वास्तु-सवन-प्रयोगः - अथ वास्तु-सवनं व्याख्यास्यामः नवे वास्तुन्युषितेपि सूतक-प्रेतकयोर् वापयित्वा। मृन्मयानि भाण्डानि पुराणानि त्यक्त्वा। नवानि परिगृह्य। अन्यान् परिच्छदांश् च यथोक्तं शोधयित्वा भूमि-यज्ञेनेष्ट्वा निवसेत्॥ यस्माद् वास्तु-सवनेन शुद्दिर् वस्तूनां वास्तु-सवनम् अस-गोत्रेण यजेतेत्युक्तत्वात्॥ अन्येन पुण्याहादि वास्तु-सवनं कर्तव्यम्।
पवित्रपाणिः स्वामिनः भवत्-पाद-मूले…….. गृह-शुद्ध्यर्ध्यं वास्तु-सवन-कर्म-कर्तुं योग्यता सिद्धिर् अस्त्विति भवन्तो ऽनुगृह्णन्तु।
प्र॥ “योग्यता-सिद्धिर् अस्त्वि"त्यनुज्ञाप्य।
वास्तु-सवन-कर्माङ्गं पुण्याहं करिष्य
इति सङ्कल्प्य। पुण्याहं कृत्वा। लौकिकाग्नावेव आघारं कृत्वा। धान्योपरि कुम्भं विन्यस्य॥ तं पूर्वोक्तवत् तन्तु-वेष्टनादिभिर् अलङ्कृत्य। “वास्तोष्पत” इति वास्तु-पुरुषम् आवाह्याभ्यर्च्ययेदिति दैविके भार्गवे उक्तम्॥ तथा कृत्वा।
[[175]]
ॐ भूः - ॐ श्री-गोविन्द-गोविन्द-गोविन्द……… गृह-शुद्ध्यर्थं वास्तु-सवनं करिष्ये।
अप उपस्पृश्य।
अदितेनु मन्यस्व…… प्रसुव॥
वास्तोष्पते। “वास्तोष्पते शग्मये"ति द्वाभ्यां यजेत।
वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः। यत्वेमहे प्रतितं नो जुषस्व शन्न एधि द्विपदे शं चतुष्पदे स्वाहा॥ (वास्तोष्पतय इदम्)। वास्तोष्पते शग्मया सँ सदाते सक्षीमहिरण्मयागातुमत्या। अवः क्षेम उतयोगेवरन्नो यूयम्पात स्वस्तिभिस्सदानस्स्वाहा। (वास्तोष्पतय इदम्)॥ भूमि-यज्ञाय स्वाहा, (भूमि-यज्ञायेदम्), यज्ञ-दैवतं प्रसोदर्यैस् स्वाहा - (यज्ञ-दैवतं प्रसोदर्या इदम्)। व्याहृतिः मेदिनी देवी वसुन्धरी स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितॄणां श्रोत्रं विष्णुर्मनस् स्वाहा। (मेदिन्या इदम्)। देवी हिरण्यगर्भिणी देवी प्रसोदरी। रसने सत्यायनेसीद स्वाहा। (मेदिन्या इदम्)। समुद्रवती सावित्री हनोदेवी मह्यकी, महाधरणि महोध्यतिस्थ स्वाहा। (मेदिन्या इदम्)। शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी, इन्द्रपत्नी व्याजनी सुरसित इह स्वाहा। (मेदिन्या इदम्)। वायुपरी जलशयनी स्वयं धारासत्यन्धो परिमेदिनी, सोपरिधत्तङ्गाय स्वाहा। (मेदिन्या इदम्)। [[TODO: परिष्कार्यम्]]
व्याहृतिः। अत्र मेदिन्यादि पञ्च-मन्त्राः भट्ट-भास्करीय-भाष्य-प्रकारेण लिखिताः पुण्याहं कृत्वा, “अहम् अग्ने, अग्निं गृह्णामि”, अग्निष्ठाद् दर्भ-मूलेन अग्निं गृहीत्वा “अहम् अग्ने अग्निं गृह्णामि”,
ममाग्नेग्निर्मामन्तरिक्षं, मार्गोऽहमस्मिन् प्रमदां कामये तुभ्यं मनसा प्रजापतये, अहमग्नेरग्निं गृह्णामि, दहनादशुद्दा श्शुद्दध्वं, अग्ने इदन्दीपयामि, [[TODO: परिष्कार्यम्]]
प्रथमादैन्द्रात् भुवङ्गादारभ्य वास्तुनः कुड्य-मूलात् बहिर् अन्तश् च वामं परीत्य ब्रह्म-स्थानात्, पर्यग्निं कारयित्वा अपरद्वारेण विसृजेत्, “वामं परीत्ये"त्यत्र भाष्ये “प्रेतके अपसव्यं सूतकादिषु सव्यमि"ति तथैव “अणोरणीयानि"ति पात्रेणान्वपस् स्रावयित्वा, शिष्टाद्भिस् सर्वत्र प्रोक्षयति॥ ततः,
अणोरनीयान्महतो महीयानात्मागुहायां निहितोस्य जन्तोः, तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं, सप्तप्राणाः प्रभवन्ति तस्मात्सप्तार्चिषस्समिधस्सप्तजिह्वाः सप्त इमे लोका एषुचरन्ति [[TODO: परिष्कार्यम्]]
[[176]]
सूत्रम् –
एवं वारुणाद्भु भुवङ्गाद् वा याम्यात् सौम्यादारभ्य वा परीत्य पर्यग्न्याधाव स्रुती स्याताम्॥ “ये ते शतमि"त्यादि चत्वारो वरुण-दैवत्याः॥
मन्त्रः –
ये ते शतं वरुणये सहस्रं यज्ञियाः पाशावितताः पुरुत्रा। तेभ्योन इन्द्रस्सवितोत विष्णुर्विश्वे देवा अमुञ्चन्तु मरुतः स्वस्त्या स्वाहा। (वरुणायेदम्)। उदुत्तमं वरुण पाशमस्मदवा धमं विमध्यमग्ग् श्रधाय। अधावयमादित्य व्रतेतवानागसो अदितये स्याम स्वाहा। (वरुणायेदम्)। अयाश्चाग्नेस्य नभिश्चस्तीश्चायातः यज्ञं वहतु सदाधेहि भेषजग् स्वाहा। (वरुणायेदम्)। आपस् सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे। निचदेवीं मातरग्ग् श्रियं वासयमे कुले स्वाहा। (वरुणायेदम्)। [[TODO: परिष्कार्यम्]]
व्याहृतिः।
विश्वे देवस्य विश्वे अद्येति द्वौवैश्यदेवौ विश्वेदेवस्य नेतु………..पुष्यसे स्वाहा। (विश्वेभ्यो देवेभ्यो इदम्)। विश्वे अद्य मरुतः……. अस्मै स्वाहा। (विश्वेभ्यो देवेभ्यो इदम्)। [[TODO: परिष्कार्यम्]]
व्याहृतिः।
अतो देवादि षड्वैष्णवाः द्वावाद्यावित्येके। अतो देवादीनां षण्णां विष्णव इदम्। [[TODO: परिष्कार्यम्]]
व्याहृतिः।
“रुद्रमन्यन्त्रयम्बकमि"ति द्वौ रुद्र-दैवत्यौ -
रुद्रमन्यं बहुतो हुतं वृषभं नमस्ते अस्तु। तन्मे अस्तु बाहुभ्यां वीतये स्वाहा। (रुद्रायेदम्)। त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् स्वाहा। (रुद्रायेदम्)। [[TODO: परिष्कार्यम्]]
अप उपस्पृश्य व्याहृतिः॥
“ब्रह्मजज्ञानं हिरण्य-गर्भ” इति द्वौ ब्रह्म-दैवत्यौ -
ब्रह्मजज्ञानं…. विवस्वाहा। (ब्रह्मण इदम्)॥ हिरण्यगर्भस्समवतर्तताग्रे भूतस्यजातः पतिरेक आसीत्, सदाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम स्वाहा॥ (ब्रह्मण इदम्) [[TODO: परिष्कार्यम्]]
व्याहृतिः॥
मिश्रवासस एतान्घतैता दिनिति द्वौकाबेरौ। मिश्रवाससः कौबेरकारक्षो राजेन प्रेषिताः॥ ग्रामँ सजानयो गच्छन्तीच्छन्तो परिदाकृतान् स्वाहा। (कुबेरायेदम्) एतान्घन्नतैतान् गृह्णीतेत्ययं ब्रह्मणस्पुत्रः। तानग्निः पर्यसरत्तानिन्द्रस्तान्, बृहस्पतिः। तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान्विकेशान्लम्बनस्तनान् स्वाहा। (कुबेरायेदम्) [[TODO: परिष्कार्यम्]]
व्याहृतिः॥
[[177]]
“युवमेतान्यग्नीषोमावान्यं” दिव इति त्रयोऽग्नीषोमीयाः॥
युवमेतानि दिविरोचनान्यग्निश्च सोमसक्रतू आधत्तम्॥ युवँ सिन्धूँ रभिशस्ते रवद्यादग्नीषोमावमुञ्चतं गृभीतान् स्वाहा॥ (अग्निषोमाभ्याम् इदम्)॥ अग्नीषोमाविमँ सुमेशृणुतं वृषणाहवम्। प्रतिसूक्तानि हर्यतं भवतं दाशुषेमय स्वाहा॥ (अग्निष्टोमाभ्याम् इदम्)॥ आन्यं दिवो मातरिश्वा जभारामध्नादन्यं परिश्येनो अद्रेः। अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रधुरुलोकग्ँ स्वाहा॥ (अग्नीषोमाभ्याम् इदम्)॥ [[TODO: परिष्कार्यम्]]
व्याहृतिः॥ “बृहस्पतिर्देवानामि"त्याद्याश्चत्वारो बार्हस्पत्याः
बृहस्पतिर्देवानामिमं यज्ञं बृहतो मे दधातु, बृहस्पतिवीतये स्वाहा। (बृहस्पतय इदम्)। बृहस्पतिस्सोमन्दधातु, बृहस्पतिर्यज्ञं दधातु बृहस्पतिवीतये स्वाहा ॥ (बृहस्पतय इदम्) ॥ बृहस्पते अतियदर्यो अर्हद्युमद्विभाति क्रतु मज्जनेषु, यद्दीदयच्छवसर्तप्रजाततदस्मासु द्रविणं देहि चित्रँ स्वाहा। उपयाम गृहीतो ऽसि बृहस्पते त्वेषते योनिः बृहस्पतितये स्वाहा (बृहस्पतय इदम्)॥ [[TODO: परिष्कार्यम्]]
व्याहृति ॥
“त्रातारमिन्द्रमि"त्यादि त्रयोदशैन्द्राः ॥
मन्त्रः –
त्रातारमिन्द्रमवितामिन्द्रँ हवे हवे सुहवँ शूरमिन्द्रम्। हुवेनुशक्रं पुरुहूतमिन्द्रग्ग् स्वस्तिनो मघवा धात्विन्द्रस् स्वाहा॥ (इन्द्रायेदम्) ॥ [[TODO: परिष्कार्यम्]]
एवं सर्वत्र उद्देश-त्यागः
महाँ इन्द्राय ओजसा पर्जन्यो वृष्टिमाँ इव। स्तोमैर्वत्सस्य वावृधे स्वाहा। महाँ इन्द्रो नृवदाचर्षणि प्रा उतद्विबर्हा अमिनस्सहोभिः। अस्मद्रियग्वावृधे वीर्यायोरुः पृथुस्सुकृतः कर्तृभिर्भूत् स्वाहा। भुवस्त्वमिन्द्रब्रह्मणामहान्, भुवो विश्वेषु सवनेषु यज्ञियः, भुवोनृग् श्च्यात्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे स्वाहा। एन्द्रसानसिँ रयिग् सजित्वानँ सदासहं, वर्षिष्ठमूतये भरस्वाहा। प्रससाहिषे पुरुहूत शत्रून् ज्येष्ठस्ते शुष्म इहरातिरस्तु। इन्द्राभरदक्षिणे नावसूनिपतिस्सिन्धूनामसि देवतीनाग् स्वाहा। अस्माकमिन्द्रस्समृतेषुध्वजेष्वस्माकं या इषवस्ता जयन्तु, अस्माकं वीरा उत्तरे भवं त्वस्मानुदेवा अवताहवेषु स्वाहा। इन्द्रोभूदस्य भुवस्यराजेन्द्रोदाधार पृथिवीं द्यामुतेमां, इन्द्रोहविश्वानि भूतानि भुवनाश्रितानि स्वाहा। इन्द्रो द्यौर्व्योम भूरिन्द्रस्समुद्भवनो विराट्पश्च उर्वन्तरिक्ष स्वर्गववनमिन्द्रादिन्द्रं मन्ये पितरं मातरं च स्वाहा। इन्द्रं प्रणयन्तं वपुरिन्द्रग्ग् स्रवन्तँ सवितारमिन्द्रं दधातु शक्रस्सुकृतस्य लोकमिन्द्रं मन्येपितरं मातरं च स्वाहा। इन्द्रोवृत्रं वज्रेणावधीदिन्द्रोव्ययस्समुद्र शुष्कः। इन्द्रम्मन्ये पितरं मातरं च स्वाहा। इन्द्रो बभूव ब्रह्मणो गम्भीरमाभूतिपरितुष्टिः। इन्द्रो भविष्यदुतभूतमिन्द्रमन्ये पितरं मातरं च स्वाहा। इन्द्रोस्मानवतु वज्रबाहुरिन्द्रो भूतानि भुवनानि। इन्द्रोस्माकमवतु वज्रप्रसादमिन्द्रं मन्ये पितरं मातरं च स्वाहा। [[TODO: परिष्कार्यम्]]
[[178]]
व्याहृतिः। “यमोदाधार नमस्तेनीर्ऋतय” इति द्वौ याम्यौ।
मन्त्रः –
यमोदाधार पृथिवीं यमोद्यामुत सूर्यः॥ यमस्सर्व मृत्युस्तेनः प्राणानां वायूनाँ स्वाहा। (यमामेदम्)॥ नमस्ते निर्ऋतये घनतेजाय तस्मै विसृज बन्धनात्। यमन यत्वँ सवितादेव उत्तमाननीके अभिरोचययायिनाँ स्वाहा।
[[TODO: परिष्कार्यम्]]
“मित्रस्य चर्षणी मित्रो जनान्प्रसमित्रे"ति त्रयो मैत्राः।
मन्त्रः –
मित्रस्य चर्षणी धृतः श्रवो देवस्य सानसिं, सत्यं चित्रश्रवस्तमं स्वाहा। (मित्रायेदम्)॥ मित्रो जनान् यातयतिप्रजानन्मित्रो दाधार पृथिवीमुद्याम्। मित्रः कृष्टीरनिमिषा भिचष्टे सत्याय हव्यं घृतवद्विधेम स्वाहा। प्रसमित्र मर्तो अस्तु प्रयस्तान् यस्त आदित्य शिक्षति व्रतेन न हन्यते न जीयते त्वोतोनैन मँ हा अश्नोत्यन्तितोन दूरात् स्वाहा। (मित्रायेदम्)॥ भूस् स्वाहा, (अग्नय इदम्, न मम,) भुवस् स्वाहा (वायव इदं न मम)। सुवस् स्वाहा (सूर्यायेदं न मम।) ॐ भूर् भुवस् सुवस् वाहा। (प्रजापतय इदं न मम।) [[TODO: परिष्कार्यम्]]
भूमि-यज्ञ-दैवत्यादयो व्याहृत्यं ता इज्यन्ते तस्माद्युत्तर-शतम् आहुतयो वास्तु-सवनस्यान्त-होमं कुर्यादिति विज्ञायते॥
भाष्ये -
ॐ चमेस्वर इति द्वाभ्यां लौकिकाग्न्युपस्थानं विसर्जनं च कुर्यादिति विखना-प्राह
इति श्री-वैखानस-गृह्य-सूत्रे तृतीय-प्रश्ने सप्त-दशः खण्डस् समाप्तः।
श्रावण-होम-स्थले काण्डर्षि-होमं केचित् कुर्वन्ति सः सूत्रे भाष्ये चानुक्तः स्मृत्याम् अस्ति तथा होम-पक्षे पूर्वोक्त-काण्डर्षि-तर्पण-प्रकारं होमः कर्तव्यः॥
उद्देश-त्याग-करण-विषये भार्गवे यज्ञाधिकारे॥
इन्द्रादीनां च होमेषु तत्-तन्-मन्त्रैः पृथक् पृथक्।
घृतेन जुहुयान्मन्त्री तत्-तदैवम् अनुस्मरन्।
[[179]]
श्री-नृसिंह-वाजप्रेय-कृत प्रतिष्ठादर्पणे क्रियाधिकारे।
वैष्णवं विष्णु-सूक्तञ् च सूक्तं पौरुषम् एव च।
प्रत्येकं विंशतिः कृत्वा स्व-नाम-पद-पूर्वकम्।
सव्याहृतं विष्णुम् अनुस्मरन् सः हुत्वाग्नि-कुण्डे परिषद्-गणस्य तत्ततन्मरुन्नाम पदादिकांश् च हुत्वा पृथग् विंशति-वारम् अग्नौ…
हरिः ओं