मूलम्
षष्ठोऽनुवाकः
स्वयमादिः सर्वान्तरात्मा देवस्य स्वयं क्रीडात्मकमवासृजत् यः स्वयं लोकमवधारमवधारयन् स्वाहा ॥ १ ॥
[[१५४]]
व्याख्या
अतः परं परब्रह्मणो नारायणस्य परत्वान्तर्यामित्वादिप्रतिपादनमुखेन अर्चावतारादिकं प्रतिपादयति – स्वयमादिः इत्यादिना । स्वयमित्यनेन “सदेव सोम्येदमग्र आसीत्”, “एकमेवाद्वितीयम्” इति श्रुतेरभिन्ननिमित्तोपादानकारणभूतं “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिभिः सत्यत्वज्ञानत्वानन्तत्वविशिष्टम् “आनन्दो ब्रह्म” इति निरतिशयानन्दस्वरूपं “नारायणपरं ब्रह्म” इत्यादिभिः परंब्रह्मपरन्तत्त्वपरंज्योतिः परमात्मादिशब्दवाच्यं नारायणमेवाह – स्वयमिति ॥
नारस्त्विति सर्वपुंसां समूहः परिकीर्तितः ।
गतिरालम्बनं तस्य तेन नारायणः स्मृतः ॥
इति ॥ अखिलजगत्कारणभूतो नारायण एवादिरित्युच्यते । यद्वा - आदिशब्देन परत्वम् । परत्वं नाम -
वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः ।
आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ॥
परे लोके - अतः परं चतुर्थः स्यादित्यादि । श्रिया सार्धम् -
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सद्मगतो विष्णुस्तथैवेयं द्विजोत्तम ॥
जगत्पतिः —
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् ।
एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ॥[[१५६]]
तदंशाच्छक्तिमन्तोऽन्ये ब्रह्मेशानादयोऽमराः ।
ब्रह्मादिदेवसङ्घेषु स एव पुरुषोत्तमः ॥
स्त्रीप्रायमितरत्सर्वं जगद्ब्रह्मपुरस्सरम् ।
विश्वव्यापकशीलत्वाद्विष्णुरित्यभिधीयते ॥
अचिन्त्यात्मा -
न यम्य[[??]] रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥
भक्तैः -
भक्तैस्तद्भक्तवात्सल्यं तत्पूजास्वनुरञ्जनम् ।
तत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया ॥
तदनुस्मरणं नित्यं तदन्यस्य च वर्जनम् ।
नित्यं तदेकशेषत्वं यद्भुक्तेनोपजीवति ॥
इति ॥
भागवतैः -
उत्पत्तिञ्च विनाशञ्च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
पञ्चशक्तिमयो विष्णुर्वासुदेवः सनातनः ।
लोकस्थितिमिमां दीर्घां विशालामतिदुस्तराम् ।
पश्यन्नास्ते हृषीकेशः परमे व्योम्नि भास्वति ॥
एवं परत्वमुपपादितम् । सर्वान्तरात्मा इत्यनेन “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा”, “यस्यात्मा शरीरं यस्य पृथिवी शरीरम्” इत्याद्यन्तर्यामित्वं स्वयमादिः इत्युक्तत्वात् । दैविकमानुषभेदेन व्यूहो द्विविधः ।
[[१५६]]
कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते ।
वैखानसाः कथं वा स्युः कथं वा पाञ्चरात्रिकाः ॥
श्रीभगवान् —
शृणु पाण्डव तत्सर्वमर्चनाश्रममात्मनः ।
स्थण्डिले पद्मकं कृत्वा साष्टपत्रं सकर्णिकम् ॥
अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः ।
वैदिकैरथवा मन्त्रैर्मनुनोक्तेन वा पुनः ॥
स्थितं मामन्तरे तस्मिन्नर्चयित्वा समाहितः ।
पुरुषं च ततस्सत्यमच्युतं च युधिष्ठिर ॥
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः ।
अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ॥
वासुदेवं च राजेन्द्र सङ्कर्षणमथापि च ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्ति प्रचक्षते ॥
एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ।
विद्धि मेऽर्चान्तराण्येव मामेवं चार्चयेद्बुधः ॥
इति ॥ वैभवं त्ववताराणाम् —
मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः ।
रामो रामश्च रामश्च [[??]] बुद्धः कल्कीति ते दश ॥
इति ॥ देवशब्दप्रयोगसामर्थ्यात् व्यूहविभवे अभिप्रेते स्वयम् इत्यनेन “पञ्चधा पञ्चात्मा” इत्यादिश्रुत्यर्थोऽत्रानुसन्धेयः । पञ्चधेत्यनेन परव्यूहविभवान्तर्याम्यर्चावतार इति पञ्चधा प्रतिपादितासु,
व्याप्तिः कान्तिः प्रवेशोऽर्चा तत्क्रियासु निबन्धनाः ।
परत्वेऽप्यधिकं विष्णोर्देवस्य परमात्मनः ॥[[१५८]]
मुक्तोऽपि भोगभोग्यत्वात्परव्यूहात्मनो हरेः ।
तत्कालसन्निकृष्टे च लक्ष्यत्वाद्विभवात्मनः ॥
विशुद्धैर्यागसंसिद्धैश्चिन्त्यत्त्वादन्तरात्मनः ।
अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ॥
अर्चावतारविषये ममाप्युद्देशतस्तथा ।
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ॥
एवं पञ्चप्रकारोऽहमात्मनां पततामधः ।
पूर्वस्मादपि पूर्वस्माज्जायांश्चैवोत्तरोत्तरः ।
सौलभ्यतो जगत्स्वामी सुलभो ह्युत्तरोत्तरः ॥
इति ॥ परत्वादौ सौलभ्याभावात् सर्वसुलभत्वादर्चावतारः ।
शिलादारु च ताम्रं च रजतं काञ्चनं मणिः ।
उक्तानि कौतुकार्थं तु षड् द्रव्याणि मनीषिभिः ॥
इति ॥ शैलजादिरूपेण विग्रहपरिग्रहादिकं भगवतः प्रतिपादयति इयं श्रुतिः - “क्रीडात्मकमवासृजत्” इति ॥ नृसिंहतापनीयोपनिषदि -
अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः तस्मादुच्यते वीरमिति ॥
इत्यादि ॥ यतः भक्तसंरक्षणादिहेतुत्वेन वीरः -
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
[[१५८]]
इत्यादिभगवद्वचनानुरोधेन नित्यविभूतौ पादप्रक्षालनादिकर्मकरणे योग्यताभावात्, विभूतौ पादप्रक्षालनाचमनस्नानादिकर्मकरणायोग्यतात्वमिच्छन् सुदक्षां सुतरां स्वापकादीनां यथायोग्यं कामितफलप्रदानसमर्थः “युक्तग्रावा जायते देवकामः” देवतात्वमिच्छन् श्रीवैखानसादिशास्त्रोक्तशैलादिप्रतिमारूपे जायते । ग्रावाग्रहणं सुवर्णरजतादीनामप्युपलक्षणम् । किञ्च —
पिशङ्गरूपस्सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
पिशङ्गरूपः सुवर्णवर्णः सुभरः सुखेन भर्तुं शक्यः वयोधाः वयसा गरुडेन ध्रियत इति वयोधाः वीरशब्देन पूर्वोक्तमन्त्रप्रतिपाद्य एवात्रापि प्रतिपाद्यते पिशङ्गरूप इत्यादि गुणशिष्टत्वेनोक्तत्वात् सालग्रामपरत्वेन वा ग्रावापरत्वेन वा वक्तुमयुक्तमित्यवगम्यते ।
भारते–
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ।
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥
तामर्चयेत्तां प्रणमेत्तां जपेत्तां विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥
ग्रन्थान्तरे -
द्वीपवर्षविभागेषु तीर्थेष्वायतनेषु च ।
मानुषाश्चात्मना चाहं ग्रामेग्रामे गृहेगृहे ॥
पुंसिपुंसि संभवानि दारुलोहशिलामयः ।
अहं पञ्चोपनिषदः परव्यूहादिषु स्थितः ॥
आविर्भावेषु सर्वेषु स्वसङ्कल्पशरीरवान् ।
आवेशांशावतारेषु पाञ्चभौतिकविग्रहः ॥[[१६०]]
दारुलोहशिलामृत्स्नाशरीरोर्चात्मकः स्मृतः ।
चेतनाचेतनैर्देही परमात्मा भवाम्यहम् ॥
अर्चात्मनावतीर्णं मां जानन्तो हि विमोहिताः ।
कृत्वा दारुशिलावुद्धिं गच्छन्ति नरकायुतम् ॥
स्वयम्भूनां विमानानामभितो योजनद्वयम् ।
क्षेत्रे पापहरं प्रोक्तं मृतानामपवर्गदम् ॥
योजनं दिव्यदेशानां सिद्धानामर्थमेव च ।
मनुष्याणां विमानानामभितः क्रोशमुत्तमम् ।
गृहमात्रं प्रशस्तं वा गृहार्चा यत्र विद्यते ॥
इति ॥ पुरुषसंहितायां नारदं प्रति सनत्कुमारः –
पुरा नारायणो देवः
कृपया परयान्वितः ।
देवतिर्यङ्मनुष्यादीन्
वीक्ष्य संसारमध्यगान् ॥
एवं सञ्चिन्तयामास
संस्मरन् वैभवं स्वकम् ।स्वतः प्रमाणवाक्यैश्च
दुर्विज्ञानं वदन्ति माम् ॥
अणोरणीयान् महतो
महीयान् निर्गुणो गुणी ।
दिग्देशकालावस्थाद्यैर्
असौ चाभेद्यवैभवः ॥
प्रधीक्षयविहीनश् च
सत्यकामो निरञ्जनः ।
विनेन्द्रियेण सर्वज्ञो
विना पादेन सर्वगः ॥
अनासोऽनुभवन् गन्धं
स्पृशन् सर्वम् अपाणिकः ।
शृण्वन् श्रुतिं विना शब्दम्
अजिह्वोऽपि लिहन् रसम् ॥
साधनेन विना सर्वं
साध्यं साधयतेऽन्वहम् ।
तस्मात्सर्वप्रमाणेन
सुदुर्ज्ञानतरो ह्यहम् ॥[[१६०]]
मज्ज्ञानाभावगे मोक्षो
न सिद्ध्यति कदाचन ।
तस्मात्संसारचक्रेऽस्मिन्
भ्राम्यन्ते च सुदुस्तरे ॥
उद्धरेयमिमान् सर्वान्
यातनाशतसङ्कुलान् ।इति सञ्चिन्त्य भगवान्
स्वच्छन्दोपात्तविग्रहः ॥
हित्वौपनिषदं वेषं
प्रमाणानाम् अगोचरम् ।
सर्वेषां हर्षदं भक्त्या
दृष्टमात्रेण मुक्तिदम् ॥
सर्वकल्याणसम्पूर्णं
गुण-राशि-समाश्रयम् ।
सहस्रमुखदृक्पादम्
आददे रूपमद्भुतम् ॥
इति ॥
अतः स्वयं च भगवान्
क्रीडात्मकम् अवासृजत् ।
अवतारस्य सत्यत्वम्
अजिहासन् स्वभावतः ॥
शुद्धसत्त्वमयत्वं च
स्वेच्छामात्रेण दासता ।
धर्म-ज्ञोऽसौ समूहश् च
साधुसंरक्षणार्थता ।
इति जन्मरहस्यं यो
वेत्ति नास्य पुनर्भवः ॥
इति ॥
पाद्मे -
उद्धृतायां स मेदिन्यां पूर्णं तद्भूनभोन्तरे ।
जलं तत्कृतमर्यादं व्यवच्छिन्नमभूत्तव ॥
संस्थाप्य पृथिवीमित्थं तदुर्व्याधारसिद्धये ।
दिग्गजानहिराजं च कमठं च न्यवेशयत् ॥
तेषामपि च सर्वेषामाधारत्वेन सादरम् ।
अव्यक्तरूपां स्वां शक्तिं युयुजे च दयापरः ॥
इति ॥ यः परमात्मा स्वयं लोकं भूरादिसर्वलोकान् अवधारम् अधस्ताद्धृतम् ।
[[१६१]]
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥
इति शेषदिग्गजादिभिर्धृतं दिग्गजादीनामाधारत्वेन अधस्तात् धारयन् कूर्मरूपेणेत्यर्थः ॥ १ ॥
मूलम्
यः स्वयं सृष्टमात्मना गुप्तमनुसन्दितानमचरं चरन्तं स्वयं क्रीडं क्रीडयन् क्रीडान्तरमनुप्राविशत् स्वाहा ॥ २ ॥
व्याख्या
यः परमात्मा स्वयं सृष्टं स्वेन सृष्टम् आत्मना स्वेनैव गुप्तं रक्षितम् अनुसन्दितानं साकल्येन जीवस्य चात्मनः फलितम् अचरं स्वातन्त्र्येण गतिरहितं चरन्तं जीवं यद्वा स्थावरजङ्गमात्मकं तं प्रत्यात्मानं
अप्रमेयोऽनियोज्यश्च यत्र कामागमो वशी ।
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥
इति ॥ स्वतन्त्रत्वात्प्रतिमाप्रायेण क्रीडं क्रीडयन् अन्योन्यं क्रीडयन् स्वयं क्रीडान्तरं वारोहादिरुक्तम् अनु साकल्येन प्राविशत् । यद्वा कूर्मविषयत्वेन स्वसृष्टमन्दरपर्वतं समुद्रमथनेन मन्थरस्योपरि चरन्तं गतिं कुर्वन्तं स्वयं क्रीडयन् तथारणेन क्रीडयन् क्रीडान्तरममृतप्रदानार्थं स्त्रीवेषधारणादिकं साकल्येन प्राविशत् ।
देवतिर्यङ्मनुष्याख्यचेष्टामत्ति स्वलीलया ।
जगतामुपकाराय मनःकर्मनिमित्तजः ॥
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः सनाथिताशेषजगद्धितोऽसौ ॥
इति तस्मै ॥ २ ॥
मूलम्
स्वौजसा सर्वमादधाति यः पापीयांसमनुपदमाहिंसत् सुपुण्यं पुण्यात्मकं पुण्यं वितानं दाधार देवाय स्वाहा ॥ ३ ।
[[१६२]]
व्याख्या
यः परमात्मा स्वौजसा परबलाहरणशक्त्या सर्वं जगत् आदधाति स्थापयति यः परमात्मा बलभद्ररूपी पापीयांसं प्रलम्बासुरम् अनुपदं लीलाकाले गृहीत्वा गच्छन्तं पदमनुसृत्य आहिंसत् हिंसितवान् ।
श्रीवैखानसे -
योगनिद्रे ममादेशात् पातालतलसंश्रयान् ।
एकैकशश्च षड्गर्भान् देवकीजठरे नय ॥
हतेषु तेषु कंसेन शेषाख्यांशस्ततो मम ।
अंशांशेनोदरात्तस्याः सप्तमः स भविष्यति ॥
गोकुले वसुदेवस्य तथान्या रोहिणी तथा ।
तस्य सम्भूतिसमये स विनेयस्त्वयोदरम् ॥
इति । सुपुण्यं सुतरां पुण्यस्वरूपं पुण्यात्मकं पुण्यशब्दवाच्यानामन्तर्यामिणं पुण्यं वितानं वितानरूपत्वेन दाधार शेषरूपेण कृष्णं दाधार सङ्कर्षणमूर्तित्वेन क्रीडमानस्तस्मै । यद्वा पापीयांसं सर्वयज्ञविनाशकं हिरण्याक्षपदमनुसृत्य अहिंसत् हिंसितवान् सुपुण्यं पुण्यात्मकं यज्ञ “यज्ञो वै विष्णुः" इति पुण्यं वितानं दाधार त्रयीसंवरणं यत इति वेदमूलत्वात् आच्छादकं दाधार स्थापितवान् ।
भृगुः -
हिरण्याक्षोऽपि दैत्येन्द्रो बलवान् बलिनां वरः ।
परेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽभवत् ॥
तद्यथाकृतवान्विष्णुर्नरसूकरमूर्तिमान् ।
हत्वा स दैत्यं सबलं पश्चाद्यज्ञोनुवर्तयन् ॥
यज्ञवराहरूपिणौ इत्यर्थः ।
[[१६३]]
किञ्च -
आद्ये कलियुगे प्राप्ते सोमकेन हृता त्रयी ।
इत्यारभ्य ।
अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यगम् ।
निर्मथ्य सोमकं वेदानदात् कञ्जनयोनये ॥
तादृशं पुण्डरीकाक्षं स्तोत्रैः सन्तोष्य पद्मभूः ।
उवाच वचनं प्रेम्णा दण्डवत्प्रणिपत्य च ॥
तान्त्रिकेण पुरा प्रोक्तं मार्गेण भवदर्चनम् ।
न प्रसिद्ध्यति चास्माकं मनः कमललोचन ॥
वैदिकेन त्वदर्चा वै यथापूर्वं वदाच्युत ।
इत्युक्तो भगवान् देवः शास्त्रं श्रुतिपथागतम् ॥
सहस्रकोटिभिः श्लोकैः सङ्ख्यातं बहुविस्तरम् ।
सूत्रे मूलमनाद्यन्तं कल्पे कल्पे समाश्रितम् ॥
उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च ।
मूलं सर्वागमानां च पुराणानां तथैव च ॥
स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभनम् ।
श्रुत्युक्तं तदिदं शास्त्रं वैखानसमहार्णवम् ॥
इत्युक्त्वा भगवानाद्यस्तत्रैवान्तरधीयत ।
ततः परं चतुर्वक्त्रो जटाकाषायदण्डभृत् ॥
नैमिशारण्यमासाद्य मुनिबृन्दनिषेवितम् ।
तपस्तप्त्वा चिरं कालं ध्यायंस्तेजस्तु वैष्णवम् ॥
पश्चादपश्यद्विष्णूक्तमागमं विस्तरं तथा ।
सश्रौतं च स्वमात्रं च वेदमन्त्रैरभिष्टुतम् ॥[[१६४]]
सङ्क्षिप्य सारमादाय शाणोल्लिखितरत्नवत् ।
धातुर्विखनसा नाम्ना मरीच्यादीन् सुतान् मुनीन् ॥
अबोधयदिदं शास्त्रं सार्धकोटिप्रमाणतः ।
मुनिभिस्तस्य सङ्क्षिप्तं चतुर्लक्षप्रमाणतः ॥
कल्पेकल्पे महाविष्णोरुद्भूतं पूर्वतस्सदा ।
तस्माद्वैदिकमाचारं यः कर्तुं भुवि वाञ्छति ।
तस्येदं शास्त्रमित्युक्तं नेतरेषामितीरितम् ॥
इति ॥ देवशब्दसामर्थ्यान्मत्स्यादिरूपेण क्रीडते तुभ्यम् ॥ ३ ॥
मूलम्
क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु स्वयं भूत्वा वराहो जहार तस्मै देवाय सुकृताय पित्रे स्वाहा ॥ ४ ॥
व्याख्या
क्ष्मां भूमिम् एकां सलिलावसन्नां प्रलयजलाक्रान्तां स्वनन्तीं क्रोशन्तीं श्रुत्वा अनु पश्चात् स्वयं वराहो भूत्वा जहार उद्धृतवान् देवाय द्योतमानाय सुकृताय सुकृतं कृतवते पित्रे रक्षकाय ।
शान्तिपर्वणि -
आदौ महार्णवे घोरे भाराक्रान्तामिमां पुनः ।
तदा बलादहं पृथ्वीं सर्वभूतहिताय वै ॥
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् ।
आगमिष्यामि संस्थातुं वाराहं रूपमास्थितः ॥
इति तस्मै ॥ ४ ॥
मूलम्
यः कुं धरमाणः कुं धरतां कुं धरतामित्यवोचत् तां सानुमन्तो विदधत्स्वतेजसा तस्मै देवाय वरिष्ठाय वरप्रदाय पित्रे स्वाहा ॥ ५ ॥
[[१६५]]
व्याख्या
यः परमात्मा कुं भूमिं धरमाणः आधारकूर्मादिरूपेण धारयमाणः कुं धरां धरतां गोवर्धनपर्वतभङ्गभयभीतानां भयनिवारणार्थं वर्षादिभयनिवारणार्थं च गोपान् प्रति कुं धरतां पर्वतानां सानुषु वसन्त्वित्यध्याहारः अवोचत् इत्युक्तवान् औचित्यवशात् समीचीनार्थश्चकारनियमाच्च तां भूमिं सानुमन्तः पर्वताश्च गोपानां रक्षणार्थं स्वतेजसा - “सहकार्यनपेक्षं यत्तत्तेजः समुदाहृतम्” ॥ इति ॥
विदधत् भृतवान् वरिष्टाय श्रेष्ठाय वरप्रदाय पित्रे रक्षकाय तस्मै तुभ्यम् ॥ ५ ॥
मूलम्
पृथां प्रस्खलन्तीं प्रमृज्यामृजाङ्गीं य ऊर्वोरुपादधात् तस्मै मुख्याय वरदाय पित्रे स्वाहा ॥ ६ ॥
व्याख्या
पृथां भूमिं प्रस्खलन्तीं जलमज्जनायासेन प्रकर्षेण स्खलन्तीं यथास्थाने स्थातुमसमर्थाम् अमृजाङ्गीं पङ्कादिभिर्लिप्तशरीरां प्रसृज्य शुद्धिं कृत्वा ऊर्वोरुपादधात् ऊरुमध्ये स्थापितवान् तस्मै मुख्याय वरदाय पित्रे ॥ ६ ॥
मूलम्
यां गामुशन्तीमुशन्नभिपूर्णामारक्तनीलाममृतां रजन्तीमालालयन् लालितकङ्कणाङ्गीं तस्मै प्रजेशाय वरदाय पित्रे स्वाहा ॥ ७ ॥
व्याख्या
यां गां भूमिम् उशन्तीम् आक्रोशन्तीं भूतभूभारपीडया क्रोशन्तीं वराहरूपेणावतीर्य उशन् शब्दं कुर्वन् अभिपूर्णो स्थावरजङ्गमादिभिः समृद्धाम् आरक्तनीलां रक्तनीलवर्णाम् अमृतां जलेनार्द्रां रजन्तीं रजसाभिप्लुतां लालितकङ्कणाङ्गीं जवोद्धरणवेलायां लालितानि जलकणानि यद्वा कङ्कणानि यस्याः सा लालितकङ्कणाङ्गी तां भूमिम् आलालयन् यः परमात्मा तिष्ठति प्रजानामीशाय प्रजेशाय वरदाय पित्रे तस्मै ॥ ७ ॥
मूलम्
[[१६६]]
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां स्वाहा ॥ ८ ॥
व्याख्या
प्रजानां प्रतिः प्रजापतिः हे प्रजापते शब्दवाच्यपरमात्मन् त्वदन्यः विश्वा जातानि विश्वस्मिन् जातानि परिता पालयिता रक्षकः स्रष्टा वा न बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां पतये स्याम तुभ्यम् ॥ ८ ॥
मूलम्
यो धूर्धुरं धूर्धुरं धूर्वराणां सुधूर्धूरसि धूर्धुराणां धूरसि धूर्वङ्ग मे स्वाहा ॥ ९ ॥
व्याख्या
यः परमात्मा धूर्धुरं भारस्यापि भारभूतः धूर्वराणां भारवहने पुष्टानां धूधुरं भाररूपं सुधूर्धूरसि धूर्धुराणां धूरसि भारभूतोऽसि तुभ्यम् ॥ ९ ॥
मूलम्
यो वाप्यहिंसीज्जरया जरन्तं तं दैत्यमुख्यममृतात्मरूपं सुखुरं खुराणां किञ्चित्स्वनन्तं तस्मै नृसिंहाय सुरेशपित्रे स्वाहा ॥ १० ॥
व्याख्या
यः परमात्मा नृसिंहरूपी जरया जरन्तं जीर्णतारहितं दैत्यमुख्यं प्रथमम् अमृतात्मरूपं वरप्रदानेन देवमनुष्यादिभिः दिवारात्रौ च मरणरहितं भृगुः -
हिरण्यकशिपुर्नाम दैत्यराट् स प्रभुर्भवेत् ।
वरेण गर्वी दैत्येन्द्रो हिरण्यकशिपुस्तथा ॥
देवैर्वा मानुषैर्वापि मृगैर्जीवैरजीवकैः ।
दिवारात्रौ तथा चैवं वयो नैवं ममेति च ॥
एवं वरेण गर्वन्तं दैत्यं देवविरोधिनम् ।
वधं कर्तुं कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ॥[[१६७]]
नरसिंहवपुः कृत्वा दिवारात्रौ व्यपोह्य च ।
सन्ध्यायां तु वधं कुर्यात् स्वीयाङ्के तु नखाङ्कुरैः ॥
बाह्यमभ्यन्तरं भित्त्वा जीवाजीवैर्नखैः शुभैः ।
एवं दैत्यवधं कृत्वा देवदेवो जगत्पतिः ॥
इति ॥ सुखरं खुराणां नृसिंहनखापेक्षया सुकुमारनखं किञ्चित्स्वनन्तं वज्राधिकनखाग्रैः हिंसितत्वात् सन्धितुमशक्याद्वा प्रभुत्वाद्वा किञ्चित्स्वनन्तमहिंसीत् हिंसितवान् तस्मै नृसिंहाय नरसिंहरूपिणे सुरेशो ब्रह्मा रुद्रः तस्य पित्रे रक्षकाय तस्मै ॥ १० ॥
इति षष्ठोऽनुवाकः