभूदस्य भुवनस्य राजेन्द्रो दाधार पृथिवीन् द्यामुते माम् इन्द्रो ह विश्वानि भूतानि भुवनाश्रितानि स्वाहा ६.१७.४ इन्द्रो द्यौर्व्योम भूरिन्द्रस्समुद्भव नो विराट्पश्च उर्व्अन्तरिक्षस्वर्गपवनमिन्द्रादिन्द्रं मन्ये पितरं मातरं च स्वाहा ६.१७.५ इन्द्रं प्रणयन्तं वपुरिन्द्रँ स्रवन्तँ सवितारमिन्द्रं दधातु शक्रस्सुकृतस्य लोकमिन्द्रं मन्ये पितरं मातरं च स्वाहा
६.१८.१ इन्द्रो वृत्रं वज्रेणावधीदिन्द्रो व्ययस्समुद्रशुष्कः इन्द्रं मन्ये पितरं मातरं च स्वाहा ६.१८.२ इन्द्रो बभूव ब्रह्मणो गम्भीरमाभूतिपरितुष्टिः इन्द्रो भविष्यदुत भूतमिन्द्रं मन्ये पितरं मातरं च स्वाहा ६.१८.३ इन्द्रोऽस्मानवतु वज्रबाहुरिन्द्रो भूतानि भुवनानि इन्द्रोऽस्माकमवतु वज्रप्रसादमिन्द्रं मन्ये पितरं मातरं च स्वाहा67 ६.१८.४ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपाँ रेताँसि जिन्वति स्वाहा ६.१८.५ अयमग्निस्सहस्रिणो वाजस्य शतिनस्पतिः मूर्धा कवी रयीणाँ स्वाहा
६.१९.१ यमो दाधार पृथिवीं यमो द्यामुत सूर्यः68 यमस्सर्वमृत्युस्स्तेनः69 प्राणानां वायूनाँ स्वाहा ६.१९.२ नमस्ते निरृतये घनतेजाय तस्मै विसृज बन्धनात् ६.१९.३ यम नय त्वँ सविता देव उत्तमाननीके अभिरोचय यायिनाँ स्वाहा ६.१९.४ वसवः प्रथमो देवतानाँ सोऽस्य प्रजां पशून् पाहि ६.१९.५ अतो देवेभ्यः पशुभिर्यो वै वसवस्स्वस्त्यस्तु स्वाहा ६.१९.६ सहस्राक्षो वा अयमग्निः पितरो देवतानाम् ६.१९.७ वसून् यत्र वसवो भूतानां पालयन्ति तस्मा अन्यवसुभ्य स्वाहा ६.१९.८ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वेदेवा मुञ्चन्तु मरुतस्स्वस्त्या स्वाहा
६.२०.१ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमँ श्रथाय अथा वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा ६.२०.२ अयाश्चाग्नेऽस्यनभिशस्तीश्चायातः यज्ञं वहतु सदा धेहि भेषजँ स्वाहा ६.२०.३ आपस्सृजन्तु70 स्निग्धानि चिक्लीत वस मे गृहे नि च देवीं मातरं श्रियं वासय मे कुले स्वाहा ६.२०.४ मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम् परमात्मानं मन्ये अजरं योऽग्निरहमन्नं वायवे स्वाहा ६.२०.५ मरुतो गणानां प्रथमस्सप्तधानां मूर्धा वायो अन्यमजरँ श्रियम् होतारं वै रयन् त्वाहुरग्ने हव्यं मरुद्भ्यस्स्वाहा ६.२०.६ मिश्रवाससः कौबेरका रक्षोराजेन प्रेषिताः ग्रामँ सजानयो गच्छन्तीच्छन्तो परिदाकृतान्त्71 स्वाहा ६.२०.७ एतान् घ्नतैतान् गृह्णीतेत्ययं ब्रह्मणस्पुत्रः तानग्निः पर्यसरत्तानिन्द्रस्तान् बृहस्पतिः तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान् विकेशाण्लम्बनस्तनान्थ्72 स्वाहा ६.२०.८ ईशानस्सर्वलोकानां त्र्य्अम्बकस्सर्वविद्यानाम् न द्वितीयो भवोद्भवाय स्वाहा ६.२०.९ ईश ईशित्रे भूर्भुवस्सुवरीशाय लोकानाम् भीमाय वामदेवाय स्वाहा
६.०.६ भर स्वाहा मातरं च स्वाहा रयीणाँ स्वाहा स्वस्त्या स्वाहा मरुद्भ्यस्स्वाहा नव च
६.२१.१ उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यँ स्वाहा ६.२१.२ चित्रन् देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्रा द्यावापृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषपश्73 च स्वाहा ६.२१.३ ममाग्ने वर्चो विहवेष्वस्तु वयन् त्वेन्धानास्तनुवं पुषेम मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम स्वाहा74 ६.२१.४ अहमग्नेरग्निं गृह्णामि ममाग्नेऽग्निर्ममान्तरिक्षम् मार्गोऽहमस्मिन् प्रमदान् कामये तुभ्यं मनसा प्रजापतये स्वाहा ६.२१.५ अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि75 बर्हिषि स्वाहा
६.२२.१ प्रभुर्देवो मन्दोऽसितश्चाव्ययः पुरुषो विश्वाय सूर्याय स्वाहा ६.२२.२ ग्रहाधिपतिः पृथिवी चान्तरिक्षं च ६.२२.३ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ६.२२.४ बृहस्पतिर्देवानामिमं यज्ञं बृहतो मे दधातु बृहस्पतिवीतये स्वाहा ६.२२.५ बृहस्पतिस्सोमन् दधातु बृहस्पतिर्यज्ञं दधातु बृहस्पतिवीतये स्वाहा ६.२२.६ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रँ स्वाहा
६.२३.१ उपयामगृहीतोऽसि बृहस्पते त्वेषते योनिः बृहस्पतिवीतये स्वाहा ६.२३.२ श्रविष्ठजो यः परमो नु गोप्ता प्रजापतेः प्रथमँ हूयमानः ६.२३.३ प्रजापतयेऽसूयमान सुषुवे यं भपस्स्वाहा ६.२३.४ तद्विष्णोः परमं तद्विप्रासः ६.२३.५ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहा ६.२३.६ सुभूस्स्वयम्भूः प्रथमं76 महत्यर्णवे दधे ह गर्भमृत्वियम् यतो जातः प्रजापतिस्स्वाहा ६.२३.७ भू भामिनी भुवेभुवे ६.२३.८ भूर्भुवस्सुवर्लोकपावन्यै स्वाहा ६.२३.९ इष्टगामिन्यनिष्टघ्नी नलिन्य्77 एकमूर्ध्नि तस्थुर्जाह्नव्यै स्वाहा ६.२३.१० सोम यास्ते मयोभुव ऊतयस्सन्ति दाशुषे ताभिर्नोऽविता भव स्वाहा ६.२३.११ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु तेभिर्नो विश्वैस्सुमना अहेदन्78 राजन्थ्79 सोम प्रति हव्या गृभाय स्वाहा ६.२३.१२ रुद्रमन्यं त्र्य्अम्बकम्
६.०.७ बर्हिषि स्वाहा चित्रँ स्वाहा सुवेष्टौ च
६.२४.१80 जगद्भुवं बहुतो हुतं यजद्भुवन्नमस्ते अस्तु विश्वभुवे स्वाहा ६.२४.२ जगद्भवोऽधिपतिस्सेनानीर्मयूरप्रियष्षडानन आङ्गारः सञ्जया ह नमस्तेऽस्तु सुखावहाय स्वाहा ६.२४.३ सुब्रह्मण्यो81 बृहस्पतेस्सुतायास्य पद्मयोनेः यस्यात्मा वहने वहति स्वाहा ६.२४.४ सुब्रह्मण्यो रुद्रभुवो ब्रह्मभुवः भवोद्भवो ममामृताय स्वाहा ६.२४.५ जगद्भुवस्सुब्रह्मण्यः कृत्तिकासुतः षष्टिकाय स्वाहा
६.२५.१ जगद्भुवो यो यजद्भुव स्कन्दविशाखनेता हव्यमस्मात्षण्मुखाय स्वाहा ६.२५.२ अतो देवा इदं विष्णुः ६.२५.३ या ब्रह्मचारिण्यमराणामुदग्रायास्सन्नमिता अग्र एता रमन्ते तस्या आनय त्वं हविषो मातरिश्वन्त्स्वाहा ६.२५.४ सा चारुजन्माऽमला कस्य जाता भूतैस्सुमान्या विविधैश्शङ्करैषा हृषाधृष्या बहिरन्तर्वसूनाँ स्वाहा ६.२५.५ एषामराणाङ्गुरवे सत्यमादधाति या प्रादधच्चावनिगोपाम् सदस्या रमेत सा रक्षतु नस्सदा वै स्वाहा ६.२५.६ याम्या नियम्या परमा काल82रन्ध्रा काकानिभा सूनिनी सा रमेताम् दत्तं जप्तं पूजितं वा हुतन्नस्तस्या अग्नावेतु पातु सदा नस्स्वाहा83
६.२६.१ जातवेदसे सुनवाम सोममरातीयतो नि दहाति84 वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्नि स्वाहा ६.२६.२ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् दुर्गां देवीँ शरणमहं प्रपद्ये सुतरसि तरसे नमस्85 स्वाहा ६.२६.३ अग्ने त्वं पारया नव्यो अस्मान्थ्86 स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योस्स्वाहा ६.२६.४ विश्वानि नो दुर्गहा जातवेदस्सिन्धुं न नावा दुरिताति पर्षि अग्ने अत्रिवन्मनसा87 गृणानोऽस्माकं बोध्यविता88 तनूनाँ स्वाहा ६.२६.५ पृतनाजितँ सहमानमग्निमुग्रँ हुवेम परमात्सधस्थात् स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निस्स्वाहा ६.२६.६ प्रत्नो षि89 कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि स्वां चाग्ने तनुवं पिप्रियस्वास्मभ्यं च सौभगमा यजस्व स्वाहा
६.०.८ षष्टिकाय स्वाहा रमेतां त्सधस्था त्रीणि च
६.२७.१ नन्दिन्या मूलवत्या जगतो वसत्या ज्येष्ठाया अस्तु सुहुतँ हुतम् स्वसुर्देव्या धरित्र्या रजतप्रियायास्स्वाहा ६.२७.२ आपो विवेश प्रजया ब्रह्मदारास्स्कन्दप्रबर्हं भरणे विद्म देव्याः वेगिनी देवी शर्म देयात्सदा नस्स्वाहा ६.२७.३ शाखाभूत सुशाखया दिवो भेत्तुमयूयुजत् धाता देव्या यजाम होमाग्र्यां तत्र वाहिन्युदेतु स्वाहा ६.२७.४ देवी प्रवाहिन्य् अनिशं पातिभूतँ सर्वं छन्दो विकीरयन् भजतो मे शिवं धत्तां जया वृत्तं जरयत्वाधिमेषा स्वाहा ६.२७.५ बिसिनी भूता जननीवा सृजन्त्युतावनीता ब्रह्मण्यध्युपास्ते तां विद्युताँ सम्यगु तर्पयामि स्वाहा
६.२८.१ प्रविद्युताया सुमनोधरा चामुं विरञ्जत्य्90 अत एष पन्थाः तस्याभवत्विन्दुकरानुरञ्जो जुहोमि सा नो शिवदा विधेया स्वाहा ६.२८.२ गङ्गावाणी सरस्वती फलत्यूर्ध्वँ शिवाय नस्सदाभया भवेत् तत आदानमेमि धातुस्समस्तं विसृजन्तीह देव्यास्तस्या अग्नावेतु पातु सदा नस्स्वाहा ६.२८.३ विद्यां न्नो मातु वितनोतु मानँ सोमेन सौम्यामवतारयन्तु तया प्रत्यङ्गं विवृतं यद्विशामोऽमोघं विद्म प्रजया ब्रह्म एतत्स्वाहा ६.२८.४ माता ह्यमेया मही मूर्तिमत्या यया सत्वं91 वितनोतीन्द्रियेषु यस्या अस्या वशनिष्ठमजायत स्वैरिण्या सा भूतये मे भवेताँ स्वाहा ६.२८.५ आयामहन् त्वा जननीं प्राणिन[स्] स्युः प्राज्ञाः प्रज्ञातामेत्याध्यवस्थां मम धियो नियोगम् प्रवाहिण्यनैषि मम धेहि92 प्रियँ सा मा न हिँसी स्वाहा
६.२९.१ यया सतस्सत्यं वरत उदितं ज्यायो जायायै जरसं विधत्ते तत उज्जिहानां तनुभिश्चतुर्भिरिमामगच्छत्स्वकया महिम्ना स्वाहा ६.२९.२ प्रसविण्यङ्गे मनवो विचक्षवो यया तु वृद्धिं वर्धयन्तो वियान्तः सुबोधमानिन्युः प्रसवं प्रजानां तदा त एभिर्वहन्तु पुष्टिँ स्वाहा ६.२९.३ याभ्यो हि तप्तङ्कृन्वन्तो93 इनुजाता याभ्यो94 भवत्यर्चिर्हरा च धूर्तिः देव्यः प्रसन्ना धवसम्मता या वहन्तु नश्शँ सुयशः क्रियासु स्वाहा ६.२९.४ या मानसा वाधिगतानुषङ्गाः क्रियासु सत्यः प्रसवस्स्ववैतु सन्नीयते याभिरवन्तु देव्यो यजामहे95 तद्धविषो तताभ्यस्स्वाहा ६.२९.५ यतस्स्वमासीद्धृदयादनादेरृषिस्त्विषादीप्य जगद्दधार ख्यातेरीशसे धृग्अग्नौ जुहोमि स्वाहा
६.३०.१ अस्मा अस्माद्96 आददानो97ऽद एनो98 बुद्धिना यो स्वतपसः आय मां भूयो भूयस्सृते99 घृते स्वाहा ६.३०.२ कस्याङ्गिरा अभूच्छिरसो यं मनन्ति श्रेष्ठं विभोर्वीती होत्रे ददेयँ स्वाहा ६.३०.३ विस्मापयत्यत्र मुदा बभासे पोपुष्यते स्यात्प्रभयागमो नस्स्वाहा ६.३०.४ व्यावर्तते यो विबुधो व्यान एष व्यापूरयन्नो धरते100 सर्वमर्वाक् तस्मादेवं जुहुतश्शँ समेतु स्वाहा ६.३०.५ स स्मा101 रसोऽग्रे असृजच्चतस्रः कन्यास्स उक्थ्यं च स कीर्तिमन्तः स्मृत्या तस्मादित एतु होतुस्स्वाहा
६.३१.१ य एषोदान102 उदितः पुलस्त्य उपोष103 विश्वं प्रभयाहमस्मै जुहोमि ऋषये सोऽवतु104 शर्म स्वाहा ६.३१.२ आनन्द रोदैत्य सरः पुलस्त्यः प्रीत्या त्रयन् तत्सहते द्वितीयः तस्यास्ति सान्निध्यन्नियतँ रक्षतु स्वाहा ६.३१.३ प्र प्रायशो पान105 इदं वपुर्यस्ते पापमग्र्यः क्रतुकीर्तिकामः तमाहुतीर्योऽजुहुत प्रेत एषस्स्वाहा ६.३१.४ ये निष्यन्ता अजायन्त पतन्त्यर्कपथा अपि तन्तुस्तर्हि तस्मै यजानि स्वाहा ६.३१.५ यो नो वसिष्ठस्स समानजातः कस्याशेषँ सर्वमिदन् ततार तस्मै यज ईशाय मुनय इदन् तु स्वाहा ६.३१.६ सप्तोत्तमा ये मुनयो वसिष्ठ ऊर्जा तु तेभ्यस्स हि तेभ्यस्सुजातः नित्यमस्मादमुदजानि स्वाहा ६.३१.७ य आनसूयेशो निदधन्निरक्षस्सँसारवेलामुदितो ररक्ष भूयादयँ वंशकरोऽस्य वंशस्स्वाहा ६.३१.८ य एष दिग्भ्यो ववृधेऽत्री राजा अस्मै तस्येदं जुहुतो रातु सोमँ स्वाहा
६.०.९ सम्यगु तर्पयामि स्वाहा न हिँसी स्वाहा जुहोमि स्वाहा होतुस्स्वाहा इदन् तु स्वाहा षट्च
६.३२.१ स एकोऽभूद्दिवानिशं नस्सञ्चारिभवोद्भवः स्रष्टुस्सृष्टेश्च सञ्चित स्वाहा ६.३२.२ यस्त्रैष्टुभश्चाग्र इमँ सिसृक्षुस्सस्मार सार्वं मनसा मखेष्टा पुष्पं विमानं विबुधस्य हेतुस्स्वाहा ६.३२.३ प्रक्रम्याथ ऊर्ध्वं पुरुषजो विवेश प्रजासु वृत्याय असुन् ददाति सोऽहमस्मिन् यजानि समापातु स्वाहा ६.३२.४ यो मातरिश्वा वियज्जातोऽंशको वृतो हूयते यस्य सतँ समेतु स्वाहा ६.३२.५ वृषाकपेर्106 इह उपोषवृत्त्या107 यमादत्त देव आस्ते तस्याभमग्ने सुहुतँ हरस्व स्वाहा
६.३३.१ ओजोइभिमानी निदधार विश्वं त्रिकोशगैर्यद्दशभिर्यदग्रे जातेभ्य एभ्यस्सहवो यजानि स्वाहा ६.३३.२ आपो विश्वन् दधात्यसून् दिवो दधेऽधश्च खं चरन् चतुश्शृङ्गिण एतु होतु स्वाहा ६.३३.३ चातुर्यम्108 अस्मिन् दधति प्रजास्ताः चातुर्गुणानामत अद्भ्य एतत्स्वाहा ६.३३.४ तयादित्या निर्विशन्ति भूता विश्वे गुणानां हविषो वहन्त्या वरांबराया109 सुहुतन्निधत्ताँ स्वाहा ६.३३.५ तत्त्रीण्य्110 एषा धरते सर्वमर्वाग्यामायान्तस्सूरयो द्यां व्रजन्तः तस्या अग्नावुन्नीयन्ते जुहोमि स्वाहा
६.०.१० हरस्व स्वाहा जुहोमि स्वाहा
६.३४.१ पावका नस्सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धियावसुस्स्वाहा ६.३४.२ महो अर्णस्सरस्वती प्र चेतयति केतुना धियो विश्वा वि राजति स्वाहा ६.३४.३ शँ सानियच्छत्य्111 अनिशं नः पवित्री यया स्वराजा संविराजो विराजः सेहा ह्रासे पुष्टिवर्धने धत्ताँ स्वाहा ६.३४.४ भूय आत्मवृत्त्या112 बलतेजोजनन्या देवोपवाह्या मनसा ययासन्न् दाक्षायण्या धन्यै यजेयँ स्वाहा ६.३४.५ य उत्तमो मूर्तिमतोऽधिधामा श्रेष्ठार्पितं त्वाहुरतो यजानि स्वाहा
६.३५.१ अग्नेः पथा113 यं प्रविशन्ति भाभिह् हवीँषि तस्मा अभितो दधातु स्वाहा ६.३५.२ यमर्पयन्त्यत्र कला114 निधाने दिशास्वादित्यः पितरोऽपरस्याः ऋक्षा नॄणां सम्प्रसरस्सुधां तस्मै मरीचये सुहुतन्निधत्ताँ स्वाहा ६.३५.३ यस्संहरत्येष सृजत्यहर्नः नेनेक्ति सञ्जीवति115 मा नमेताँ स्वाहा ६.३५.४ ऋचामधीशो विसृजंश्चतस्रः प्रजाह्प्रजेशो रमते रथेऽस्य स्वाहा ६.३५.५ नीतां धृतिं चेतसि तासु नित्यम् प्रजास्वनपरो बिभर्ति स्वाहा ६.३५.६ येनेष्टे रस अग्र अग्रिमासते अंभसि तस्य हविर्जुहोमि स्वाहा ६.३५.७ समूह्यतेऽम्बा सह सप्तलोकाः दिवि स्थिता ये च धराधरे च भूस्स्वाहा ६.३५.८ चरुं पचेद्यस्सह सप्तलोके रक्षाँसि रक्षन्निह जीवलोके स्वाहा ६.३५.९ चुल्याँ हवि रक्षन् पचनं बिभर्ति तस्मै यज ईशाय बुभुक्षिताय स्वाहा
६.०.११ यजानि स्वाःा बिभर्ति स्वाहाष्तौ च
६.३६.१ चतुर्मुखी लोकरमी च कुण्डिनी देवी विवर्तिनी विरजो विधातुस्स्वाहा ६.३६.२ यो लोकभर्त्री रमता प्रजानाम् जाताभिस्सर्वं मनसा प्रियाभिस्स्वाहा ६.३६.३ त्रिनेत्रधारी तपसोधिदेवी विश्वेषु देवेषु गणेषु मुख्या स्वाहा ६.३६.४ चिह्नं च रौद्रं दधती गणमुख्या भस्माङ्गधौती गणकालहारिणी स्वाहा ६.३६.५ ज्वाला माला116 गुम्भिनी गुहजाता रौद्रं गणं या बिभृयात्सुरूपी स्वाहा
६.३७.१ बालान् हरी रक्षिणी शृङ्गिपत्री अक्षेषु शक्तिषु मरीचिरमी च देवी स्वाहा ६.३७.२ युगेयुगे सम्परिरक्षिता च स्त्री रूपधारी पुरुषस्य चारिणी स्वाहा ६.३७.३ सर्वं रमा रक्षिणी लोकधात्री विश्वङ्गणै रक्षिता यास्तु भूत्यै स्वाहा ६.३७.४ कल्पेषु कल्पेषु सुसंप्लवेषु अल्पी भवित्री सह गोषु भूषु स्वाहा ६.३७.५ अन्तेषु घोरेषु वाराहलोला मन्धी117 कर्षी कृष्टमुखी च देवी स्वाहा ६.३७.६ सा सर्वदेवेषु मरुद्गणेषु सम्भाविता या त्रिदशाधिपा च स्वाहा ६.३७.७ मालाधरी या त्रिदशाधिपा च सन्ध्या दशी सँहितसप्तधातुस्स्वाहा ६.३७.८ चण्डी हरी भीषणी रुद्ररूपी धात्री धरित्री रसहारी च लोके शूली जटी मुक्तकेशी विकेशी स्वाहा ६.३७.९ मोही विमोही विमुही गुहधारिणी च निद्रा च देवी विरजास्तु भूत्यै स्वाहा
६.०.१२ सुरूपी स्वाहा देवी स्वाहाष्टौ च
६.३८.१ धातास्य विश्वं हि बिभर्ति यो वै पुष्पाणि रक्षन्निह जीवलोके स्वाहा ६.३८.२ फुल्लान् हि यो रक्षति वृक्षषण्डान् विश्वं सृजत्येष विधाय तस्मै स्वाहा ६.३८.३ विश्वान् बलिरक्षितसर्वदेवान् तस्माद्बलिँ रक्षतु भूतये स्वाहा ६.३८.४ सौर्यहित ईश पथाभिरक्षन्न् विश्वान् बले नोऽभिहरन् विधेय स्वाहा ६.३८.५ आग्नेयो यस्माद्यजामहे त्वा विश्वे सदा त्वं महितो नु शम्भो वैराजन् ते सुहुतन्निधत्ताँ स्वाहा
६.३९.१ प्रैषामधीशो विबुधानामनादिः या मे शस्तां धनितान् दधातु स्वाहा ६.३९.२ शतधारँ हिरण्मयँ सोमोऽघमास्ते जरदुद्वहन्नः विश्वं नो नु ददात्सदैनँ स्वाहा ६.३९.३ कदापि सृजते प्रजा अविगिरत्ययन्नो गोपायति नः यजामहे विपाप्मा भूयाम जरतोऽग्रियाय स्वाहा ६.३९.४ धर्मौघमाता विदधे समस्तम् धरन् धरिष्यते सह सप्तमँ स्वाहा ६.३९.५ योगन् धरं नु प्रसुवँस्तु जन्तून् जुगोप गोपगर्भं सुरादिस्स्वाहा
६.४०.१ यमर्पयन्ति मुनयो हविर्योऽजोऽहिजानिर्विबुधा विराजन्न् तं मयि दोषा यस्याननाग्नौ विपिनानि पतन्तु स्वाहा ६.४०.२ शं नो निधत्तां तपसो जिहर्ताम् स्वयम्भुरग्रे मृतयेऽमृताय स्वाहा ६.४०.३ भूमानन्तोऽग्रे भुवनस्य गोप्ता वामभ्य ईशन्त्यमरा मराश्च कुर्वतेऽग्नौ सुहुतङ्घृतेन स्वाहा ६.४०.४ वन्द्यो न एष वसुषु निदध्यात् त्रिधा त्रिधामा बिभृयाददीनान्त्स्वाहा ६.४०.५ आसाग्र अग्रे सुहुताञ्जितैतान् ऋषीनवाप्योग्र इतो जयाय स्वाहा
६.४१.१ ओजोबलायास्यमृताय शम्भो पचस्ययो नोऽपचयन्न हिँसी स्वाहा ६.४१.२ तन्मा यशोऽग्रे तावके वसूनां यजामहे स्याद्भवतः प्रसन्नः तदा वदत्युत्तमगं जयन् ते स्वाहा ६.४१.३ अस्मादुपास्यो स्येहि हि वृद्धि शर्म भवतोदरात्118 स्वाहा ६.४१.४ भूतानामग्रण्यमहं जुहोमि भूतानामीशं भुवनस्य गोपम् भूतानां पतिमत्युग्रवीर्यं भूतानां पतये नमस्स्वाहा ६.४१.५ भूतो भूतेषु चरति प्रविष्टस्स भूतानामधिपतिर्बभूव ६.४१.६ सर्वेषां भूतानामधिपतिस्तस्मै विष्णुभूताक्षहन्ताय स्वाहा ६.४१.७ अक्षहन्ते निहितास्सहायाः सर्वेषां प्राणिनाँ शान्तये स्वाहा ६.४१.८ ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा
६.०.१३ निधत्ताँ स्वाहा सुरादिस्स्वाहा जयाय स्वाहाक्षहन्ताय स्वाहा चत्वारि च
६.४२.१ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं पदं तद्विप्रासः
६.०.१४ चक्षुराततँ स्वाहा द्वे च119
६.०.१४ अतो देवास्सहस्रशीर्षा हिरण्यवर्णां भूमिर्भूम्ना स्वस्ति चैव त्रातारमिन्द्रमुदुत्यं जगन्नंदिन्या स एकः पावका नश्चतुर्मुखी दाता इतो देवाश्चतुर्दश120
६.०.१५121 अतो देवा स्वस्ति चैवोदुत्यं य एषो ओजो बलाय द्विचत्वारिँशत्122
[Cओलोफोन्:] अतो देवास्तद्विप्रासः हरिः ओं तत्त्सत्
-
RV: अतो ↩︎
-
Bएगिन् टा ३.१२ ↩︎
-
RV: विराल् ↩︎
-
RV १०.९०.१५ [ओउतोf ओर्देर्]; टा; (VC प्. ९७३) ↩︎
-
RV: यज्ञात् ↩︎
-
RV: यज्ञात् ↩︎
-
RV: सर्वहुत ↩︎
-
RV: पादा; टा: पादाव् ↩︎
-
टा: अकल्पयन्न् ↩︎
-
टा: धीरः ↩︎
-
Cf. प्. ४०७ तमेव वि…; टा ३.१२.७ (VC प्. ५१८) ↩︎
-
टा: आसन्न् ↩︎
-
RV: सचन्त ↩︎
-
Eन्द्टा ३.१२ ↩︎
-
Bएगिन्निन्घेरे wइथ्वेर्से ६.५.१ अन्देन्दिन्ग्wइथ्६.७.७ wए fइन्द्थे “श्रीसूक्त” ओf थे ऋग्Vएद Kहिलस्. ठे वेर्से नुम्बेर्स्गिवेनरे fरों ष्छेfतेलोwइत्श्, प्प्. ७२७३, RVKh२.६.११५. ठे वेर्से नुम्बेर्सिन् परेन्थेसेसरे fरोम् Bलोओम्fइएल्द्. RVKh२.६.१ (५.८७.१) (VC प्. १०६९) ↩︎
-
RVKh२.६.२ (५.८७.२) (VC प्. ४६२) ↩︎
-
RVKh ।VC: अश्वपूर्णां ↩︎
-
RVKh२.६.३ (५.८७.३) (VC प्. १२७) ↩︎
-
RVKh२.६.४ (५.८७.४) (VC प्. ३२३) ↩︎
-
RVKh२.६.५ (५.८७.५) (VC प्. ३६६) ↩︎
-
Text:ऽध ↩︎
-
RVKh२.६.६ (५.८७.६) (VC प्. १६३) ↩︎
-
RVKh२.६.७ (५.८७.७) (VC प्. २७२) ↩︎
-
RVKh२.६.८ (५.८७.८) Cf. टाआ १०.३३ (VC प्. ३४०) ↩︎
-
RVKh२.६.९ (५.८७.९) Cf. टा १०.१.१०; ंहानू ४.८ (VC प्. ३४३) ↩︎
-
RVKh२.६.१० (५.८७.१०) Cf. VS३९.४; श्B १४.३.२.१९; Kश्२६.७.४९ [ठेसे रेfएरेन्चेस्fओर्fइर्स्त्लिने ओf वेर्से.] (VC प्.६८३) Cf. VS३९.४; श्B १४.३.२.२०; TB २.४.६.६ [ठेसे रेfएरेन्चेस्fओर्सेचोन्द्लिने ओf वेर्से.] (VC प्. ५७८) ↩︎
-
RVKh ।VC: गृहे ↩︎
-
RVKh२.६.११ (५.८७.११) (VC प्. ३२०) ↩︎
-
Text: सिग्धानि ↩︎
-
RVKh२.६.१२ (५.८७.१२) (VC प्. १७२) ↩︎
-
RVKh ।ीष्: पक्वाम्; RVKh ।VC: आर्द्रां ↩︎
-
Text: पिङ्गळां ↩︎
-
RVKh२.६.१३ (५.८७.१४ ) (VC प्. १८६) ↩︎
-
RVKh२.६.१४ (५.८७.१४ ) (VC प्. ३६६) ↩︎
-
RVKh: पुष्करिणीं ↩︎
-
RVKh२.६.१४ (५.८७.१३ ) (VC प्. १८६) ↩︎
-
RVKh: ममा वह रेप्लचेस्म आ वह ↩︎
-
RVKh२.६.१३ (५.८७.१३ ) (VC प्. १०२७) ईन् थे अबोवे fओउर्वेर्सेस्, ५.६.७.५८, नोते थे वरिअतिओन् बेत्wएएनीषन्द्VC इन् थे ओर्देरोf चोर्रेस्पोन्दिन्ग्वेर्से नुम्बेर्स्. ईष्: २.६.१३ , १४ . १४ , १३ . VC: ५.८७.१४ , १४ , १३ , १३ . ↩︎
-
RVKh२.६.१५ (५.८७.१५) ↩︎
-
TS१.५.३.१; ४.१ (VC प्. ६७२) ↩︎
-
TS: प्रयन्त्सुवः रेप्लचेस्प्रयन् स्थुवस् ↩︎
-
TS१.५.३.२ ↩︎
-
TS१.५.३.३ ↩︎
-
TS१.५.३.४ ↩︎
-
TS: यत् ↩︎
-
TS१.५.३.५ ↩︎
-
TS१.५.३.६ ↩︎
-
TS१.५.३.७ ↩︎
-
TS१.५.३.८ ↩︎
-
TS१.५.३.९ ↩︎
-
TS१.५.३.१० ↩︎
-
Cf. VC प्. २११ ↩︎
-
AV १२.२.५; TS१.५.३.२; ४.२ (VC प्. ५९१) ↩︎
-
Cf. Vंড়् ५.१.७७.८ ↩︎
-
१९८४ एदितिओन्: न ↩︎
-
१९४६ एदितिओन्: अवमानयन् तु ↩︎
-
AV, TS: हुवे नु; RV, VS(M), KS: ह्वयामि ↩︎
-
RV ६.४७.११; TS१.६.१२.५ (VC प्. ४४८) ↩︎
-
TB: वत्सस्य ↩︎
-
RV ८.६.१; TS१.४.२०.१; TB ३.५.७.४ (VC प्. ६९५) ↩︎
-
RV ६.१९.१; TS१.४.२१.१; TB ३.५.७.४ (VC प्. ६९५) ↩︎
-
RV १०.५०.४; TS३.४.११.४; आश्१.६.१; ४.११.६; ९.५.१६ (VC प्. ६७०) ↩︎
-
RV १.८.१; TS३.४.११.३; TB ३.५.७.३; आश्१.६.१ (VC प्. ३०२) ↩︎
-
RV १०.१८०.१; TS३.४.११.४; ंष्४.१२.३: १८४.१५; ४.१४.१८: २४८.१७; TB २.६.९.१; ३.५.७.४; आश्१.६.१; ३.७.११; ४.११.६; एत्च्. (VC प्. ६३१) ↩︎
-
Text: थ्वजेष्व् ↩︎
-
RV १०.१०३.११; TS४.६.४.३; ंष्२.१०.४: १३६.११; ४.१४.१४: २३८.११ (VC प्. १४०) ↩︎
-
ंष्४.१४.७: २२५.१३१४ (VC प्.२२९) ↩︎
-
KS: सूर्यम् ↩︎
-
Cf. Vंড়् ८.१.१५१.६: ते नः इन्स्तेअदोf स्तेनः ↩︎
-
RVKh: स्रवन्तु ↩︎
-
Text:ऽपरिदाकृतान्थ् ↩︎
-
AP-MB: स्तनान्त् ↩︎
-
RV: तस्थुषश् ↩︎
-
ठिस्तेxतिसनेxअम्प्ले ओf होw थे १९४६ एदितिओनिस्मोरे रेलिअब्ले fओरच्चेन्त्स्. ईन् थिसिन्स्तन्चे इत्मोरे अच्चुरतेल्य्रेfलेच्त्स्थे RV थन् थे १९८४ एदितिओन्. ↩︎
-
RV: सत्सि ↩︎
-
VS: प्रथमोऽन्तर् ↩︎
-
Text: नळिन्य् ↩︎
-
RV: अहेलन् ↩︎
-
RV: राजन् ↩︎
-
२५ इन् बोओक्. ↩︎
-
१९४६ एदितिओन्: सुबहण्यो ↩︎
-
Text: काळ ↩︎
-
Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय २६. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय २५. ↩︎
-
Text: दहात्ति ↩︎
-
ईनृVKह्थे फ्रसे सुतरसि तरसे नमसप्पेअर्स्त्wइचे इन् थे वेर्से, wहेरेअस्Vंড়् ओन्ल्य्गिवेसितोन्चे. ↩︎
-
RV: अस्मान् ↩︎
-
RV: नमसा ↩︎
-
Text: भूत्व विता ↩︎
-
RV: हि ↩︎
-
१९८४ एदितिओन्: वीरञ्जत्य्; १९४६, १९२६ एद्स्.: विरञ्जत्य् ↩︎
-
१९४६ एदितिओन्: ससत्वं ↩︎
-
Text: थेहि ↩︎
-
ড়्रेसेन्त्स्तेमिनोल्देर्fओर्म्: कृणु. ↩︎
-
Text:ऽयाभ्यो ↩︎
-
१९४६ एदितिओन्: यजामहो ↩︎
-
Cf. RV ६.४२.४ (VC प्. १३८) ↩︎
-
१९८४ एदितिओन्: आददौ नो ↩︎
-
Text: एन ↩︎
-
१९८४ एदितिओन्: पृते ↩︎
-
१९४६ एदितिओन्: व्यापूरयन्नो थरते ↩︎
-
Cf. RV ५.७.४ (VC प्. ९९९) ↩︎
-
Text: एषोऽदान ↩︎
-
१९८४, १९४६ एदितिओन्स्: उषोप; १९२६ एदितिओन्: उपोष ↩︎
-
१९२६ एदितिओन् हेरे इन्सेर्त्स्थे wओर्द्यातु ↩︎
-
Cf. RV ७.८.४; TS२.५.१२.४ (VC प्. ६२५) ↩︎
-
Cf. RV १०.८६.२; AV २०.१२६.२ (VC प्. ९००) ↩︎
-
१९८४, १९४६ एदितिओन्स्: वृत्या; १९२६ एदितिओन्: वृत्त्या ↩︎
-
चतुर्यम्= देxतेरित्य्(ंॣ प्. ३९२) ↩︎
-
१९४६ एदितिओन्: परांबराया ↩︎
-
१९८४, १९४६ एदितिओन्स्: तत्रीण्य्; १९२६ एदितिओन्: तत्त्रीण्य् ↩︎
-
१९८४ एदितिओन्: सानियश्छत्य् ↩︎
-
१९२६ एदितिओन्: वृत्त्या; १९४६, १९८४ एद्स्.: वृत्या ↩︎
-
१९८४ एदितिओन्: पधा; १९४६ एदितिओन्: पथा ↩︎
-
Text: कळा ↩︎
-
१९२६ एदितिओन्: सञ्जीवति; १९४६, १९८४ एद्स्.: सञ्जीवती ↩︎
-
Cf. टा १०.११.२ (VC प्. ३८५) ↩︎
-
१९२६ एदितिओन्: मन्थी ↩︎
-
१९२६, १९४६ एदितिओन्स्: भवतोदरात्; १९८४ एदितिओन्: भवतोधरात् ↩︎
-
१९८४ एदितिओनोमित्स्थिस्वेर्से ↩︎
-
१९४६ एदितिओनोमित्स्थिस्वेर्से ↩︎
-
४२ इन् बोओक् ↩︎
-
१९४६ एदितिओनोमित्स्थिस्वेर्से ↩︎