०८ स्थालीपाकक्रमः

ॐ भूः…. अद्य पूर्वोक्त एवं गुणः… पुण्य-तिथौ प्राचीनावीति। गोत्रस्य…. शर्मणः पितुः प्रत्याब्दिक-श्राद्धे वैश्वदेवाग्नौ स्थाली-पचनं करिष्ये

इति सङ्कल्प्य। अप उपस्पृश्य आग्नेय-स्थाली-पाकवत् “प्रजा-स्थलीमि"ति स्थालीं सङ्क्षाल्य, “प्रजा-स्थलीम् अभिमन्त्रयामि”,

इमांस्थलीममृतस्य पूर्णामक्षेण तया ऊर्जस्वती च पयस्वती च सुधाराचमधुचरणाच मधुरं करिष्यति। मधुरं चरिष्यति मधुमतिवाजन्देवेभ्योहव्यं वहनः प्रजानन् विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि। पितृभ्यो जुष्टं निर्वपामीति, [[TODO: परिष्कार्यम्]]

उत्तर-दक्षिणयोः प्रक्षालितान् तण्डुलान् सतिलान् निक्षिप्य, “वाचस्पतय” इति वध्वा चरुं श्रावयति.

होमार्थं लवण-वर्जितं माषापूप-द्वयं गुडापूपञ् च अत्र अग्नौ पचेत्

ब्राह्मण-भोजनार्थं बह्वन्नम् अपूपादिकं च लौकिकाग्नौ पाचयेद्

इति। सूत्र भाष्ये।

[[150]]

वाचस्पतये पवस्ववाजिन् वृषावृष्णा अँशुभ्याङ्गभस्ति पूतोदेवो देवानां पवित्रमसि येषां भागोसितेभ्यस्त्वा स्वाङ्कृतोसि मधुमतीर्न इषस्कृधिविश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्ताष्टूर्वन्तरिक्षमन्विहिस्वाहात्वासुभवस्सूर्याय देवेभ्यस्वा मरीचिपेभ्य एषतेयोनिः प्राणायत्वा इदन्देवानामिदमुनस्सहास्फात्यैत्वानारात्यैसुवरभिवख्येषं वैश्वानरं ज्योतिः शतन्तेराजन् भिषजस्सहस्रमुर्वीगम्भीरा सुमतिष्टे अस्तु। बाधस्वद्वेषो निर्ऋतिम्पराचैः । कृतं चिदेनः प्रमुमुग्ध्यस्मत्। अभिष्टुतो वरुणस्यपाशोग्नेरनीकमप आविवेश अपान्नपात्प्रतिरक्षन्नसुर्यं दमेदमेसमिधँ यक्ष्यग्ने। [[TODO: परिष्कार्यम्]]

दक्षिणत उद्वास्य अग्निं परिसमूह्य तद्दविः भगवते निवेद्य, निमन्त्रिताभ्यङ्ग-स्नातान् द्वादशोर्ध्व-पुण्ड्र-धरान् स्वामिनः पश्चिमाभिमुखम् उत्तराभिमुखं पूर्वाभिमुखम् आसनेष्वासयित्वा यजमानः सङ्कल्प्य।

प्राचीनावीती

गोत्रस्य पितुः प्रत्याब्दिक-श्राद्धे देव-पितृ-रूपेभ्यः ब्राह्मण-वरण-पाद-प्रक्षालनार्चनादिकं करिष्ये।

अप उपस्पृश्य।

…..गोत्रस्य…..शर्मणः, श्राद्धे पुरूरवार्द्रव-सञ्ज्ञिक-विश्वेषां देवानाम् इदम् आसनं विश्वेदेवार्थे भोक्तुं भवता क्षणः कर्तव्यः।

“प्राप्नोतु भवान्” इति दर्भाक्षतं सोदकं तस्य दक्षिण-हस्ते दद्यात्। प्र। “ॐ तथा प्राप्नुवानि”। प्राचीनावीती।

वसु-रुद्रादित्य-स्वरूप-पितृ-पितामह-प्रपितामहानाम् इदम् आसनम्।

पित्रर्थे भोक्तुं भवता क्षणः कर्तव्यः “प्राप्नोतु भवानि"ति सतिल-दर्भोदकं तस्य दक्षिण-हस्ते दद्यात्।

प्र। “ॐ तथा प्राप्नुवानि”।

विश्वेदेववत् विष्णोश् च चतुरश्रं विश्वेदेवार्थं, तद्-दक्षिणे पित्रर्थं वृत्तं तालायत निम्नं दक्षिणापवर्गं खात्वा गोमयेन तन्मात्रम् उपलिप्य

तस्मिन् चषकादि पात्रं वा निधाय

इति सुन्दरराजीये

तत्र कुण्डे सदर्भ-यवान् सदर्भ-तिलान् निधाय सूर्याभिमुखं सर्वेषां देव-पितृ-स्वामिनां पाद-प्रक्षालनं कर्तव्यम्

इति दीक्षितीये उक्तत्वात्।

तथा सूर्याभिमुखं विश्वेदेवम् आसयित्वा

पुरूरवार्द्रव-सञ्ज्ञिक-विश्वेदेवाः पाद्य-स्थाने स्वागतम्

प्र - “सुस्वागतम्” (पवित्रं विना)

[[151]]

“इदं वः पाद्यं” प्र - “अस्तु पाद्यम्। “इदम् अर्ध्यं” प्र - “अस्त्वर्घ्यम्”। “इदम् आचमनीयम्। प्र - “अस्वाचमनीयम्। सकलाराधनैः स्वर्चितम्।

स्वयम् अभिमुखः, “आपः पादावि"ति पादौ सव्यादि पादाग्र-मध्य-मूल-गुल्फमामणि-बन्धं पत्न्या स्रावित-पात्रान्तर-तीर्थेन प्रक्षालयेदिति केचित्।

आपः पादावने जनीर् द्विषन्तं नाशयन्तु मे,

अस्मिन् कुले ब्रह्म-वर्चस्यसानि।
समस्त संवत्समवाप्ति हेतवः,
समृद्धि-तापत् कुल-धूम-केतवः

अपार-संसार-समुद्र-सेतवः पुनन्तु मां ब्राह्मण-पाद-पांसवः।
आदि-व्याधि-हरं नॄणां मृत्यु-दारिद्र्य-नाशनम्
श्री-पुष्टि-कीर्तिदं वन्दे विप्र-श्री-पाद-पकजम्॥
विप्रौघदर्शनात् सद्यः क्षीयन्ते पापराशयः,
वन्दनान् मङ्गलावाप्तिर् अर्चनाद् अच्युतं पदम्॥

सर्वोपचारान् समर्पयामि, स्वामिनः श्री-पाद-तीर्थं सम्यग् अनुगृह्णन्तु।

इति किञ्चित् दक्षिणां दत्वा श्री-पाद-तीर्थ-ग्रहणं यथा सम्प्रदायं तथा कुर्यात्।

प्राचीनावीती, सूर्याभिमुखं

पितृ-पितामह-प्रपितामहाः पाद्य-स्थाने स्वागतम्

प्र

सुस्वागतं……….. सकलाराधनै स्स्वर्चितम्।

शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरभि स्रवन्तुनः। [[TODO: परिष्कार्यम्]]

आपद्-घन-ध्वान्त-सहस्र-भानवः
समीहितार्थार्पण-काम-धेनवः
समस्त-तीर्थाम्बु-पवित्र-मूर्तयः
पुनन्तु मां ब्राह्मण-पाद-पांसवः॥

इति पादौ प्रक्षाल्य

श्री-पाद-तीर्थं सम्यगनु गृह्णन्तु

इति दक्षिणान् दत्वा। “सर्वोपचारान् समर्पयामी"ति पादयोर् अर्चयेत्।

उपवीती। अप उपस्पृश्य –

श्राद्ध-संरक्षक-महा-विष्णो पाद्य-स्थाने स्वागतम्

इत्यादि विश्वेदेवस्योक्तवत् “सर्वोपचारान् समर्पयामि”॥

स्वयं सूर्याभिमुखः पादौ प्रक्षाल्य पूर्वाभिमुखस् सन् मण्डलाद् ऐशान्ये कर्ता आचमनं कृत्वा ततः मण्डलात् पुरतः, विश्वेदेवं मण्डलाद् उत्तरे पितॄन् विश्वेदेववद् विष्णुञ् च पितृ-पूर्वम् आचामयेत्।

[[152]]

श्री-निवास-दीक्षितीये वचनानि –

पादाग्रे पितरं विद्यात्, पाद-मध्ये पितामहम्।
प्रपितामहं पाद-मूले पादौ प्रक्षालयेत् क्रमात्॥ पाद-प्रक्षालनं श्राद्धे वरं गुल्फद्व-वयोरपि,
पितॄणां नरकं घोरं रोम-संयुक्त-वारिणा,
आज्यं गोमय-संयुक्तं पादयोर् लेपयेद् द्विजः।

आपस्तम्बेन कर्तव्यं वर्जयेद् आश्वलायनः अन्यत्र स्मृतौ

गो-शकृद् दीयते सर्पिर् लेपयित्वा द्विजाधमः।
पितरस् तस्य कल्पान्तं काल-सूत्रे पतन्ति हि।

तस्मात् गोमय सर्पिर् लेपनम् आपस्तम्ब-विषयम्।

मण्डलात् पुरतो देवाः पितरश् च तदुत्तरे।
कर्ता चैशान्य-भागे तु कुर्याद् अचमन-क्रियाम्। स्व-सूत्र-विहितं यद्यत् तत्-तत्-सर्वं समाहितः
कुर्याद् अन्यत्र यद्युक्तं कृतम् अस्य कृतं भवेत्।

यजमानः श्री-पाद-तीर्थ-ग्रहणं यथा सम्प्रदायं कुर्यात्।

[[153]]