गोत्र-प्रवराः

TODO: परिष्कार्यम्

अथ प्रथमः खण्डः अथ ऋषिगोत्रप्रवरान् व्याख्यास्यामः || १ || विश्वामित्रजमदग्निभरद्वाज गौतमात्रिवसिष्ठकाश्यपानां सप्तर्षीणा- मगस्त्याष्टमानां यदपत्यं गोत्रं तस्मिन् गोत्रे वराणामृषीणां प्रवराणां प्रवरः ।। २ ।। प्रवरकाले यजमानस्य प्रवरं यथोक्तं होता चाध्वर्युश्च शंसति ।। ३ तेषां विश्वामित्र कौशिकानां त्र्यार्षेयः प्रवरो भवति वैश्वामित्र- देवरात औदलेति (देवलेति) होता, उदलवत् ( देवलवत्) देवरातवत् विश्वामित्रवदित्यध्वर्युः ॥ ४ ॥ रौक्षकाणां (रौकथ्यकानां ) त्र्यार्षेयः वैश्वामित्ररौक्षक (रौकथ्य) रेवणेति होता, रेवणवत् रौक्षकवत् ( रौकथ्यवत् ) विश्वामित्रवदित्य- ध्वर्युः ॥ ५ ॥ वैश्वामित्र दैवश्रवसदैवतरसानां त्र्यार्षेयः वैश्वामित्रदैवश्रवसव- दैवतरसेति होता, देवतरसवत् देवश्रवोवत् विश्वामित्रवदित्यध्वर्युः ॥ ६ ॥ लोहितानां त्र्यार्षेयः वैश्वामित्राष्टक लौहितेति होता, लोहितवत् अष्टकवत् विश्वामित्रवदित्यध्वर्युः ॥ ७ । आजानां त्र्यार्षेयः वैश्वामित्र माधुच्छन्दसाजेति होता, अजत्रन्मधु- च्छन्दोवत् विश्वामित्रर्वादित्यध्वर्युः ॥ ८ ॥ कातानां व्यार्षेयः वैश्वामित्रकात्याक्षीलेनि होता, अक्षीलवत् कतवत् विश्वामित्रवदित्यध्वर्युः ॥ ९ ॥ W WordPress.com अथ द्वितीयः खण्डः —ANOCRORE- भार्गव जामदग्न्यवत्स्यानां पञ्चार्षेयः सप्तार्षेयो वा भार्गवच्याव- नामवानौ जामदग्न्येति होता भार्गवच्यावन जामदग्न्यवात्स्यानवानौर्व वैदलेति वा, जमदग्निवदुर्ववत् अभवानवत् च्यवनवत् भृगुवदित्यध्वर्युः विदलवदुर्ववत् अभवानवत् वत्सवत् जमदद्भिवत् च्यवनवत् भृगुवदिति वा ।। १ ।। आष्र्ष्टिषेणानां पञ्चार्षेयः भार्गवच्यावनानवानाष्र्ष्टिषेणानृपेति (भार्ग- वच्यावनाभावानैन्द्रार्ष्टिषेणेति) होता, अनृपचदर्ष्टिषेणवत् (अर्ष्टिषेणवत् अनवानवत् च्यवनवत् भृगुवदित्यध्वर्युः ॥ २ ॥ यास्कानां व्यार्षेयः भार्गववैत हव्य सावेदसेति होता, सवेदसवत् वीतहव्यवत् भृगुवदित्यध्वर्युः ॥ ३ ॥ (मित्रयुवानां) भृगूणां पार्षेयः भार्गववाध्यश्व दैवोदासेति होता, दिवोदासवत् वध्यश्ववत् भृगुवदित्यध्वर्युः ॥ ४ ॥ वैन्यानां त्र्योर्षेयः भार्गववैन्यपार्थेति होता, पृथुवत् बेनवत् भृगुवदित्यध्वर्युः ॥ ५ ॥ शौनकानामेकार्षेयः शौनकेति होना, शुनकवदित्यध्वर्युः ॥ ६ ॥ गार्त्समदानामेकार्षेयः गार्त्समदेति होता गृत्समद वदि- त्यध्वर्युः ॥ ७ ॥ इति एकादशप्रश्ने द्वितीयः खण्डः || W WordPress.com अथ तृतीयः खण्डः भारद्वाजानां व्यार्षेय: आंगिरसबार्हस्पत्य भारद्वाजेति होता भरद्वाजवत् वृहस्पतिवदं गिरोवदित्यध्वर्युः ॥ १ ॥ ऋक्षाणां (रौकथ्यानां पञ्चार्षेयः आंगिरसवार्हस्पत्य भारद्वाज वा (द) न्दनमातवचसेति होता मतवचोवत बन्द (द) नवत् भरद्वाजवत् बृहस्पतिवत् अंगिरोवदित्यध्वर्युः ॥ २ ॥ गार्ग्याणां व्यार्षेयः आंगिरस शैन्य गायेंति होता गर्गवत् शिनिवत् अंगिरोत्रदित्यध्वर्युः ।। ३ ।। विष्णुवृद्धानां त्र्यार्षेयः आंगिरस पौरुकुत्स वासदस्येति होता त्रसदस्यवत् पुरुकुत्सवत् अंगिरोवदित्यध्वर्युः ॥ ४ ॥ कण्वानां त्र्यार्षेय: आंगिरस आजमीढ काण्वेति होता कण्ववत् अजमीढवत् अंगिरोवदित्यध्वर्युः ॥ ५ ॥ हारीतानां व्यार्षेयः आंगिरस आंबरीष यौवनाश्वेति होता युवनाश्ववत् अंबरीपवत् अंगिरोवदित्यध्वर्युः ॥ ६ ॥ सांकृत्यनां त्र्यार्षेयः आंगिरस गौरुवीत सांकृत्येति होता संकृतिवत् गुरुवीतवत् अंगिरोवदित्यध्वर्युः ॥ ७ ॥ राधीतराणां त्र्यार्षेय: आंगिरस वैरूप राधीतरेति होता रधीतर- वत् विरूपवत् अंगिरोवदित्यध्वर्युः ॥ ८ ॥ मौद्गल्यानां त्र्यार्षेय: आंगिरस भार्म्यश्व मौद्गल्येति होता मुद्गलवत् भर्म्यश्ववत् अंगिरोवदित्यध्वर्युः ॥ ९ ॥ इति एकादशप्रश्ने तृतीयः खण्डः । W WordPress.com अथ चतुर्थः खण्डः आंगिरसगौतमानां त्र्यार्षेय: आंगिरसऽऽयास्य गौतमेति होता गौतमवत् अयास्यवत् अंगिरोवदित्यध्वर्युः ॥ १ ॥ शारद्वतानां त्र्यार्षेयः आंगिरस गौतम शारद्वतेति होता शरद्वद्वत गौतमवत् अंगिरोवदित्यध्वर्युः ॥ २ ॥ कौमंडगौतमानां पञ्चार्षेय: आंगिरसौचत्थ्यकाक्षीवत गौतम कौमण्डेति होता कुमण्डवत् गौतमवत् कक्षीवतवदुचथ्यवत् अंगिरो- वदित्यध्वर्युः ॥ ३ ॥ दीर्घतमानां पञ्चार्षेयः आंगिरसौचथ्य काक्षीवत गौतम दैर्घ्यतमेति होता दीर्घतमवत् गौतमवत् कक्षीवतवत् उचथ्यवत् अंगिरोवदित्यध्वर्युः ॥ ४ ॥ कारेणुपालानां योर्षेय: आंगिरस गौतम कारेणुपालेति होता करेणुपालवत् गौतमवत् अंगिरोदित्यध्वर्युः ॥ ५ ॥ औशनस गौतमानां त्र्यार्षेय: आंगिरस गौतम औशन सेति होता उशनसवत् गौतमवत् अंगिरोवदित्यध्वर्युः ॥ ६ ॥ वामदेवानां व्यार्षेयः आंगिरस गौतम वामदेवेति होता वाम- देववत् गौतमवत् अंगिरोवदित्यध्वर्युः ॥ ७ ॥ इति एकादशप्रश्ने चतुर्थः खण्डः । WO W WordPress.com अथ पञ्चमः खण्डः -- आत्रेयानां त्र्यार्षेयः आत्रेयार्चनानस श्यावाश्वेति होता श्ववाश्ववत् अर्चनानसवत् अत्रिवदित्यध्वर्युः ॥ १ ॥ याद्भुतकानां त्र्यार्षेयः आत्रेयार्चनानस वाद्भुतकेति होता वद्भुतकवत् अर्चनानवत् अत्रिवदित्यध्वर्युः ॥ २ ॥ गाविष्ठिराणां त्र्यार्षेयः आत्रेयार्चनानस गाविष्टिरेति होता गविष्ठिरवत् अर्चनानसवत् अत्रिवदित्यध्वर्युः || ३ || वामदेवानां त्र्यार्षेयः आत्रेयार्चनानस वामदेवेति होता वामदेववत् अर्चनानसवत् अत्रिवदित्यध्वर्युः ॥ ४ ॥ पौर्वातिथ्यानां त्र्यार्षेयः आत्रेय आर्चनानस पौर्वातिथ्येति होता पूर्वातिथिवत् अर्चनानसवत् अत्रिवदित्यध्वर्युः ॥ ५ ॥ इति एकादशप्रश्ने पञ्चमः खण्डः । WO W WordPress.com अथ षष्ठः खण्डः -XOX- वासिष्ठानामेकार्षेयः वासिष्ठेति होता वसिष्ठवदित्यध्वर्युः ॥ १ ॥ ( वासिष्ठानां त्र्यार्षेयः वासिष्टशाक्त यपाराशर्येति होता पराशरवत् शक्तिवत् वसिष्ठवदित्यध्वर्युः ॥ ) कौण्डिन्यानां त्र्यार्षेयः वासिष्ठमैत्रावरुण कौण्डिन्येति होता कुण्डिनवत् मित्रावरुणवत् वसिष्ठवदित्यध्वर्युः || २ || औपमन्यवानां (रौपमन्यपानां) ज्यार्षेयः वासिन्द्रप्रमद भार- द्वसवेति (रौपमन्यपेति) होता (रोपमन्यपवत्) भरद्वसववदिन्द्रप्रमद- चद्वसिष्ठवदित्यध्वर्युः ॥ ३ ॥ पाराशर्याणां व्यार्षेयः वासिष्ट शाक्तय पाराशर्येति होता पराशर- वत् शक्तिवत् वसिष्ठवदित्यध्वर्युः ॥ ४ ॥ इति एकादशप्रश्ने षष्ठः खण्डः ।