०४

मूलम्

चतुर्थोऽनुवाकः

वाको वा अनुवाको वाकं वाकं सञ्जुषमाणः देवस्य स्वं स्वगुप्तये स्वयं जेनातिषे ज्योतिषे स्वाहा ॥ १ ॥

व्याख्या

वाकः अनुवाक एव यद्वा वाकं वाकं प्रत्यनुवाकं प्रतिवाक्यं वा सञ्जुषमाणः अस्य मन्त्रस्याध्येतरि प्रियमाणः ॥

वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।
यावन्ति हरिनामानि कीर्तितानि न संशयः ।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥

इति स्वनामत्वाच्च “स ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः" इत्यादिश्रुतेर्निश्वासरूपत्वाच्च वाकं सञ्जुषमाण इत्युक्तम् । देवः

दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु

इति । स देवः स्वं स्वतेजोरूपं स्वगुप्तये स्वकृतलोकमर्यादरक्षणार्थं त्रयोमयं सूर्यं जेनातिषे कल्पयति । “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति श्रुतिः ।

आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचा मण्डलँ स ऋचां लोकोऽथ य एष एतस्मिन् मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजूँषि स यजुषा मण्डलँ स यजुषां लोकः सैषा त्रय्येव विद्या तपति

इत्यादिस्वयज्योतिषे अनश्वरज्योतिषे तुभ्यम् ॥ १ ॥

मूलम्

द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते यश्चैकं भुनक्ति भोक्त्रे स्वाहा ॥ २ ॥

[[१२८]]

व्याख्या

शरीरस्य तौ एतौ द्वौ जीवात्मपरमात्मानौ पक्षी पक्षिप्रायौ अचरं प्रकृतिं चरन्तौ शरीरे स्थितौ । यद्वा “चर गतिभक्षणयोः” इति प्रयोज्यप्रयोजकभावेन प्रकृतिं भक्षयन्तौ । यद्वा कर्मफलमुपनिषदन्तरे -

ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति
पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ इति ॥

नाधुरं व्यधुनीते तत्र परमां धुरं भारं धुनित इति न धुनित एव । श्रुत्यन्तरे -

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥

यश्चैकं भुनक्ति यः परमात्मा एकजीवात्मानं चकारात्प्रकृतिं च भुनक्ति संहरति । श्रुतिः -

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥

इति ॥

हरेरेव सर्वसंहारकरत्वं श्रूयते

हरिँ हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम्

इति । ईशानशब्दश्रवणाद्रुद्र एवेति चेत् सत्यम् । “विश्वस्येशानम्”, “पतिं विश्वस्यात्मेश्वरम्", “अस्येशाना जगतो विष्णुपत्नी” इत्यादिश्रुतिषु लक्ष्मीनारयणयोर्जगदीश्वरत्वश्रवणात्केवलेशानशब्दश्रवणाभावात् । “ईशानः सर्वविद्यानाम्” इति विद्यामात्रेशानत्वस्य श्रवणात् ।

[[१२९]]

ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः ।
एवमाद्यास्तथा चान्ये युक्ता वैष्णवतेजसा ॥
जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा ।
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥

इति ॥ अत एव सर्वसंहारकत्वं श्रीमन्नारायणस्य सर्वसंहारकस्य ॥ २ ॥

मूलम्

यो वा आयुः परमात्मा न मीढुषः पारम्पर्यात्परं परायणः पराय लोकानां परमादधानः परम्पराय स्वाहा ॥ ३ ॥

व्याख्या

यः परमात्मा नारायणः मीढुषो रुद्रस्य “नमो रुद्राय मीढुषे” इति परमायुः आपन्निवारकत्वात् परममृत्युत्वाच्च । आरण्यके- “किं तद्विष्णोर्बलमाहुः” इत्यारभ्य बलादिकमुत्पाद्य “पृच्छामि त्वा परं मृत्युम्” इति प्रश्नस्य प्रतिवचनम् ।

अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् ।
अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ॥

इति भगवत्येव परं मृत्युत्वं प्रतिपादितम् । परमात्मानमन्तर्यामिणम् । विभक्तिव्यत्ययः । परमात्मा पारम्पर्यात्परम्पराय लोकानां परमुत्कृष्टपरः भिन्नपरः शत्रुश्च परमादधानः उत्कृष्टत्वं प्रथमानः अत एव परायणः परमगतिभूतः मोक्षोपायभूत इत्यर्थः । यद्वा चतुर्विधपुरुषार्थानां गतिभूतः । पराय उत्कृष्टगतिभूताय । ननु,

यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृत्तिवासाः पिनाकी ।
ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन ॥

इत्यायुषो निमित्ते कथं रुद्रप्रार्थना प्रतिपाद्यत इति चेत्सत्यम् ।

[[१३०]]

भारते -

ततस्ते च सुरास्सर्वे ब्रह्मा ते च महर्षयः ।
वेददृष्टेन विधिना वैष्णवं क्रतुमारभन् ॥
तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् ।
देवा महर्षयश्चैव सर्वे भागानकल्पयन् ॥
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ।
प्रापुरादित्यवर्णान्तं पुरुषं तमसः परम् ॥

श्रीभगवान् -

येन यः कल्पितो भागः स तथा समुपागतः ।
यतोऽहं प्रविशाम्यद्य फलमावृत्तिलक्षणम् ॥
यज्ञैर्ये वापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
कल्पयिष्यन्ति वै भागांस्ते नरा वेदकल्पितान् ॥
यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृते

॥ इति ॥ अतो ब्रह्मरुद्रादीनां तत्तत्कर्मसु पूजार्हत्वं भगवतो नारायणस्य वरप्रदानलब्धम् । यद्वा संहारकत्वेन भगवता सृष्टत्वात् तत्पूजेति इदं प्रपन्नविषयं न भवति । भगवन्मन्त्रस्य मृत्युञ्जयत्वम् ।

एते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानवयजामहे ।

अस्यार्थः - हे मृत्यो मर्त्याय हन्तवे वर्तसे व्रतसहस्रमयुतमेते पाशाः तान्पाशान् यज्ञस्य मायया “यज्ञो वै विष्णुः" इति श्रुतेः ।

उपनिषदन्तरे -

यज्ञाख्यः परमात्मा य उच्यते तस्य होतृभिः ।
उपनीतं ततोऽस्यैतत्तस्माद्यज्ञोपवीतकम् ॥

इति ॥

[[१३१]]

विष्णोर्मायया आश्चर्यकारिण्या वैष्णव्या विद्यया मन्त्रेण सर्वान् तान् पाशानवयजामहे अधस्तात्कुर्मः ।

यदन्तस्तमशेषेण वाङ्मयं देववैदिकम् ।
तस्मै व्यापकमुख्याय मन्त्राय महते नमः ॥

ननु

हरिँ हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्मसरूपमनु मेदमागात् ।

इत्यादिषु हरिं नृसिंहं हरन्तं शरभरूपेण ईशानं रुद्रं देवा अनुयान्ति गतिं कुर्वन्ति । अतः सर्वसंहारकारको रुद्र एवेति चेत् तदसत् ।

पूर्वापरपरामृष्टशब्दानां कुरुते मतिम् ।

इति ।

पूर्वानुवाके -

भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः ।

इत्यारभ्य

तमेव मृत्युममृतं तमाहुः । तं भर्तारं तमु गोप्तारमाहुः

इत्यादिषु भर्तृशब्देन

व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः

इति स्वकान्त्यैवावतीर्य तेन रूपेण जगद्धरणम्

किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे । वाताद्विष्णोर्बलमाहुः ।

इत्यारभ्य ।

पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि सम्प्रति । अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ॥

इति परमात्मनो विष्णोरेव परं मृत्युत्वं प्रतिपादितम् । देवशब्दः सामान्यवाचीति एको देव इत्युक्तम् । “एको देवो नारायणः", “अपहतपाप्मा दिव्यो देव एको नारायणः”, “रुद्रास्तु बहवः”, “सहस्राणि सहस्रशो ये रुद्राः”, “तमेव मृत्युम्”, “परं मृत्यो अनु परेहि पन्थाम्” इति ।

[[१३२]]

नृसिंहतापनीयोपनिषदि -

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

इति ॥ तत्रैव —

अथ कस्मादुच्यत उग्रमिति । स होवाच प्रजापतिः - यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि उद्गृह्णाति अजस्रं सृजति विसृजति वासयति उदग्राह्यत ́उद्गृह्यते ।

स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे सिंह स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः ॥

तस्मादुच्यत उग्रमिति ॥

अथ कस्मादुच्यते वीरमिति । यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः । तस्मादुच्यते वीरमिति ॥

अथ कस्मादुच्यते महाविष्णुमिति । यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डं शान्तमूलमोतं प्रोतमनुव्याप्तं व्यतिषिक्तो व्याप्यते व्यापयते ।

यस्मान्न जातः परो अन्यो अस्ति
य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानः
त्रीणि ज्योतीँषि सचते स षोडशी ॥

तस्मादुच्यते महाविष्णुमिति ॥

[[१३३]]

अथ कस्मादुच्यते ज्वलन्तमिति । यस्मात् स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते । सविता प्रसविता दीप्तो दीपयन् दीप्यमानः ज्वलन् ज्वलिता तपन् वितपन् सन्तपन् रोचनो रोचमानः शोभनः शोभमानः कल्याणः । तस्मादुच्यते ज्वलन्तमिति ॥

अथ कस्मादुच्यते सर्वतोमुखमिति । यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति ।

एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनँ साम्पराये नमामि तमहं सर्वतोमुखमिति ।
तस्मादुच्यते सर्वतोमुखमिति ॥

अथ कस्मादुच्यते नृसिंहमिति । यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः श्रेष्ठतमश्च तस्मान्नृसिंह आसीत् परमेश्वरो वा जगद्धितमेतद्रूपं यदक्षरं भवति ।

प्रतद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥

तस्मादुच्यते नृसिंहमिति ॥

अथ कस्मादुच्यते भीषणमिति । यस्माद्भीषणं यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च न बिभेति ।

भीषास्माद्वातः पवते भीषोदेति सूर्यः ।
भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति ॥

तस्मादुच्यते भीषणमिति ॥

[[१३४]]

अथ कस्मादुच्यते भद्रमिति । यस्मात् स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति । रोचनो रोचमानः शोभनः शोभमानः कल्याणः ।

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा ँ सस्तनूभिः व्यशेम देवहितं यदायुः ॥

तस्मादुच्यते भद्रमिति ॥

अथ कस्मादुच्यते मृत्युमृत्युमिति । यस्मात् स्वमहिम्ना स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति ।

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

तत्मादुच्यते मृत्युमृत्युमिति ॥

अथ कस्मादुच्यते नमामीति । यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च ।

प्रनूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥

तस्मादुच्यते नमामीति ॥

अथ कस्मादुच्यते अहमिति ।

अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाभिः ।
यो मा ददाति स इ देवमावाः अहमन्नमन्नमदन्तमद्मि ।
अहं विश्वं भुवनमभ्यभवां सुवर्णज्योतीः ॥

य एवं वेद । इत्युपनिषत् ॥

उपनिषत्सु नृसिंहस्य प्रभावा एवं श्रूयन्ते ।

[[१३५]]

पुराणेषु च -

ब्रह्मरुद्रेन्द्रवह्नीन्दुदिवाकरमनुग्रहाः ।
तच्छक्त्याऽधिष्ठितास्सन्तो मोदन्ते दिवि देवताः ॥
जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा ।
वितेजसश्च ते सर्वे पञ्चतामुपयान्ति च ॥

इति ॥ भारते -

सत्त्वमादाय सर्वेषां तेजसोऽथ दिवौकसाम् ।
तेजसाऽप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत् ॥
ततः प्रभृति देवानां देवदेवो भवोद्भवः ।
पतिश्च सर्वभूतानां पशूनां चाभवत्तदा ॥
भासयामास तान् सत्त्वान् देवदेवो महाद्युतिः ।
अर्थमादाय सर्वेषां तेजसा प्रज्वलन्निति ॥
ततोऽभिषिषिचुः सर्वे सुरा रुद्रा मुरारिहम् ।
महादेव इति ह्यासीद्देवदेवो महेश्वरः ॥

अत एव महादेवादिशब्दवाच्यत्वं रुद्रस्य वरप्रदानलब्धम् अत एव तमेव मृत्युमित्युक्तम् । अत्र परंब्रह्मण एवामृतशब्दवाच्यत्वं न तु रुद्रस्य । आरण्यके –

नैव देवो न मर्त्यः । न राजा वरुणो विभुः ।
नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते ।
दिव्यस्यैका धनुरार्त्निः पृथिव्यामपरा श्रिता ।
तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामच्छिनत्स्वयम् ।
तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य ।
एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष ।
स प्रवर्ग्योऽभवत् । तस्माद्यस्स प्रवर्ग्येण यज्ञेन यजते ।
रुद्रस्य स शिरः प्रतिदधाति । नैन‍ँ रुद्र आरुको भवति ॥

इति ॥

[[१३६]]

त्रिपुरसंहारकस्य रुद्रस्य पशुपतित्वादिप्रार्थना श्रूयते यजुषि -

तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाथ रजताथ हरिणी ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन् तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुँ समस्कुर्वताग्निमनीक‍ँ सोमँ शल्यं विष्णुं तेजनं तेऽब्रुवन् क इमामसिष्यतीति रुद्र इत्यब्रुवन् रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिः

इत्यादि ॥

श्वेताश्वतरे -

तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ।
स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम् ॥
धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ।
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ।
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ॥
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।
न तस्य कश्चित्पतिरस्ति लोके नचेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥

इत्यादि । तं विश्वरूपमित्यारभ्य प्रतिपादितानि विशेषणानि रुद्रपराणीति चेत् तदसत् ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ॥

[[१३७]]

विश्वं नारायणं देवमक्षरं परमं पदम् ।
विश्वतः परमं नित्यं विश्वं नारायणँ हरिम् ॥
विश्वमेवेदँ सर्वं तद्विश्वमुपजीवति ।
पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् ॥

इत्यादि ॥ मुण्डकोपनिषदि -

अग्निर्मूर्धा चक्षुषि चन्द्रसूर्यौ
दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य
पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥

इत्यादि ॥ दिवौकसामर्धतेजसाप्याये तस्य अखिलदेवतावरप्रदानेन पशुपतित्वादिकं प्राप्तस्य पशुपतेः सर्वसंहारकत्वं नोपपद्यते । किञ्च -

नमाम्यहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ।
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥

इत्याद्युपनिषद्वाक्येषु भगवन्महिमा प्रतिपाद्यते ।

व्यक्तं हि भगवान् देवः साक्षान्नारायणः स्वयम् ।
अष्टाक्षरस्वरूपेण मुखेषु परिवर्तते ॥

इति भगवन्मन्त्राः केवलमृत्युञ्जया न भवन्ति । किन्तु चतुर्वर्गफलप्रदा वा ॥ ३ ॥

मूलम्

तेजसां तेजस्तेज आदधानः सत्त्वस्तेजस्तेजसां तेजस्तेजसे स्वाहा ॥ ४ ॥

[[१३९]]

व्याख्या

यः परमात्मा तेजसां तेजस्तेज आदधानः नक्षत्राग्निचन्द्रसूर्याणामुत्तरोत्तरं तेजः प्रयच्छमानः सत्त्वस्तेजस्तेजसां सूर्यादीनां तेजोयुक्तानां यदा कदाचित् तेजोदर्शनाभावात् ।

कठवल्लीषु -

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनु भाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥

इति ॥ सूर्याद्यपेक्षयाऽधिकतेजोरूपत्वश्रवणात् नाशरहितत्वाच्च सत्त्वस्तेजसामित्युक्तम् । तेजस्विषु स्थितानां तेजसां तेषां तेजसामपि तेजसे पराभिभवनसामर्थ्यं तेज इति तस्मै ॥ ४ ॥

मूलम्

सह सम्पायास्त्वमाशिषमाशिभूताभूतमाशिषमाशिराशी राशिरनुभूमिः स्वाहा ॥ ५ ॥

व्याख्या

चेतनाचेतनेषु सर्वत्रान्तर्यामित्वेन वसन् वैषम्यनैर्घृण्याभावात् शत्रुमित्रोदासीनानां सहासमत्वे समत्वायाः पासि त्वम् आशिषमाशिभूताभूतम् आशिभूतम् अभूतं च आशिषमाशिः आशीराशिः आशिषां राशिः अनुभूमिः उत्पत्तिस्थानम् । तुभ्यमित्यर्थः ॥ ५ ॥

मूलम्

यो संयोगो ध्यानं जुषमाणः सन्धुः सन्धुक्षणानां संयोगः सन्दधानः पुण्यः पुण्यानां पुण्याय स्वाहा ॥ ६ ॥

व्याख्या

जीवात्मपरमात्मनोर्यो वा संयोगः उपायत्वेन च ध्यानं संयोगः । उपायत्वेनोपेयत्वेन च प्रीतिपूर्वकं जुषमाणः सेवमानः सन्धुक्षणानां कृपाकटाक्षेण प्रोक्षणाप्रोक्षणानां विषयभूतः सन्धुः सम्यक् प्रोक्षित इत्यर्थः ।

[[१३९]]

संयोगः सन्दधानः एवम्भूतः संयोगः सन्दधानः । पुण्यानां पुण्यशरीराणाम् एष एव साधु कर्मकरायते । यमेभ्यो लोकेभ्य उन्निषति एष एव साधुकर्म कारयति यमरो निनीषतीति । श्रीगीतायाम् —

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥

यद्वा पुण्यानां पुण्य इतरेषां मध्यस्थः तेन विना तृणाग्रमपि न चलतीति । पुण्याय पुण्यस्वरूपिणे तुभ्यम् ॥ ६ ॥

मूलम्

सहस्रं वा यस्य वै वितानमादधानः सहस्रं वा आशिषः सहस्रं यस्य वै सासिकाः सहस्रं सहस्राय स्वाहा ॥ ७ ॥

व्याख्या

मुक्तानामैश्वर्यं प्रतिपादयति । यस्य मुक्तस्य परमपदं गच्छतः सहस्रं वा यस्य वै वितानं मण्टपादूर्ध्वाच्छादनादि आदधानः । स्वयमेवातपमप्रयच्छमानः । सहस्रं वा आशिषः स्रक्चन्दनादयः । सासिकाः आसनादिभिः सहिताः । सहस्रं यस्य वै सासिकाः आसने सह रन्तुं योग्याः स्त्रियः । सहस्रं सहस्राय । “सहस्रशीर्षा पुरुषः” इत्यादिश्रुतिसिद्धाय तुभ्यम् । “तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः” इत्यादि ॥ ७ ॥

मूलम्

स्वातीका गुप्तयो गुप्तिः सत्त्वं सत्त्वानां (सत्यं सत्यानां) सात्वंपदं तत्सत्त्वं सत्त्वमासीत् सात्त्वं सात्त्वं वै सत्त्वमादधानाय स्वाहा ॥ ८ ॥

व्याख्या

स्वातीका गुप्तयः स्वर…. शं परमात्मानं नारायणमतिक्रम्य देवतान्तरमन्त्रान्तरसाधनान्तरप्रयोजनान्तरादीनामकिञ्चित्करत्वात् तेषां गोप्तृत्वशक्त्यभावात् गोप्तृत्वेन वरणं गुप्तयः ।

[[१४०]]

यद्वा स्वान्तर्यामिणः परमात्मन एव गोप्तृत्वादयः ।

आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्यं षड्विधा शरणागतिः ।
अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायता याच्ञा प्रपत्तिः शरणागतिः ॥

इति ॥ गुप्तिः रक्षणं सत्त्वं यथार्थं सत्त्वानां सत्त्वभूतहितमिति भूतहितयुक्तानां सात्त्वंपदं सत्त्वपदपदं तत्सत्त्वं तत्सात्त्विकपदं नान्यदिति ।

यत्पदं सात्वताभिख्यं विष्णुलोके महीयते ।

“देवैः सुकृतकर्मभिस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव” इति ऋग्वेदब्राह्मणे । यद्वा परमात्मनो गुप्तयः गोप्तृत्वादिकमेव धर्मोत्तरापेक्षया सत्यं यथार्थमिति ये गृह्णन्ति तेषां सत्यानां सत्यत्वेन गृहीतानां सात्त्वंपदं परमपदं सत्त्वमासीत् । सात्त्विकमेवासीत् । सात्त्वं वै सत्त्वमेव सात्त्वं सात्वतशब्दवाच्यम् । “नामैकदेशे नामग्रहणम्” भीमो भीमसेन इतिवत् ।

नित्यनैमित्तिकाजस्रा याज्ञीयाः परमाः क्रियाः ।
सर्वं सात्वतमास्थाय विधिश्चक्रे समाहितः ॥

इति ॥ सत्त्वप्रधानत्वात् सात्वतशब्दप्रयोगः । भारतोक्तसात्वतशब्दवाच्यं पञ्चरात्रं न भवति सात्त्विकनामत्वेन प्रणीतत्वात् ।

अथांशोः सात्वतो नाम विष्णुभक्तः प्रतापवान् ।
महात्मा दाननिरतो धनुर्वेदविदां वरः ॥
स नारदस्य वचनाद्वासुदेवार्चने रतः ।
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥

[[१४१]]

तस्य नाम्ना तु विख्यातं सात्वतं नाम शोभनम् ।
प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥

इति ॥ साङ्ख्यपुराणे —

श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः ।
क्रमेण श्रुतिविध्यर्थं मनुष्यस्तन्त्रमाश्रयेत् ॥
धर्मशास्त्रपुराणे च प्रोक्तं हि मरणान्तिकम् ।
प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥
भयं प्रबलचित्तानां मरणे जायते भृशम् ।
तेषामेवाभिरक्षार्थं खल्वहं तन्त्रमुक्तवान् ॥
पाञ्चरात्रं भागवतं तन्त्रं सात्वतनामकम् ।
वेदाग्रहं समुद्दिश्य कमलापतिरुक्तवान् ॥

इति ॥ भागवते -

त्रिवक्त्राया उपश्लोकः पुत्रः कृष्णमनुव्रतः ।
शिष्यः साक्षान्नारदस्य ददौ चित्तमखण्डितम् ॥
तेनोक्तं सात्वतं तन्त्रं यज्ज्ञात्वा मुक्तिभाग्भवेत् ।
यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥

इति परमात्मपरत्वात् पारमात्मिकं सात्वतशव्दवाच्यं स्वातन्त्र्येण देवतान्तरमन्त्रान्तरादिप्रतिपादनाभावात् वैदिकत्वेन प्रसिद्धं श्रीमद्वैखानसं सात्विकमेव । सत्वमादधानाय सात्त्विकगुणं प्रयच्छमानाय तुभ्यम् ॥ ८ ॥

मूलम्

सत्त्वं वा उद्रेकमासीद्यत्सत्त्वमुभयोरनुगोप्ता तत्सत्यं सत्यंपदाय सत्याय स्वाहा ॥ ९ ॥

व्याख्या

सत्त्वं वा सात्विकमेव यत्तस्य परमात्मनः उद्रेकमासीत् प्रचुरमासीत् । यत्सत्त्वं सात्त्विकप्रधानं ब्रह्म उभयोरपि ऐहिकामुष्मिकयोः अनुगोप्ता साकल्येन गोप्ता ।

[[१४३]]

यद्वा स्थावरजङ्गमात्मकयोः । यद्वा मृते जन्मनो रक्षतः तत्सत्यं सत्यंपदाय ततः ब्रह्मपदाय परमपदाय सत्यं परमपदप्राप्तये सत्यमित्यर्थः । “नान्यः पन्था अयनाय विद्यते” इति श्रुतेः । सत्याय यथार्थभूताय तुभ्यम् ॥ ९ ॥

मूलम्

सत्यो जेनातिः सत्यान्तरात्मा सत्योद्योगः सत्यः सत्कर्मा सत्यं सत्यं वितानमासीत्सत्यं सत्याय स्वाहा ॥ १० ॥

व्याख्या

विनाशरहितत्वात् सत्यो जेनातिः । यद्वा भूतहितत्वात् सर्वेषां हितरूपः । जेनातिः दीप्तिः । सत्यान्तरात्मा सत्यस्वभावः । सत्योद्योगः सत्यसङ्कल्पः । सत्यः नित्यः । सत्कर्मा शोभनकर्मा । ननु यदि परमात्मा विष्णुः सत्कर्मा तर्हि भृगुपत्न्यादिस्त्रीवधादिकमेव नोपपद्यत इति चेत्सत्यम् । उत्तरश्रीरामायणे —

शृणु राजन् यथावृत्तं पुरा देवासुरा युधि ।
दैत्यासुरैर्भज्यमाना भृगुपत्नीं समाश्रिताः ॥
यदा दत्ताभयास्तत्र न्यवसन्निर्भयास्तदा ।
तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धः सुरोत्तमः ॥
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ।
ततस्तान्निहतान् दृष्ट्वा पत्नीं भृगुकुलोद्भवः ॥
शशाप सहसा क्रुद्धो विष्णुं परबलार्दनम् ।
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ॥
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।
ततः प्रतिहरः शापस्तमृषिं पुनरागमत् ॥

इत्यादिसृष्टिस्थितिसंहारकर्तृत्वात् दुष्टनिग्रहकर्तृत्वाच्च ॥

[[१४३]]

अप्रमेयोऽनियोज्यश्च यत्र कामागमो वशी ।
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥

इति ॥ लीलाविभूतिकत्वात् सर्वात्मकत्वात् निरङ्कुशे स्वतन्त्रत्वाच्च न दोषः । अत एव सत्कर्मा सत्यं सत्यं वितानमासीत् सत्यं यथार्थभूतहितं सत्याय यथार्थभूताय तुभ्यम् ॥ १० ॥

इति चतुर्थोऽनुवाकः ।