१० श्रावणोपाकर्मविधिः

हरिः ॐ श्री-विखनस-गुरुभ्यो नमः

अथ श्रावणे पौर्णमास्याम् अग्निं परिस्तीर्य शिष्यं वापयित्वा स्नातं पुण्याहं वाचयति पूर्ववत्। व्रत-बन्धं धातादि पञ्च-वारुणं मूल-होमं स्विष्टाकारञ् च जुहोति। अध्ययन-पारायणायेति श्रावणं तथैव नैष्ठिको यावज्जीवम् आश्रम-धर्माण्यनुतिष्ठतोपाकुर्वाणो वेदम् अधीत्य स्नायादिति विज्ञायते।

सङ्कल्प्य,

ॐ भूः…….. शुभ-तिथौ श्रावण्यां पौर्णमास्याम् अस्य माणवकस्य श्रावणक-होम-कर्माङ्गं पुण्याह-वाचनं करिष्ये।

पुण्याहं कृत्वा।

ॐ भूः। श्रावणक-होम-कर्माङ्गम् आघोर-कर्म करिष्ये।

आघारङ्कृत्वा। अनुदिनम् अकृत समिदाधानश् चेत् अवकीर्ण-प्रायश्चित्तं हुत्वा। ततस् समिदाधानं हुत्वा पूर्ववद् व्रत-बन्धं जुहुयत् -

ॐ भूः शुभ-तिथौ इमं माणपकं प्राजापत्य-व्रत-बन्धम्। चारयिष्ये

प्र॥ “माणवकश् चरिष्यामी"ति वदेत्।

[[170]]

अदितेनु मन्यस्य……. देवसवितः प्रसुव। प्रजापतये काण्ड-ऋषये स्वाहा। (प्रजापतये काण्ड-ऋषय इदम्)। सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं, सनिम्मेधा मया सिषँ स्वाहा। (सदसस्पतय इदम्)। प्रजापते नत्वदेत्वान्यन्यो विश्वा जातानिपरिता बभूव, यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्ग्स्याम पतयो रयीणाँ स्वाहा। (प्रजापतय इदम्)। प्रजापते त्वं निधिपाः पुराणो देवानां पिताजनिता प्रजानां, पतिर्विश्वस्य जगतः परस्पाहविर्नोदेव विहवेजुषस्व स्वाहा। (प्रजापतय इदम्)। तवेमेलोकाः प्रदिशोदिशश्च परावतो निवत उद्वतश्च प्रजापते विश्वसृग्जीवधन्य इदन्नो देव प्रतिहर्य हव्यग्ग् स्वाहा। (प्र…..दम्) प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वं सनो ददातु द्रविणँ सुवीर्यं रायस्पोषं विष्यतुनाभिमस्मे स्वाहा। (प्र…..दम्)…… योराय ईशे शतदाय उक्थ्योयः पशूनाँ रक्षिता विष्ठितानाम्। प्रजापतिः प्रथमजा ऋतस्य सहस्रधामाजुषतां हविर्न स्वाहा। (प्र।) [[TODO: परिष्कार्यम्]]

पञ्च-समिधः हावयेत्, शिष्यः

अग्ने व्रतपते प्राजापत्यव्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां तत्समृध्यतां तत्प्राजापत्यव्रतं बन्धयामि स्वाहा। (अग्नय इदम्) वायो व्रतपते…….. बन्धयामि स्वाहा, (वायव इदम्), इन्द्र व्रतपते…….. बन्धयामि स्वाहा, (इन्द्रायेदम्)। आदित्य व्रतपते…………. बन्धयामि स्वाहा। (आदित्यायेदम्) व्रतानां व्रतपते…….. बन्धयामि स्वाहा, (व्रतानां व्रतपतय इदम्)। ॐ भूस्वाहा, (प्रजापतय इदम्), [[TODO: परिष्कार्यम्]]

पूर्ववत् धातादि पञ्च-वारुणं मूल-होमं स्विष्टाकारं च हुत्वा,

अदितेन्वमग्ग्स्थाः………प्रासावीः।

चतुर् वेदादीन् सूत्रञ् च पूर्ववद् अध्याप्य, अन्त-होमञ् च कुर्यात्।