०३

मूलम्

तृतीयोऽनुवाकः

यस्त्वं भूत्वा पर्जन्यो बिभेति रन्ध्रे प्रजाभिराकृष्यमाणः सत्यं कालं व्रतेन पालयन् ह्लादयिष्यसे स्वाहा ॥ १ ॥

व्याख्या

[[१२३]]

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ।

इति यज्ञोद्भवो भूत्वा यः पर्जन्यः सत्यं कालं पालयन् रन्ध्रे भगवदाज्ञाभङ्गे बिभेति सः । त्वं रन्ध्रे अनावृष्ट्यादौ व्रतेन कारिकेष्ट्यादिना प्रजाभिराकृष्यमाणः वर्षप्रदानादिना ह्रादयिष्यसे तुभ्यम् ॥ १ ॥

मूलम्

कामो भूत्वा प्रजानामन्तरास्थितस्सर्वान् लोकान् ह्रादयन् जीवमानः सन्दर्पणाय हरये पराय स्वाहा ॥ २ ॥

व्याख्या

हे परमात्मन् कामो भूत्वा प्रजानामन्तरास्थितः । अनङ्गत्वात्तत्र स्थितस्सन् सर्वान् लोकान् जनान् ह्रादयन् जीवमानः अभिलषितवस्तुलाभादिमुखेन सन्तोषयन् सन्दर्पणाय गर्वरूपाय हरये हरयित्रे ननु कामदाहकत्वाद्रुद्रस्य सर्वहन्तृत्वमुपपद्यत इति चेत् तदसत् ।

ब्रह्माणमिन्द्रमग्निं च यमं वरुणमेव च ।
निगृह्य हरते यस्मात्तस्माद्धरिरिहोच्यते ॥
स शुक्लाज्जायते कामो मज्जायाः क्रोध एव च ।
अस्थिभ्यो जायते लोभो मेदसश्च मदस्तथा ॥
मांसात् प्रजायते मोहोऽसृग्भ्यः क्रोधः प्रजायते ।
त्वचश्चैवापि धर्मस्तु क्रमाज्जातस्ततो दश ॥

इति ॥ भगवतोऽपि शुक्लादुत्पत्त्यादिकं श्रूयत इति चेत् ॥ २ ॥

मूलम्

अङ्गादङ्गादनुप्राविशत्सर्वान् लोकान् संरक्षणाय यो वा वसन् देवो मातरिश्वा स योऽस्माकं भूत्यै भूतये स्वाहा ॥ ३ ॥

व्याख्या

यः परमात्मा मातरिश्वा वाय्वन्तर्यामी देवः क्रीडाकामः अङ्गादङ्गादनुप्राविशत् त्वदङ्गात्पुत्रस्याङ्गं जीवेन सह दीपात् दीपमिव जननात्प्राविशत् “अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे” इति श्रुतेः ।

[[१२४]]

भारते -

वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना ।

इति । स देवः सर्वान् लोकान् जनान् प्रति संरक्षणाय निवसन् योऽस्माकं मातरिश्वनः अन्तर्यामिणः अस्माकं भूत्यै भूतये निरवधिकैश्वर्याय ॥ ३ ॥

मूलम्

यो मोहयन् भूतानां सर्गादिरक्षणाय यः सङ्कोचः सङ्कोचनाय भवते स्वाहा ॥ ४ ॥

व्याख्या

यः परमात्मा सर्गादिरक्षणाय सृष्टिस्थितिसंहारार्थं भूतानां इन्द्रियाणि मोहयेत् । “मुह वैचित्र्ये” इति यः अन्तर्यामी सन् सङ्कोचः । “अणोरणीयान्” इत्यादि सङ्कोचनाय भवते तस्मै ॥ ४ ॥

मूलम्

यो वा दशात्मा उपरि स्पृशन्वा देवानां जेनातिषामुत्तरः जेनातिर्ज्योतिषे स्वाहा ॥ ५ ॥

व्याख्या

यः परमात्मा मत्स्यादिदशावताररूपी द्वादशात्मापि केषाञ्चित् वा आदित्यमण्डलवर्ती उपरि स्पृशन् सर्वषामुपरि स्थित्वा स्वकिरणैर्मेध्यामेध्यादिकं स्पृशन् देवानां मध्ये ज्योतीरूपः जेनातिषां चन्द्राग्न्यादिज्योतिषाम् उत्तरः स्वयं वा स्पृशन् तैरभेद्यैरस्पृष्टः जेनातिर्ज्योतिषे ज्योतिषां जेनातिर्भवति तस्मै ॥ ५ ॥

मूलम्

यो ब्रह्मा ब्रह्मविदामात्मा स्यादात्मचक्षुषां भूतिर्भूतिमतां सुकृतं कृताय स्वाहा ॥ ६ ॥

व्याख्या

यः परमात्मा ब्रह्मविदां ब्रह्मा छान्दसत्वात् दीर्घः परंब्रह्म । आत्मा स्यादात्मचक्षुषाम् अन्तः प्रविश्य नियन्ता य आत्मा ।

[[१२५]]

परमात्मत्वेन पश्यतां परमात्मा । भूतिर्भूतिमताम् ऐश्वर्यवतामैश्वर्यरूपः सुकृतं कृताय कृतवते तस्मै ॥ ६ ॥

मूलम्

सारस्वतो वा एष देवो न हि पारमात्मिकः हयोऽभयो वा सर्वं सन्धुषे स्वाहा ॥ ७ ॥

व्याख्या

हयग्रीवमन्त्रः - एष देवो लीलाविभूतो हयग्रीवरूपेण स्थितः अयं केवलहयो न भवति । किन्तु अभयप्रदः भयरहितः सारस्वतः अखिलविद्याधारस्वरूपी पारमात्मिकः परमात्मा जगत् सर्वं सन्धुषे कृपाकटाक्षेण प्रेक्षयसि तुभ्यम् ॥ ७ ॥

मूलम्

यो वा परं ज्योतिः परं सन्दधानः परमात्मा पुरुषं सञ्जनयिष्यसे स्वाहा ॥ ८ ॥

व्याख्या

यः परं ज्योतिः परमात्मा यं निर्हेतुककृपाकटाक्षेण रक्षितुमिच्छति तं पुरुषं परं सन्दधानः उत्कृष्टगुणं सन्दधानं सञ्जनयति सञ्जनयिष्यसे तुभ्यं व्यत्ययः । यद्वा रामकृष्णाद्यवतारादिषु वसुदेवदशरथादिषु परं सन्दधानः पुरुषं प्रति सम्यक् जनिष्यसे “जनी प्रादुर्भावे” इति प्रादुर्भावं प्रजननं कुर्वते ।

न तस्य जन्मनो हेतुः कर्मणो वा महीपते ।
आत्ममायां विनेशस्य परमा सृष्टिरात्मना ॥

इति ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥

इति ॥

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥

[[१२६]]

पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः ।
रजसा तमसा चास्य मानसं समभिप्लुतम् ॥

इति ॥ अनेन निर्हेतुत्वं प्रतिपादितम् । अधिकारिविशेषेण निर्हेतुकं सहेतुकं च ॥ ८ ॥

मूलम्

यो दोषश्चतुरश्चतुर्थश्चतुरः पदार्थान् सर्वं लोकस्य सन्दधानस्ते सन्ते सत्त्वमादधानाय स्वाहा ॥ ९ ॥

व्याख्या

यो दोषः यस्य परमात्मनो बाहुषु चतुर्थः । वरप्रदानहस्तः चतुरः वरप्रदानेन चतुरः समर्थः चतुरः पदार्थान् धर्मार्थकाममोक्षाख्यान् सर्वं लोकस्य सर्वजनानां सन्दधानः प्रयच्छमानः सन्ते सत्सु सत्त्वमादधानाय “एको बहूनां यो विधाति कामान्” इति श्रुतिः । ते इदम् ॥ ९ ॥

मूलम्

यस्यैता ब्रह्ममूर्तयो बृहद्ब्रह्माणं ब्रह्म आदधानः यं ब्रह्म ब्रह्मगुप्तये परम्पराय स्वाहा ॥ १० ॥

व्याख्या

यस्य परंब्रह्मणः एताः अव्यया ब्रह्ममूर्तयः दत्तोऽयं चतुर्मुखब्रह्मगुप्तये वेदगुप्तये परम्पराय सृजति तस्मै ।

श्वेताश्वतरे -

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ॥

इति ॥ १० ॥

इति तृतीयोऽनुवाकः