०५

मूलम्

पञ्चमोऽनुवाकः

सत्यः सत्यं पुण्यमासीत्पुण्यो वा दैविकं सत्यं सत्त्वमार्षं सत्यं सत्त्वं सत्पथाय स्वाहा ॥ १ ॥

व्याख्या

सत्यः चिदचिदात्मकः परमात्मा सत्यं पुण्यमासीत् । सत्यशब्देन मोक्षोपायभूतज्ञानरूपः । पुण्यशब्देन इष्टापूर्तादयः स्वयमेवासीत् । पुण्यो वा दैविकं

तानि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके

इति श्रुतेः । भगवत्प्रीत्यर्थं कृतं पुण्यदैविकं कालान्तरेऽपवर्गप्रदम् । सत्यं सत्त्वमार्षं मोक्षोपायभूतज्ञानरूपं शुभाश्रयसंशीलनमननमिति मननविषयत्वादार्षमित्युक्तम् । तत्परं ब्रह्म “नारायणपरं ब्रह्म” इति श्रुतेः । श्रीमन्नारायण एवं सत्यं सत्त्वं सत्पथाय सन्मार्गभूतः सत्त्वशब्दवाच्यः परमात्मा अर्चिरादिमार्गभूत इत्यर्थः । “ये चत्वारः पथयो देवयानाः” इति देवयानमार्गाश्चतुर्विधाः ।

[[१४४]]

स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधियं स्वार्थी स्वस्मिन्न्यस्यति मां स्वयम् ॥

इति न्यासविद्यानां विविधानामर्चिरादिमार्गाः प्रतिपाद्यन्ते ।

विश्वास-टिप्पनी

स्वामी स्व-शेषं स्व-वशं
स्व-भरत्वेन निर्भरम् ।
स्व-दत्त–स्व-धिया स्वार्थं
स्वस्मिन् न्यस्यति मां स्वयम् +++(प्रधान-कर्ता सन्)+++ ॥ 3 ॥

इति वेङ्कटनाथार्य-कृते न्यास-दशके। अयम् एव पाठो ऽग्रे ८-तमे।

अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति

इत्यादि ।

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तमः ॥
सर्वलोकतमोहन्ता आदित्यश्चारमुच्यते ।
ज्वालामालिमहातेजा येनेदं धार्यते जगत् ॥
आदित्यदग्धसर्वाङ्गा अदृश्याः केचन क्वचित् ।
परमाण्वात्मभूताश्च तं देशं प्रविशन्त्युत ॥
तस्मादपि विनिर्मुक्ता अनिरुद्धं तथा स्थिताः ।
मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥
प्रद्युम्नाच्च विनिर्मुक्ता जिह्वासङ्कर्षणं ततः ।
प्रविशन्तीति प्रबला सङ्ख्यायोनांश्च तैस्सह ॥
ततस्त्रैगुण्यहीनास्ते परमात्मानमोजसा ।
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥
समाहितमनस्कास्तु नियताः संयतेन्द्रियाः ।
एकान्तभावा हि गताः वासुदेवं व्रजन्ति ते ॥
श्वेतद्वीपमितः प्राप्य विश्वरूपधरं हरिम् ।
ततोऽनिरुद्धमासाद्य श्रीमन् क्षीरोदधौ हरिम् ॥

[[१४५]]

ततः प्रद्युम्नमासाद्य देवं सर्वेश्वरेश्वरम् ।
ततः सङ्कर्षणं दिव्यं भगवन्तं सनातनम् ॥
अयमप्यपरो मार्गः सदा ब्रह्महितैषिणाम् ।
परमैकान्तिसिद्धानां पञ्चकालरतात्मनाम् ॥
तेभ्यो विशिष्टाज्जानामि गतिमेकान्तिनां नृणाम् ।
उत्क्रामन्ति च मार्गस्थाः शीतभूतो निरामयः ॥
देवयानः परं पन्था योगिनां क्लेशसङ्क्षये ।
अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ॥
सितासिताः कृष्णनिलाः [?] कपिलाः पीतलोहिताः ।
ऊर्ध्वमेते स्थितास्तेषां यो भित्त्वा सूर्यमण्डलम् ॥
ब्रह्मलोकमतिक्रम्य [नूनं] याति परां गतिम् ।
यदस्यां न द्रव्यमस्ति ह्यूर्ध्वमेतद्व्यवस्थितम् ॥
तेन देवशरीराणि सधामानि प्रपद्यते ।
एकैकरूपाश्चाधस्ताच्छर्म येऽस्यामृतप्रभाः ।
इह कर्मप्रभोगाय तैस्सन्नरतिरेव सः ॥

इति ॥

अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्य ऋक् पृथिवी रथन्तरमन्वाहार्यपचनं यजुरन्तरिक्षं वामदेव्यमाहवनीयस्साम सुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्ति

इति श्रुतिः । अथाऽयं देहजं जन्म कृत्वा भार्यामयपाशबन्धनो भगवन्मायया कामक्रोधलोभमोहमदमात्सर्यहिंसादीनि कार्याणि कृत्वा तद्द्वारेण निष्क्रम्य पुनः पापीयसीं योनिं प्राप्य पुनर्जायते । स्वर्गनरकफलेषु प्रवर्तते । तस्माद्भगवन्मायया मोहितत्वात् भगवन्तं समाश्रित्य भक्त्या नारायणमुपासीत । उपासनात्सोऽपि भक्तवत्सलत्वात् भक्तानुकम्पया स्वमायया विमोचयति । तत आत्मा सम्यक् ज्ञानं प्रविशति ।

[[१४६]]

पश्चादाश्रमधर्मसंयुक्तो भगवत्समाश्रयणं करोति । तत्समाश्रयणेन संसारार्णवनिमग्नो जीवात्मा परमात्मानं नारायणं पश्यति । सोऽप्यपुनरावृत्तिकं दिव्यलोकं प्रापयति । पश्चात्कृतकृत्यो भवति । संसारवनवासनामोक्षो मुक्तिः मोक्षविशेषः । चतुर्विधपदावाप्तिः सालोक्यसामीप्यसारूप्यसायुज्य इति । आमोदप्राप्तिः सालोक्यम् । प्रमोदप्राप्तिः सामीप्यम् । वैकुण्ठप्राप्तिः सायुज्यमिति । तच्च नित्यानन्दामृतरसपानवत्सर्वदा तृप्तिकरं परमात्मनो नित्यनिषेवणं परञ्ज्योतिःप्रवेशनम् । “तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः" इति श्रुतिः । तस्मात् भगवतो नान्यथाप्राप्तिरिति विज्ञायते इति । मोक्षोपि तारतम्यताश्रवणात् ब्रह्मविदां भगवदाराधकानामग्निहोत्रिणामर्चिरादिना ब्रह्मप्राप्तिः “अर्चिरादिना तत्प्रथितेः” इति वेदान्तसूत्रे उक्तत्वात् । भक्त्या भगवन्तं नारायणमर्चयेत् “तद्विष्णोः परमं पदम्" सम्यक् भवतीति विज्ञायत इति । अर्चिरादिमार्गाप्रतिपादनाच्च । न्यासविद्यानिष्ठानामर्चिरादिना परमपदप्राप्तिः । साङ्ख्यानां योगनिष्ठानामामोदप्राप्तिः । एकान्तिनां प्रमोदप्राप्तिः । परमैकान्तिसिद्धानां पञ्चकालरतात्मनां श्वेतद्वीपादिना ब्रह्मप्राप्तिः । मोदप्राप्तिः केवलस्यामोद एव । तत्रापि स्वानुभव एव । छान्दोग्ये –

यथाक्रतुरस्मिन् लोके पुरुषा भवन्ति ।
तथेतः प्रेत्य ते भवन्ति

इति श्रुतेः । तं यथायथोपासते तथैव भवन्तीति ॥ १ ॥

मूलम्

सत्यो ज्योतिः सत्त्वं प्राणाः सत्त्वाधाराः सत्त्वं संयानाः सत्यः सत्त्वं प्रकाशं ज्योतिषे स्वाहा ॥ २ ॥

व्याख्या

हे परमात्मन् सत्यो ज्योतिर्ज्योतिष्मत् षड्भावविकाररहितत्वात् अनेकरूपरहित इत्यर्थः । सत्त्वं प्राणाः “नव वै पुरुषे प्राणाः” इति भगवदभिमानदेवतान्तर……. वागाद्यभिमानिदेवतान्तर्यामिसत्त्वाधाराः वागादयः सत्त्वाधाराः आधारभूता इत्यर्थः ।

[[१४७]]

सत्त्वं संयानाः सत्यः सत्य-भूतहितः सत्त्वं “सत्त्वात् सञ्जायते ज्ञानम्” इति । ज्ञानरूपं ज्योतिः - प्रकाशं ज्योतिषे तस्मै ज्योतिषे तुभ्यम् ॥ २ ॥

मूलम्

कामीमुमामीशिषमीशिषाणां तत्सत्यं सत्यरूपं सत्यं सत्याय सन्दधानाय स्वाहा ॥ ३ ॥

व्याख्या

कामीमुमां ब्रह्मणो मा ईशोऽहं सर्वदेहिनाम् ।
अहं तवाङ्गसम्भूतस्तस्मात्केशवनामवान् ॥

इति ॥ कां सरस्वतीं ईं लक्ष्मीम् उमां पार्वतीं ईशिषं सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।

स संज्ञां याति भगवानेक एव जनार्दनः ।
तत्तद्रूपे पालयन्तमाशिषस्सत्यमीशिषम् ॥

रुद्रस्यापि पालकम् ईशिषाणां तत्सत्यं सत्यरूपं “तमीश्वराणां परमं महेश्वरम्” इति श्रुतेः । तत्परममहेश्वरत्वं यथार्थसत्यरूपं यथार्थसत्यं सत्याय चिदचिदात्मकप्रपञ्चाय सत्यं हितं सन्दधानाय प्रयच्छमानाय तुभ्यम् ॥ ३ ॥

मूलम्

अरिणिर्वा आरन्द आवारन्द आरन्दोऽयमानन्दते मारन्दमीशिषे स्वाहा ॥ ४ ॥

व्याख्या

अयं परमात्मा अरं वेगः येषामस्तीति अरिणिः वेगवत्सु मुख्यः वेगवानेव । आरन्दः आसमन्तादरं वेगं ददाति आरन्दः आवारन्दः अवगत वेगमान्द्यं ददातीति आवारन्दः । “आर पीडायाम्” इति पीडाप्रदः ।

यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् ।
बन्धून् वा नाशयिष्यामि व्याधीनुत्पादयाम्यहम् ॥

इति ॥

[[१४८]]

अयं परमात्मा मारं कामं ददातीति मारन्दः कामप्रदः । आनन्दते एवमाकारेण क्रीडते -

अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी ।
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥

इति तुभ्यम् ॥ ४ ॥

मूलम्

यत्सत्यं वा विष्णुरुद्योगः सूर्यो गौर्वा विष्णुर्विशत् विश्वं विश्वं सन्दधानः तद्विश्वं विष्णवे विश्वरूपाय स्वाहा ॥ ५ ॥

व्याख्या

यत्सत्यं स हरिर्देव इति जीवजातमित्यर्थः । विष्णुः व्याप्तिमान् उद्योगः सर्वोपायभूत इत्यर्थः । सूर्यो गौर्वा सूर्यं किरणं च विष्णुर्विशत् विश्वं विश्वं सन्दधानः प्रविश्य चिदचिदात्मकं जगत् वसन्ते ग्रीष्मके रश्मिशतैस्सन्तपतन् त्रिभिः -

तदा शरदि वर्षासु वर्षात्येष चतुःशतैः ।
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥ इति ॥

भारते -

उदितो वर्धमानाभिरा मध्याह्नं तपन् रविः ।
ततः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥ इति ॥

“तदेवानुप्राविशत्” इत्यादिश्रुतेः । प्रविश्य विश्वं जीवं विश्वं लोकं सन्दधानः धारयन् तद्विश्वं जीवात्मानं विष्णवे सर्वभूतात्मकाय ददामीति आत्मसमर्पणमुच्यते ॥

नीचीभावेन संयोज्य ह्यात्मनो यत्समर्पणम् ।
विष्ण्वादिषु चतुर्धा तु तत्प्रदानप्रदर्शिनी ॥
नीची भूतोऽप्यसावात्मा यतत्यंशतयेष्यते ।
तत्तस्मादित्यपेक्षायां विष्णवे स इतीर्यते ॥

इति ॥

[[१५०]]

आत्मसमर्पणप्रतिपादनान्न्यासविद्या ।

हविर्गृहीत्वा स्वात्मानं वसुरण्वेति मन्त्रतः ।
जुहुयात्प्रणवेनाग्नावच्युताख्ये सनातने ॥

योगरत्ने -

पयोभक्षा वायुभक्षाः शीणपर्णाशिनो वा समलोष्टकाञ्चना वाग्यताः प्राणायामाद्यासननिरताः सर्वतोऽरता बहिष्कृतसर्वकामाः परमशान्ताः परमात्मनि गोविन्दे सदा निहितमानसाः वसुरण्वमन्त्रमुच्चारयन्त आत्मानं तेजोमये परमात्माग्नौ दहन्ति तेऽपि मुक्ता भवन्ति । एष जीवात्मपरमात्मनोर्ज्ञानगो मोक्षयुक्त इति विजानीयात् । एतज्ज्ञानमात्रादेवाचिरान्मोक्षः सिध्यतीति जानीयादिति । प्रसङ्गाद्वसुरण्वमन्त्रस्यार्थ उच्यते । हे प्रत्यगात्मन् वसुर्वसुस्सर्वेषां सवितासि सर्वेषां धनमिवासीति । वसुरण्वशब्दे च सर्वैः कीर्तनीयश्चासि । विभूरसि सङ्कल्पमात्रेण विविधं भावयितासि । प्राणे त्वमसि सन्धाता प्राणे वसन् सर्वस्यानुसन्धाता चासि ब्रह्मन् तृचोत्तरस्त्वमसि विश्वं त्वमेवासि विश्वस्रष्टा चासि । तेजोदास्त्वमस्यग्नेः तेजसि भास्कराग्नेये प्रकाशोष्णस्वरूपिणीति पराभवसामर्थ्यम् । तेजसो वा वर्चोदास्त्वमसि सूर्यस्य वर्चोदा अस्त्विति दीप्तिप्रदः द्युम्नोदास्त्वमसि चन्द्रमसः द्युम्नशब्दो दीप्ति-विशेषपरः उपयामगृहीतोऽसि हविषोः स्कन्दने हेतुभूत उपभृदादिरूप उपयामः तत्र प्रकृतिपुरुषज्ञानमुपयामः तेन गृहीतोऽसि ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत ॥

अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः ।
उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते ।
मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥

[[१५०]]

अकारवाच्याय सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतय एवाहमनन्य इत्याह – निरुपाधिकशेषभूतस्तच्चरणारविन्दयोरेकात्मीयभरस्तस्यात्मा नारायणायैव सर्वदेशसर्वकालसर्वावस्थोचितसर्वकैङ्कर्याणि स्युरिति कारणभूताय विष्णवे तुभ्यम् ॥ ५ ॥

मूलम्

तद्भूर्भूस्थं भूस्थो वा विश्वरूपस्तद्भूः प्राणः सङ्ख्यातः भूरासीद्भूरसि भुवोऽसि सुवरसि भूर्भूतये स्वाहा ॥ ६ ॥

व्याख्या

तद्भूः आकाशः भूस्थं जलं भूस्थः अग्निः विश्वरूपः नानारूपः पञ्चसङ्ख्यात्वेन विद्यमानः प्राणः तद्भूश्रुतिः ।

तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः

इत्यादि भूरासीत् । भूमेरपि भूमिः आधारभूतेत्यर्थः । भूरसि भुवोऽसि सुवरसि भूरादिलोकरूपोऽसि भूः भूतये भूरादिलोकानामैश्वर्यभूतोऽसि तुभ्यम् ॥ ६ ॥

मूलम्

आपो वा अपोऽन्तरात्मा यो वेदो वेदानामाधारः वेदान्तरात्मा सरसो रससङ्ख्यातो रसं रसमासीद्रसाय स्वाहा ॥ ७ ॥

व्याख्या

यः परमात्मा सर्वकारणभूता आपः सृष्ट्यर्थमित्यर्थः । अण्डस्यापि कारणभूता इत्यभिप्रायेण पृथक्त्वेनोपादानम् । ततो “येन जीवान्व्यचसर्ज भूम्याम्” इति श्रुतिः ।

अप एव ससर्जादौ तासु वीर्यमपासृजत् ।
तदण्डमभवद्दैवं सहस्रांशुसमप्रभम् ॥

इति ॥ अपोऽन्तरात्मा योऽप्सु तिष्ठन्निति । यः परमात्मा वेदः वेदरूपः वेदानामाधारः “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” इत्यादि ।

[[१५१]]

वेदान्तरात्मा तदन्तर्यामी सरसः अन्तर्बहिश्च सारवान् रससङ्ख्यातः समग्रषाड्गुण्यपरिपूर्णः । यद्वा —

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
बीभत्सरौद्रशान्ताश्च रसाश्च नव कीर्तिताः ॥

इति ॥ यद्वा – लवणाम्लकटुतिक्तकषायाः । रसं रसमासीत् रसानां रस आसीत् । रसाय रसरूपाय तुभ्यम् ॥ ७ ॥

मूलम्

त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकं त्रयी वा जेनातिः त्रिगुणं त्रिगुणात्मकं तस्मै त्रेताग्नये त्रिगुणाय स्वाहा ॥ ८ ॥

व्याख्या

त्रयी वा कामम् इत्यनेनैव वेदवाक्यव्यतिरिक्तभाषान्तरव्यावृत्तिः । शान्तिपर्वणि —

ओङ्कारमुद्गिरन्नेतां सावित्रीं च तदन्वयात् ।
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदगतं वसु ॥

इति ॥ त्रयीमयं वेदस्वरूपं वेदेषु प्राचुर्येण प्रतिपाद्यं वेदभेदादुच्चनीचादिस्वरभेदेन त्रिगुणं त्रेतात्मकं गार्हपत्यान्वाहार्यपचनाहवनीयभेदेन त्रेतात्मकम् । यद्वा गार्हपत्यादीनां प्राणभूतत्वात् त्रेतात्मकमित्युक्तम् । त्रयी वा जेनातिः वेदरूपजेनातिः त्रिगुणं नित्यनैमित्तिककाम्यभेदेन त्रिगुणम् । यद्वा — सात्विकराजसतामसभेदेन त्रिगुणम् । त्रिगुणात्मकं आधारभूतमेवंभूताय तस्मै त्रेताग्नये त्रिगुणाय गुणत्रयसहिताय तुभ्यम् ॥ ८ ॥

मूलम्

द्वौ वा मुख्यौ मुख्याधारौ ससुखौ सानन्दौ सस्मेरौ स्मेरायितौ सानन्दमानन्दते स्वाहा ॥ ९ ॥

व्याख्या

द्वौ ब्रह्मरुद्रौ । यद्वा प्रतिपुरुषौ मुख्यौ मुख्याधारौ अस्वतन्त्रौ परमात्माधारौ । “अन्तरस्मिन्निमे लोकाः" इति ।

[[१५३]]

ससुखौ सुखसहितौ सानन्दौ हितरूपं सुखम् अहितं दुःखं सस्मेरौ स्मेरयुतौ हाससहितौ स्मेरायितौ,

एतौ द्वौ विबुधश्रेष्ठौ प्रसादकोधजौ स्मृतौ ।
तथा दर्शितपन्थानौ सृष्टिसंहारकारकौ ॥
ब्रह्मरुद्रेन्द्रवह्नीन्दुदिवाकरमनुग्रहाः ।
तच्छक्त्याधिष्ठितास्सन्तो मोदन्ते दिवि देवताः ॥

इति ॥ सानन्दं आनन्दसहितं आनन्दते ।

इष्टे वस्तुनि दृष्टे च प्रियमेवावभासते ।
तद्वस्तुलाभान्मोदः स्यात्प्रमोदस्तस्य भोगतः ।
एते स्म जठरानन्दात् स्वदन्ते जलधेरिव ॥

इति ॥

सैषाऽऽनन्दस्य मीमाँसा भवति । युवा स्यात्साधुयुवाध्यायकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः

इत्यारभ्य “स एको ब्रह्मण आनन्दः” इत्यन्तं मानुषमनुष्यगन्धर्वदेवगन्धर्वाणां पितॄणामाजानजानां कर्मदेवानामिन्द्रस्य बृहस्पतेः प्रजापतेर्ब्रह्मण इति मानुषानन्दमुपक्रम्य ब्रह्मानन्दपर्यन्तमुक्त्वा ब्रह्मानन्दस्यापरिमितत्वात् आनन्दो ब्रह्मेति सदतिशयानन्दस्वरूपत्वाच्च ब्रह्मणः “यतो वाचो विवर्तन्ते अप्राप्य मनसा सह" इत्युक्तम् । एवम्भूताय तुभ्यम् ॥ ९॥

मूलम्

स एकैकः साधारः साधिष्ठानो नाधिष्ठानः कं कं कस्मै पदे पदे पातः पादाय पादिते स्वाहा ॥ १० ॥

व्याख्या

स परमात्मा एकैकः अनेन “सदेव सोम्येदमग्र आसीत्”, “एकमेवाद्वितीयम्” इतिश्रुतेः । सृष्टेः प्राक् निमित्तोपादानकारणान्तररहिते साधारः हृदयकमलाद्याधारः ।

[[१५४]]

साधिष्ठानः “तद्विष्णोः परमं पदम्” इति श्रुतेः परमपदाद्यदिष्ठानसहितः । नाधिष्ठानः अवान्तरकत्वेनाधिष्ठानभूतो न भवति । यद्वा — धारकान्तररहितः एवम्भूतस्य परमात्मनः पादाय पातः प्रणतिः कं कं पुरुषमपि पदे पदे परमात्मना सम्पादिते ।

आमोदश्च प्रमोदश्च संमोदस्तदनन्तरम् ।
वैकुण्ठमिति विज्ञेयास्तेऽन्योन्यमुपरि स्थिताः ॥
अतः परं चतुर्थः स्याल्लोकः परमभास्वरः ।
वासुदेवस्य सुमहत्तद्दीप्तमजरावृतम् ॥
द्वादशावरणोपेतं पूर्णचन्द्रायुतप्रभम् ।
सर्वतेजोमयं भास्वदनिर्देश्यं सुरैरपि ॥
आनन्दं नाम तं लोकं परमानन्दमद्भुतम् ।
यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः ।
वासुदेवरता नित्यं यमलोकं न यान्ति ते ॥

इति ॥ पदे पदे आमोदादिपदे पदान्तरे वा तापयतीति शेषः । नित्यमुक्तबन्धैश्च क्रीडते तुभ्यम् ॥ १० ॥

इति पञ्चमोऽनुवाकः ।