मूलम्
दशमोऽनुवाकः
या गौर्वरिष्ठा सह सोर्धरित्री वसुं वसुं वै वसुनीह भद्रा रेरीजयन्तो रजतं रजते स्वाहा ॥ १ ॥
व्याख्या
या गौः वरिष्ठा धरित्री विश्वंभरा वरिष्ठा या गौः भूत्वा वसुं व्रीहियवादिकं वसुं द्रव्यादिकं वसुनीह भूलोके तत्तज्जात्यानुसारेण दुग्ध्वा
[[१९६]]
जङ्गमाजङ्गमादिकं च परमात्मना सह सोर्भद्रा शोभनानां कारणभूता बिभर्ति रेरीजयन्तो दीप्तिमन्तो लोकस्थान् रजतं रजोयुक्तं यत्किंचिद्वस्तुजातं रजते दीप्तिं कुर्वते तुभ्यम् ॥ १ ॥
मूलम्
वायोरन्तरात्मा वहति समस्तः सपुण्यदेवेति स सूरिमुक्तः सूरिः सुराणां सुरसोऽप्यसुंदः समूह्य देवा वरदाय पित्रे स्वाहा ॥ २ ॥
व्याख्या
अयं मन्त्रः सुदर्शनपरः । वायोरन्तस्य सुदर्शनस्य वायोर्गतिः अन्तरात्मा बुद्धिरूपः चलस्वरूपमत्यन्तमन्तरितानलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥
इति ॥ समस्तः -
विष्णोरपररूपत्वात्सर्वं विष्णुवदाचरेत् ॥
इति ॥ सर्वस्वरूपी वहति भगवता मनसि यत्किंचिच्चिन्तितं तत्सर्वं प्रापयति स सुदर्शनः सूरिमुक्तः भगवता राक्षसवधादिकं प्रति मुक्तः तद्वधप्रयुक्तदोषाभावात् । सपुण्यदेवेति सर्वत्रापि प्रसिद्धः । सुराणां सूरिः पूज्यः सुरसः हत्त्यादिदोषदुष्टस्य लोके त्याज्यताप्रतिपादनात् तद्दोषाभावात्सुरसः । यद्वा रुद्रनिवासभूतत्वाद्वा असुंदः सुन्द दाहे [?] इति प्रतिसंहारकः । यद्वा प्राणदः अनध्यायेष्वधीयानास्ते चक्रेण हताः प्रणष्टा इति चरणव्यूहैश्छन्दोगानां शिखाग्रहणमात्रेण प्राणदः समूह्य देवा य एवंरूपं सुदर्शनं समूह्य सम्यक् धृत्वा देवाय वरदाय रुद्रस्य वरदायेत्यर्थः । पित्रे “नारायणाद्रुद्रो जायते” इत्यादिश्रुतिभ्यः रुद्रस्य पित्रे रक्षकाय ॥ ननु जगत्संहारकस्य कथं सुदर्शने वास उपपद्यत इति चेत् उच्यते । वेङ्कटगिरिमाहात्म्ये —
कथं सूर्ये परित्यज्य प्रभाऽन्यस्य भविष्यति ।
एवं श्रीकौस्तुभं चक्रं शार्ङ्गं शङ्खं तथैव च ॥[[१९७]]
एवमादीनि वस्तूनि नित्यसिद्धानि शङ्कर ।
नैतेषां च परित्यागे नान्यस्तेषां व्यपाश्रयः ॥
अशक्यमिदमत्यर्थमित्याह प्रमथाधिपम् ।
स चाह चान्वेतु वक्ष्ये तथैवास्तु यथेप्सितम् ॥
तत्रैव -
अन्तरात्मा हि सर्वेषां स्तौति नारायणं प्रभुम् ।
तदशक्यं महच्चक्रं विष्णोरन्यस्य कस्यचित् ॥
शुद्धसत्त्वस्य तद्विष्णोः सर्वेशस्य मया वपुः ।
साक्षात्स्पृष्टो महान् भीतस्तमोगुणसमाश्रयः ॥
यस्तत्त्वं च मया विष्णो दिव्यमङ्गलविग्रह ।
त्वामेव तदहं नित्यं विष्णोर्नित्यानपायिनम् ॥
अनुप्रविश्य त्वद्देहे वसिष्यामि सुदर्शन ।
ननु यद्वैष्णवं तेजः शाणितं विश्वकर्मणा ॥
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ।
तेन चक्रं महाविष्णोः शिबिकामप्यकल्पयत् ॥
दैत्यः पञ्चजनो नाम प्रभुर्जलभरस्तथा ।
तस्यास्थिप्रभवं शङ्खमादाय पुरुषोत्तमः ॥
इति ॥ अनुशासनिके उमा -
बहूनामायुधानां तु पिनाकं धर्तुमिच्छसि ।
किमर्थं देवदेवेश तन्मे शंसितुमर्हसि ॥
महेश्वरः -
शस्त्रग्रहं ते वक्ष्यामि शृणु धर्मं शुचिस्मिते ।
युगान्तरे महादेवि कण्वनामा महामुनिः ॥[[१९८]]
सेहे तीव्रां तपश्चर्यां कर्तुमेवोभयोः प्रियम् ।
महाविष्णोश्च या माऽस्ति तां मायां प्रकृतिं विदुः ॥
लोकयात्रा विना तां तु नैति श्रीः सा स्मृता बुधैः ।
तस्याः श्रियाः स्त्रियोऽभिन्नाः पूर्षाश्च पुरुषोत्तमात् ॥
तस्मात्तया श्रिया सार्धं पूजयेत्पुरुषोत्तमम् ।
संसारचक्रयत्नाभ्यां निजं ते स्यात्सुदर्शनम् ॥
हंसाख्यं चेतनारूपं सर्वप्राणिहृदि स्थितम् ।
तच्छङ्खरूपो देवश्च पाञ्चजन्याख्य उच्यते ॥
पञ्चभूतात्मको ह्यस्य सर्ववेदमयोऽक्षरः ।
छन्दोमयाभ्यां पक्षाभ्यां युक्तः पक्षिगणेश्वरः ॥
गरुडो वाहनं चापि विष्णोर्देवस्य कीर्तितः ।
पृथिवीवायुसंयोगश्चापः शार्ङ्गं हरेः स्मृतः ॥
तेजो वायुमयो ह्यस्य नाम्ना संशरणाच्छरः ।
विद्याविद्याशरैर्युक्ते अक्षये ते महेषुधी ॥
लोकालोकाचलः प्रोक्तो विद्योताख्यं तु खेटकम् ।
कृतान्तो नन्दकः खड्गं सर्वप्राणिहृदि स्थितम् ॥
या दण्डनीतिः सा ख्याता गदा कौमोदकी हरेः ।
सर्वार्थेषु जयो ह्यस्य स त्वजागरता स्थिता ॥
सर्वबन्धुषु यद्बद्धं प्रेमपाशं परस्परम् ।
दृढं भ्रातृसमाख्यं तत्त्वाशुसर्वार्थसंगतम् ॥
सर्वप्राणिषु या शक्तिः शक्तिर्विद्युन्निभा मता ।
मर्यादा यदधोलोके भेरी सा तु महारवा ॥[[१९९]]
संसारभित्तिर्यो देहो लीलाख्यः स हरेर्द्विजाः ।
यन्मनः शीघ्रगं तस्य स रथः कामगो मतः ॥
यो वायुर्वाति सोऽश्वस्तु पुण्डरीकपदाह्वयः ।
इत्येवं ब्रह्मणा चोक्तं तस्माद्देवि श्रिया सह ॥
आत्मानमस्य जगतो निर्लेपमगुणोऽमलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥
श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् ।
प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥
भूतादिमिन्द्रियादींश्च द्विधा वै परमीश्वरः ।
बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥
चलस्वरूपमत्यन्तं जपेनान्तरितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुःकरे स्थितम् ॥
पञ्चरत्ने तु या माता वैजयन्ती गदाभृतः ।
सा भूतहेतुसङ्घातभूता माता च वै द्विज ॥
यानीन्द्रियाण्यशेषेण बुद्धिकर्मात्मकानि वै ।
शराणि यान्यशेषेण तानि धत्ते जनार्दनः ॥
बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् ।
विद्यामयं नु तज्ज्ञानमविद्याचर्मसंस्थितम् ॥
भूतानि च हृषीकेशो धत्ते सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितम् ।
बिभर्ति मायारूपोऽसौ श्रेयसे भगवान् हरिः ॥
सविकारं प्रधानं च पुमान् स्वं चाखिलं जगत् ।
बिभर्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः ॥
इति ॥
[[२००]]
एवं स्वतः सिद्धानामकृतकानां शङ्खादीनामन्येन धर्तुमशक्यत्वात् योगेन पाञ्चजन्यत्वादिशब्दवाच्यत्वाभावात् रूढ्या पाञ्चजन्यत्वादिकमुपपन्नं ब्रह्मणा कल्पितं शार्ङ्गमिति नाम । एवमन्येषामप्राकृतानां पाञ्चजन्यादिकं परमात्मन एव । अवतारादिष्वन्यत् अप्राकृतं वाचकवृत्तिप्रभृतिर्वा । कल्पितानि शङ्खादीनि ॥ २ ॥
मूलम्
यस्योपरिष्टादधितिष्ठदात्मा सर्वोपरिष्टात् परमात्मा मुक्तं तं विरजं नित्यमनु सम्पराय स्वाहा ॥ ३ ॥
व्याख्या
यस्य बद्धस्य उपरिष्टात् बद्धापेक्षया मुक्तपरमसर्वोपरिष्टादधितिष्ठदात्मा बद्धमुक्तनित्यापेक्षया परमात्मा तं विरजं बद्धापेक्षया मुक्तं विरजम् अपहतपाप्मत्वादिगुणविशिष्टं मुक्तापेक्षया नित्यम् अनु साकल्येन सम्पराय उत्कृष्टाय यद्वा प्रकृत्यपेक्षया बद्धायेत्यादि ॥ ३ ॥
मूलम्
तमस्सर्वभूतमधुनाध्वरेण तं सत्त्वरूपमनुप्रविस्य सङ्क्लेशयन् सृष्टिनिमित्ताय तस्मै परब्रह्मणे परञ्ज्योतिषे स्वाहा ॥ ४ ॥
व्याख्या
नासदासीन्नो सदासीत्तदानीम् । नासीद्रजो नो व्योमापरो यत् । किमावरीवः कुहकस्य शर्मन् । अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न । रात्रिया अह्न आसीत् प्रकेतः । आनीदवातँ स्वधया तदेकम् । तस्माद्धान्यं न परः किंच नास । तम आसीत् तमसा गूढमग्रे प्रकेतम्
इति । जाबालोपनिषदि —
ओं तदाहुः । किं तदासीत् । तस्मै स होवाच । न सन्नासन्न सदसदिति तस्मात्तमः स जायते तमसो भूतादिराकाशमाकाशाद्वायुः वायोरभिः अग्नेरापः अद्भ्यः पृथिवी तदण्डं समभवत् । तद्वत्संवत्सरमात्रमुषित्वा द्विधाऽकरोत् । अधस्तात् भूमिरुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः । सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् सहस्रबाहुः
[[२०२]]
इति सर्वे तमोभूतं सृष्टेः प्रागा मनोस्तु सत्त्वरूपं सहस्रशीर्षेत्यादिरूपं प्रजासृष्टिनिमित्ताय सृष्ट्यर्थम् । श्रीविष्णुपुराणे —
प्रकृतिं पुरुषं चैव प्रविश्य स्वेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्गकाले व्ययः स्वयम् ॥
प्रकृतिं पुरुषं चैव विध्यनादी उभावपि ।
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥
एवमुक्तप्रकारेण अनुप्रविश्य प्रकृतिपुरुषौ शंक्लेशयन् सृष्टिमकरोत् । कथमिति चेत् सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजत् । त्र्यक्षं त्रिपादं खण्डपरशुमजीजनत् । तस्य ब्रह्माभिपेदे स ब्रह्माणमेव विवेश । स मानसात् सप्त पुत्रानसृजत् । ते ह विराजं सप्तमानसानसृजन् प्रजापतयः
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत,
श्रोत्राद्वायुश्च प्राणश्च हृदयात् इदं जायते अपानान्निषादा यक्षराक्षसगन्धर्वा अप्सरोभ्यः पर्वतो लोमभ्यः ओषधिवनस्पतयो ललाटात् क्रोधजो रुद्रो जायते । तस्यैतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदोऽथर्वणवेदः शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि सर्वाणि च भूतानि हिरण्यज्योतिर्यस्मिन्नयमात्मा धीयन्ते भुवनानि विश्वा आत्मानं द्विधाऽकरोत् । अर्धेन स्त्री अर्धेन पुरुषो देवो भूत्वा देवानसृजत् ऋषिर्भूत्वा ऋषीन् यक्षराक्षसगन्धर्वान् ग्राम्यानारण्यांश्च पशूनसृजत् । इतरा गा इतरोऽनडुह इतरा बडबा इतरोऽश्वतरान् इतरा गर्दभीः इतरो गर्दभान् इतरा विश्वभरीरितरो विश्वम्भरान्
इति एवं सृष्टवान् ।
[[२०२]]
अयं परमात्मा क इत्याकाङ्क्षायां तस्मै परब्रह्मणे परञ्ज्योतिष इति पुरुषनारायणपरंब्रह्मपरंतत्त्वपरंज्योतिःपरमात्मादिशब्दवाच्यो नारायण एवेति ज्ञापयितुं परब्रह्मणे परंज्योतिष इत्युक्तम् । परब्रह्मग्रहणात् सर्वमपि गृहीतं भवति । किञ्च -
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥
न तस्य कार्ये करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥
इत्यादि । किंच – “यतो वा इमानि भूतानि जायन्ते" इत्यादि । जगत्कारणं ब्रह्मेत्युक्तं जगत्कारणत्वात् विष्ण्वादिमूर्तीनां मूलभूतानां षट्कोशषडूर्मिलेशाभावात् ।
न भूतसङ्घसंस्थानं देवस्य परमात्मनः ।
न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्मिता ।
सर्वभूतमयं देहं त्रैलोक्ये सर्वजन्तुषु ॥
इत्यप्राकृतत्वात् “ऋतँ सत्यं परं ब्रह्म” इत्यादिपरब्रह्मस्वरूपप्रतिपादनात् पादादर्धात् त्रिपादात् देवेषु क्रमेणादिमूर्तिश्च मूर्त्या क्रमेण विष्णुं महाविष्णुं सदाविष्णुं व्यापिनारायण इति चतुर्मूर्तयो भवन्तीति मरीच्यादिभिः प्रतिपादितत्वात् “तमीश्वराणां परमं महेश्वरम्” इत्युक्तत्वाच्च । “ऋतमग्निर्वा ऋतमसावादित्यम्” “अग्निस्सर्वा देवताः”, “असावादित्यो ब्रह्म” इति समस्तकल्याणगुणाभिप्रायेण ऋतं सत्यमित्युक्तं “पूर्णत्वात् पुरुषः” इति पादनारायणादिषु पूर्णत्वाभावात्पूर्णत्वाद्व्यापिनारायणस्य ।
परशब्देन च व्यापी नारायण इतीरितः ।
नारशब्देन जीवानां समूहः प्रोच्यते बुधैः ॥[[२०३]]
तेषामयनभूतत्वान्नारायण इहोच्यते ।
नरसम्बन्धिनो नारा नरश्च पुरुषोत्तमः ॥
नाम्यत्यखिलविज्ञानं नाशयत्यखिलं तमः ।
नरिष्यति च सर्वत्र नरस्तस्मात्सनातनः ॥
नरसम्बन्धिनः सर्वे चेतनाचेतनात्मकाः ।
नृगन्तव्यतया नारा भार्या पोष्यतया नराः ॥
तथा-
नियाम्यत्वेन सृज्यत्वप्रवेशभरणैस्तथा ।
अयं ते निहितो नारात् व्याप्नोति क्रिययाऽखिलम् ॥
नाराश्चाप्ययनं तस्य तस्मै भावनिरूपणात् ।
नराणामयनं वासश्चेतनस्यायनं सदा ।
परमा च गतिस्तेषां नराणामात्मना स्थितिः ॥
व्यापिनारायणपरत्वाभिप्रायेण तस्मै परब्रह्मणे इत्युक्तम् ॥ ४ ॥
मूलम्
जेनातिर्जेनातिषां जेनातिरोजो बलमाहरत्सत्त्वात्मकं संजेनातिरित्थं तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा ॥ ५ ॥
व्याख्या
परब्रह्मभूतनारायणस्य माहात्म्यं प्रतिपादयति अत्यन्तदीपवत् सूर्यचन्द्राग्न्यादीनां जेनातिः दीप्तिः ओजः परबलाहरणसामर्थ्यमोजः जगत्सृष्ट्यादिकं कुर्वतस्तस्य श्रीमहाविष्णोः बलं सत्त्वं सत्त्वात्मकं तदन्तर्यामिणां सञ्जेनातिः सम्यक् ज्योतिः इत्थम् उक्तप्रकारेण तस्मै ॥ ५ ॥
मूलम्
सत्त्वं सत्त्वात्मकं वा रजो रजस आत्मकस्तमस्तमस आधारः साकृतं निरीश्वरमीश्वराय स्वाहा ॥ ६ ॥
[[२०४]]
व्याख्या
अयमपि मन्त्रः पूर्वोक्तपरमात्मपरः सत्त्वं सात्त्विकं सत्त्वात्मकं तदन्तर्यामिणं रजो रजस आत्मकः तदन्तर्यामिणं तमः तमस आधारः साकृतं आकृतसहितं निरीश्वरम्,
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥
इति ॥ ईश्वराय सर्वेश्वरायेत्यर्थः ।
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
प्रीतिः फलप्रदत्वं च देवतानां न विद्यते ॥
इति ॥ विग्रहादिपञ्चकाभावात् चतुर्थ्यन्तः शब्दो देवताशब्दातिरिक्तदेवताभावात् मन्त्रार्थवादानां तत्र तात्पर्याभावाच्च ईश्वरायेति कथमुच्यत इति चेत्-उच्यते; “यद्वै किंच मनुरवदत् तद्भेषजम्” इति श्रुतेः,
मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥
इति संवर्तस्मरणाच्च । प्रमाणत्वेनाभिहितायां मनुस्मृतौ -
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥
इति प्रत्यक्षादीनां त्रयाणां प्रामाण्यप्रतिपादनात् “महाँ इन्द्रो वज्रबाहुः”, “वज्रहस्तः पुरन्दरः”, “उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः” इत्यादिदेवतासद्भावप्रतिपादनात् गारुडादिषु मन्त्रेषु मन्त्रवर्णानां स्वार्थे तात्पर्यदर्शनात् विषहरणादिषु दृष्टत्वाच्च ईश्वरसद्भावोऽस्तीत्यवगन्तव्यः । स्मृतीनामपि वेदमूलत्वे त्रेधा निर्वाह: कार्य इति । नित्यानुमेयश्रुतिमूलत्वं प्राभाकराः ।
[[२०५]]
उत्सन्नशाखामूलत्वमापस्तम्बाद्याः । विप्रकीर्णशाखामूलत्वमितरे । नित्यानुमेयश्रुतिमूलत्वे अक्षरानुपूर्व्यविशेषविशिष्टस्य नित्यानुमेयश्रुतिमूलत्वम् । नाक्षरानुपूर्व्यमूलत्वं यद्युच्यते तर्हि घटपटादीनामपि नित्यानुमेयश्रुतिमूलत्वं स्यात् । आनुपूर्व्यविशेषविशिष्टस्येति चेदुच्चार्यमाणानुपूर्व्यविशेषणविशिष्टत्वमिति सिद्धान्तेऽनुमेयत्वं भज्येतेति । उत्सन्नशाखा मूलमिति चेत् तेऽपि भिन्नभिन्नपाठाः प्रयोगादनुमीयन्त इति विक्षेपोत्सन्ना वा एकैवेति चेन्न सर्ववेदसाक्षात्कारवतो व्यासस्य एकस्यापि शिष्यस्याध्यापनसामार्थ्याभावेन तथा वक्तुमयुक्तम् । भवेदेवेति चेत् सः पदक्रमादिरूपेणाधीयमानत्वात् तथा वक्तुमयुक्तम् । किन्तु प्रकीर्णशाखामूलत्वं वक्तुं युक्तम् ॥ तदुक्तम्-
दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ते खिलाः ।
तथैत एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥
इति ॥ प्रसङ्गादेतत्सर्वमुपपादितम् ॥ ६ ॥
मूलम्
अनिर्भिण्णं यस्येदमासीदुदकात्मकं यस्योदावोऽयनुथमुच्चमुच्चैरुरुगाय स्वाहा ॥ ७ ॥
व्याख्या
यस्य परमात्मनः यदा प्रलयः तदा लोके अनिर्भिण्णं भेदरहितं निरन्तरमुदकात्मकमासीत् । यस्य परमात्मनो दग्धुमिच्छा यदा यदा उदावः उत्कृष्टो दावः प्रलयाग्निः अयनुथं तथा असमृद्धिः उच्चम् अत्यन्तम् उच्चैरुरुगाय श्रुतिस्मृतिषु सर्वत्र अत्यन्तं गायति इति उरुगः तस्मै ॥ ७ ॥
मूलम्
यस्येच्छा लोके वा प्रजायतिर्लोके यस्मै वासि तस्मै वासीत् यद्वास्संजातं [?] यत्सर्वमीशमाशिषे स्वाहा ॥ ८ ॥
व्याख्या
यस्य परमात्मनः इच्छा लोके प्रजानामायतिः सृष्ट्यादिकं “सोऽकामयत बहु स्यां प्रजायेयेति” इत्यादिश्रुतेः । मनसैव जगत्सृष्टि-संहारौ करोति यः तस्यां पक्षक्षपणे कियान् विस्तर इति लोके ……….
मूलम्
[[मातृकायामेतावदेवोपलभ्यम्]]