मूलम्
ओं विष्णुस्सर्वेषामधिपतिः परमः पुराणः परो लोकानामजितो जितात्मन् भवते भवाय स्वाहा ॥ १ ॥
व्याख्या
यः सर्वलोकैरपि वन्दनीयः
स्मृतिं शुभां यच्छति यो नराणाम् ।
तस्मै नमो यः कुलदैवतं नरः
स राघवो मे हृदि सन्निधत्ताम् ॥
श्रीलक्ष्मीवल्लभाद्यां तां
विखनोमुनिमध्यमाम् ।
अस्मदाचार्यपर्यन्तां
वन्दे गुरुपरम्पराम् ॥
श्रीविष्णुमानसाज् जातो
विष्ण्वागमविशारदः ।
तं वन्दे सूत्रकर्तारं
वैष्णवं विखनोमुनिम् ॥
व्याप्नोतीति विष्णुः
सर्वव्यापक इत्यर्थः ॥
यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥
इति श्रुतेः । “विश्वव्यापनशीलत्वाद्विष्णुरित्युच्यते” बुधैः ॥ इति ॥ नन्वादौ तावत् परंब्रह्मपरंज्योतिः परंतत्त्वपरमात्मादिशब्दा विद्यन्ते । चत्वारः [[??]] पारमात्मिकं भवति ।
उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥
इति वचनात् त्रयाणां पारमात्मिकत्वमिति चेदुच्यते ॥
अष्टाक्षरश्च यो मन्त्रो द्वादशाक्षर एव च ।
षडक्षरश्च यो मन्त्रो विष्णोरमिततेजसः ॥[[८६]]
एते मन्त्राः प्रधानास्तु वैदिकाः प्रणवैर्युताः ।
प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ॥
इति भगवन्मन्त्रेष्वव्यापकमन्त्रापेक्षया व्यापकमन्त्राः प्रधानाः । व्यापकमन्त्रेषु च अष्टाक्षरषडक्षरौ । अष्टाक्षरेण प्रतिपाद्यो नारायणः । षडक्षरेण प्रतिपाद्यो विष्णुः । प्रधानभूतनारायणविष्णुशब्दाभ्यां वासुदेवादिशब्दैश्च उत्तरत्र प्रतिपाद्यैः परंब्रह्मपरंज्योतिः परंतत्त्वपरमात्मादिशब्दैः पर्यायवाचकैश्च क्रियाकाण्डत्वाद्दुःखित एव विष्णुशब्दप्रयोगः ॥ किञ्च – “विष्णोरंशस्तु पुरुषः" इति दैविकव्यूहभूतस्य पुरुषस्य मानुषव्यूहभूतस्य वासुदेवस्य मूलभूतत्वाद्विष्णुशब्दग्रहणम् । यद्वा - सर्वमन्त्रा अपि परंब्रह्मपरंज्योतिःपरंतत्त्वपरमात्मादिशब्दप्रयोगात् अद्वारकत्वेन सद्वारकत्वेन भगवल्लीलाप्रतिपादकत्वात् भगवत्प्रादुर्भावाविर्भावलीलाप्रतिपादकत्वाद्वा सर्वेषामधिपतिः सर्वेषां ब्रह्मरुद्रादीनां नित्यमुक्ता…… सर्वशब्दस्य सङ्कोचाभावात् ….. चेतनाचेतनवर्गाणामण्डाद्बहिर्भूतानामप्यधिपतिनि…. “पतिं विश्वस्यात्मेश्वरम्" इति श्रुतेः ॥
श्वेताश्वतरे-
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ।
ब्रह्मादिदेवसङ्घेषु स एव पुरुषोत्तमः ।
स्त्रीप्रायमितरत् सर्वं जगद्ब्रह्मपुरस्सरम् ॥ इति ।
परमः परि.. मास्सेति परमः समाभ्यधिकरहितः । यद्वा उत्कृष्टः पुराणः अनादिः परो लोकानाम् ।
एकतो वा जगत्सर्वमेकतो वा जनार्दनः ।
सारतो जगतः कृत्स्यादतिरिक्तो जनार्दनः ॥ इति ॥
[[८७]]
अजितः जेतुमशक्यः ब्रह्मरुद्रादिभिर्देवदानवयक्षराक्षसादिभिः रहितः इत्यर्थः ।
यद्वा -
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
इति श्रुतेरवाङ्मनसो गोचरत्वात् योगिभिरप्यजितः ॥
नारसिंहपुराणे -
हिरण्यकशिपोस्त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः ।
क्षीरोदस्यान्तरं गत्वा स्तूयतां तत्र केशवः ॥
युष्माभिः संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥
इत्यारभ्य हिरण्यवधानन्तरम् ।
तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः ।
दृष्ट्वा भयानकं रूपं तत्रसुर्देवदानवाः ॥
इत्यारभ्य शरभनिर्माणादिकं प्रतिपाद्यते । ततस्तस्य भवानीश ….ण्डस्थानमयाचत ।
पृष्ठभागे चतुर्वक्त्रं तस्य रुद्रो न्यवेशयत् ।
सोमसूर्यौ नयनयोर्मारुतं पक्षयोर्द्वयोः ॥
पादेषु भूचरान् सर्वान् शिवस्तस्य न्यवेशयत् ।
एवं निर्माय शरभं भवः प्रमथनायकः ॥
ससर्ज नरसिंहं तं समुद्दिश्य भयानकम् ।
ततः क्षणेन शरभो नादपूरितदिङ्मुखः ॥
अभ्याशमगमद्विष्णोः निनदन्भैरवस्वनम् ।
तमभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा ।
जघान निशितैरुग्रैस्तीक्ष्णैर्नखवरायुधैः ॥[[८८]]
निहते शरभे तस्मिन् रौद्रे मधुनिघातिना ।
तुष्टुवुः पुण्डरीकाक्षं देवा देवर्षयस्तथा ॥
इति ॥ भवाय रुद्राय अजितः जितार्तभक्तैः जितात्मन्, “अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विजः” ॥ इति वचनात्, “भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन” । इति भगवद्वचनाच्च ।
यद्वा – परशुराममन्तरत्वात् रामभद्रेण जितात्मन् । यद्वा - स्वभक्तस्य भीष्मस्य प्रतिज्ञापरिपालनार्थं जगद्रक्षणार्थं च भवाय उत्पन्नाय भवते तुभ्यं स्वाहा ।
“स्वाहास्वधावषड्वौषण्णमःपर्यायवाचकाः” ।
भारते -
ओमिति ब्रह्मणो योनिर्नमः स्वाहास्वधावषट् ।
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥
न तस्य त्रिषु लोकेषु परं लोकेषु संविदुः ।
इति वेदा वदन्ति स्म वृद्धाश्च परमर्षयः ॥
स्वधा नम इति…. वषट्कारोति[[??]] च [?] ।
नमःशब्दप्रधानाद्वा स्वाहाशब्द इवेति तु ॥
स्वाहाशब्दे नमः शब्दः प्रतिपादितः । अनेन प्रपत्तिः प्रतिपादिता ॥
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकः सर्वसिद्धान्ते वेदान्तेषु च गीयते ॥
लक्ष्मीं महीं च शेषं हि विभूतिमुभयात्मिकाम् ॥
“अस्येशाना जगतो विष्णुपत्नी",
[[८९]]
“लक्ष्मीविशिष्ट एवैकः प्रपत्तव्य इहोदितः” ॥ इति ॥ लक्ष्मीविशिष्ट एव प्रपत्तव्य इत्यभिप्रायेणादौ विष्णुशब्दः । एतत्सर्वमेकादशानुवाके विस्तरेणोच्यते ॥ १ ॥
मूलम्
सुसूक्ष्मः सार्वः सर्वेषामन्तरात्मा तस्थुः तस्थुषां जङ्गमो जङ्गमानां विभुर्विभूणां विभवोद्भवाय स्वाहा ॥ २॥
व्याख्या
अजडं स्वात्मसंबोधि नित्यं सर्वावगाहि यत् ।
ज्ञानं नाम गुणं प्राहुः प्रथमं गुणचिन्तकाः ॥
स्वरूपं ब्रह्मणस्तच्च गुणश्च परिगीयते ।
जगत्प्रकृतिभावो यः सा शक्तिः परिकीर्तिता ॥
श्रमहानिस्तु या तस्य सततं कुर्वतो जगत् ।
बलं नाम गुणस्तस्य कथितो गुणचिन्तकैः ॥
कर्तृत्वं नाम यत्तस्य स्वातन्त्र्यं परिबृंहितम् ।
ऐश्वर्यं नाम तत्प्रोक्तं गुणतत्त्वार्थचिन्तकैः ॥
तस्यापादानभावेऽपि विकारविरहे हि यः ।
वीर्यं नाम गुणस्यायमच्युतस्यापराह्वयः ।
सहकार्यमपेक्ष्यं यत् तत्तैजसमुदाहृतम् ॥
इति ॥ ज्ञानादिषाड्गुण्यसम्पूर्णं नानाव्यूहैकहेतुकं लक्ष्मीलक्षणसंयुक्तम् । “सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुतेः । निरुपाधिकसत्तायोगत्वं सत्यत्वं नित्यासङ्कुचितज्ञानैकाकारत्वं ज्ञानत्वं कालतो वस्तुतो देशतश्चापरिच्छिन्नत्वमनन्तत्वमिति ब्रह्मस्वरूपशोधकवाक्यप्रतिपन्नसत्त्वादिविशिष्टम् । श्रीविष्णुपुराणे-
सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः ।
नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥[[९०]]
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥
वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च सर्वेषु भूतेषु वकारार्थस्तथा मुने ॥
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥
एवमेव महाभाग मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यथा ।
शब्दोऽयं सोपचारेण ह्यन्यत्र ह्युपचारतः ॥ इति ॥
भगवच्छब्दशब्दितमित्यादिगुणविशिष्टं परं ब्रह्म विष्णुरेवेति विज्ञाप[नेन] सुसूक्ष्म इत्युक्तम् । श्रीवैखानसे तर्ककाण्डे ब्रह्मचिन्ताध्यायेऽभिहितम् -
आपः पृथिव्या सूक्ष्मास्तु तेभ्यस्तेजस्ततोऽनिलः ।
तस्मादाकाशमेतस्मात्तन्मात्राणि मनीषिणः ॥
तेभ्यः सूक्ष्मो ह्यहङ्कारस्त्रिधाभूय व्यवस्थितः ।
तस्मान्महान् त्रिधा भूतो बुद्धिलक्षणलक्षितः ॥
तस्मात्तु मूलप्रकृतिरव्यूढगुणबृंहिता ।
ततो व्यष्टिसमष्ट्याख्यो जीवः सूक्ष्मतरः स्मृतः ॥
ततो व्योमपदं विष्णोः स्थानमानन्दपूरितम् ।
तस्मात्तत्पञ्चशक्तिस्थं पञ्चोपनिषदात्मकम् ॥
पञ्चमूर्तिविभेदेन विभिन्नं विश्वतोमुखम् ।
आभूतसम्प्लवस्थानं स्वरूपं चिद्धनं परम् ॥[[९१]]
विष्णोरकुण्ठवीर्यस्य नानाव्यूहैकहेतुकृत् ।
ततः षड्गुणसम्पूर्णं लक्ष्मीलक्षणसंयुतम् ॥
सत्यं ज्ञानमनन्ताख्यं भगवच्छब्दशब्दितम् ।
सूक्ष्मात्सूक्ष्ममिति ख्यातं स्वरूपं रूपवर्जितम् ॥
जातिक्रियादिरहितं सरूपं गुणसङ्गतम् ।
सूक्ष्मात्सूक्ष्ममवाप्नोति परंब्रह्मेदमव्ययम् ॥
इति ॥ सार्वः “सर्वं खल्विदं ब्रह्म" इत्यादिश्रुतिसिद्धम् । “आत्मा बुद्धौ धृतौ जीवे स्वभावे परमात्मनि” ॥ इति ॥ सर्वेषामन्तरात्मा ब्रह्मरुद्रादीनामन्तरात्मा । “अन्तः प्रविष्टः शास्ता जनानाँ सर्वात्मा” इति श्रुतेः, “यस्त्वात्मा शरीरं यस्य पृथिवी शरीरम्” इत्यादिश्रुतेश्च । तस्थुः तस्थुषां स्थावराणां मध्ये अतिशयेन तथा परभूतः “मेरुः शिखरिणामहम्” इति भगवद्वचनात् । जङ्गमो जङ्गमानां जङ्गमेष्वप्यतिशयं जङ्गमभूतः । यद्वा शक्तिप्रदः । विभुर्विभूणाम् आकाशादीनामपि । तथा विभवोद्भवाय एवं तस्य परमात्मन उद्भवः प्रादुर्भावः अवतारादिषु -
यस्यावताररूपाणि समर्चन्ति दिवौकसः ।
अपश्यन्तः परं भावं नमस्तस्मै परात्मने ॥ इति ॥
एवमवतारादिषु प्रादुर्भावः -
न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते ।
आत्ममायां विनेशस्य परस्य स्रष्टुरात्मनः ॥
रामायणे -
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ॥
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥
इति ॥
[[९२]]
तस्मै दिशं प्रतिपाद्य ज्योतिर्मयानि सर्वाण्यपि पारमात्मिकान्येवेति प्रतिपादयति ॥ २ ॥
मूलम्
ज्योतिर्वा पारमात्मिकं सार्वं विश्वं भवं भवाय प्राभूतं प्राहिण्वन् परम्पराय सुकृतं कृताय तस्मै पराय ईशिषे स्वाहा ॥ ३ ॥
व्याख्या
सूर्यचन्द्रामयादिषु स्थितं ज्योतिः पारमात्मिकम् ।
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति ॥
ज्योतींषि विष्णुर्भुवनानि विष्णुना
सर्वाणि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्यः ॥ इति ॥
नक्षत्राणि च विश्वलोकं साव विश्वं सर्वलोकसंज्योतिः । पारमात्मिकं “अथ यदतः परो दिवो ज्योतिर्दीप्यते”, “विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु” इत्यादिश्रुतिसिद्धम् । “एक एव रुद्रो न द्वितीयाय तस्थे”
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥
इति श्रुतिषु श्रूयमाणत्वात् । विश्वाधिपस्य रुद्रस्य जननं कथमुपपद्यत इति शङ्कायां तद्वा श्रुत्यर्थं भवशव्दः भवाय रुद्राय प्राभूतं प्रभूतं बहुविधमित्यर्थः । परं भवमुत्पत्तिं प्राहिण्वन् प्रायच्छन् । “नारायणाद्रुद्रो जायते” इत्यादिश्रुतिभ्यः “ललाटात्क्रोधजो रुद्रो जायते" इत्यादि ।
ब्रह्मणो चै ललाटाच्च ततो देवस्य वै द्विज ।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥ इति ॥
[[९३]]
“अष्टौ वसव एकादश रुद्रा:”, “सहस्राणि सहस्रशो ये रुद्राः” इति श्रुत्यन्तरेषु श्रूयमाणत्वात् पारमात्मिकोपनिषदि च प्राभूतं प्राहिण्वन्नित्युक्तम् । अनेनैकत्वनिवृत्तिः । अस्य मन्त्रस्य परम्पराय इत्यारभ्य ईशो यस्मादित्यत्रान्वयः । सुकृतं कृताय तस्मै पराय ईशिषे ॥ ३ ॥
मूलम्
ईशो यस्माद्विततं वितत्य कं धृतं कामहुतो जुहोति ककुदं ककुच्छित्वा भूयः पराय स्वाहा ॥ ४ ॥
व्याख्या
ईशः रुद्रः यस्मात् सागराणामुज्जीवनकारणात् विततं विस्तृतं धृतं शिरसा धृतं कं गङ्गाजलं वितत्य भूमौ विस्तार्य सुकृताय कृतवते वरमनं विश्वं भवं भवाय प्राभूतं प्राहिण्वन् परम्पराय सुकृतं कुताय तस्मै पराय परं कामहुतः कामदाहको रुद्रः ककुदं श्रेष्ठः दक्षः ककुच्छित्वा जुहोति अग्नौ प्रक्षिप्तवान् । भूयः पुनरपि पराय विभक्तिव्यत्ययः ब्रह्मणः शिरश्छित्वा प्रक्षिप्तवान् । एवम्भूताय रुद्राय सुकृतं कृताय ईशिषे समर्थाय तुभ्यम् इत्यर्थः ।
अयमेवार्थो मात्स्ये -
ततः क्रोधपरीतेन संरक्तनयनेन च ।
वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ॥
ब्रह्मा -
यस्मादनपराद्धस्य शिरश्छिन्नं त्वया मम ।
तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि ॥
ब्रह्महत्याकुलो भूत्वा चरन् तीर्थानि भूतले ।
ततोऽहं गतवान्देवि हिमवन्तं शिलोच्चयम् ॥
तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः ।
ततस्तेन स्वकं पार्श्वं नखाग्रेण विदारितम् ॥[[९४]]
स्रवतो महती धारा तस्य रक्तस्य निःसृता ।
विष्णुप्रसादात्सुश्रोणि कपालं तत्सहस्रधा ।
स्फुटितं बहुधा जातं स्वप्नलब्धं धनं यथा ॥
विष्णुधर्मे —
अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं परम् ।
ॐ नमः सम्पुटीकृत्य जपन् विषधरो हरः ॥
यन्नजीर्णं च गरलं कण्ठे स्तब्धं कपालिनः ।
अन्तरात्मधृतस्तस्य हृदये गरुडध्वजः ॥
इति ॥
मैत्रलोके भक्ष्यमाणे तथा मातृगणेन वै ।
नृसिंहमूर्तिदेवेशं प्रदद्याद्भगवान् शिवः ॥
इति ॥
वराहे -
प्रागितिहासेऽगस्त्यं प्रति रुद्रः — ब्रह्माणं च पुरा सृष्टः पुण्डरीकाक्षः रुद्रेण दृष्टः । कस्त्वमिति प्रोक्तः सृज इति प्रजाः । “अविज्ञातासमर्थोऽहं निमग्नः सलिले द्विजः” ।
इत्यारभ्य जलमध्ये कालमेघसङ्काशः पुण्डरीकाक्षः रुद्रेण दृष्टः कस्त्वमिति पृष्टस्य वचनम् -
अहं नारायणो देवो जलशायी सनातनः ।
दिव्यं चक्षुर्भवतु ते तेन व … यत्नतः ॥
एवमुक्तस्तदा तेन यावत्तस्याप्यहं तनुः ।
तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् ॥
तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ।
ब्रह्माणं तत्र पश्यामि ह्यात्मानं च तदङ्कतः ॥
[[९५]]
इत्यारभ्य रुद्रेणानन्तरं [?] विष्णुः -
सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिः सनातनः ।
देवानां च परः पूज्यः सर्वदा त्वं भविष्यसि ॥
एवमुक्तः पुनर्वाक्यमुवाचोमापतिस्तथा ।
अन्यद्देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥
मर्त्यो भूत्वा भवानेव मामाराधय केशव ।
मां वहस्व च देवेशं वरं मत्तो गृहाण च ।
येनाहं सर्वदेवानां पूज्यात्पूज्यतरोऽभवम् ॥
विष्णुः -
देवकार्यावतारेषु मानुषत्वमुपागतः ।
त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥
यत्त्वयोक्तं वहस्वेति देवदेव उमापते ।
सोऽहं नमामि देव त्वां मेघो भूत्वा शतं समाः ॥
एवमेव हरिर्देवः सर्वेशः सर्वभावनः ।
वरदोऽभूत्ततो मह्यं तेनाहं दैवतैर्नतः ॥
इत्यादि ॥ पुराणसङ्ग्रहे -
अङ्गुष्ठाग्रविनिर्भिण्णादण्डकोशात्स्रवज्जलम् ।
विष्णोरादाय चार्घ्यं वै ददौ तस्मै चतुर्मुखः ॥
तत्पादशौचविमलं तोयमासीत्सरिद्वरा ।
पुण्या त्रिपथगङ्गा यां दधार शिरसा स्वयम् ॥
ईश्वरसंहितायाम् —
पुरा त्रिभुवनाक्रान्तं हरिणा बलिवन्धने । मम लोके पदं प्राप्तं दृष्ट्टा विष्णोर्महात्मनः ॥
[[९६]]
पाद्यं दत्तं मया पुत्र कमण्डलुजलेन वै ।
कमण्डलुजलं स्वल्पं कृतमन्तर्गतं हि तत् ॥
धर्मे समीपतो दृष्ट्वा . . चोक्तं जलं भव ।
द्रवीभूतस्तथा धर्मो हरिभक्त्या महामुने ॥
गृहीत्वा धर्मपानीयं पादं नाथस्य तुष्टये ।
क्षालितं परया भक्त्या पाद्यार्घ्यादिभिरर्चितः ॥
तदम्बु पतितं दृष्ट्वा दधार शिरसा हरः ।
पावनार्थं जटामध्ये योग्योऽस्मीत्यवधारणात् ।
वर्षायुतानथ बहून् न मुमोच तथा हरः ॥
श्रुतिरपि -
ये मरुतामर्चयन्ति रुद्रं यत्तेजनी चारुदन्तं पदं यद्विष्णोरुपमं निधाय तेन पासि गुह्यं गोनाम्
इतीयं श्रुतिः त्रिविक्रमावतारमुद्दिश्य गङ्गाविषयत्वेन श्रूयत इति केचिद्वदन्ति । ब्रह्मरुद्रादीनामपि वरप्रदानादिषु समर्थतेत्यर्थः ॥ ४ ॥
मूलम्
रायामीशो रहितो भरन्त्यै रां रां वहन्त्याहितः रायां पतिं रां रां धरते धरित्र्यै रां वहतोद्वहाय स्वाहा ॥ ५ ॥
व्याख्या
रायां “रै ऐश्वर्ये” इति धातुसिद्वैश्वर्यवाचकरैशव्दाभिहितानामैश्वर्याणाम् ईशः तद्भोगार्हः परमतमः प्रभुः रहितः ताभिरैश्वर्यैर्विहीनः चतुर्दशाब्दप्रमाणवनवासहेतुकपितृवाक्यपरिपालनद्वारा समस्तैश्वर्यरहित इत्यर्थः । रां सकलप्राणिपोषकां रां भूमिं प्रति वहन्त्या आत्मसौशील्यानुकूलप्रभुसेवां वाञ्छन्त्या अतिभक्तिभरसहितभरतोपयुजा सकलप्रजया भरन्त्यै सकलप्राणिसंरक्षणमाप प्रक्रियायै रां आहितः भूमिं प्रति तत्प्राप्तिं प्रति यः वनवासात्पुरमागच्छेति महाभक्तिपुरस्कृतप्रयत्नेन प्रार्थितः यः रायां पतिं
[[९७]]
प्रसिद्धक्षत्रियधर्मरूपाणामैश्वर्याणां पतिम् अत्र विभक्तिव्यत्ययश्छान्दसः । “बहुलं छन्दसि” इत्यत्र बहुलग्रहणादतः पतिः प्रतिष्ठापक इत्यर्थः । यः रां स्वीयपठनश्रवणधारणानुष्ठानैः परिपावयित्रीं सकललोकान् रां रावयति समस्तदुरितातिगा ऋग्यजुस्सामात्मिका श्रुतिः तां धरते तत्प्रतिपाद्यत्वेन प्रतिष्ठां धत्ते । प्रतिपाद्यमाहात्म्य इत्यर्थः । यः पुनरपि चतुर्दशाब्दसङ्कल्पितवनवासप्रतिज्ञानिवृत्त्यनन्तरं धरित्र्यै श्रीमदयोध्याभूमिप्राप्त्यै हेतुभूतां रां सकललोकपावनहेतुभूतश्रीरामायणकथारूपिणीं कीर्तिसम्पत्तिं वहतः वहते । अत्रापि विभक्तिव्यत्ययश्छान्दसः । उद्वहाय अवतारविशेषेऽपि परमपावनशक्तिवहाय श्रीरामस्वरूपाय परमात्मने स्वाहा नम इति सूत्रार्थः ॥ ५ ॥
मूलम्
यो ब्रह्मशब्दः प्रणवः प्रधानः शब्दः शब्दान्तरात्मनित्यो वियन्तः यत्तः प्रतरन् प्रकामं प्राजापत्यं प्रतरन् प्रकुर्वन् भूयो भूत्यै अचरं चराय स्वाहा ॥ ६ ॥
व्याख्या
उत्तरप्रतिपाद्यमानायाः न्यासविद्यायाः प्रधानभूतप्रणवस्वरूपप्रतिपादनमुखेन न्यासविद्याफलं च प्रतिपादयति —– यो ब्रह्मशब्द इत्यादिना । यो ब्रह्मशब्दवाच्यप्रणवः । “ओमिति ब्रह्म” इति श्रुतिः । तस्य प्रधानोऽयं शब्दः शब्दान्तरात्मशब्दबुद्धिकर्मणां त्रित्रिक्षणावस्थायित्वात् शब्दनाशेऽपि परमात्मनो नाशाभावात् नित्य इत्युक्तम् ।
कठवल्लिकोपनिषदि-
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥
एतद्ध्येवाक्षरं ब्रह्म ह्येतदेवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥[[९८]]
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥
इति ॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥
अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः ।
उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते ।
मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥
सर्वशेषिंस्तवाहमिति प्रपत्तिप्रतिपाद्यद्वारा प्रपन्नस्य प्राप्यं प्रतिपादयति - वियत इत्यादिना । वियत्तः आकाशात्परं प्रतरन् स्वर्गादिकमतिक्रम्य प्रकामम् अत्यन्तं प्राजापत्यं प्रजापतिलोकं प्रतरन् प्रकुर्वन् प्रकर्षेण ब्रह्मलोकमपि तरणं कुर्वन् भूयो भूत्यै नित्यैश्वर्याय अणिमाद्यष्टैश्वर्यानपेक्षया नित्यत्वात्
अपहत-पाप्मा विजरो विमृत्युर्विशोको विजिघित्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः
इति गुणाष्टकाविर्भावायार्चिरादिमार्गेण गत्वा सायुज्यं प्रतिपन्नायेति प्रपन्नास्ते तपस्विनः भक्तास्तपस्विनः ।
किंकरा मम ते नित्यं भवन्ति निरुपद्रवाः ॥
लोकेषु विष्णोर्निवसन्ति केचित्समीपमृच्छन्ति च केचिदन्ये ।
अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥
सायुज्यमुभयोरत्र भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता ।
सामरस्यं हि सायुज्यं वदन्ति ब्रह्मवादिनः ॥
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति ॥
[[९९]]
वसिष्ठकरालजनकसंवादे -
परेण परधर्मे च भवत्येष समेत्य वै ।
विशुद्धधर्मा शुद्धेन बुधेन च सुबुद्धिमान् ॥
विमुक्तधर्मा मुक्तेन समेत्य भरतर्षभ ।
वियोगधर्मणा चैवावियोगात्मा भवत्यपि ॥
विमोक्षणाविमोक्षश्च समेत्येह तथा भवेत् ।
शुचिकर्मा शुचिश्चैव भवत्यमिति …. त्पमान् ॥
विमलात्मा च भवति समेत्य विमलात्मना ।
केवलात्मा तथा वैषः केवलेन समेत्य वै ॥
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमुपाश्नुते ।
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरस्त्वं प्रतिगृह्य चार्धं सनातनं ब्रह्म विशुद्धमाद्यम् ॥
इति ॥
अष्टैश्वर्यं मानसोल्लासे -
अत्यन्तमणुषु प्राणिष्वात्मत्वेन प्रवेशनम् ।
अणिमासंज्ञमैश्वर्यं व्याप्तस्य परमात्मनः ॥
ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत्तत्त्वसंहृतेः ।
भवाश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाह्वयम् ॥
परमाणुसमाङ्गस्य समुद्धरणकर्मणि ।
गौरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः ॥
महामेरुसमाङ्गस्य समुद्धरणकर्मणि ।
अत्यल्पत्वमतुल्यत्वं लघिमेति प्रकीर्त्यते ॥
पातालवासिनः पुंसो ब्रह्मलोकावलम्बनम् ।
प्राप्तिनामकमैश्वर्यं सुष्ठुहाष्ट्र्यौपयोगिनाम् [१] ॥[[१००]]
आकाशगमनादीनामन्यासां सिद्धिसम्पदाम् ।
स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते ॥
स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् ।
प्राकाम्यमिदमैश्वर्यमिति केचित्प्रचक्षते ॥
स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्तकर्तृता ।
सूर्यादिना वियोक्तृत्वमीशित्वमभिधीयते ॥
सलोकपालाः सर्वेऽपि लोकाश्चेद्वशवर्तिनः ।
तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् ॥ इति ॥
चराय संसरते प्रत्यगात्मने अचरन्नाशरहितमैश्वर्यं कुर्वन् । यद्वा अचरन्नाशरहितमैश्वर्यं कुर्वन् चराय सृष्टिस्थितिसंहारादिगतिं कुर्वते तुभ्यमित्यर्थः ॥
विष्णुपुराणे -
प्राजापत्यं ब्राह्मणानां ब्राह्मं सन्न्यासिनां स्मृतम् ।
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ते ।
तेषां तत्परमस्थानं यद्वै पश्यन्ति सूरयः ॥ इति ॥
प्रधानशब्द इत्यनेन त्रिमात्रशब्दः । एवं श्रूयते उपनिषदि –
यः पुनरेतत्त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्
इति । प्रणवशब्दार्थः अथर्वशिरसि -
अरसादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋचो यजूंषि सामान्यथर्वाङ्गिरसश्च यज्ञब्रह्म ब्राह्मणेभ्यः प्रणवयति । तस्मादुच्यते प्रणवः
इति । न्यास-विद्यास्वरूपमुत्तरत्र प्रतिपाद्यते ॥ ६ ॥
मूलम्
[[१०१]]
यो वा त्रिमूर्तिः परमः परश्च
त्रिगुणं जुषाणः सकलं विधत्ते ।
त्रिधा त्रिधा वा विदधे समस्तं
त्रिधा त्रिरूपं सकलं धराय स्वाहा ॥ ७ ॥
व्याख्या
त्रिविक्रमस्यायं मन्त्रः । यः परमात्मा विष्णुः त्रिमूर्तिः ब्रह्मविष्णुशिवात्मकः ।
विष्णुपुराणे -
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥ इति ॥
यद्वा – त्रिविक्रमत्वात्पदविक्षेपभेदेन त्रिमूर्तिः
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्
इति श्रुतिः । परमः त्रिविक्रमावतारापेक्षया ब्रह्मरुद्रादिषु समाभ्यधिकाभावात् परमशब्दः । परश्च अवतारत्वेऽपि उत्कृष्टः । त्रिगुणं जुषाणः “जुषी प्रीतिसेवनयोः” इति त्रिगुणेषु सात्त्विकविकराजसतामसेषु प्रीतिं कुर्वन् । यद्वा - सेवमानः सकलं चिदचिदात्मकं प्रपञ्चं विधत्ते ।
व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः
इति विष्णुरेव ब्रह्मशब्दवाच्य इति ज्ञापयितुं ब्रह्माभ्यधितिष्ठतु भुवनानि धारयन्निति ।
नमो विष्णवे बृहते करोमि ।
बृहत्वात् बृंहणत्वाच्च तद्ब्रह्मेति प्रकीर्तितम् ॥ इति ॥ यद्वा — विधत्ते जगत्सृष्ट्यादिश्चरभेदेन त्रिधा त्रिधा वा विदधे समस्तं ह्रस्वदीर्घसमरूपेण गार्हपत्यान्वाहार्याहवनीय इति त्रिधाग्निरूपेण उत्तममध्यमाधमस्वर्गनरकमोक्ष इत्यादि समस्तं त्रिधा त्रिधा विदधे चकार त्रिरूपं स्त्रीपुन्नपुंसकादि त्रिधा भूत्वा त्रिविक्रमरूपी भूत्वा निवहं स्वस्वकीयसहितैर्देवमनुष्यादिभिरावृतं विधत्ते धृतवान् तस्मै ॥ ७ ॥
मूलम्
[[१०२]]
यद्वा कृतममृतञ्चराणां यत्सर्वनिष्ठमजरं समस्तं यत्पश्यमानमात्माभिजुषाणमन्तस्सुषुप्त्यानभिगम्यमानाय स्वाहा ॥ ८ ॥
व्याख्या
त्रिविक्रमावतारे प्रत्यक्षे कृतस्य परमात्मानपरं रूपं स्वप्नेऽपि देवैर्द्रष्टुमशक्यमित्याह – यच्चेति । कृतं त्रिविक्रमरूपेण कृतं सर्वनिष्ठमन्तर्व्याप्तमजरमपहतपाप्मत्वादियुतं समस्तं बहिश्च व्याप्तम् । यद्वा परिदृश्यमानं सर्वमात्माभिजुषाणम् ।
आत्मा बुद्धौ धृतौ जीवे स्वभावे परमात्मनि । इति ॥
जीवात्मना सेवमानमेवंविधरूपमन्तर्हृदये सुषुप्त्या स्वप्नेनापि अमृतंचराणाम् अमृतं चरन्तीति अमृतंचरा देवाः । तेषामपि अनभिगम्यमानाय ध्यातुमशक्याय । यद्वा — चराणां देवादीनाममृतं कृतं समुद्रमथनादिकं कृतम् । यद्रूपं तत्पश्यमान चेदपि सुषुप्त्या स्वप्नेनापि प्राप्तुमशक्त्य[[??]]मिति तस्मै ॥ ८ ॥
मूलम्
कः कोशमङ्गे कुशलं विधाय साकृतं कृण्वतेऽग्र इदँ सुकान्तं ककुद्वते ते कामचरं चराय स्वाहा ॥ ९ ॥
व्याख्या
कः कोशं ब्रह्माण्डकोशमङ्गे स्वाङ्गे कुशल क्षेमसहितं विधाय साकृत आकृतिसहितं कृण्वते तत्र ब्रह्माणं कुर्वते अग्रे सृष्ट्यादौ ककुद्वते श्रेष्ठचराय ब्रह्मणे सुकान्त मनोहरं कामचरम् अण्डकोशं विधाय तत्र साकृतम् आकृतिसहितब्रह्माणं कृण्वते तुभ्यम् । अन्यत्रोपनिषदि -
अथ पुनरेव नारायणः सोऽन्यं कामो मनसाध्यायत ।
तस्य ध्यानान्तस्थस्य ललाटात् स्वेदोपहताः प्रपत आपस्तासु तेजो हिरण्मयमण्डलस्तत्र ब्रह्मा चतुर्मुखोऽजायत
इति ॥ ९ ॥
मूलम्
[[१०३]]
यं यज्ञैर्मुनयो जुषन्ति यं देवाः परमं पवित्रं भविष्यन्त्यार्तिषु प्रणताः प्रधानाः यं सूरयो जपन्तो योगिनः सूक्ष्मैः सुप्रदर्शनैः पश्यन्तीश्वराय स्वाहा ॥ १० ॥
व्याख्या
यं परमात्मानं महाविष्णुं यज्ञैः “यज देवपूजासङ्गतिकरणदानेषु” इति समाराधनैः पाकयज्ञहविर्यज्ञसोमयज्ञैः ।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ इति ॥
यज्ञेन दानेन तपसा नाशकेन ब्राह्मणा विविदिषन्ति
इति श्रुतेः । द्रव्ययज्ञादिभिर्मुनयः वैखानसाः ।
वैखानसैर्मुनिगणैः नित्यमाराधितोऽमलैः ।
वैखानसैर्मुनिश्रेष्ठैः पूजिताय वेङ्कटेशाय नमः ॥
इति पद्मवचनार्चनम् । अत्र प्रतिपादिता मुनय आपस्तम्बादयः । किंनरः स्वरिति चेत् ।
गारुडे -
पुरा चतुर्मुखादेशाच्चत्वारो मुनयोऽमलाः ।
प्रणीय वैष्णवं शास्त्रं भूमावभ्यर्च्य यं नृपः ॥
मरीचिर्मन्दरे विष्णुमर्चयामास केशवम् ।
आदेशाद्ब्राह्मणो विष्णुं श्रीनिवासे त्रिरर्चयेत् ॥
काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगुर्मुनिः ।
नन्दायां दक्षिणे सीम्नि श्रमात्तरे [?] सखा ।
तच्छुद्धौ शुचिषं नाम भृगुणा स्थापितो हरिः ॥
इति । ब्रह्मकैवर्ते पुष्करतीर्थवैभववर्णने – “निम्नगानां यथा गङ्गा” इत्यारभ्य,
[[१०४]]
यथा मुनीनां विखना आदिभूत उदाहृतः ॥
इति श्रुतिः ॥
धेनुर्वहाणामदितिस्सुराणां ब्रह्मा ऋभ्रूणां विखना मुनीनाम् ॥
इति ॥ एवं श्रुतिस्मृतिपुराणादिमुख्यत्वेन वैखानसानामेव मुनिशब्दवाच्यत्वप्रतिपादनात् यज्ञैर्मुनयो जुषन्ति इत्युक्तत्वात् । आपस्तम्बादीनामद्वारभगवद्भजनविधिप्रतिपादनाभावात् । पञ्चपूजाप्रतिपादकस्य यमित्यत्र एकवचनास्वारस्याभावाच्च । वैखानसाः मुनयः जुषन्ति । यज्ञैः प्रीणयन्ति सेवां कुर्वन्तीति वा । यज्ञशब्द आराधनपरः यं महाविष्णुं प्रधानदेवाः ब्रह्मरुद्रादयः ।
न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥
इति ॥ रूपबलप्रभावातिशयेन चिन्त्यत्वात् परमम् इत्युक्तम् । पवित्रम् उपनिषदि
स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः
इति ।
अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतयः ।
तान्वै कुदृष्टसाम्यत्वपरत्वादप्युपासते ॥
इति ॥ अतएव पवित्रमित्युक्तम् । यद्वा स्वभक्तान् वज्रादपि त्रायत इति पवित्रशब्दप्रयोगः ।
दन्ता गजानां कुलिशाग्रविष्णुराशीर्णयत्तेन जलं ममैतत् ।
महद्विपत्तित्वविनाशनो यो जनार्दनानुस्करणानुभावः ॥
इति ॥ अमृतापहरणे गरुडेन्द्रयोर्युद्धे च द्रष्टव्यम् । अत एव आर्तिषु प्रणता भविष्यन्ति । श्रीमद्रामायणे बालकाण्डे -
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ।
इत्यादि ।
वधार्थं वयमायातास्तस्य वै मुनिभिस्सह ।
सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥[[१०५]]
त्वं गतिः परमो देवः सर्वेषां नः परन्तपः ।
वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥
एवमुक्तः सुरगणैः विष्णुस्त्रिदशपुङ्गवः ।
पितामहपुरोगांश्च सर्वलोकनमस्कृतः ॥
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ।
भयं त्यजत भद्रं वो वधार्थं युधि रावणम् ॥
सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ।
हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ॥
इत्यादि ॥
भागवते —
पुरासुराय गिरिशो वरं दत्वाप सङ्कटम् ।
इत्यारभ्य अन्ते तु “सङ्कटं लेभे नर चितः शिव” इत्युक्तम् [?] बाणासुरयुद्धे च द्रष्टव्यम् ।
प्रसादयामास भवो देवं नारायणं प्रभुम् ।
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥
इति ॥ अनेन ब्रह्मरुद्रादीनामुपास्यराहित्यं तत्प्रयुक्तव्रतानामप्युपादेयराहित्यं च दर्शितम् । प्रधानधर्मार्थकाममोक्षचतुर्विधपुरुषार्थेषु स्वाभिमतार्थप्रधानमार्तिषु स्वाभिमतार्थालाभे नाशे च प्रणता भविष्यन्ति ।
गीतायाम् -
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
इति ॥
[[१०६]]
यं परमात्मानं यं मन्त्रमिति काकाक्षिन्यायेनोभयत्रान्वयः । यं मन्त्रराजमष्टाक्षरं यं विष्णुषडक्षरं मन्त्रं जपन्तः । पराशरः-
त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ।
यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ।
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ॥
अपरैरश्रुतं किञ्चिद्य उपांशुजपः स्मृतः ।
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥
मन्त्रार्थचिन्तनं भूयः कथ्यते मानसो जपः ।
त्रयाणां जपयज्ञानां श्रेष्ठं स्यादुत्तरोत्तरम् ॥
अष्टाक्षरश्च यो मन्त्रो द्वादशाक्षर एव च ।
षडक्षरश्च यो मन्त्रो विष्णोरमिततेजसः ॥
एते मन्त्राः प्रधानाः स्युर्वैदिकाः प्रणवैर्युताः ।
प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ॥
इति ॥ सूरयो नित्यसूरयः अनन्तगरुडादयः पश्यन्ति ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
इति श्रुतिः । यद्वा ब्रह्मविदः पश्यन्ति योगिनः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरित्यष्टाङ्गयोगिनः ध्यानेन पश्यन्ति । यद्वा -
योगः सन्नहनोपायध्यानसङ्गतिभक्तिषु ।
इति भगवत एवोपायोपेयत्वम् । अनेन सिद्धरूपा प्रपत्तिः साध्यरूपा प्रतिपाद्यते ।
[[१०७]]
समर्थपुरुषार्थानां साधकस्य दयानिधेः ।
प्रमतः पूर्वसिद्धत्वात्सिद्धोपायविदो विदुः ॥
भक्तिप्रपत्तिप्रमुखैस्तद्वशीकारकारणम् ।
तत्तद्बलानि साध्यत्वात्साध्योपायं विदुर्बुधाः ॥
इति ॥
ईदृशः परमात्मा यः प्रत्यगात्मा तथेदृशः ।
तत्सम्बन्धानमिति [?] योगः प्रकीर्तितः ॥
यद्वा -
योगःसन्नहनोपायध्यानसङ्गतिभक्तिषु ॥
इति ॥
स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधया स्वार्धं स्वस्मिन्न्यस्यति मां स्वयम् ॥
इति ॥
विश्वास-टिप्पनी
स्वामी स्व-शेषं स्व-वशं
स्व-भरत्वेन निर्भरम् ।
स्व-दत्त–स्व-धिया स्वार्थं
स्वस्मिन् न्यस्यति मां स्वयम् +++(प्रधान-कर्ता सन्)+++ ॥ 3 ॥
इति वेङ्कटनाथार्य-कृते न्यास-दशके। अयम् एव पाठो ऽग्रे ८-तमे।
सर्वदानुसन्धानम् —
स्वोज्जीवनेच्छा यदि ते स्वदत्तायां स्पृहा यदि ।
आत्मनिक्षेपणं दास्यं हरेः स्वाम्यं सदा स्मरेत् ॥
इति ॥ कर्मयोगिनस्तं सुप्रदर्शनैः उद्दिष्टादिकालव्यतिरिक्तकालेषु भगवदाराधनादिकं कुर्वन्ति । भगवद्भक्ताः कैङ्कर्यपराः परात्मयोगिन इत्युच्यन्ते । एतेषां भगवद्विश्लेषमसहमानानाम् ।
न प्रदोषे हरिं पश्येत् …. ।
यदि पश्येत्प्रमादेन द्वादशाब्देन नश्यति ॥
इति हरिदर्शननिषेधे नास्त्येव स्मृतिः -
अर्चकान् परिचारांश्च वैष्णवान् ज्ञानिनो यतीन् ।
दासीदासादिकांश्चैव ………. ।
तापत्रयानलोज्वालामालिते देहमन्दिरे ।
विष्णुभक्तिरसैः शान्तिं जानन् कः कालमीक्षते ॥ [[१०८]]कालोऽस्ति यज्ञे कालोऽस्ति दाने कालोऽस्ति वै जपे ।
सर्वेशदर्शने कालो वक्ष्यमाणस्तदञ्चितः ॥
इति ॥
मौनं वाचोनिवृत्तिः स्यान्नात्र भाषणसंस्कृतम् ।
नान्यदेवेरणं विष्णोः सदा ध्यायेच्च कीर्तयेत् ॥
सुप्रदर्शनैरित्युक्तं सुप्रदर्शनैः पश्यन्ति । अत्र प्रणता इत्यनेन परमात्मनो नारायणस्य पादारविन्दे न्यस्तभरा उच्यन्ते । परमात्मनि नारायणे सर्वभारसमर्पणात् ।
संज्ञातनैरपेक्षं तु नम इत्युच्यते बुधैः ।
भरन्यासबलादेव स्वयत्नविनिवृत्तये ।
अत्रोपायान्तरस्थाने रक्षको विनिवेशते ॥
इति ॥ प्रकर्षेण नताः प्रणताः । नमःशब्दस्य स्थूलसूक्ष्मपरमो जन इति अहिर्बुध्न्येन व्याख्यातम् ।
प्रेक्षावतः प्रवृत्तिर्या प्रह्वभावात्मिका स्वतः ।
उत्कृष्टः परमुद्दिश्य तन्नमः परिगीयते ॥
लोके चेतनवर्गस्तु द्विधैव परिगीयते ।
ज्यायांश्चैव तथाज्यायान् नैवाख्या विद्यते परा ॥
कालतो गुणतश्चैव प्रकर्षो यत्र तिष्ठति ।
शब्दस्यौन्मुख्यया वृत्त्या ज्यायानित्यवलम्ब्यते ॥
अतश्चेतनवर्गस्तु स्मृतः प्रत्यवरो बुधैः ।
तज्ज्यायांश्च तयोर्योगः शेषशेषितयेष्यते ॥
अज्यायांसः परे सर्वे ज्यायानेको मतः परः ।
नन्त्रनन्तृस्वभावेन तेषां तेन समन्वयः ॥[[१०९]]
नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः ।
नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः ॥
निश्चयो हि स्वभावोऽयं नन्तृनन्तव्यतात्मकः ।
उपाधिरहितो नायं येन भावेन चेतनाः ॥
नमनं जायते तस्मै तद्वा नमनमुच्यते ।
भगवान् नः परो नित्यमहं प्रत्यवरः सदा ॥
इति भावो नमः प्रोक्तो नमसः कारणं हि सः ।
नमयत्यपि वा देवं प्रह्वभावयति ध्रुवम् ।
अतो वा नम उद्दिष्टं यत्तन्नामयति स्वयम् ॥
वाचा नम इति प्रोच्य मनसा वपुषा च यत् ।
तन्नमः पूर्वमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते ॥
इयं करणपूर्तिः स्यादङ्गपूर्तिमिमां शृणु ।
शाश्वती मम संसिद्धिरियं प्रह्वो भवामि यत् ॥
पुरुषं परमुद्दिश्य न मे सिद्धिरतोऽन्यथा ।
इत्यङ्गमुदितं श्रेष्ठं फलेच्छा तद्विरोधिनी ॥
अनादिवासनारोहादनैश्वर्यत्वभावजात् ।
मलावकुण्ठितत्वाच्च दृक्क्रियाविहतिर्हि या ॥
तत्कार्पण्यं तदुद्बोधो द्वितीयं ह्यङ्गमीदृशम् ।
स्वस्वातन्त्र्यावबोधस्थं तद्विरोध उदीर्यते ॥
परत्वे सति देवोऽयं भूतानामनुकम्पया ।
अनुग्रहैकधीर्नित्यमित्येतद्भक्तवत्सलः ॥[[११०]]
उपेक्षको यथा कर्मफलदायीति या मतिः ।
विश्वासात्मतया यत्तो त्वदीयं वा तु वै सदा ॥
एवंभूतोऽप्यशक्तः सन् नस्त्राता भवितुं क्षमः ।
इति बुद्ध्वा स्वदेवस्य गोप्तृशक्तिनिरूपणम् ॥
चतुर्थमङ्गमुद्दिष्टममुष्या व्याहतिः पुनः ।
उदासीनो गुणाभावादित्युत्प्रेक्षा निमित्तजा ॥
स्वस्वस्वामिनिवृत्तिर्या प्रातिकूल्यविवर्जनम् ।
तदङ्गं पञ्चमं प्रोक्तमाज्ञाव्याख्यातवर्जनम् ॥
अशास्त्रीयोपवासे तु तद्वयाख्यात उदीर्यते ।
चराचराणि भूतानि सर्वाणि भगवद्वपुः ॥
अतस्तदानुकूल्यं मे कार्यमित्येव निश्चयः ।
षष्ठमङ्गं समुद्दिष्टं तद्विघाते निराकृतिः ॥
पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् ।
स्थूलो यो नमनस्यार्थः सूक्ष्ममन्यं निशामय ॥
चेतनस्थं यदा मन्त्रं स्वस्मिन् स्वीये च वस्तुनि ।
नम इत्यक्षरद्वन्द्वं तद्धाम ह्यन्यवाचकम् ॥
अनादिवासनारूढमिथ्याज्ञाननिबन्धनात् ।
आत्मात्मीयपरार्चस्ता यास्वतन्त्रस्वतामिति [?] ।
मेन एवं समीचीना बुद्ध्या साऽत्र निवार्यते ॥
नाहं मम स्वतन्त्रोऽहं नास्तितस्स्वार्थ उच्यते ।
न मे देहादिकं वस्तु स शेषः परमात्मनः ॥
इति बुद्ध्वा निवर्तन्ते तानि सेयं मनीषिका ।
अनादिवासनाजातैर्बोधैस्तैस्तैर्विकल्पितैः ॥[[१११]]
रुषितं यद्दृढं चित्तं स्वातन्त्र्यं सत्त्वधीमयम् ।
चित्तद्वैष्णवसार्वात्म्यप्रतिबोधसमुत्थया ॥
नम इत्यनया वाचा मन्त्रात्स्वस्मादपोह्यते ।
इति ते सूक्ष्म उद्दिष्टः परमं स्वं निशामय ॥
पन्था नकार उद्दिष्टो मः प्रधान उदीर्यते ।
विसर्गः परमेशस्तु तत्रार्थोऽयं निरूप्यते ॥
अनादिपरमेशस्तु शक्तिमान् पुरुषोत्तमः ।
स्वप्राप्तये प्रधानोऽयं पन्था नमननामवान् ॥
इति ते त्रिविधः प्रोक्तो नमःशब्दार्थतां प्रति ।
निवेदयेत् स्वमात्मानं विष्णोरमिततेजसि ॥
तदात्मना मनः शान्तस्तद्विष्णोरिति मन्त्रतः ।
शरीरपातकाले च सार्थस्वानुग्रहं स्वयम् ॥
परिपाकं प्रपन्नानां प्रयच्छति यथातथम् ।
अङ्कोलतैलसिक्तानां बीजानामचिराद्यथा ।
विपाकः फलपर्यन्तस्तथात्रेति निदर्शितः ॥ १० ॥
इति प्रथमोऽनुवाकः