०९ वैश्वदेवम्

वैश्वदेव-विहीन-प्रायश्चित्तम्

सूत्रे षष्ठ-प्रश्ने॥

ब्रह्म-यज्ञो देव-यज्ञः पितृ-यज्ञो भूत-यज्ञो मनुष्य-यज्ञश्

चेति पञ्च-महा-यज्ञाः सावित्री-पूर्वं,

अग्निमीळे पुरोहितम् इषेत्वोर्जेत्वा अग्न आयाहि शन्नोदेवीर्

इति चतुर् वेदादि मन्त्रेर् वा स्वाध्यायो ब्रह्म-यज्ञः पक्वेनान्नेन वैश्वदेवेन देवेभ्यो होमो देव-यज्ञः पितृभ्यो बलि-हरणं पितृ-यज्ञः। भूतेभ्यो बलि-दानं भूत-यज्ञः, अतिथिभ्यो ऽभ्यागतेभ्यः अन्न-प्रदानं मनुष्य-यज्ञः गृहस्थो ऽपि यत्-पक्वं भुञ्जीत पक्वेनान्नेन भोक्ष्यन् न, भोक्ष्यन्यापि स्वगृहे तस्मिन्नौपासनाग्नौ, लौकिकाग्नौ, वा सायं प्रातर् वैश्वदेवे हीने “मनो ज्योतिरि"ति प्रायश्चित्तं हुत्वा वैश्वदेवं जुहुयात्।

इति सप्त-दशः खण्डः।

[[167]]

त्र्यहे हीने “तन्तुन्तन्वन्नि"त्यादि तन्तु-मतीः वैष्णवं च जुहुयात्। द्वा-दशाहे हीने ऽग्नावौपासने स्थाली-पाकं कृत्वा पूर्ववद् अवकीर्ण-प्रायश्चित्तं जुहोति। प्रवासे ऽध्वनि परस्य गेहे भ्युङ्क्ष्यन् लौकिकाग्नौ, इन्धनाभावे भस्मापोह्यङ्गारे, अङ्गाराभावे जले वा जुहोति। अन्नाभावे जलेनैव वैश्वदेवं कुर्यात्।

इत्यष्टा-दशः खण्डे वैश्वदेव प्रकारः

वैश्वदेव-प्रकारः

सूत्रम्॥

पचने वावसथ्ये चरुम् अभिघार्य “वैश्वदेवमि"ति “चुल्याम् औपासनाग्नौ वा कुर्या"दित्यर्थः प्राणानायम्य,

अस्यां शुभ-तिथौ पञ्चसूनाघनिर्हरणार्थम् अन्न-संस्कारार्थञ् च वैश्वदेव-होमं करिष्ये।

अप उपस्पृश्य। परिस्तीर्य यथा हतदित्यादि। “अदि तेनुमन्यस्व….. प्रसुव” इति परिषिच्य। वैश्वदेवार्थं गृहीतं शुद्धम् ओदनं चतुर्धा विभज्य अभिघार्य तत्-तद्-भागे अङ्गुष्टानामिकामध्यमैर् अक्ष-मात्रम् अवदाय जुहुयात्। अग्नेर् उत्तरे “अग्नये स्वाहा” (अग्नय इदम्), दक्षिणे “सोमाय स्वाहा” (सोमायेदम्) चक्षुषी बुध्वामध्यमास्यमिति बुध्वा तत्र व्याहृतिः “भूस् स्वाहा” (अग्नय इदम्) “भुवस् स्वाहा”, (वायव इदम्) “सुवस् स्वाहा” (सूर्यायेदम्), “ॐ भूर् भुवस् सुवस् स्वाहा” (प्रजापतय इदम्), “विश्वेभ्यो देवेभ्यस् स्वाहा”, (विश्वेभ्यो देवेभ्य इदम्), “धन्वन्तरये स्वाहा”, (धन्वन्तरय इदम्), “कुह्वै स्वाहा”, (कुह्वा इदम्), “अनुमत्यै स्वाहा”, (अनुमत्या इदम्), द्या"यावापृथिवीभ्याँ स्वाहा”, (द्यावापृथिवीभ्याम् इदम्), “भूस्वाहा….” (प्रजापतय इदम्), “इमाम्मे अग्न” इति चरुं सेध्मं जुहुयात्।

इमाम्मे अग्ने मनसाच्छिन्नां यावाचायाच मेहृदि अयं बृहस्पतिर्देवाश्छन्दाश्छिदन्तु राजसा मनसा प्रजापतये स्वाहा,(प्रजापतय इदम्।) [[TODO: परिष्कार्यम्]]

पुनर् हविरेव, “अग्निहोत्राय स्वाहा”, (अग्निहोत्रायेदम्) “वैश्वदेव-यज्ञाय स्वाहा”, (वैश्वदेव-यज्ञायेदम्), “ब्रह्म-यज्ञाय स्वाहा”, (ब्रह्म-यज्ञायेदम्) “देव-यज्ञाय स्वाहा”, (देवयज्ञायेदम्), “भूत-यज्ञाय स्वाहा”, (भूत-यज्ञायेदम्), “मनुष्य-यज्ञाय स्वाहा”, (मनुष्य-यज्ञायेदम्), “पितृ-यज्ञाय स्वधा नमस् स्वाहा”, (पितृयज्ञायेदम्), अप उपस्पृश्य,

[[168]]

बभूव पैतृकयच्छास् ते व्याहृतिः, “भूस्वाहा..” (प्रजापतय इदम्), “पञ्च-महा-यज्ञाय स्वाहा”, (पञ्च-महा-यज्ञायेदम्), “भूस् स्वाहा…..”, (प्रजापतय इदम्), “यदस्य कर्मणो…… करोतु स्वाहा”, (अग्नये स्विष्टकृत इदम्)। इत्यादि “वास्तु-पतय” इत्यन्तं स्विष्टकृत् द्वादशाहुतीर् हूत्वा - “भूस् स्वाहा”। (प्रजापतय इदम्)। बलिहरणं करिष्ये, अप उपस्पृश्य अथ गृहदेवताभ्यो यथा दिशं बलि-हरणं, पूर्व-विभक्तान्नेन सर्वत्र पूर्वम् उदकं दत्वा, बलिं निक्षिप्य पुनर् उदकं दद्यात्।

मध्ये भूर् भुवस् सुवः, ब्रह्मणे नमः ब्रह्म-पुरुषेभ्यो नमः, वास्तोष्पतये नमः,

इति गृह-मध्ये पूर्वान्तं दत्वा, पुनः तत्-प्राच्यां प्रोक्ष्य, “इन्द्राय नमः इन्द्र-पुरुषेभ्यो नमः” द्वयोर् एकं परिषेचनं दक्षिणे “यमाय नमः”, तदुत्तरे “यम-पुरुषेभ्यो नमः”, द्वयोर् एकं, तत्-पश्चिमे “वरुणाय नमः” तत्-पूर्वे “वरुण-पुरुषेभ्यो नमः”। द्वयोर् एकम् उत्तरे “सोमाय नमः”। तदुत्तरे “सोम-पुरुषेभ्यो नमः”। द्वयोर् एकम् आग्नेयादि दिक्षु प्रोक्ष्य। “अग्नये नमः” नैर्ऋत्यां “निर्ऋतये नमः”। वायव्यां “वायवे नमः”। ईशान्याम् “ईशानाय नमः”, चतुर्णाम् एकं परिषेचनं पितृ-यज्ञेन यक्षे। अप उपस्पृश्य, प्राचीनावीती, तद्-दक्षिणे प्रोक्ष्य। दक्षिणान्तं “पितृभ्यो नमः”। “पितामहेभ्यो नमः”, “प्रपितामहेभ्यो नमः”, “ज्ञाति-वर्गेभ्यो नमः”, तत्-पश्चिमे “पितृ-पत्नीभ्यो नमः”। “पितामह-पत्नीभ्यो नमः”, “प्रपितामह-पत्नीभ्यो नमः”। “ज्ञाति-वर्ग-पत्नीभ्यो नमः”। अष्टानाम् एकं परिषेचनम् उपवीती, अप उपस्पृश्य, प्राङ्गणे यावन्तो ऽन्नार्थिनः तावद्भ्यो निर्वपामीति। तत्-पुरतः भूतयज्ञेन यक्ष्ये। अप उपस्पृश्य “भूर् भुवस् सुवः”। निरूप्याकाशे “विश्वेभ्यो देवेभ्यो नमः”, “दिवा-चरेभ्यो नमः”। रात्रौचेत् “नक्तं चरेभ्यो नमः”। तत्रैव “भूतेभ्यो नमः”। “श्रियै नमः” इति ललाटान्तम् उद्धृत्य भूमौ निक्षिपेत्। चतुर्णाम् एकं परिषेचनं। तद्-उत्तरतः प्रोक्ष्य प्रागन्तं प्रति बलि-प्रोक्षणं परिषेचनं कुर्यात्। “पादतो भद्र-काल्या” इति प्रतिद्वारं पूर्वान्तम् उत्तरान्तं वा “भुवङ्गयोर्मरुद्भ्य” इति छुल्ल्यां “पक्षयोरग्नय” इति “उदधान्यामद्भ्य” इति “पेषण्योरुभयो र्दृषदि"ति उलूखल-मुसलयोः “वनस्पतिभ्य” इति, शूर्पे “ओषधीभ्य” इति वास्तु-पृष्ठे “शुनाञ्चे"ति, तत्-तत्-स्थाने बलिं निक्षिपेत्।

[[169]]

अथवा मन्रोक्तानां प्रत्येकम् एकीकृत्य वा निर्वपतीति भाष्योक्तरीत्या एकत्र वा कुर्यात्, “भद्रकाल्यै नमः”, “मरुद्भ्यो नमः”, “अग्नये नमः”, “अद्भ्यो नमः”, “दृषदे नमः” “वनस्पतिभ्यो नमः”, “ओषधीभ्यो नमः”, परिषिच्य तत्-पुरतः प्रोक्ष्य। बलि-शेषं विसृजेत्।

शुनाञ् च पतितानां च श्व-पचां पाप-रोगिणाम् वयसाञ् च क्रिमीणाञ् च भूमावन्नं वपाम्यहम्॥

इति बलिं निक्षिप्य,

भूर् भुवस् सुवः, अदितेन्वमग्ग्स्थाः; प्रासावीः, भूतिस्माते……… आदित्यस् सोमो नमः आपोहिष्ठा, यत्ते अग्ने उद्वयं तमसः। [[TODO: परिष्कार्यम्]]

पूर्वोक्तवद् उपस्थानं कुर्यात्। नित्यं सायं प्रातः पत्नी वा भूष्णु-कामा-बलिं हरेत् पादौ प्रक्षाल्याचम्य, मनुष्य-यज्ञेन यक्ष्ये। वैश्वदेव-काले प्राप्त-अतिथीन् शक्त्या तर्पयेत्। वैश्वानरो ह्येषभवति। “हरिः ॐ” इति वैश्वदेव-विधिस् समाप्तः।