०७

मूलम्

सप्तमोऽनुवाकः

तपोनिधिं तपसां रयिंदं[[??]] रयिमायुरङ्गं व्यसनौघहन्तृ सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरबृन्दकर्त्रे स्वाहा ॥ १ ॥

व्याख्या

तपोनिधिं

ऋतं तपः सत्यं तपः श्रुतं तपश्शान्तं तपो दमस्तपः शमस्तपो दानं तपो यज्ञं तपो भूर्भुवस्सुवर्ब्रह्मैतदुपास्यैतत्तपः

इति, तपःस्वधर्मवर्तित्वम्, “तप इति तपो नानशनात् परम्” इत्यादिश्रुतिसिद्धानां तपःशब्दवाच्यानामावासभूतम् । तपसां रयिदं तपसामप्यैश्वर्यप्रदम् । रयिम् ऐश्वर्यभूतम् । व्यसनौघहन्तृ आपन्निवारकं स्वभक्तस्वापन्निवारकत्वं ब्रह्मादेरदृष्टम् । सासिष्वसन्तम् असिसहितः सासिः प्रतिघ इत्यर्थः तेप्वसन्तम् ।

[[१६८]]

सवने समये सवित्रे फलप्रदाय सुरेशाय ब्रह्मरुद्रादीनामीश्वराय सुरवृन्दकर्त्रे देवसमूहकर्त्रे तस्मै तुभ्यम् ॥ १ ॥

यो वा नृसिंहो विजयं बिभर्षि साराजिमन्तं रयिदं कवीनां साराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुशेवधये स्वाहा ॥ २ ॥

व्याख्या

यः परमात्मा हिरण्यवधादिना विजयं बिभर्षि । विष्णुसूक्ते

प्रतद्विष्णुस्तव ते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा ।

प्रकर्षेण तस्माद्धिरण्यवधादिकारणादाविर्भूतो नृसिंहो न मृगः किन्तु विष्णुः भीमः दैत्यदानवरक्षसां भयङ्करः,

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

इति ॥ कुचरो गिरिष्ठाः रत्नकूटपर्वते स्थितः सन् पादचारी भूत्वा सन्ध्याकाले हिरण्यवधादिकं कृतवान् । यस्य विष्णोरुरुषु महत्सु त्रिषु विक्रमणेषु भुवनानि अधिक्षियन्ति अधिक्षिप्तानि भवन्ति । तस्माद्विष्णुः वीर्यवत्तया स्तवत इति ॥ श्रीमद्वैखानसेऽखिलसंहितायामप्येवमेवोक्तम् —

नरसिंहः सुभविता कस्माच्च भुवनेश्वरः ।

इत्युपक्रम्य ।

गत्वा तत्पुरसाह्ये तु पर्वतं शृङ्गिरूपिणम् ।
रत्नकूटमिति ख्यातं पर्वतं सुमनोहरम् ॥
तस्यैव शिखरे रम्ये दृष्टः स भगवान् किल ।
नारायणस्तु सिंहत्वे मुखं कृत्वा च दारुणम् ॥

[[१७०]]

दंष्ट्राणां च तु तीक्ष्णत्वं सटाभिः स्कन्धसङ्कटम् ।
नररूपं वपुः कृत्वा मानुषत्वे व्यवस्थितः ॥
सुदारुणं महद्रूपं शत्रूणां साधनाय च ।
नखैस्तीक्ष्णैः सुदंष्ट्रैश्च चतुर्भिर्बाहुभिर्युतम् ॥
नागराश्च किलोद्युक्ता हिरण्यपुरवासिनः ।
अपराह्णे महासिंहं पर्वताग्रे प्रतिष्ठितम् ॥
सहस्रादित्यसङ्काशं ज्वलन्तं प्रभया युतम् ।
आगच्छन्तं समुत्प्रेक्ष्य विद्रुता भयमोहिताः ॥
अपराह्णे मन्दभूते रक्तादित्यकरप्रभे ।
शीघ्रमुच्चार्य वेगेन मन्दिरं प्राविशद्धरिः ॥

इत्यादि ।

शीघ्रं चापं च गृह्णन्तं तत्प्रमुच्यासिमुत्तमम् ।
उत्पत्य खङ्गं दृष्ट्वा तं हिरण्यकशिपुं रिपुम् ॥
एकेनैव च हस्तेन खड्गं जग्राह तस्य तम् ।
अन्येन पाणिना चारु समालम्ब्यादिकङ्कतम् ।
अस्त्रेण सह संयोज्य बिभिदे तद्विधा हरिः ॥

इति ॥ साराजिमन्तं सर्वैश्वर्यवन्तं कवीनां ज्ञानिनां यद्वा भक्तानां साराजिमन्तं साम्राज्यं सजयं जयसहितं सहस्रम् अपरिमितं तस्मै प्रह्लादाय सुयन्त्रे भगवद्भक्ताय यद्वा परमात्मज्ञानिने सुशेवधये निधिभूताय ॥ २ ॥

मूलम्

रयिः ककुद्मान् दधद्विनष्टं रयिमद्विधानं तस्मै ककुत्त्रे विकटाय पित्रे स्वाहा ॥ ३ ॥

व्याख्या

रयिः ऐश्वर्यरूपः ककुद्मान् वृषभाववान् यद्वा श्रेष्ठः दधद्विनष्टं येन केन प्रकारेण यस्मै कस्मैचित् विनष्टं पदार्थ वरप्रदानादिमुखेन प्रापयन्

[[१७०]]

रयिमद्विधानं रयिः इत्यनेन

ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम्

इति श्रुत्युक्तं विधानं विधिः श्रुतिप्रसिद्ध इत्यर्थः । अनेन शास्त्रयोनित्वं दर्शितम् । ककुत्त्रे ककुदि स्थिताय विकटाय वेङ्कटाय । ऋग्वेदे

अरायि काणे विकटे गिरिं गच्छ सदान्वे शिरिंबिठस्य सत्त्वभिस्तेभिष्ट्वा चातयामसि

इति ॥ हे अरायि ऐश्वर्यहीने काणे एकाक्षिन् अन्धस्य गमने सामर्थ्याभावात्काणस्य यथाकथञ्चित् गमनयोग्यता सम्भवतीति काणेत्युक्तम् । विकटे गिरिं गच्छ वेङ्कटगिरिं प्रति गच्छ

चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतँ सन्तम् ।
चतुर्होतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥,

इन्द्रो ह वै नामैषः । तं वा एतमिन्द्र‍ँ सन्तम् ।
इन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥

इति श्रुतेः परोक्षेणोक्तम् । सदान्वे सर्वदा अन्वेषणं कुरु ॥ यद्वा सर्वदा अन्वेषय शिरिंबिठस्य श्रीपीठस्य,

स्वामिपुष्करिणीतीरे कोटिकन्दर्पमूर्तिमान् । ।
आस्ते लक्ष्म्या च धरया रमन् षोडशवार्षिकः ॥

इति ॥ सत्त्वभिः सात्त्विकगुणैः तेभिः तैः त्वा त्वां चातयामसि चातयामः विनाशयामः । पाद्मे –

स्वामिपुष्करिणीतीरे सर्वान्तर्याम्यधोक्षजः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
चिन्तितस्य तु विद्या तु चिन्तामणिमिमं जगुः ।
केचिद्दानप्रदत्वाच्च ज्ञानाद्रिरिति तं विदुः ॥
सर्वतीर्थमयत्वाच्च तीर्थाद्रिं प्राहुरुत्तमाः ।
पुष्कराणां च बाहुल्यात् गिरावस्मिन् सरस्सु च ॥

[[१७१]]

पुष्कराद्रिं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ।
गिरावस्मिन् तपस्तेपे सोऽपि च स्वाभिवृद्धये ॥
तस्मादाहुर्वृषाद्रिं तं मुनयो वेदपारगाः ।
शातकुम्भस्वरूपत्वात् कनकाद्रिं च तं विदुः ॥
द्विजो नारायणः कश्चित् तपः कृत्वा महत्पुरा ।
पश्चादश्वस्य नामा च व्यपदेशं मुरारितः ॥
वैकुण्ठादागतत्वेन वैकुण्ठाद्रिरिति स्मृतः ।
हिरण्याक्षविनाशाय प्रह्लादानुग्रहाय च ॥
नारसिंहाकृतिं लेभे यस्मात्तस्मात्स्वयं हरिः ।
सिंहाचल इति प्राहुस्तस्मादेव मुनीश्वराः ॥
अञ्जनाद्रौ तपः कृत्वा हनूमन्तं व्यजायत ।
तदा देवाः समागत्य देवकार्यार्थकारकम् ॥
यस्मात्पुत्रं मम सुतं जग्मुस्तस्मादमुं गिरम् ।
अञ्जनाद्रिं वराहाद्रिं वराहक्षेत्रलक्ष्मतः ॥
नीलस्य वासुरेन्द्रस्य यस्मान्नित्यमवस्थितिः ।
तस्मान्नीलगिरिं नामावदंस्ते तं महर्षयः ॥
वेकारोऽमृतबीजं तु कट ऐश्वर्यमुच्यते ।
अमृतैश्वर्यसङ्घत्वाद्वेङ्कटाद्रिरिति स्मृतः ॥
अयं कदाचिद्देवानां श्रीनिवास इवाबभौ ।
श्रीनिवासगिरिं प्राहुस्तस्माद्देवा दिवौकसः ॥
आनन्दाद्रिमिमं प्राहुर्वैकुण्ठपुरवासिनः ।
प्राहुर्भगवतः क्रीडाप्राचुर्यात्तु तवासुराः ॥

[[१७२]]

श्रीप्रदत्वाच्छ्रियो वासाच्छब्दशक्त्या च योगतः ।
रूढ्या श्रीशैल इत्येतन्नाम चास्य गिरेर्भवेत् ॥
बहूनि चान्यनामानि कल्पभेदाद्भवन्ति हि ॥
सर्वपापानि वें प्राहुः कटस्तद्दाह उच्यते ।
सर्वपापदहो यस्माद्वेङ्कटाचल इत्यभूत् ॥
कलिदोषपरीतानां नराणां पापचक्षुषाम् ।
वेङ्कटेशात्परो देवो नास्त्यन्यः शरणं भुवि ॥ ३ ॥

मूलम्

राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्थ्यं स्वाहा ॥ ४ ॥

व्याख्या

राका परमपुरुषरञ्जनाद्राका यद्वा रातीति राका परमपुरुषरञ्जनयोग्या अहं तापत्रयाभिभूतोऽहं यद्वा चतुर्विधपुरुषार्थकामोऽहं सुहवां शोभनहवां लक्ष्म्याराधनं अधिकं शोभनार्थमेव नाभिचारनिमित्तम् ॥ श्रीविष्णुपुराणे -

सत्वेन शौचसत्याभ्यां तथा शीलादिभिर्गुणैः ।
धनैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥

इति ॥ चतुर्विधपुरुषार्थेष्वपि लक्ष्म्या एवं प्राधान्यात् सुहवाम् इत्युक्तम् । सुष्टुती सुषन्ति शोभनरूपया स्तुत्या हुवे आह्वये शृणोतु नः आर्तनादं शृणोतु यद्वा मम विज्ञापनं सुभगा,

[[१७३]]

भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥

इति ॥

शृणोति निखिलं दोषं शृणोतु च गुणैर्जगत् ॥
श्रूयते चाखिलैर्नित्यं श्रूयते च परं पदम् ॥

इति ॥ सा भक्तस्य आर्तनादं श्रुत्वा तन्निवारणे यत्नं कर्तुं समर्था महानुभावा वीर्यवती कीर्तिमतीत्यादिगुणविशिष्टेत्यभिप्रायेण सुभगा इत्युक्तम् । बोधतु त्मना वेगेन बुध्यताम् । यद्वा सीव्यत्वपः सूच्याच्छिद्यमानया सूच्यग्रसन्ततधारया कृपाकटाक्षजलेन नः सिञ्चतु ददातु वीरं परमात्मानं यद्वा पुत्रपौत्रादिकं शतदायमुक्थ्यं प्राणभूतं ददातु प्रयच्छतु ॥

ननु “पूर्वपक्षो राकापरपक्षः कुहूः” इति श्रुतेः देवतान्तरपरत्वेन श्रूयमाणो राकाशब्दः कथं लक्ष्मीपरो भविष्यतीति चेत् — उच्यते; प्रकरणानुक्तादुक्तां योगो रूढिमपहरतीति न्यायात् भगवच्छब्दस्य तत्रैव मुख्यवृत्तत्वात् पुरुषाकारभूतत्वात् राज्ञि हं रञ्जनात् सतामिति “अस्येशाना जगतो विष्णुपत्नी” इत्यादिभिः पुंस्त्वाभिधानेश्वरेश्वरीमिति सर्वशेषित्वाच्च ॥ ४ ॥

मूलम्

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते स्वाहा ॥ ५ ॥

व्याख्या

श्रीवेङ्कटेशत्वेन पूर्वं प्रतिपादितस्य परमात्मनः स्वरूपं स्तोतुमारभते - वेदाहम् इति ॥ एतं वेङ्कटाचलनिवासिनं पुरुषं पुरुषसूक्तेन प्रतिपाद्यम् । श्रूयते हि — भगवन् कूर्मरूपं प्रस्तुत्य कूर्मरूपो भगवान् ब्रह्माणमाह - “मम वै त्वङ्माँसा । समभूत्” इति ॥ ब्रह्माह - “नेत्यब्रवीत्” इति ॥ पुनश्च भगवान् कूर्मः प्राह – “पूर्वमेवाहमिहासमिति । तत्पुरुषस्य पुरुषत्वम्” – इति ॥

[[१७४]]

तदेव न्यस्तपुरुषत्वात् परं दर्शयति – “स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत्” ॥ इत्यादि ॥ महान्तं “तेनेदं पूर्णं पुरुषेण सर्वम्” इति ॥ पूर्णत्वात्पुरुषः इति ॥ पाद्मे –

शब्दोऽयं सोपचारेण तथा पुरुष इत्यपि ।
निरुपाधौ वदन्त्येते वासुदेवे सनातने ।
सर्वलोकप्रतीत्या च पुरुषः प्रोच्यते हरिः ।
तं विना पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् ॥
ब्रह्माद्याः सकला देवा यक्षतुम्बुरुनारदाः ।
ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ॥

उत्तररामायणे अगस्त्यः –

असौ राम महाबाहुः रतिमानुषचेष्टया ।
तेजोमहत्तया चासि संस्कार इति पूरुषम् ॥

हरिवंशे -

गोवर्धनादिधरणीनाथ नन्दसुतोऽपि सन् ।
पुरुषस्यांशभूतं त्वामादधन्निरणे वही ॥

स्कान्दे —

यदा भास्करशब्दोयमादित्ये प्रतितिष्ठति ।
यदा चाग्नौ बृहद्भानुर्यदा वायौ सदा गतिः ॥
तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठति ।
यदा शङ्करशब्दोऽयं यथा देवे व्यवस्थितः ॥

श्रीविष्णुपुराणे -

देवतिर्यङ्मनुष्येषु पुंनामा भगवान् हरिः ।
श्रीर्नाम लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ॥

[[१७५]]

नारसिंहे –

य एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः ।
प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्ये वैभवादपि ॥
स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते ।
स्त्रीप्रायमितरत्सर्वं जगद्ब्रह्मपुरस्सरम् ॥

इत्यादि ॥ सहस्रशीर्षेत्यादिशब्दसिद्धः पुरुषः श्रीवेङ्कटेशः तस्य वैभवं प्रतिपादयति ॥

अत्र प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।
द्वितीययास्य विष्णोश्च कालतो व्याप्तिरीरिता ॥
विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।
एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥
तस्माद्विराडित्यनया वदेन्नारायणाद्धरेः ।
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥
यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
अनेनैव तु मन्त्रेण मोक्षश्च समुदीरितः ॥
तस्मादिति च सप्तार्चान् जगत्सृष्टिः समीरिता ।
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥
यज्ञेनेत्यनया चर्चा सृष्टेर्मोक्षस्य चेरितः ।
य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥

पुरुषसंहितायां किं स्वरूपं आदित्यवर्णम् -

आदित्यवर्णं पुरुषं वासुदेवं विचिन्तय ॥

इति ॥

तमसस्तु पारे तमश्शब्देन प्रकृतिरुच्यते -

तमसः परमे दान्ते ह्यस्ति प्रकृतिमण्डलम् ।
ऊर्ध्वमवस्थितं सर्वाणि विचित्य निर्माय नामानि कृत्वा ॥

[[१७६]]

नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥

भारते -

सर्वेषां च सनामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥

इति ॥ धीरः - धियो रममाणः अभिवदंस्तैराभिमुख्येन वदन् यदास्ते अस्त्येव तमित्यनेन पूर्वे प्रस्तुतमेव नान्यं दद इति । सन्निहितस्य परित्यागे कारणाभावात् ॥ वेङ्कटाचलमाहात्म्ये —

स्वामिपुष्करिणीतीरे सर्वान्तर्याम्यधोक्षजः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥

इति पुरुषसूक्तप्रतिपाद्यत्वेनोक्तत्वाच्च ॥ ५ ॥

मूलम्

दिग्दोषो यस्य विदिशश्च कर्णौ द्यौरास वक्त्रमुदरं नभो वा सासि वा स्म या स्वयमाप दन्तं तस्मै वरत्रे वरदाय कस्मै स्वाहा ॥ ६ ॥

व्याख्या

यस्य परमात्मनः दिग्दोषः दिशः दोषः बाहवः विदिशश्च अवान्तरकर्णौ द्यौर्वक्त्रमास उदरन्नभः “नाभ्या आसीदन्तरिक्षम्” इत्यादिश्रुतयः । या विश्वम्भरा भूमिः सा त्वमेवासि स्म भूतार्थसूचकम् अन्तर्यामीत्यर्थः ॥

श्रुत्यन्तरे –

यस्यास्यमग्निर्द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥

इत्यादि ॥ पादभूता या भूमिः सा स्वयं वराहरूपेण तव दन्तमाप दंष्ट्राग्रस्थितेत्यर्थः तस्मै वराहरूपिणे वरत्रे वरप्रदानेन त्राति वरत्रः वरप्रदानसमर्थाय कस्मै परब्रह्मणे कस्मा इत्युक्तत्वात् ब्रह्मकं ब्रह्ममुखमिति परब्रह्मपरत्वेनोक्तत्वात् ।

[[१७७]]

“सदेव सोम्येदमग्र आसीत्”, “एकमेवाद्वितीयम्” इत्यादिश्रुत्यनुसारेण पृथग्देवीभूषणायुधादिरहितत्वेन श्रुतिसिद्धम् । वेङ्कटाचले विद्यमानोऽपि मन्त्रो वेङ्कटेशपरः ॥

पाद्मे -

येनैव दंष्ट्राग्रसमुद्धृता धरा बिभर्ति विश्वं ससुरासुरेन्द्रम् ।
नताः स्म तस्मै वरदाय पुंसे सर्वात्मने शेषविभूतिदायिने ॥

इति ॥

मूलम्

पद्मास्य वक्षाः परमः सुपुण्यः पद्मा जनित्री परमस्य वासः सूक्ष्मं सावित्रं स्वयमादधानः सावित्ररूपं परमं सुपुण्यं स्वाहा ॥ ७ ॥

व्याख्या

पद्मा लक्ष्मीः अस्य पूर्वं प्रतिपादितस्य वेङ्कटेशस्य वक्षाः वक्षसि विभक्तिव्यत्ययः परमः अर्चावतारे वरप्रदानादिषु समाभ्यधिकरहितः सुपुण्यः,

वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥
याश्च सप्तमहापुर्यः कीर्त्यन्ते मोददायकाः ।
ता वेङ्कटाद्रिपर्यन्ता ग्रामकोट्यंशशक्तयः ॥
नास्ति पुण्यतमं तीर्थं स्वामिपुष्करिणीसमम् ।
सममस्तीति यो ब्रूयात्तत्समो नास्ति पातकी ॥

इत्यादि ॥ पद्मा जनित्री सर्वत्र जननी । ऋग्वेदे -

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ।
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तस्समुद्रे ।

श्रीसूक्ते — “मातरं पद्ममालिनीम्”,

[[१७८]]

श्रीविष्णुपुराणे -

त्वं माता सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥

इति ॥ परमस्य अभ्यधिकरहितस्य अस्य वक्षः पद्मावास इति वा ॥ भगवच्छास्त्रे —

महाप्रलयकाले तु सर्वलोकविनाशने ।
तस्मिन्नपि च काले तु वत्सरूपावसत्स्वयम् ॥
श्रीवत्साङ्को हरिस्तस्मात् हरिवक्षसि सुस्थिता ।
प्रलयान्ते पुनस्सृष्टा पृथग्भूता च सा भवेत् ।
स्त्रीवेषेण च सर्वासां भेदमूर्तित्वमेयुषी ॥

इति ॥ सूक्ष्मं सावित्रं स्वयमादधानः “अन्तस्तद्धर्मोपदेशात्” इत्यस्यार्थोऽत्राभिप्रेतः । छान्दोग्ये –

य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी

इति ॥ मैत्रायणीश्रुतिः -

स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम"

इति ॥ योगयाज्ञवल्क्यः -

ईश्वरं पुरुषाख्यं च सत्यधर्माणमच्युतम् ।
भर्गाख्यं विष्णुसंज्ञं च ध्यात्वामृतमुपाश्नुते ॥

इति ॥

दृश्यो हिरण्मयो देव आदित्यो नित्यसंस्थितः ।
यः सूक्ष्मः सोऽहमित्येव चिन्तयामः सदैव तु ॥

किञ्च - सूक्ष्मं सावित्रं इत्युक्तत्वात्

घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि आदित्य इति त्रीणि ।
एतद्वै सावित्रस्याष्टाक्षरं पदँ श्रियाभिषिक्तम् । य एवं वेद । श्रिया हैवाभिषिच्यते

॥ इति ॥ यजुषि -

घृणिः सूर्य आदित्यो न प्रभावात्यक्षरम् ।
मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्

इति ।

[[१७९]]

एवं श्रुतिस्मृतिषु प्रतिपादितं सावित्रं रूपं पूर्वोक्तः परमात्मा स्वयमादधानः सावित्ररूपं परमं सुपुण्यम् । “आदित्यो वा एष एतन्मण्डलम्” इत्यादिश्रुत्यनुसारेण, “असावादित्यो ब्रह्म” इति श्रुतेश्च, आदित्यमण्डलान्तर्वर्ती श्रीवेङ्कटेश इत्यभिप्रायेण सावित्ररूपं परमं सुपुण्यं इत्युक्तम् ॥ ७ ॥

मूलम्

यः पुण्डरीकः परमान्तरात्मा कम्राङ्गरूपं कमलं दधार सासिष्वसन्तं सरसे रसाय स्वाहा ॥ ८ ॥

व्याख्या

यः परमात्मा पुण्डरीकः पुण्डरीकः छान्दसत्वात् । परमान्तरात्मा अत्रापि दहरपुण्डरीकमध्यवर्ती चेत्यर्थः । छान्दोग्ये -

अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्

इति ॥ यद्वा - पुरुषव्याघ्रः कम्राङ्गरूपं कमनीयमङ्गरूपं यस्य तत् । कमलं जलमलङ्करोतीति कमलं दधार कमले दधार ब्रह्माणं सरसे रससहिते द्रवेऽपि चेति रागात्मकरससूते पद्मे रसाय लोकसृष्टये ब्रह्माणं दधार तस्मै । भारते -

स्वयम्भूस्तस्य देवस्य पद्मं सूर्यसमप्रभम् ।
नाभ्या विनिस्सृतमरुक् तत्रोत्पन्नः प्रजापतिः ॥

इति ॥ ८ ॥

मूलम्

रयीणां पतिं यजतं बृहन्तं रारागमुक्तं गुरुं सश्रीकं तं रायिरूपं रयिभूतभूतं रयिमत्सुरत्रः स्वाहा ॥ ९ ॥

व्याख्या

रयीणां पतिम् ऐश्वर्याणां पतिं बृहन्तं “बृहद्ब्रह्ममहश्चेतिशब्दाः पर्यायवाचकाः” इति पूर्वस्मिन्मन्त्रे प्रतिपादितं ब्रह्माणं परब्रह्मभूतं रारागमुक्तं समग्रषाड्गुण्यपरिपूर्णैश्वर्यत्वात् तुच्छरूपपरत्वादिन्द्राद्यैश्वर्यरागरहितम्, “एते वै निरयास्तात स्थानस्य परमात्मनः” । इति वचनात् ।

[[१८०]]

गुरुं —

गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥

इति ॥

विसृष्ट्यादिसामर्थ्यज्ञानप्रदं सश्रीकं सर्वैश्वर्यवन्तं तं रायिरूपम् ऐश्वर्यरूपं रयिभूतभूत ऐश्वर्यस्यापि ऐश्वर्यभूतं रयिमत्सुरत्रः ऐश्वर्यवतां देवानां रक्षिता अस्मै ।

आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात् ।
शङ्कराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥

इति ॥ ज्ञानप्रदोऽपि परमात्मैवेत्यभिप्रायेण गुरुशब्दप्रयोगः यद्वा तत्तदन्तर्यामित्वेन ॥ ९ ॥

मूलम्

रायां पतत्त्रे रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुण्यं राराजिमन्तं रतये रमन्तं तं बिम्बवन्तं ककुदाय भद्रे स्वाहा ॥ १० ॥

व्याख्या

रायां पतत्त्रे स्वभक्तस्थतुच्छैश्वर्याणां पतनानन्तरं त्रात्रे रक्षित्रे,

यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् ।
बन्धून् वा नाशयिष्यामि व्याधीनुत्पादयाम्यहम् ॥

इति ॥ रयिमादधात्रे अनश्वरैश्वर्यप्रदात्रे रायो बृहन्तं लीलाविभूत्यपेक्षया नित्यविभूतेरधिकत्वात् “पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि" इति श्रुतेः । रयिमत्सुपुण्यम्,

सत्पात्रदानेन भवेद्धनाढ्यो धनप्रकर्षेण करोति पुण्यम् ।
पुण्यादवश्यं त्रिदिवं प्रयाति पुनर्धनाढ्यः पुनरेव भोगी ॥

सुपुण्यं सुप्रसिद्धानां पुण्यप्रदं राराजिमन्तं देशकालाद्यपेक्षाराहित्येन निरन्तरैश्वर्यवन्तं रतये लीलारसानुभवार्थं रमन्तं परमात्मानं शैलजादिरूपेण बिम्बवन्तं ककुदाय श्रैष्ट्याय भद्रे शुभाश्रयाय स्वाहा जुहोमीत्यर्थः ॥ १० ॥ इति सप्तमोऽनुवाकः ।