मूलम्
नवमोऽनुवाकः
चत्वारो दोषः प्रहरन्ति यस्य सर्वस्य गोप्त्रे सुरसाय धाम्ने सोमस्य पुण्यं रयिमत्प्रवृद्ध्यै स्वाहा ॥ १ ॥
[[१८६]]
व्याख्या
यस्य सवितृमण्डलवर्तिनः परमात्मनः चत्वारः सुषुम्नादिका दोषः बाहवः पुण्यमाहुति[[??]] प्रहरन्ति ।
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥
इति ॥ सर्वस्य गोप्त्रे —
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ।
इति सर्वौषधीनां पोषणद्वारा मनुष्यादीनां गोप्तृत्वं सुरसाय सुतरां रसरूपाय धाम्ने अमृतमयतेजःस्वरूपिणे प्रहरन्ति प्रकर्षेण हरन्ति रयिमत्प्रवृद्ध्यै -
दिनेदिने कलावृद्धिः पौर्णमास्यां तु पूर्णता ॥
इति ॥ श्रीवैखानससूत्रे –
यथा हवास्य सुषुम्ना जेनातिष्यति प्राणावति रेतोधा इत्येताहुतिं गृहीत्वा रश्मयश्चतस्रः प्रश्नाः सन्दधीरन् सह वा शुद्धा अमृतवह चिनुहि दिव्यालोकपावनीत्येताभिश्चन्द्रमसमाप्याययति ……… मूलगामीव वा यावन्नमृतोद्गारिसुरप्रियेत्येताभिरमृतेन तां तर्पयति ।
किंच सर्वस्य गोप्तृत्वश्रवणात् ॥ ऋषय ऊचुः -
कौतूहलसमुत्पन्ना देवता ऋषिभिः सह ।
संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥
कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् ।
इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥
व्यासः -
शृण्वन्तु देवताः सर्वं यदर्थमिह आगताः ।
तदहं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥[[१८७]]
अग्नौ हुतं च दत्तं च सर्वं सोमगतं भवेत् ।
तत्र सोमः समुत्पन्नः शीतांशुर्हिमलक्षणः ॥
अष्टाशीतिसहस्राणि विस्तीर्णं योजनानि तत् ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव हि ॥
षोडशी तु कलाप्यत्र त्वित्येकोऽपि विधेर्बले ।
पपुः सोमवपुर्देवाः पर्यायेणानुपूर्वशः ॥
प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः ।
विश्वेदेवास्तृतीयां तु चतुर्थीं सलिलाधिपः ॥
पञ्चमीं तु वषट्कारः पष्ठीं पिबति वासवः ।
सप्तमीमृषयो दिव्या अष्टमीमज एकपात् ॥
नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् ।
दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥
द्वादशीं पितरः सर्वे समं प्राप्नोति भागशः ।
त्रयोदशीं धनाध्यक्षः कुबेरः पिबते कलाम् ॥
चतुर्दशीं पशुपतिः पिबत्यन्त्यां प्रजापतिः ।
एवं पीतः कलाशेषश्चन्द्रमा न प्रकाशते ॥
कला षोडशिका या तु ह्यपः प्रविशते सदा ।
अमायां तु सदा सोम ओषधीः प्रतिपद्यते ॥
तमोषधिगतं गावः पिवन्त्यम्बुगतं च यत् ।
तत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥
हुतमग्निषु यज्ञेषु पुनराप्यायते शशी ।
दिनेदिने कलावृद्धिः पौर्णमास्यां तु पूर्णिमा ॥
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे ॥
इत्यादि ॥
[[१८८]]
त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं जले वसेत् ।
त्रिमुहूर्ते वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥
वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति ।
स्वर्गस्थाः पितरस्तस्माच्च्यवन्ते नात्र संशयः ॥
वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥
वनस्पतिगते सोमे यस्तु भुङ्क्ते परौदनम् ।
तस्य मासगतं पुण्यं दातारमधिगच्छति ॥
वनस्पतिगते सोमे नातिहेयांस्तु वाहयेत् ।
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥
वनस्पतिगते सोमे मन्थानं यस्तु कारयेत् ।
गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः ॥
वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति ।
स्वर्गस्थाः पितरस्तस्माच्च्यवन्ते नात्र संशयः ॥
सोमोत्पत्तिमिमां यस्तु गर्भिणीं श्रावयेत्स्त्रियम् ।
ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥
सोमोत्पत्तिमिमां यस्तु श्राद्धकाले सदा पठेत् ।
तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥
सोमोत्पत्तिमिमां यस्तु सर्वकाले सदा पठेत् ।
सर्वं मानव आप्नोति सोमलोकं स गच्छति ॥
इति ॥ एवंविधाकारचन्द्ररूपेण गोप्त्रे तुभ्यम् ॥ १ ॥
मूलम्
वक्षो वसत्यस्य वरां वरिष्ठं वाकं दधाना ववृधे समस्तं तस्मै वरिष्ठाय वरप्रवृद्ध्यै स्वाहा ॥ २ ॥
[[१८९]]
व्याख्या
अस्य परमात्मनो वक्षसि वाकं दधाना वरिष्ठं श्रेष्ठं वक्षः प्राप्य या वसति वरां वाकं दधाना उत्कृष्टरूपां वाकं वाचं दधाना पुरुषाकाररूपां वाचं दधाना श्रावयन्ती वसति ववृधे समस्तं जङ्गमाजङ्गमादिकं प्रति वृद्धिं गता तस्यै वरिष्ठाय तस्मै ॥ २ ॥
मूलम्
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं स्वाहा ॥ ३ ॥
व्याख्या
अणोरणीयान्महतः आकाशादिभूपर्वतादिभ्यो महीयानात्मा अन्तः प्रविश्य नियन्ता ह्यात्मा अस्य जीवस्य गुहायां हृदयगुहायां निहितः एवम्भूतं तम् अक्रतुम् अकर्माणं पश्यति वीतशोकः धातुः प्रसादात् परमात्मनः प्रसादाद्यः पश्यति वीतशोकः महिमानं महिमावन्तम् ईशम् इत्यर्थः ॥ धातुः प्रसादादित्यनेन —
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥
इति निर्हेतुकत्वं तस्य प्रसादात् ॥ ३ ॥
मूलम्
विष्णुर्वरिष्ठो वरदानमुख्यो यो विश्वर्षीन् ध्यायन्नकुर्वन् विश्वं हीषद्विष्णवे याः प्रभविष्णवे ता अमितम्भरत्रे स्वाहा ॥ ४ ॥
व्याख्या
विष्णुः व्याप्तः परमात्मा वरिष्ठः श्रेष्ठः वरदानमुख्यः यः परशुरामरूपी विश्वर्षीन् जमदग्नीन् । पूजायां बहुवचनम् । ध्यायन् अकुर्वन् विश्वं यथायोग्यत्वेन क्षत्रियवंशजातम् ईषत्कार्यं हि विष्णवे याः शक्तयः -
[[१९०]]
परमेष्ठी पुमान्विश्वो निवृत्तः सर्व एव च ।
पञ्चैताः शक्तयः प्रोक्ताः परस्य परमात्मनः ॥
आचार्या वैष्णवी सूक्ष्मा लक्ष्मीः पुष्टिर्निरञ्जना ।
जीवनी मोहिनी माया नवैता विष्णुशक्तयः ॥
इति ॥ ता विष्णुशक्तयः प्रभविष्णवे रामभद्राय अमितम्भरत्रे मितरहितधनुर्भरणादमितम्भरः तेन जनकप्रतिज्ञाप्रातिभरत्वधनुः स्वशक्तिभिस्सहस्रशोऽधाद्यः अत्र विश्वर्षिशब्दप्रयोगात् अत्यन्तश्रेष्ठत्वं वा । श्रुतिः –
विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताँ स एतज्जमदग्निर्विहव्यमपश्यत्तेन वै स वसिष्ठस्येन्द्रियं वीर्यमवृङ्क्त
इत्यादि ॥ ४ ॥
मूलम्
अब्जोऽजुषन्तः प्रपतत्पतन्तः पूंपूंपुषन्तः पुनयः प्रवालः कङ्कं जनित्रे समतेजसं ते स्वाहा ॥ ५ ॥
व्याख्या
अब्जः ब्रह्मा । भारते -
निशि सुप्त्वाथ भगवान् क्षपान्ते प्रतिबुध्य यः ।
पश्चाद्बुध्वा ससर्जापस्तासु वीर्यमवासृजत् ॥
तदण्डमभवद्दैवं सहस्रांशुसमप्रभम् ।
अहं कृत्वा ततस्तस्मिन् ससर्ज प्रभुरीश्वरः ॥
हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजं मुनिम् ।
भूतभव्यभविष्यस्य कर्तारमनघं विभुम् ॥
इति ॥ अजुषन्तः सृष्टिकर्तृत्वाभिमानेन त्वत्पादसेवामकुर्वन्तः । अब्ज इति जातावेकवचनम् । यद्वा अण्डबाहुल्यत्वाभिप्रायेण प्रपतत्पतन्तः पूंपुंपुषन्तः शरीरं पोषयन्तः पुनयः प्रवालः प्रकर्षेण बालं वबयोरभेदः कङ्कं जनित्रे समतेजसं ते एवं रजोगुणदोषदुष्टं ब्रह्माणं ते त्वं समतेजसं जनित्रे “नारायणाद्ब्रह्मा जायते” इति श्रुतयः तुभ्यम् ॥ ५ ॥
मूलम्
[[१९१]]
मामात्मगुप्तां वहते स्वभूत्यै तां राजिमन्तां धूर्धूरयन्तीं धूरसि ध्रुवाय स्वाहा ॥ ६ ॥
व्याख्या
मां लक्ष्मीम् आत्मगुप्ताम् आत्मभूतेन स्वेनैव गुप्तां भूत्यै लोकानामैश्वर्याय वहते वक्षसि वहते स्म भूतार्थसूचनत्वात् प्रलयकालेऽपीत्यर्थः । तां राजिमन्तां लावण्यसम्पत्सारभूतां धूर्धूरयन्तीं समग्रैश्वर्यगतिभूतां मां वहत इति पूर्वत्रान्वयः धूरसि भारभूतोऽसि ध्रुवाय स्थिराय तुभ्यम् ॥ ६ ॥
मूलम्
यं चिन्तयन्तो निगमान्तरूपं यं विश्वरूपं परमात्मपुण्यं तं विन्दमानां सकलं व्रजन्तीं तं दैवमुख्यं सुरतं भवाय स्वाहा ॥ ७ ॥
व्याख्या
यं निगमान्तरूपं “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिवेदान्तप्रतिपाद्यरूपम् । यद्वा यं विश्वरूपं -
यस्यास्यमग्निद्यैर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
इत्यादिविश्वरूपम् । यद्वा परत्वव्यूहविधावन्तर्याम्यर्चावतारादिरूपं वा चिन्तयन्तः ध्यायन्तः सकलं स्वकलासहितत्वेन ।
लक्ष्मीतन्त्रे –
महालक्ष्मीः समाख्याता साऽहं सर्वाङ्गसुन्दरी ।
महाश्रीः सा महालक्ष्मीश्चण्डाचण्डी च चण्डिका ॥
भद्रकाली तथा भेदा काली दुर्गा महेश्वरी ।
त्रिगुणा भगवत्पत्नी तथा भगवती परा ॥
एताः संज्ञास्तथान्याश्च तत्र मे बहुधा स्मृताः ।
विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः ॥
रक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते ।
महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥[[१८२]]
महाब्धिश्रयणीयत्वान्महाश्रीरिति गद्यते ।
भण्डस्य दयिता भण्डी भण्डत्वाद्भण्डिका मता ॥
कल्याणरूपा भद्रास्मि काली भद्रा प्रकीर्तिता ।
कलात्सतां स्वरूपत्वादपि काली प्रकीर्तिता ॥
सुहृदां च द्विषां चैव युगपत्सदसद्विभोः ।
भद्रकाली समाख्याता मायाश्चर्यगुणात्मिका ॥
माया योग इति ज्ञेया यज्ज्ञानाज्ञानयोर्नृणाम् ।
पूर्णषाड्गुण्यरूपत्वात्स्मृता चाऽहं परात्परा ॥
शासनाच्छक्तिरूपाहं राज्ञ्यहं रञ्जनात्सताम् ।
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥
मत्तः प्रक्रमते विश्वं प्रकृतिः सास्मि कीर्तिता ।
श्रयन्ति ह्ययना चास्मि शृणामि दुरितं सताम् ॥
शृणोमि करुणां वाचं शृणोमि च गुणैर्जगत् ।
शरणं सर्वभूतानां रमेऽहं सर्वकर्मणाम् ॥
ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम् ।
एतान्मयि गुणान् दृष्ट्वा वेदवेदाङ्गपारगाः ॥
गुणयोगविधानज्ञाः श्रियं मां सम्प्रचक्षते ।
साऽहमेवंविधा नित्या सर्वाकारा सनातना ॥
इति ॥ व्रजन्तीं सर्वस्यापि गतिभूतं तं परमात्मानं विन्दमानां प्राप्तवतीं च चिन्तयन्तो ये तिष्ठन्ति तेषां भोग्यरूपाय “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति” इति श्रुतेः ॥ ७ ॥
मूलम्
पुण्यां च पुण्यः पुरुषे पुरग्रे तां राजिमन्तां निशि चोदितानां निदधाति पुष्ट्यै हरन् पराय स्वाहा ॥ ८ ॥
[[१९३]]
व्याख्या
पुण्यः पोषकः परमात्मा यद्वा परमपावनः पुण्यां पोषिकां पुरुषे पुरुषशब्दः साधारणः स्वकृपाकटाक्षविषयभूते पुरुषे पुरग्रे शरीरपूर्वभागे पादगुह्यनाभिहृदयकण्ठमुखेषु पुष्ट्यै ऐश्वर्यानुभवार्थं लक्ष्मीं निदधाति स्थापयते निशि चोदितानां रात्रौ चकारात् सन्ध्याकाले च उदिताः जाताः सुरदानवादयः “दिवा देवानसृजत नक्तमसुरान्” इति श्रुतेः । तां राजिं दीप्तिरूपां लक्ष्मीं हरन् तेषामैश्वर्यं हरन् अन्तां शिरसि स्थितां निदधाति अयमेवार्थो मार्कण्डेयपुराणेऽवगम्यते -
सप्तस्थानान्यतिक्रम्य येषां लक्ष्मीः शिरःस्थिता ।
आयुरारोग्यमैश्वर्यं तेषां सम्यक्प्रहीयते ॥
एवंरूपेण मर्यादास्थापकाय तुभ्यम् ॥ ८ ॥
मूलम्
स नो भूतो यो वाऽमृतात्मा सुपुष्टिमस्मत्पितरं पवित्रं स नोऽस्तु भूत्यै कमलं पराय स्वाहा ॥ ९ ॥
व्याख्या
स परमात्मा नो भूतः न जातः “अमानोनाः प्रतिषेधे" इति । श्वेताश्वतरे -
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥
इत्यादयः ॥ अमृतात्मा -
षड्भावषट्कोशषडूर्मिहीनं शुद्धात् परं निर्मलमप्रमेयम् ।
ब्रह्माद्यमेकं सदनं समग्रं भजन्ति ये तत्र भवन्ति धन्याः ॥
इति ॥ अस्ति जायते परिणमते वर्धते अपक्षीयते विनश्यतीति षड्भावविकाराः अस्थिशुक्लमज्जाः पितृतः, त्वङ्मांसरुधिराणीति मातृतः, इति षट्कोशाः ।
[[१९४]]
अशनायापिपासे च शोकमोहौ जरामृती ।
एताः षडूर्मयः प्रोक्ता देहिनां तु विशेषतः ॥
इति ॥ अस्माकं सुपुष्टिं सुतरां पुष्टिम् ऐहिकम् अस्मत्पितरं पवित्रं पितृशब्देन पितृवंशजानां मातृवंशजानां सर्वेषामुपलक्षणम् ।
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।
वैष्णवो नः कुले जातः स पुनस्तारयिष्यति ॥
स नोऽस्तु भूत्यै स परमात्मा नः भूत्यै भगवत्प्राप्तिरूपैश्वर्याय अस्तु कमलम् ॥ ९ ॥
मूलम्
स एव नित्यं सकलाः समूर्तयः सुरतास्त्वनन्तास्ते जयन्तो वियति क्षयाणां तत्तत्सवित्रे हरते पराय स्वाहा ॥ १० ॥
व्याख्या
नित्यं वियति आकाशे यद्वा अनन्ता इत्यनेन आकाशास्ता उच्यन्ते सुरताः रतिसहिताः सकलाः नृत्यगीतवाद्यादिकलासहिताः समूर्तयः मूर्तिमन्तः जयन्तः जयशीलास्सन्तः ये तिष्ठन्ति ते सर्वे स एव । तुशब्दो विशेषद्योतकः । सद्वारकत्वेन यद्वा अन्तर्यामित्वेन -
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥
वियति क्षयाणाम् आकाशे स्थानं प्राप्तानां “देवगृहा वै नक्षत्राणि” इति श्रुतेः । तत्तत्सवित्रे तत्तत्कर्मफलानुभवस्थानजनकाय हरते -
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ।
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥
इति भगवद्वचनात् । पराय - ब्रह्माण्डे –
ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः ।
एवमाद्यास्तथा चान्ये युक्ता वैष्णवतेजसा ॥[[१९६]]
जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा ।
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥
इति ॥ श्रीविष्णुपुराणे —
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥
इति ॥ जगत्संहारकत्वेन रुद्ररूपक्षयशब्देन स्थानम् । निरुक्ते -
क्रमादिह गृहादीनां नामानि विविदुर्बुधाः ।
प्रासादमास्पदं सद्म गृहं धाम सनातनम् ॥
विमानं निलयं धिष्ण्यं गेहं च वसतिस्तथा ।
हर्म्यं निकेतनं चैव सौधं वासः श्रयः क्षयम् ।
आलयो मन्दिरं चैव भवनावासवाचकाः ॥
इति ॥
इति श्रीवेङ्कटेशपादाब्जसपर्यासुरतात्मना श्रीमत्कौशिकगोत्रेण गोविन्दाचार्यसूनुना वेदान्तदेशिकश्रीनिवासयज्वना विरचितपारमात्मिकोपनिषद्व्याख्याने नवमानुवाकार्थविवरणं समाप्तम्