०८

मूलम्

अष्टमोऽनुवाकः

यत्सारभूतं सकलं धरित्रीं मोदप्रायेणानुभूतमनुविधं सूक्ष्मः सुरेशः सकलं बिभर्ति तस्मै सुरेशाय सकलं सुपुण्यं स्वाहा ॥ १ ॥

व्याख्या

यत्सारभूतं प्रकृतिपुरुषयोर्बलभूतं यद्वा जगतः सकलं “षोडशकलो वै पुरुषः” इति श्रुतेः । सकलासु हितां धरित्रीं धारणात् त्रायत इति धरित्रीं प्रकृतेः मोदप्रायेणानुभूतं लीलाप्रायेण परमात्मनानुभूतम् अनुविधम् अनुप्रविद्धं “तदेवानुप्राविशत्" इति श्रुतेः । सूक्ष्मः,

वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥

इति श्रुतेः ॥ “अणोरणीयान्” इति जीवापेक्षया सूक्ष्मः सुरेशः ब्रह्मादीनामीशः सकलं चिदचिदात्मकं जगत् बिभर्ति । “व्यष्टभ्नाद्रोदसी विष्णुरेते । दाधार पृथिवीमभितो मयूखैः” इति तस्मै सुरेशाय पूर्वोक्तसुरेशः सकलं ब्रह्मादिस्तम्बपर्यन्तं सुपुण्यं सुतरां पुण्यं यत्सुरेशाय तस्मै ॥ १ ॥

मूलम्

फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति विमलोऽमलाख्यस्तस्मै ककुत्त्रे वरदस्य पुष्ट्यै स्वाहा ॥ २ ॥

व्याख्या

एष परमात्मा लोकानां भूरादीनां तत्तल्लोकानां देवमनुष्यादीनां च फलः फलभूतः फलप्रदश्च । “फलमत उपपत्तेः” इति । अजरः जरारहितः ।

[[१८२]]

अशनायापिपासे च शोकमोहौ जरामृती ।
एताः षडूर्मयः प्रोक्ताः षडूर्मिरहितश्च सः ॥

महात्मा महान् विश्वं जगत् यः पाति रक्षति विमलः अपहतपाप्मत्वादिगुणः अमलाख्यः,

वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्णखाः ।
श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥

इति द्वादशमलरहितः ककुत्त्रे श्रेष्ठाय पोषणादिशक्तिसहिताय तस्मै वरदस्य वरप्रदानसमर्थस्य पुष्ट्यै, भृगुः -

श्रीः सा सरस्वती चैव रतिः प्रीतिस्तथैव च ।
कीर्तिः शान्तिस्तथा पुष्टिस्तुष्टिरित्यष्टशक्तयः ॥

इति ॥ पोषणरूपायै शक्त्यै परमात्मने ॥ २ ॥

मूलम्

धूर्नो वहन्तां रतये रमन्तां प्रभूतिमन्तस्समयं सुषुम्ना अं राजिमन्तं सकलस्य गुप्त्यै स्वाहा ॥ ३ ॥

व्याख्या

नः धूः भारं भरन्न्यासं वहन्तां “वह प्रापणे” इति । परमात्मा स्वयमेव प्रापयताम् ।

स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया सार्धं स्वस्मिन्न्यस्यति मां स्वयम् ॥

इति सर्वदानुसन्धाय संयोज्य धूर्वहन्तां रतये तत्तद्विषयानुभवार्थं तत्तत्स्थाने रमन्ताम् इन्द्रियाणां प्रभूतिं परमपुरुषानुभवैश्वर्यरूपाम् अन्तस्समयं सुषुम्ना अन्तस्समये अं राजिमन्तम् अकाराक्षरपूर्वकमन्त्रं प्रतिपादयन्तं सकलस्य कला तु षोडशो भागः सर्वेन्द्रियोपरतस्य सुषुम्नानाड्यां गमनं च भरन्यासं श्रुतवतः प्रयच्छति तस्मै ॥ ३ ॥

विश्वास-टिप्पनी

स्वामी स्व-शेषं स्व-वशं
स्व-भरत्वेन निर्भरम् ।
स्व-दत्त–स्व-धिया स्वार्थं
स्वस्मिन् न्यस्यति मां स्वयम् +++(प्रधान-कर्ता सन्)+++ ॥ 3 ॥

इति वेङ्कटनाथार्य-कृते न्यास-दशके।

मूलम्

[[१८३]]

विश्वं बिभर्ति प्रसुरोऽभूदन्तं संराजवन्तं सकलं प्ररूढं स नो वितत्य प्रहिणोतु पत्त्रे स्वाहा ॥ ४ ॥

व्याख्या

विश्वं समस्तं प्रसुरोऽभूदन्तं तापत्रयादिना प्रकर्षेण सुरोऽभूदन्तं संराजवन्तं समूहवन्तं सकलं कलासहितं प्ररूढं देवमनुष्याद्यनुकारेण समस्तं वितत्य विस्तार्य बिभर्ति स देवः नः श्रेयः प्रहिणोतु प्रयच्छतु पत्त्रे पदात् त्रायत इति तस्मै ॥ ४ ॥

मूलम्

सो वा स्वरूपः समदृक् समयो विधुदं तुदन् यो विदधत्पदं वा वियति प्रकाशं बृहते गुहेन तं बिम्बवन्तं समदं समग्रं स्वाहा ॥ ५ ॥

व्याख्या

यः परमात्मा देवासुरेषु समुद्रमथनवेलायां समदृक् समग्रः वञ्चितुं सावधानः विधुदं विधुश्चन्द्रः तं दमयतीति । दम इतीन्द्रियनिग्रहशक्तिसम्भवात् विधुदो राहुः तं समदं मदसहितं समग्रं सावधानं बिम्बवन्तं राहुममृतपानवेलायां तुदन् हिंसां कुर्वन् तस्य राहोः वियति आकाशे पदं स्थानं गुहेन ग्रहरूपेण बृहते पूर्वचन्द्राय विदधत् कल्पितवान् स एव स्वरूपः तस्मै ॥ ५ ॥

मूलम्

भूर्भुवं वा भ्रुवो वा सुवो वा किञ्चित्स्वनन्तं सुषुवे समस्तं सर्वस्य दातारमजरं जरित्रे स्वाहा ॥ ६ ॥

व्याख्या

भूर्भुवं भूमेरपि भूमिम् उत्तरकुरुदेशादिकं भुवो वा सुवो वा अन्तरिक्षं स्वर्गं वा वाशब्दो लोकान्तरपरः । किञ्चित्स्वनन्तं अल्पशब्दवाच्यत्वेन स्वनन्तं शब्दयन्तं सुषुवे सृष्टवान् समस्तमपि सर्वस्य दातारं चतुर्वर्गफलप्रदम् अजरं जरारहितम् ।

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥

इति ॥ जरित्रे प्रकृतिद्वारेण जरित्रे ।

[[१८४]]

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥

इति ॥ तस्मै ॥ ६ ॥

मूलम्

दाक्षायण्यां प्रसृतं समस्तं सङ्कोचयित्वा सकलं वितानं संवासयन् यः सकलं वरिष्ठं तस्मै प्रजेशाय धुरन्धराय स्वाहा ॥ ७ ॥

व्याख्या

दाक्षायण्यदितिः तस्यां तं प्रसृतम् उद्भूतं समस्तं दैतेयजातं सङ्कोचयित्वा अल्पावशिष्टं कृत्वा सकलं कलासहितं वितानं लोकस्याच्छादनभूतदेवजातं संवासयन् वरिष्ठं श्रेष्ठं मनुष्याणां रक्षणार्थे स्थापितवान्

त एनं तृप्त आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन, च तर्पयन्ति

इत्यादि प्रजेशाय प्रजानामीश्वराय धुरन्धराय सर्वभारवहाय तुभ्यम् ॥ ७ ॥

मूलम्

आशास्समस्ताः प्रतरन्ननु तमन्तस्तास्ता वसेद्द्यौः कमला समस्ताः सा मे गृहे समधत्त पुष्टिं स्वाहा ॥ ८ ॥

व्याख्या

स्वभक्तानां स्वाराधकानाम् आशाः कामान् प्रतरन् प्रयच्छन् अनु साकल्येन तम् अन्तः हृदये परमात्मा तिष्ठति । या कमला लक्ष्मीः सापि तास्ताः प्रविश्य वसेत् ।

श्रीविष्णुपुराणे —

त्वं माता सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥

इति ॥ सर्वत्र व्याप्तिरुच्यते कथं व्याप्तिरिति चेत् यथा परमात्मना जगद्व्याप्तं तथेति भावः सर्वात्मना सा लक्ष्मीः सैषा लक्ष्मीः मे गृहे पुष्टिं,

[[१८५]]

त्वयावलोकिताः सद्यः
शीलाद्यैः सकलैर्गुणैः ।
धनैश्वर्यैश्च युज्यन्ते
पुरुषा निर्गुणा अपि ।

समधत्त अन्तर्यामिणः परमात्मनो लक्ष्म्याश्चायं मन्त्रः ॥ ८ ॥

मूलम्

यो जङ्गमानां सकलं बिभर्षि सर्वं वियद्विचरते शक्ष्यन् तन्नौकूले वान्तिकेऽजस्रं स्वाहा ॥ ९ ॥

व्याख्या

यः परमात्मा जङ्गमानां देवमनुष्यादीनां सकलं योगक्षेमादिकं बिभर्षि वियद्विचरते आकाशे यत्किंचित् विचरते तत् सर्वं त्वमेव बिभर्षि शक्ष्यन् शक्तः तन्नौकूले वा तत्सर्वं नौरिव जलधौ नौरिव अन्तिके समीपे अजस्रं पुष्टिं बिभर्षि तुभ्यम् ॥ ९ ॥

मूलम्

यो वा दशानां प्रसृताः समस्तास्तां तां दधानास्समयात्सुबीजाः शब्दादिरीत्यै स्वबलं बलाय स्वाहा ॥ १० ॥

व्याख्या

बीजाङ्कुरप्ररोहादिकं परमात्मशक्त्येत्याह – यो वा दशानाम् इति ॥ यः परमात्मा दशानां देवमनुष्यमृगपक्षिसरीसृपक्रिमिश्वेतवृक्षजगुल्मलतादीनां प्रसृताः प्रसूतयः समस्ताः नामरूपकृत्यविभागादिकं तां तां दधानाः समयात् समये सुबीजाः शब्दादिरीत्यै परमात्मशक्त्या प्ररोहादिसामर्थ्ययुक्ता भवन्ति ये स्वबलं तत्सर्वं परमात्मन एव बलं तस्मै बलाय बलरूपाय ॥ १० ॥

इत्यष्टमोऽनुवाकः