०७ श्राद्धम्

अष्टकाप्रत्याब्दिक-श्राद्ध-सूत्रम्

अथाष्टका माघ-प्रोष्ठ-पदयोर् अपर-पक्षेऽष्टम्याम् अष्टकां कुर्यात् सप्तम्यां नवम्यां त्रयोदश्यां वा सायं पूर्वेद्युस् स्वाध्यायाचारवतः शुची न सगोत्रान् ब्राह्मणान् आहूयाभिपूज्य-युग्मान् द्व्यवरान् विश्वेदेवारे!

[[144]]

त्र्यवरान् अयुग्मान् पित्रर्थे द्वयोर् एकैकं वा निमन्त्रयेत्! अपरेद्युर् अपराह्णे देशे शुचावाधाय औपासनाग्नौ वैश्व-देवाघारं हुत्वा स्थालीं सङ्क्षाल्य, “विश्वेभ्यो देवेभ्यो जुष्टं, पितृभ्यो जुष्टं निर्वपामी"ति स्थाल्यां तण्डुलं निर्वाप्य सतिलं चरुम् अपूपा[[??]]दीन्यपि पचेत् अग्नेर् दक्षिणस्यां नान्दी-मुखवन्मण्डलान्युपलिप्य। सदर्भ-तिलेष्वासनेष्वासयित्वा वस्त्राद्यैर् अलङ्कृत्वा ब्राह्मणान् प्रत्यङ्मुखान्व विश्वेदेवान् उदगन्तं पुष्पाद्यैः पितॄन् उदङ्मुखान् प्रागन्तं गन्धाद्यैः पूजयति। “स्वधा नम” इत्युक्त्वा तेषां करे तिलोदकन् दत्वा “प्राप्नोतु भवानि"ति ब्रूयात्। “ॐ तथा प्राप्नुवानी"ति प्रतिब्रूयुः। “अग्नौ होमङ् करिष्यामि"त्युक्ते कुरुष्वेति तैर् अनुज्ञातः। अग्निं परिषिच्य

विश्वेदेवस्य, विश्वे अद्य। प्रजापते न त्वत्, सुभूस् स्वयम्भूः सन्तेपयाँसि, सोमयास्ते

इति। रौद्रम्। ब्राह्मं वैष्णवं व्याहृत्यन्तं देवानां सपिण्डीकरणवत्। पितॄणाम् अप्याज्येन हुत्वा। “हव्यं कव्यमि"त्यभिघार्य पक्वेनापूप-मिश्रेण जुहोति। गामुपाकृत्य पशुबन्धवत् ज्ञप्त्वा उत्भिद्य वपाम् उद्धृत्य “पक्वयातया वह वपामि"ति होमं चामनन्ति।

इति श्री-वैखानस-सूत्रे चतुर्थ-प्रश्ने तृतीयः खण्डस् समाप्तः

दक्षिण-पश्चिमे ऽग्नेः एकोद्दिष्टवन् निर्वाप-स्थानं तद्-दक्षिणस्याम-वटं चोपकल्प्य, “उद्धन्यमानमि"ति दर्भैस् त्रिभिर् दक्षिणान्तं सकृद् उल्लिखेत्। गायत्र्या प्रोक्ष्य। “स्थाने निहन्मि सर्वमि"ति दक्षिणाग्रावयुग्मानुदुम्बर-पत्र-दर्भांस् तिलैर् आस्तृणाति। “षोषायत्वे"ति सकूर्चाक्षतं पात्रम् उदकेनापूर्य। “पितरो मे प्रसीदन्त्वि"ति प्रणम्य। “आम आगच्छन्त्वि"ति पितॄन् आवाह्य दक्षिणाभिमुखो ऽभ्यर्चयति। “आमावाजस्ये"ति पात्रं मार्ज्य। “अग्निर् इन्द्रा वरुणावि"ति चरुं निर्वपति। दर्भेण तम् अष्टधा विभज्य साज्यं पिण्डान् कृत्वा। सव्योत्तर-पाणिभ्याम् “अयमोदने"ति

पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो ज्ञातिवर्गेभ्यो पितृ-पत्नीभ्यः पितामह-पत्नीभ्यः प्रपितामह-पत्नीभ्यो ज्ञातिवर्ग-पत्नीभ्यः पिण्डं निर्वपामि

इति निर्वपति॥ एवं मातुः पित्रादिभ्यः पिण्ड-दानं केचिद् वदन्ति। अञ्जन-दन्त-धावन-दधि-सक्तु-मधु-व्यंजनेक्षु-बदरी-फलान्यर्पयेत। शूर्पेणाच्छाद्य उपरि पुष्प-तिलाक्षत-दर्भान् न्यसेत्। “ऊर्जं वहन्तीरि"ति पिण्ड-परितस् स्राव्योदकं दत्वा “अमूर्तीनामि"ति तत्-पात्रोदके नाऽवटं

[[145]]

पूरयति चरु-शेषेणान्यैश् च अन्नाद्यपूपोपदंशैः पूर्ववद् ब्राह्मणान् यथा तृप्ति भोजयेत्। तेषु तृप्तेषु पितरस् तृप्ता भवन्ति। वाग्यतान् भुञ्जानास् तान् ऋचः पैतृकाः आश्रावयेत्। उच्छिष्टं संशोध्य तत्रान्नं विकिरेद् आचान्तेभ्यो मुख-वासं निवेद्य रजतं तिलं सुवर्णं वा दक्षिणां पशु-कांस्यया न दास-शयनासनादीनि परिच्छदांश् च यथा शक्ति ददाति। अन्न-शेषं तेभ्यो दर्शयित्वा यथोक्तं करणीयम्। आचमनोच्छिष्ट-शोधनोत्थापन-विसर्जनाद् अन्यद् विश्वेदेव-पूर्वकम् आचरति। अन्यथा रक्षांस्यपहरेयुः “नमो वः पितर” इति पितॄन् अभिवन्द्य पिण्डान् उद्वासयेत् अस्तु तृप्तिर् “आमावाजस्ये"ति भुक्तवतस् तान् नमस्कृत्य उत्तिष्टतेत्युत्थाप्य पठेत पितर इति प्रवासयति “पितृ-भुक्तं पितृजीर्णमि"त्युपजुह्वा चरुं हुत्वा अन्तहोमान्ते अग्निम् आलये प्रतिष्ठाप्य पञ्च-महा-यज्ञान् करोति “दरिद्रो ममेयमष्टके"ति कक्षमग्निना दाहयेत् “श्रोत्रियाय पानीयं वा दद्यादि"ति विज्ञायते।

इति श्री-वैखानस-सूत्रे चतुर्थ-प्रश्ने चतुर्थः खण्डस् समाप्तः।

पार्वण-विधानम्

यजमानः पूर्वेद्युः स्वयम् एक-भक्ताशी भूत्वा। स्वाध्यायाचारवतः। शुचीनसगोत्रान् ब्राह्मणान् आहूय पूर्वेद्युस् सायं स्व-गृहम् आगतान् सुप्रक्षालित-पाणि-पादान् अर्घ्यादिनाभ्यर्च्य। प्रदक्षिणी कृत्याभिवन्द्य प्राणानायम्य।

अस्मद् गुरुभ्यो नमः। श्री-विखनस-गुरुभ्यो नमः।

सङ्कल्प्य प्राचीनावीती -

गोत्रस्य…. शर्मणः। पितुः पार्वण-विधानेन प्रत्याब्दिक-श्राद्धं विश्वेदेव-पूर्वकं विष्ण्वं तम् एव श्वः करिष्ये।

अप उपस्पृश्य। कदली-क्रमुक-नारिकेल-फलानाम् अन्यतमं दत्वा।

…. गोत्रस्य, …. शर्मणः पितुः प्रत्याब्दिक-श्राद्धे विश्वेदेवार्थे भोक्ष्यताम्। पित्रर्थे भोक्ष्यताम्

इति क्रमेण फलं दत्वा वृत्वा स्वगृह एव वा नयेत्। सद्यश् चेद् दर्भैर् एव वरयेत् अपरेद्युर् अपराह्णे शुचौ देशे गोमयेनोपलिप्ते स्थले पत्न्या सह प्राणानायम्य सङ्कल्प्य, पुण्याहं कृत्वा गृहं प्रोक्ष्य, स्वयं माध्याह्निकं कृत्वा।

अत्र अष्टकापेक्षया प्रत्याब्दिक-श्राद्ध-विषये विशेषो दृश्यते, मासि-श्रद्ध-सूत्र-भाष्ये सपिण्डीकरणाद् ऊर्ध्वं त्रि-पुरुषोद्देशेनैव। ततः प्रति संवत्सरं

[[146]]

तन्मरण दिने अष्टकावद् आघारं कृत्वा ऽऽज्य-चरुभ्यां विश्वेदेवस्य विश्वे अद्य इति विश्वे देवेभ्यः अग्नये कव्यवाहनादि पितृ-दैवत्यं पित्रोः गृहस्थस्यौपासनाग्नौ इतरेषां लौकिकाग्नौ हुत्वा अष्टकावत् पिण्ड-त्रयं दत्वा ब्राह्मणान् भोजयेत्।

इदं “मातापित्रोरि"ति

तैलाभ्यङ्गन विषये पराशर-स्मृतौ – श्राद्धभोक्तुः दातव्य तैलोद्वर्तनादि प्रकरणे कात्यायनः

तैलमुद्वर्तनं स्नानं दन्त-धावनम् एव च।
कृत्त-रोम-नखेभ्यस् तु दद्यात्तेभ्योपरेहनि॥

इति

देवलोपि –

तैलमुद्वर्तनं स्नानं स्नानीयञ् च पृथग्विधम्
पात्रैर् औदुम्बरैर् दद्याद्वैश्वदैविक-पूर्वकम्॥

इति

औदुम्बरं ताम्र-पात्रम् इत्यर्थः।

दर्शे स्नात्वा पितृभ्यस् तु दद्यात् कृष्ण-तिलोदकम्।
अन्नञ् च विधिवद् दद्यात् सन्ततिस् तेन वर्धते॥

एतत् तैलादि दानम् अनिषिद्ध-तिथि-विषयं, निषिद्ध-तिथिषु तैल-प्रतिनिधित्वे नामलकोदकं दद्यात्। तथा मार्कण्डेयः,

अह्नष्षट्सु मुहूर्तेषु गतेष्वथ च तान् द्विजान् प्रत्येकं प्रेषयेत् प्रेष्यान् प्रदायामालकोदकम्,

इति आमलकोदक-दानम् अप्यमावास्याव्यतिरिक्त-विषयं, “धात्रीफलैर् अमावास्यायां नस्नायादि"ति स्मृत्यन्तरे निषेधात् तान् आसनेष्वासयित्वा, “देवताभ्यः पितृभ्यः” इति तान् नमस्कृत्य,

देवताभ्यः पितृभ्यश् च महा-योगिभ्य एव च,
नमस् स्वधायै स्वाहायै नित्यम् एव नमो नमः।

देवेभ्यो नमः, सापसव्यः पितृ-पितामह-प्रपितामहेभ्यो नमः।

उपवीती

श्राद्ध-संरक्षक-श्री-महा-विष्णवे नमः

इति च नमस्कृत्य।

स्वामिनः अस्मिन् दिवसे…. गोत्रं,…. शर्माणं पितरम् उद्दिश्य पार्वण-विधानेन प्रत्याब्दिक-श्राद्धं कर्तुम् उद्योगः क्रियते। देश-काल-पात्र-मन्त्र-तन्त्र-ऋत्विग् दक्षिणादिकं सर्वं श्राद्धार्हम् अस्त्विति भवन्तो ऽनुगृह्णन्तु।

प्रतिवाचकाः - “श्राद्धार्हम् अस्तु”॥

श्राद्ध-भूमिं गयां ध्यात्वा, ध्यात्वा देवं गदा-धरम्
वस्वादींश् च पितॄन् ध्यात्वा - ततश् श्राद्धं प्रवर्तये।

[[147]]

प्रतिवाचकाः – “प्रवर्तय”

“इदम् ब्रह्म-पुनीमहे” इति दर्भ-त्रयकृतोभय-पवित्रे गृहीत्वा “ब्रह्म-पुनात्वि”ति हस्त-द्वयाङ्गुल्योर् निक्षिप्य आसनोपरि आसीनस् सन्। “अस्मद्-गुरुभ्यो नमः” इत्यादि।

प्राणानायम्य, सङ्कल्प्य,…. पुण्य-तिथौ प्राचीनावीति….

गोत्रस्य…. शर्मणः पितुः अस्मिन् दिने पार्वण-विधानेन प्रत्याब्दिक-श्राद्धम् अद्य करिष्ये।

तदङ्गं ब्राह्मण-वरणादिकं करिष्ये।

अप उपस्पृश्य।

गोत्रस्य शर्मणः मम पितुः प्रत्याब्दिक-श्राद्धे हे स्वामिनः विश्वेदेवार्थे भोक्ष्यतां, पित्रर्थे भोक्ष्यतां, विष्ण्वर्थे भोक्ष्यतां

इति दर्भैर् एव वृत्वा स्मृत्युक्त-रीत्या तान् तैलाभ्यङ्गं कारयित्वा, स्नापयित्वा स्वयञ् च स्नात्वा धृत-द्वादशोर्ध्व-पुण्ड्रः पूर्वेद्युर् अकृतौपासनश् चेत् तद्-अह्नि प्रातः काल एव औपासनम् अन्तहोमञ् च कृत्वा, तदग्निं संरक्षयेत्। सुन्दराजीये,

एकस्मिन् स्टण्डिले द्वौ आघारौ न कर्तव्यौ, श्राद्धस्य पैतृकाघार-विधानत्वाद् इति तस्माच्छुभेन औपासनाघारेण सह अशुभः पैतृकाघारो न कर्तव्यः।

यजमानः स्वयम् एव भगवद् आराधनं कृत्वा शुद्धे देशे पैष्टिक-जलेन भूमिम् अलङ्कृत्य, तत्र शुद्धाभिस् सिकताभिः प्राक् पश्चिमं दक्षिणोत्तरञ् च द्वात्रिंशद् अङ्गुल्यायतं दक्षिण-पश्चिम-प्रवणं स्थण्डिलम् उपकल्प्य दक्षिणतः दक्षिणाग्रदर्भोपरि सम्भारान् दर्भ-दर्वी-स्रुक्-स्रुव-प्रणिध्याज्य-स्थाल्यादीन् एकैकशः दक्षिणान्तम् अवाङ्मुखं सादयित्वा सिकताभावे परिष्कृत भूम्याम् एव प्रोक्षणोल्लेखनादिकं कृत्वा, अग्निं प्रतिष्ठापयेद्

इति।

“वैश्व-देवाघारम् एव पैतृकाघारम्” इति च “प्राचीनावीतं विना आघारः कर्तव्य” इति भाष्ये ॥

वैश्वदेवाघारक्रमः

अथाघार-विधानं ब्राह्मं प्राज्मुखम् आसीनः । उभय-पवित्र-पाणिस् सन् पुण्याहं कुर्यात् पाकारम्भात् पूर्वम् एव गृह-शुद्ध्यर्धं पुण्याहं कृतं चेत् तत्-करकम् आदाय स्वस्य नैऋत्यां धान्योपरि निधाय। वाग्यतः प्राचीनावीती,

गोत्रस्य शर्मणः, अमुकस्य पितुः पार्वण-विधानेन प्रत्याब्दिक-श्राद्धे औपासनाग्नौ वैश्वदेवाघारं करिष्ये

इति सङ्कल्प्य। उपवीति, अप उपस्पृश्य। “एतोन्विन्द्रमि"त्यग्न्यालयं प्रोक्ष्य,

[[148]]

मयि देवादिभिः प्राग् आदि चतुर् दिशं दक्षिणाग्रान् पश्चिमाग्रान् अयुग्मान् दर्भानुक्षयेत् “उद्धन्य मान”मिति मध्य-पूर्वापर-यमाग्नि-नैऋति-सोमेशान-मरुतो बर्हिषा खनति। तथा “पूतह्यतन” इति मध्योत्तर-दक्षिणेषु तथा मध्य-पूर्व-पश्चिमेषु दक्षिणान्तं पश्चिमान्तं प्रादेश-मात्रं षड्रेखा लिखित्वा “अष्टाबन्ध”मिति वक्रितं दर्भं दक्षिण-पश्चिमस्याम् उत्सृज्य। अप उपस्पृश्य। हिरण्य-शकलं मुष्टि-मात्र-व्रीहीन् वा तन्-मध्ये निधाय। रेखाः गायत्र्या प्रोक्ष्य, पूर्वोक्त औपासनाग्निं पात्रेणानीय “उपावरो हेति” स्थण्डिल-मध्ये निधाय, तत्-पात्रे साक्षतम् उदकं निक्षिप्येति- वसन्तयाजीये

पूर्ववत् ध्यान-पूर्वम् अग्नि-पुरुषम् इन्द्रादींश् चाभिवन्द्य, “अदितेनु मन्यस्वे"ति दक्षिण-वेदिम् आग्नेयादि नैऋत्यं तं परिषिच्य तथा पश्चिम-वेदिम् उत्तर-वेदिं पूर्ववे-दिञ् च दक्षिणान्तं पश्चिमान्तं परिषिच्य। तथा ईशानाद्यन्तम् अपसव्यं परिषिच्य।

षष्ट-प्रश्ने प्रायश्चित्त-भाष्ये -

ब्रह्मसोमकूर्चोम् उत्पवन-पवित्रं प्रणिथि-पवित्रे वर्षिष्ठ-समिधावूर्ध्व-समिधावाघराहुती-युक्तवहाद्याहुतीनाञ् च पूर्ववदेव दैविके पैतृकेप्येतेषां यथोक्तम् अग्रम् अन्तञ् च करोति।

विपरीतो न कर्तव्यः।

सर्वदा दैविकत्वादिति। पूर्ववत् ब्रह्म-सोमावाहनार्चनं कृत्वा सम्भारान् प्रोक्ष्य।

अयुग्म-धर्भ-ग्रधित-परिस्तरणोदुम्बर-परिधींश् च दक्षिणाग्रान् पश्चिमाग्रान् प्रागादिविन्यस्य, नैऋत्यां दक्षिण-परिस्तरणाग्रम् उर्ध्वं कृत्वा परिस्तीर्यमित्यादिना इन्द्रादि-दक्षिणान्तम् अप्रदक्षिणं परिषिच्य।

“तथा स्रुतासी"ति दक्षिणादि-वेदिषु पश्चिमान्तं दक्षिणान्तं परिषिच्य। प्रणिधी द्वे स्रुक्-स्रुवौ आज्यस्थालिञ् च पूर्ववत् निक्षिप्य। प्राचीनावीती।

चरु-स्थाल्यां “पितृभ्यो जुष्टं निर्वपा"मिति “सतिलाक्षतान् निधाये"ति विशेषः उपवीती। अप उपस्पृश्य। चरु-स्थालीं दक्षिणत उद्वास्य आज्य-स्थाल्याः

[[149]]

पवित्र-ग्रन्थिं विसृज्य। दक्षिण-पश्चिमे दक्षिणाग्रं निधाय अप उपस्पृश्य। अद्भिः प्रोक्ष्य हुत्वा अग्नौ नैऋत्ये “समिदसी"ति समिधं निक्षिप्य।

“घृतं विहरामी"ति पश्चिमान्तं विहरति,

आवाहन-जुष्टाकार-स्वाहाकारेषु तत्-तत्-कर्म-यज्ञम् आवाहयामि। यज्ञ-दै-त विश्वान् देवान् आवाहयामि

सर्व-देव-पदं विनाकारयेत्। एक-विंशत्यौदुम्बर-समिधो गृहीत्वा मूलाग्राभ्यां घृतं स्पर्शयित्वा “इमामे अग्न” इति अक्षताज्य-चरुभिः अग्र-मध्य-मूलानि स्पृशन् अप्रदक्षिणम् अधो भागं नीत्वा ऊर्ध्वे सन्दधाति “अदितेनु मन्यस्वे"ति पश्चिमान्तं दक्षिणान्तं परिषिच्य, “षष्टिशते"त्यभिमन्त्र्य। पूर्ववत् हुत्वा

वायव्याद आग्नेयान्तं प्रजापतये स्वाहा (प्रजापतय इदम्।) नैऋत्याद् ईशानान्तम् इन्द्राय स्वाहा (इन्द्रायेदम्।)

व्याहृत्या पूर्वोक्तवच् चरु-होमञ् च हुत्वा “अतोदेवा इदं विष्णुरि"ति हुत्वा, अपसव्यं परिषिच्य अस्मिन् आघारे सर्वं समन्त्रं पूर्वोक्तवत् कुर्यात्। एवं वैश्वदेवाघारं हुत्वा स्थाली-पचनं कुर्यात्।

भोक्तॄणाम् आराधनक्रमः

अग्नेर् दक्षिणस्यां नान्दी-मुखवत् “अथावनीदमि"ति मण्डलानि गोमयेनोपलिप्य।

मन्त्रः –

अथावनीदं परमं पवित्रं सुरेशवीर्यादिवमस्तुरक्षा। आयान्तु देवाः पितृभिस्सहात्र - अस्मिन्स्थले सन्निधिं धत्तलिप्ते। [[TODO: परिष्कार्यम्]]

“अस्त्वासनमि"ति सदर्भ-यवादि “विश्वेदेवानाम् इदमासनमि"ति चतुरश्र मण्डले दत्वा तथा सदर्भ-तिलान्यासनादि “पितॄणाम् आसनमि"ति वृत्त-मण्डले प्रत्येकं दत्वा। विश्वेदेववत् विष्णोश् च चतुरश्र-मण्डलोपरि सदर्भ-यवादि निक्षिप्य।

मन्त्रः –

अस्त्वासनँ शुभं लोकेब्रसी शुद्धस्तपोमयम्। तपश्चायुस्तथायोगमस्तुते परमम्पदम्। [[TODO: परिष्कार्यम्]]

इति आसनेषु पश्चिमाभिमुखौ विश्वेदेवौ, उत्तराभिमुखं पितॄन्, पूर्वाभिमुखं विष्णुञ् च आसयित्वा - “वस्त्राद्यैरि"ति वस्त्र-कुण्डलाभरणानि गृह्यन्ते।

मन्त्रः –

युवासुवासाः परिवीत आगात् स उश्रेयान्भवति जायमानः। तं धीरासः कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः। [[TODO: परिष्कार्यम्]]

विश्वेभ्यो देवेभ्यः धारणार्थमिदं वस्त्रम्

[[153]]

मन्त्रः –

सोमस्य तनूरसि तनुवम्मे पाहि स्वामातनूराविश। शिवोमातनूराविश। [[TODO: परिष्कार्यम्]]

विश्वेभ्यो देवेभ्य इदम् उत्तरीयम्॥ तथा आभरण-कुण्डलोपवीतादीनि तत्-तन्-मन्त्रेण दत्वा प्राचीनावीती। तथा “युवासुवासा” इति पितृ-पितामह-प्रपितामहेभ्यः इदं वस्त्रं, तथा उत्तरीयाभरणादीनि दत्वा। उपवीती, अप उपस्पृश्य तथा विष्णोश् च दत्वा । ते स्वामिनः वस्त्रादीनि सन्धार्य, पादौ प्रक्षाल्याचम्य। उपवीतञ् च धृत्वा, तान् आसनेषु पूर्वोक्त-मुखान् आसयित्वा। “पुष्पाद्यैरि"ति पुष्पाक्षत-गन्ध-धूप-दीपादीनि गृह्यन्ते।

मन्त्रः –

आयनेते परायणे दूर्वारोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे। [[TODO: परिष्कार्यम्]]

स्वामिनः इमानि पुष्पाणि तुलसी-दलानि।

मन्त्रः –

अर्चित प्रार्चित प्रियमेधासो अर्चतार्चन्तु पुत्रका उतरन्नधृष्ण्वर्चत। [[TODO: परिष्कार्यम्]]

अक्षतान् समर्पयामि।

मन्त्रः –

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम्। [[TODO: परिष्कार्यम्]]

स्वामिनः अमीवो गन्धाः।

मन्त्रः –

धूरसि धूर्व धूर्वन्तं धूर्वतं योस्मान् धूर्वति तं धूर्वयं वयं धूर्वामस् त्वं देवानामसि सन्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमम ह्रुतमसि हविर्धानं दृगं हस्वमाह्वार्मित्रस्यत्वा चक्षुषाप्रेक्षे माभेर्मा संविक्थामात्वाहिँ सिषम्। [[TODO: परिष्कार्यम्]]

धूपम् आघ्रापयामि।

मन्त्रः –

उद्दीप्यस्व जातवेदोपघ्नं निरतिं मम। पशूगश्च मह्यमावह जीवनञ्च दिशोदिश। [[TODO: परिष्कार्यम्]]

दीपं दर्शयामि।

तस्य पुरतः प्राग्-अग्र-दर्भोपरि अर्घ्य-पात्रम् आसाद्य द्वि-दर्भ-पवित्रं निक्षिप्य। “शन्नोदेवीरि"ति द्विः जलं पूरयित्वा।

मन्त्रः –

शन्नोदेवीरभिष्टय आपो भवन्तु पीतये, शंयोरभिस्रवन्तुनः। [[TODO: परिष्कार्यम्]]

अक्षत-तुलसी-दर्भ-गन्धान् यवांश् च “यवोसी"ति निक्षिप्य।

मन्त्रः –

यवोसि धान्यराजोवा वारुणो मधु संयुतः। निर्णोदस्सर्वपापानां पवित्रमृषिभिः स्मृतं विश्वेदेवस्य नेतुर्मर्तोवृणीत सख्यं विश्वेराय इषुध्यसिद्युम्नं वृणीत पुष्यसे। [[TODO: परिष्कार्यम्]]

[[154]]

गोत्रस्य, शर्मणः, पितुः अद्यास्मिन् पार्वण-विधानेन प्रत्याब्दिक-श्राद्दे पुरूरवार्द्रव-सञ्ज्ञक-विश्वान् देवान् भवत्सु आवाहयिष्ये।

प्र॥ “आवाहय”।

इत्युक्तः

पुरूरवार्द्रव-सञ्ज्ञिक-विश्वान्देवान् ध्यायामि।

इत्यक्षतं पुष्पं तस्य शिरसि निधाय। ततः “आवाहयामी"ति करकोदकं कूर्चेन शिरसि किञ्चित् संस्राव्य।

मन्त्रः –

यादिव्या आपः पयसा सम्बभूवुः। या अन्तरिक्ष उतपार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्तान आपश्शग्ग्स्योना भवन्तु। [[TODO: परिष्कार्यम्]]

विश्वेदेवाः प्रियन्तां स्वाहा अर्घ्यं नमः

इति तेषां करे पूर्वोक्त-यवोदकम् अर्घ्य-पात्रं नोद्धरेदित्युक्तत्वात् उद्धरिण्या गृहीत्वा दत्वा “प्राप्नोतु भवान्” प्र। “ॐ तथा प्राप्नुवानि”। प्राचीनावीति। गोत्रस्य…….. शर्मणः श्राद्धे वसु-रुद्रादित्य-स्वरूप-पितृ-पितामह-प्रपितामहान् गन्धाद्यैर् अभ्यर्च्य।

“गन्ध द्वारां……….. स्वामिनः अमीवो गन्धाः। [[TODO: परिष्कार्यम्]]

इति गन्धम्। “अर्चत प्रार्चते"ति अक्षतान्। “आयनेत” इति पुष्पम्। “धूरसी"ति धूपम्। “उद्दीप्य स्वे"ति दीपं च दर्शयित्वा। पुरतः दक्षिणाग्र-दर्भोपरि पात्रं संसाद्य पात्रे त्रि-दर्भ-पवित्रं निक्षप्य, “शन्नोदेविरि"ति सतिलं जलं त्रिर् आपूर्य।

तिलोसि सोम देवत्योगोसवे निर्मितः। प्रत्नवद्भिः प्रत्नस्वधेहि इमान्लोकान् प्रणयाहिन स्वधा नमः उशन्त स्त्वाहवा मह उशन्तस्समिधीमहि, उशन्नुशत आवह पितॄन् हविषे अत्तवे। [[TODO: परिष्कार्यम्]]

गोत्रस्य……… शर्मणः श्राद्धे पितृ-पितामह-प्रपितामहान् भवत्सु आवाहयिष्ये।

प्र॥ “आवाहय”।

पितृ-पितामह-प्रपितामहान् ध्यायामि

इति। तिलाक्षत-पुष्पं तस्य शिरसि निधाय। “आवाहयामी"ति कूर्चेनावाह्य। “यादिव्या आपः पयसे"ति अर्घ्यं दद्यात्।

यादिव्या आपः……. भवन्तु। [[TODO: परिष्कार्यम्]]

गोत्रस्य……. श्राद्धे वसु-रुद्रादित्य-स्वरूप-पितृ-पितामह-प्रपितामहाः स्वधा अर्घ्यं प्राप्नोतु भवान्

इति पूर्व-स्थापित-तिलोदक-पात्रात् उद्दरिण्या तीर्थं गृहीत्वा तस्य हस्ते दद्यात्। अर्घ्य-पात्रं नोद्धरेदिति स्मृत्यां

प्र॥ स्वधा अर्घ्यं प्राप्नुवानि। सकलाराधनैः स्वर्चितम्।

उपवीती। अप उपस्पृश्य॥

विष्णुं विश्वेदेववत् अभ्यर्चयेत्। श्राद्ध-संरक्षक-महा-विष्णवे “आयनेत” इति पुष्पम्। “अर्चत प्रार्चते"ति अक्षतान्। “गन्धद्वारामि"त्यादिनाभ्यर्च्य। इदं

[[155]]

विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्यपाँसुरे….. [[TODO: परिष्कार्यम्]]

श्राद्धे,

श्राद्ध-संरक्षक-महा-विष्णुं शङ्ख-चक्र-गदाधरं लक्ष्मी-समेतं भवत्सु आवाहयिष्ये।

प्र॥ “आवाहय”।

“महा-विष्णुं ध्यायामी"त्यादि विश्वेदेववत् पुरतः पात्रं संसाद्य उद्धरिण्या अर्घ्यम् आदाय

श्राद्ध-संरक्षक-महा-विष्णो स्वाहा अर्घ्यं प्राप्नोतु भवान्

इत्यर्ध्यं दत्वा प्र॥ “प्राप्नुवानि”॥ सकलाराधनैस् स्वर्चितम्। “स्वामिनः अग्नौ होमं करिष्यामि” प्र॥ “ॐ कुरुष्व”। इति तैर् अनुज्ञातः सङ्कल्प्य। प्राचीनावीति…..

श्राद्धे वैश्व-देवाग्नौ वैश्व-देवाज्य-चरु-होमं पैतृकाज्य-चरु-होमञ् च होष्यामि।

उपवीती - अप उपस्पृश्य

अदितेनु मन्यस्व…….. प्रसुव। [[TODO: परिष्कार्यम्]]

आज्येन

विश्वेदेवस्य नेतुर्मर्तोवृणीत सख्यं विश्वेराय इषुध्यसिद्युम्नं वृणीत पुष्यसे स्वाहा। (विश्वेभ्यो देवेभ्य इदं न मम)। [[TODO: परिष्कार्यम्]]

विश्वे अद्यमरुतो विश्व ऊती विश्वे भवन्त्वग्नयस्समिद्धाः। विश्वे नो देवा अवसागमन्तु विश्वमस्तु द्रविणं वाजो अस्मै स्वाहा, (विश्वेभ्यो देवेभ्य इदं न मम।) [[TODO: परिष्कार्यम्]]

ॐ भूस्वाहा। अग्नय इदम् ….. प्रजापतय इदम्, हव्यम् अभिघारयामि, हव्यं गृह्णामि,

इति चरु-स्थाल्याम् उत्तरे अभिघार्य। गुडापूप-मिश्रेण चरुणा प्रति-मन्त्रम् अभिघार्य जुहूमुपस्तीर्य दर्व्या चरुम् आदाय, अभिघार्य, जुह्वा जुहोति।

विश्वेदेवस्यनेतु………. स्वाहा (विश्वेदेवेभ्य इदं……… न मम)। [[TODO: परिष्कार्यम्]]

पूर्ववद् अभिघार्य। आदाय विश्वे अद्य च हुत्वा (विश्वेभ्यो देवेभ्य इदम्,) तथा व्याहृतीः। अत्र परिषिच्य, “पक्वेन चरुणापूप-मिश्रेणे"ति सूत्रे

मधु-धाम्नोश् चोदनायां तोय-पिष्टौ प्रतिनिधी स्याताम्

इति वपा होम-स्थले पिष्टस्य “माष-पिष्टमि"ति स्मृत्यां पिष्टस्य “अपूपमि"ति नृ-सिंह-वाजपेये माषापूपस्य शिष्टानुष्ठान-बाहुल्यं प्राचीनावीती, अवसव्यं

अदितेनुमन्यस्य……… प्रसुव। [[TODO: परिष्कार्यम्]]

आज्येन

[[156]]

अग्नये कव्यवाहनाय स्वधा नमस् स्वाहा (अग्नय….. न मम) सोमाय पितृमते स्वधा नमस् स्वाहा (सोमायेदम्)। यमाय चाङ्गिरस्पतये स्वधा नमस् स्वाहा, (यमायेदम्।) एतेय इह पितरः। एतेदेवाश्च विद्मयान् पितृ-यज्ञं सुहुतं सुष्टुतं सुवेदसोहवीर्येवहन्ते स्वधा नमस् स्वाहा। (पितृभ्य इदम्)। उशन्तस्त्वाह वामह उशन्तस्समिधीमहि। उशन्नुशत आवह पितॄन् हविषे अत्तवे स्वधा नमः स्वाहा। (पितृभ्य इदम्) [[TODO: परिष्कार्यम्]]

सानोददातु श्रवणं पितृणां तस्यास्ते देवि हविषा विधेम स्वाहा। (पितृ………न मम।) [[TODO: परिष्कार्यम्]]

पृथिवी-गतेभ्यः, वसु-रूपेभ्यः……… गोत्रेभ्यः ……..शर्मभ्यः…….. पितृभ्यस् स्वधा नमस् स्वाहा। (पितृभ्य इदम्।) [[TODO: परिष्कार्यम्]]

अन्तरिक्ष-गतेभ्यः रुद्र-रूपेभ्यः…….. गोत्रेभ्यः, ……..शर्मभ्यः, पितामहेभ्यः स्वधा नमस् स्वाहा, (पितामहेभ्य इदम्।) [[TODO: परिष्कार्यम्]]

दिवि-गतेभ्यः आदित्य-रूपेभ्यः…… गोत्रेभ्यः, ……..शर्मभ्यः प्रपितामहेभ्य स्वधा नम स्वाहा। (प्रपितामहेभ्य इदम्।) [[TODO: परिष्कार्यम्]]

उपवीती

(भू स्वाहा……… इदम्।)

मातृ-श्राद्धे तु तथा पितृ-मन्त्रैः हुत्वा (पितृभ्य इदं न मम)इत्युक्त्या

पृथिवी-गताभ्यः वसु-रूपाभ्यः…… गोत्राभ्यः…… नाम्नीभ्यः पितृ-पत्नीभ्यः स्वधा नम स्वाहा; (पितृ-पत्नीभ्य इदम्।) [[TODO: परिष्कार्यम्]]

अन्तरिक्ष-गताभ्यः रुद्र-रूपाभ्यः….. (पितामह-पत्नीभ्य इदम्।) [[TODO: परिष्कार्यम्]]

दिवि-गताभ्यः आदित्य-रूपाभ्यः….. (प्रपिताम-हपत्नीभ्य इदम्) [[TODO: परिष्कार्यम्]]

एवं युक्त्या हुत्वा उपवीती व्याहृतीः॥

“कव्यम् अभिघारयामि”, “कव्यं गृह्णामि” इति पूर्वोक्तवत्। माषापूप-मिश्र-चरुं दर्व्या गृहीत्वा जुह्वा जुहुयात्।

अग्नये कव्यवाहनायेत्यादि व्याहृति पर्यन्तं प्रतिमन्त्रम् अभिघार्य गृहीत्वा जुहुयात्। उपवीती, व्याहृतीः।

अदितेन्वमग्ग्स्थाः………. प्रासावीः। [[TODO: परिष्कार्यम्]]

इति अपसव्यं परिषिच्य, उपवीती अप उपस्पृश्य।

ॐ भूः अद्य पूर्वोक्त एवं गुण-विशेषण-विशिष्टायाम् अस्यां पुण्य-तिथौ प्राचीनावीति…….. गोत्रस्य…….शर्मणः श्राद्धे वैश्व-देवाग्नौ वपा-होमं करिष्ये।

इति सङ्कल्प्य अपसव्यं परिषिच्य। लवणवर्जं एकम् अपूपम् आहृत्य

विश्वेभ्योदेवेभ्यः पितृभ्यस् त्वा जुष्टम् उपाकरोमि

इति अपूपम् आहृत्य दक्षिणाग्र-दर्भोपरि निधाय। “इषेत्वोर्जेत्वे"ति अग्नौ प्रतितप्य “वह-वपामि"ति होमं चामनन्ति वह-वपाञ् जात-वेदः,

पितृभ्यो यत्रैनान् वेत्थ पराके। मेदसश्चैनानु पतास्रवन्तु सत्या एषा माशिषस् सन्तु सर्वास् स्वाहा [[TODO: परिष्कार्यम्]]

इति तं माषापूपं हुत्वा -

अदित्येन्वमग्ग्स्थाः……. प्रासावीः [[TODO: परिष्कार्यम्]]

[[157]]

पिण्ड-प्रदान-प्रकारः

गोत्रस्य शर्मणः प्राचीनावीती। श्राद्धे पिण्ड-स्थाने पिण्ड-निर्वापणं करिष्ये।

इति सङ्कल्प्य। अप उपस्पृश्य। अग्नेर्नैऋत्यां शुद्धाभिस् सिकताभिः उदक्प्राक् अपरम् अरत्नि-मात्रं वितस्त्यायतं दक्षिणतः भागोन्नतं स्थण्डिलं कल्पयेत्। स्थण्डिलस्य दक्षिणे अवटं प्रादेश-मात्रायामं निम्नं चोपकल्प्य अथवा चषकादि पात्रं वा निधाय। दक्षिणा-मुखः “उद्धन्यमानमि"ति त्रि-भिर् दर्भैः दक्षिणान्तं सकृद् एव उल्लिखेत्। “उद्धन्यमानं” साता, गायत्र्या प्रोक्ष्य “निहन्मि सर्वमि"ति अयुग्मौदुम्बर-पत्र-दर्भ-तिलैर् आस्तृणाति। निहन्मि सर्वं यदमेध्यतो भवेत्। द्धताश् च सर्वासुर-दानवामया रक्षांसि यक्षास् स पिशाच-सङ्घाहता मया यातु-धानाश् च सर्वे शुद्धं चषकादि पात्रं स्थण्डिलस्य उत्तरे निधाय। “पोषयत्वे"ति त्रि-दर्भ-पवित्राक्षत-तिलैस् सह पात्रम् उदकेनापूर्य,

पोषायत्वा स्वधा पितृभ्यः, पोषायत्वा स्वधा पितामहेभ्यः, पोषायत्वा स्वधा प्रपितामहेभ्यः। [[TODO: परिष्कार्यम्]]

“पितरो मे प्रसीदन्त्वि"ति पितॄन् प्रणम्य

पितरोमे प्रसीदन्तु पितामहा मे प्रसीदन्तु। प्रपितामहा मे प्रसीदन्तु। [[TODO: परिष्कार्यम्]]

एवं मातृ-श्राद्धे स्त्री-लिङ्ग-मन्त्रम् अनुसृत्य युक्त्या आवाहयेत्।

“आम आगच्छन्त्वि"ति पितॄन् आवाह्य।

आम आगच्छन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् अस्मिन् यज्ञे सर्व-कामान् लभन्तेऽक्षीयमाणानुपदुह्यन्तामिमाः। [[TODO: परिष्कार्यम्]]

……गोत्रस्य……. शर्मणः श्राद्दे पृथिवी-गतान् वसु-रूपान् गोत्रान् शर्मणः मम पितॄन् आवाहयामि। [[TODO: परिष्कार्यम्]]

आम आगच्छन्तु पितामहा मे देवयानान्…… इमाः [[TODO: परिष्कार्यम्]]

गोत्रस्य……….. शर्मणः………. श्राद्धे अन्तरिक्ष-गतान् रुद्र-रूपान् गोत्रान्……….. शर्मणः पितामहान् आवाहयामि। [[TODO: परिष्कार्यम्]]

आम आगच्छन्तु प्रपितामहा मे…… इमाः [[TODO: परिष्कार्यम्]]

गोत्रस्य………. शर्मणः……. श्राद्धे दिवि-गतान् आदित्य-रूपान् गोत्रान् प्रपितामहान् आवाहयामि।

[[158]]

एवं मातृ-श्राद्धे

आम आगच्छन्तु पितृ-पत्न्यो देवयानास्समुद्रा सलिलान् सवर्णान् अस्मिन् यज्ञे सर्वकामान् लभस्तेऽक्षीयमाणानुपदुह्यं तामिमाः [[TODO: परिष्कार्यम्]]

पृथिवी-गताः वसु-रूपाः गोत्राः नाम्नीः मम पितृ-पत्नीः आवाहयामि।

“एवं युक्त्या आवाहयेत्” इति पूर्वोक्त-त्रि-दर्भ-कूर्च-तिलाक्षत-सहितोदक-पात्रे आवाह्य “गन्धाद्यैरि"ति गन्धोदक-स्नानं तैल-स्नानम् आमलक-स्नानं ददामि एते प्लोत वस्त्रोत्तरीय…..इमे तिलाः “आमावाजस्ये"ति कदली-पत्रं प्रमृज्य।

आमावाजस्य प्रसवो जगम्यादाद्यावा पृथिवी विश्वशम्भू। आमागन्तां पितरा मातराचामासोमो अमृतत्वाय गम्यात्। [[TODO: परिष्कार्यम्]]

“अग्निरिन्द्रे"ति चरुं निर्वपति।

अग्निरिन्द्रा वरुणावुह सन्ध्याचत्वमेव वरुणमसीन्द्रमसि, उर्वालोकोसित्वञ्च वालोकोसि प्राणोस्यग्निरसि मधुमानुदरे प्रद्योतोस्यम्भोसि सत्याय नान्धोसि सर्वमसि सर्वधा असि हृच्छोकम्मे निर्दह पाप्मानमु पथ्वन्दुरुक्तमुपध्वंस सूर्यः त्वन्नो अग्नेः प्रणीतानामग्रे प्रणीतानां भूपते भुवनपते ब्रह्मणस्पते बृहन्ति [[TODO: परिष्कार्यम्]]

धुङ्क्ष्व दर्भेण तच्चरुं सतिलाज्यं त्रिधा विभज्य “अयमोदन” इति क्रमेण शिख्यण्ड प्रमाणान् पिण्डान् सम्यक् कृत्वा।

अयमोदनः कामदुघाऽस्त्वनं, धोऽक्षीयमाणस्सुरभिस्सत्वकामी सत्येव तिष्ठत्वजरार्थभूतस्स्वधा देवानाममृतङ्ग् तर्पयन्तुमे [[TODO: परिष्कार्यम्]]

इति क्रमेण गृहीत्वा सव्योत्तर-पाणिभ्यां……..

गोत्रस्य…… शर्हणः श्राद्धे पृथिवी-गतेभ्यः वसु-रूपेभ्यः…… गोत्रेभ्यः…… शर्मभ्यः मम पितृभ्यः पिण्डं निर्वपामि।

इति पिण्डस्थाने अपसव्यं निक्षिप्य।

द्वितीय-पिण्डमादाय…..

गोत्रस्य…… शर्मणः….. श्राद्धे अन्तरिक्ष-गतेभ्यः रुद्र-रूपेभ्यः… गोत्रेभ्यः….. शर्मभ्यः पितामहेभ्यः पिण्डं निर्वपामि।

तृतीय-पिण्डमादाय………

गोत्रस्य….. शर्मणः श्राद्धे दिवि-गतेभ्यः आदित्य-रूपेभ्यः….. गोत्रेभ्यः……. शर्मभ्यः प्रपितामहेभ्यः पिण्डं निर्वपामि।

मातृ-श्राद्धे

पृथिवी-गताभ्यः वसु-रूपाभ्यः गोत्राभ्यः नाम्नीभ्यः मम पितृ-पत्नीभ्यः पिण्डं निर्वपामि।

[[159]]

अन्तरिक्ष-गताभ्यः रुद्र-रूपाभ्यः…… गोत्राभ्यः नाम्नीभ्यः पितामह-पत्नीभ्यः पिण्डं निर्वपामि।

दिवि-गताभ्यः आदित्य-रूपाभ्यः… गोत्राभ्यः नाम्नीभ्यः प्रपितामह-पत्नीभ्यः पिण्डं निर्वपामि।

“अञ्जनं ददामि”, “दन्त-धावनं ददामि”, “दधि ददामि”, “मधु ददामि”, “सक्तु ददामि”, “मरीचि-रसं ददामि”, “कठिन-पायसं ददामि”,

माषापूपं, गुडापूपं, तिलापूपं, नानाविध-भक्ष्यं, बदरी-फलं, कदली-फलं ददामि

इति दत्वा। शूर्पेणाच्छाद्य उपरि पुष्प-तिलाक्षत-दर्भान् न्यसेत्।

“ऊर्जं वहन्तीरि"ति पत्न्या दत्तोदकेन सतिलं जलम् अञ्जलिना गृहीत्वा अपसव्यं पिण्डं परितः किञ्चित् संस्राव्योदकम् अवशिष्टम् अवटे दद्यात्। एवं त्रिः कृत्वा ततः पिण्ड-भाजनम् उद्धृत्य प्रक्षाल्य, तत्-पात्रोदकेन “अमूर्तीनामि"ति अवटं पानीय-पात्रं वा पूरयति।

ऊर्जं वहन्ती स्वधया वन्दमानास्तास्ते स्रवन्तीस्स्योनाः ऊर्जं वहन्ती स्वधा माक्षीयतोदकाः क्षीरमुदकं घृतं मधुपयः कीलालं परिसृतम्। [[TODO: परिष्कार्यम्]]

अमूर्तीनां समूर्तीनां पितॄणां दीप्त-तेजसाय्।
नमस्यामि सदा तेषां ज्ञानिनां योग-चक्षुषाम्।

गये गये अवटं पूरयति।

“पितृभ्यः पानीयं ददामि”, “पितामहेभ्यः पानीयं ददामि”, “प्रपितामहेभ्यः पानीयं ददामि”। “मुखवासं ताम्बूलं ददामि”, पितॄन् नमस्कृत्य पादौ प्रक्षाल्याचम्य।

विश्वेदेवस्य चतुरश्रं पितॄणां वृत्तं विष्णोश् चतुरश्रं द्वि-हस्तायत-विस्तारम् अच्छिद्रं गोमये नोपलिप्य ब्राह्मणस्य दक्षिण-हस्त-पार्श्वे तीर्थ-पात्र-निक्षेपणार्थं तालायत-विस्तारं गोमयेनोपलिप्य, “तेषाम् इदं पात्रासनमि"ति बर्हिः भोजन-पात्र-स्थले निक्षिप्य। तस्मिन् कदली-पत्र-द्वयं सदण्डं साग्रम् अच्छिद्रं बाहु-प्रमाणं दीर्घञ् च निक्षिप्य, चषक-त्रयञ् च निक्षिप्य, तस्मिन् आज्ये, पात्र-शुद्धिं कृत्वा।

[[160]]

सूत्रम् –

चरुशेषेणेति यजमानः प्रथमं विश्वेदेव पात्रे होम-शेषान्नं दर्व्या द्विर् द्विर् दत्वा - प्राचीनावीति पितृ-पात्रे अन्नाद्यन्तथा सकृत् सकृत् दत्वा। विश्वेदेववत् विष्णोश् च दत्वा लौकिकाग्नौ पाचितान्नाद्यपूप-व्यञ्जनानि च तेभ्यो दद्यात्। अन्नञ् च पायसं भक्ष्यं व्यञ्जनानि यथा क्रमं, सूपम् अन्ते प्रदातव्यम्, विपरीते तु निष्पलम्, पक्वम् अन्नञ् च शाकं च दर्व्या चैव तु दापयेत्। तैल-पक्वम् अपक्वञ् च हस्ते नैव तु दापयेत्।

एवं सर्वं स्वयम् एव स्वपत्न्या वा सौवर्णमयादि पात्रेषु यथा क्रमं दत्वा। भोजन-पात्राद् बहिः आसनोपरि आज्य-पात्रम् उपचषकेन सह निक्षिप्य। लवण-सम्बन्धि-पक्व-शाकादीनि उपपात्रे दत्वा। अभिघार्य। तुलसीं विन्यस्य “भूर् भुवस् सुवः” इत्यन्नादिकं प्रोक्ष्य।

यजमानः – “सत्यन्त्वर्तेन परिषिञ्चामी"ति दक्षिणम् आरभ्य, परिषिच्य, “अमृतोपस्तरणमसी"ति अन्नं प्रोक्ष्य।

“पृथिवी ते पात्रमि"ति पाणिभ्यां पात्रं स्पृष्ट्वा जपति

पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वामुखेजुहोमि ब्राह्मणानां त्वाप्राणापानयोर्जुहोम्यक्षितमसि मैक्षेष्ठा अमुत्राषां मुष्मिन् लोके। भूर्भुवस्सुवः परिविष्टं परिवेक्ष्यमाणं च इदमिदमन्नम् अमृत-स्वरूपं विष्णोहव्यँ रक्षस्व। [[TODO: परिष्कार्यम्]]

इदं विष्णुर्विचक्रमे…… सुरे। [[TODO: परिष्कार्यम्]]

इति स्वाङ्गुष्ठ-मूलेन तद्-अङ्गुष्ठं गृहीत्वा अन्नादिकं स्पर्शयित्वा

गोत्रस्य….. शर्मणः…… श्राद्धे अन्नञ् च ब्रह्म, अहञ् च ब्रह्म भोक्ता च ब्रह्म, गयेयं भूः गदाधरो भोक्ता, सौवर्णमयं पात्रम् अक्षय-वटच्छायायां गयायां श्री-विष्णुपादेदत्तम्

प्र॥ “गयायां दत्तम् अस्तु।

इदम् अन्नं सव्यञ्जनोदकं, सापूपादिकं हव्यं विश्वेदेवाः भुञ्जन्तां

प्राचीनावीती। एवं पितॄणां रज-तमय-पात्रेषु सकृत् सकृत् दत्वा, अभिघार्य, तुलसीं विन्यस्य। अपसव्यं परिषिच्य “भूर् भुवस् सुवः” इत्यादि “विष्णो कव्यँ रक्षस्व”। इत्यन्तं विश्वेदेववत् उक्त्वा

इदं विष्णुर् विचक्रमे….. सुरे [[TODO: परिष्कार्यम्]]

इति, “स्वाङ्गुष्ठ-मूलेने"त्यादि पूर्ववद् उक्त्वा रजत-मयं पात्रम् अक्षय-वटच्छायायां………

श्री-विष्णु-पादे दत्तं पितृ-पितामह-प्रपितामहाः इदम् अन्नं सव्यञ्जनोदकं सापूपादिकं कव्यं भुञ्जन्ताम्,

उपवीती, अप उपस्पृश्य, विश्वेदेववत् विष्णोश् च सौवर्णमये पात्रे द्विर् दत्वा, “सत्यं त्वर्तेन परिषिञ्चामि”,

[[161]]

पृथिवी ते पात्रम् इदं विष्णुः विष्णो हव्यं भुञ्जतां

तिल-तण्डुल-दर्भान् पाणिभ्याम् आदाय “आसत्येन…… पश्यन्”

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः, त्रीन् लोकान् व्याप्यभूतात्मा भुङ्ग्क्ते विश्वभुगव्ययः। [[TODO: परिष्कार्यम्]]

अनेन मम पितुः पार्वण-विधानेन कृत प्रत्याब्दिक-श्राद्धेन भगवान् सर्वात्मकः गोत्रस्य……..श्राद्धे पुरूरवार्धव-सञ्ज्ञिक-विश्वेदेव-स्वरूपी पत्न्या स्रावित-पात्रोदकं गृहीत्वा, प्राचीनावीती, वसु-रुद्रादित्य-स्वरूप-पितृ-पितामह-प्रपितामह-स्वरूपी तीर्थं गृहीत्वा, उपवीती, श्राद्ध-संरक्षक-महा-विष्णु-स्वरूपी तथा तीर्थं गृहीत्वा,

सर्वान्तर्यामि-जनार्दनः प्रियताम्। श्री-कृष्णार्पितम्।

एवं स्मृत्युक्तवत् दत्वा, प्रणम्य, दीक्षितीये

गयायां धर्म-पृष्टेषु सदसि ब्रह्मणस्पते,
गया-शीर्षे वटे चैव पितॄणां दत्तम् अक्षयम्

इति तिलोदकेनोत्तरस्यान्दिशि निक्षिपेत्

यज्ञेश्वरो हव्य समस्त कव्य
भोक्ताव्ययात्मा हरिरीश्वरो ऽत्र,
तत्-सन्निधानाद् अपयान्तु
सद्यो रक्षाँसि सर्वाण्यसुराश् च सर्वे,

इति तिलोदकेनैव सर्वतो विकीर्य प्रणम्य। अथ विश्वेदेवादयः “सत्यं त्वर्तेन परिषिञ्चामि"ति स्वयं परिषिच्य। अन्नसूक्ते नाभिमन्त्र्य।

(विष्णु-पाद्योदके नैव कुर्याद् आपोशन-द्वयम्,
अन्य-तीर्थेन यः कुर्यात् शुनोमूत्र-समं भवेत्)

इति स्मरणात्। उपवीती

तत्-तीर्थेन विश्वेदेवाः अमृतं भवतु।

उपवीती

श्राद्ध-संरक्षक-महा-विष्णो अमृतं भवतु

इति विष्णु-पाद्योदकं दत्वा

ऊर्जस् करं बल-करं सोम आद्यमन्नम् अमृताय स्वाहा, प्राणाय स्वाहा……… अपानाय, व्यानाय, उदानाय, समानाय स्वाहा, [[TODO: परिष्कार्यम्]]

वाम-हस्तेन पात्रं स्पृशन् एव पूर्व-दक्षिण-पश्चिमोत्तर-मध्यमेषु अङ्गुष्ठानामिकामध्यमैः आमलक-मात्रम् आन्नम्, आदाय दन्तानसंस्पृश्यन् हुत्वा प्रत्येकं हृदयङ्गमं कृत्वा पुनः “ऊर्जस्करमि"ति पुनश् चाधानं पीत्वेति सूत्रोक्तत्वात् तथा कृत्वा “ब्रह्मणिम आत्मामृतत्वाये"ति वाम-हस्तं प्रक्षालयित्वा, ततस् साञ्जलिस् सन्

स्वामिनः पैतृकान् रक्षोघ्नान् वैष्णवान् धर्मेतिहास-पुराणानि यावच् छक्यम् अभिश्रावयिष्ये

इति।

प्र॥ “अभिश्रावय”।

स्वामिनः अस्मिन् श्राद्धे श्राद्धार्धेषु पक्वेषु पदार्थेषु भगवन् निवेदितेषु अपेक्षितम् आनीय भुञ्जन्ताम्।

[[162]]

ततो भुञ्जानान् वाग्यतान् आचलितान् ब्राह्मणान् “उशन्तस्त्वाहवामह उशन्त”, “सोमाय पितृमत” इत्यादि पितृ-सूक्तानि वैष्णवानि पुराणानि च श्रावयेत्, ताः ऋचः ब्राह्मणाः यथा श्रुण्वन्ति तथोच्चारयेत्।

भोजनान्ते यजमानः पात्रे प्रसादं तीर्थञ् च गृहीत्वा। “विश्वेदेवाः तीर्थं प्रसादः”

प्र॥ “सकलं सम्पूर्णम्”।

“तृप्तास्थ” इति

प्र॥ “तृप्तास्म” इति। ततः प्राचीनावीती,

पितृ-पितामह-प्रपितामहाः तीर्थं प्रसादः

इत्यादि पूर्ववत्। उपवीति, अप उपस्पृश्य।

“श्राद्ध-संरक्षक-श्री-महा-विष्णो तीर्थं प्रसादः”

प्र॥ “सकलं सम्पूर्णम्”

“तृप्तोसि”

प्र॥ “तृप्तोस्मि”

दीक्षितीये ॥

तृप्त्यनन्तरं यजमानः “उच्छिष्ठभाग्यो दीयताम् अन्नम्”, इति वदेत्, ततः पितृ-स्थान-स्थितः

यजमान-कुले जाता दासा दास्यान्न-काङ्क्षिणः
ते सर्वे तृप्तिम् आयान्तु मया त्यक्तेन भूतले

इत्युक्त्वा मुष्टि-मात्रान्नं भूमौ निक्षिपेद् इत्यापस्तम्बाचारः अस्मत् सूत्रे नास्ति यथाचारं कुर्यात्। अनुस्थितेभ्यस् सकाशात् उच्छिष्टं संशोध्य तत्रान्नं विकीर्येति सूत्रोक्तत्वात् पितृ-पूर्वम् उच्चिष्ट-पत्रं जले अवटे वा निधाय

ततः विश्वेदेवस्य विष्णोश् च उच्छिष्टम् उदृत्य पिधाय। गोमये नोच्छिष्टं संशोध्य, तत्रान्नं विकिरेत्।

असोमपाश् च ये देवा यज्ञ-भाग-विवर्जिताः,
तेषाम् अन्नं प्रदास्यामि विकिरं वैश्व-दैविकम्

(पुनर् उदकं दत्वा) इति उत्तरान्तम् अन्नैः सव्यं विकीर्य, प्राचीनावीती।

असंस्कृत-प्रमीता ये त्यागिन्यो याः कुल-स्त्रियः, दास्यामि तेभ्यो विकिरम् अन्नं ताभ्यश् च पैतृकम्॥

(पुनर् उदकं दत्वा) इति। अपसव्यं दक्षिणान्तं विकीर्य, उपवीति, अप उपस्पृश्य।

[[163]]

असंशयो भवेद् विष्णुः मोक्ष-साधनम् अव्ययम्
पितॄणाञ् च वरं श्रेष्ठं विकिरान्नञ् च वैष्णवम्॥

(पुनर् उदकं दत्वा) इत्युत्तरान्तं सव्येन विकीर्य।

सङ्कल्प्य,

ॐ भूः……… प्राचीनावीती श्राद्धे वायस-पिण्ड-प्रदानं करिष्ये।

पितॄणाम् अभिमुखं दक्षिणाग्रेषु दर्भेषु सतिलं पिण्डं दद्यात्

ये अग्नि-दग्धा ये ऽनग्नि-दग्धाः ये वा जाताः कुले मम, भूमौ दत्तेन पिण्डेन तृप्तायान्तु पराङ्गतिम्

इति वाम-पाद-जानुना भूमिं पीडयन् पैतृकेन हस्तेन पिण्डं दत्वा।

अग्नि-दग्धेभ्यः अनग्नि-दग्धेभ्यः अस्मत्-कुल प्रसूत-मृतेभ्यः अयम् पिण्डस् स्वधा नमः [[TODO: परिष्कार्यम्]]

इति सतिलेन जलेन पिण्डं परितः अपसव्यं परिषिच्य। “एतम् पिण्डम् उपतिष्ठध्वम्”। इति तत्-पिण्डोपरि सतिलं जलं निक्षिप्य। दर्भेण पिधाय। पादौ प्रक्षाल्याचम्य। आचमनोच्छिष्ट-शोधनोत्थापन-विसर्जनाद् अन्यद् विश्वेदेव-पूर्वं कारयेत्। अन्यथा “रक्षांस्यपहरेयुरि"ति।

प्राचीनावीती, “अमृतापिधानमसी"ति पितृभ्य उत्तरापोशनं दत्वा ततः उपवीती, विश्वेदेवादय विष्णवे च आपोशनं दत्वा, वायस-पिण्डं वायसेभ्यो दत्वा, पितृ-पूर्वम् उत्थाप्य, पाणि-पादा वा मणि-बन्ध-जानुतो दक्षिणादि प्रत्येकं भोक्तॄन् प्रक्षालयित्वा, उच्छिष्ठ-स्थलं पुनस् संशोध्य, स्वयं द्विर् आचम्य, ततः पित्रादीन् द्विर् आचामयित्वा, होम-स्थाने पूर्वोक्तासनेषु पूर्वोक्त-मुखान् आसयित्वा,

स्वामिनः अलङ्कारार्थे अमीवो गन्धाः, इमानि पुष्पाणि तुलसी-दलानि। विश्वेदेवाः स्वाहा इदं वस् ताम्बूलम्।

प्र॥ “अस्तु ताम्बूलम्।

प्राचीनावीती।

पितृभ्यस् स्वधा, पितृ-पितामह-प्रपितामहाः इदं ते ताम्बूलम्

प्र॥ “अस्तु ताम्बूलम्”

उपवीती,

श्राद्ध-संरक्षक-महा-विष्णो इदन्ते ताम्बूलम्

प्र॥ “अस्तु ताम्बूलम्”।

“स्वाङ्कृतोसी"त्यादि पूर्वोक्तवत् विश्वेदेवाः स्वाहा, इयन्ते दक्षिणा

प्र॥ “अस्तु दक्षिणा”

[[164]]

प्राचीनावीती,

पितृ-पितामह-प्रपितामहाः स्वधा इयं वो दक्षिणा,

प्र॥ “अस्तु दक्षिणा”,

उपवीती,

श्राद्ध-संरक्षक-महा-विष्णो इयं ते दक्षिणा

प्र॥ “अस्तु दक्षिणा”।

स्वामिनः यजमानस्य पितरम् उद्दिश्य पार्वण-विधानेन कृत-प्रत्याब्दिक-श्राद्धं यथा शास्त्रानुष्ठितं गया-श्राद्ध-फलम् अक्षय-तृप्ति-करं भूयाद् इति भवन्तो ऽनु गृष्णान्तु।

प्र॥

यथा शास्त्रम् अनुष्ठितम् अस्तु। गया-श्राद्ध-फलदम् अस्तु। अक्षय-तृप्तिकरम् अस्तु इति।

“अन्नशेषं किं क्रियताम्” प्र॥ “इष्टैस् सह भुज्यताम्”

अत्र सुन्दर-राजीयोक्तवत् पुराणवचनम्॥

यजमानः दातारो नो ऽभिवर्धन्तां वेदास् सन्ततिर् एव वः, श्रद्धा च नो माव्यपगात्। बहुदेयञ् च नो ऽस्तु। अन्नञ् च नो बहुभवेत्। अतिथींश् च लभेमहि। याचितारश् च नस् सन्तु। मा च याचिष्म किञ्चन। प्र॥ दातारोवोभि वर्धन्तां वेदास् सन्ततिर् एव वः। श्रद्धा च वो माव्यपगात्। बहुदेयञ् च वो ऽस्तु। अन्नञ् च वो बहुभवेत्। अतिथींश् च लभद्वम्, याचितारश् च वस् सन्तु मा च याचध्वं किञ्चन इत्यक्षयम् उच्यताम्।

प्र॥ “अस्त्वक्षयम्”।

पिण्ड-स्थानं गत्वा तच्छूर्पं व्यपोह्य,

पिण्ड-स्थान-गतान् पितॄन् नमो वः पितर

इति अभिवन्द्य।

नमो वः पितरो रसाय, नमो वः पितरश् शुष्माय, नमो वः पितरो जीवाय, नमो वः पितरस् स्वधायै, नमो वः पितरो मन्यवे, नमो वः पितरो घोराय पितरो नमो वः

इति नमस्कृत्य, प्राचीनावीती,

“पिण्डोद्वासनं करिष्ये” इति सङ्कल्प्य।

पितृभ्यः पानीयं ददामि। पितामहेभ्यः प्रपितामहेभ्यः पानीयं ददामि।

उत्तिष्ठत पितरः

पितृ-शूरायमस्य पन्था मनु-वेदापुराणं धत्ताद् अस्मासु द्रविणं यच्छभद्रं प्रणो ब्रूताद्भागधां देवतासु। [[TODO: परिष्कार्यम्]]

पिण्ड-स्थान-गतान् पितृ-पितामह-प्रपितामहान् यथा स्थानम् उद्वासयामि,

इत्युद्वास्य। सर्वान् पिण्डान् जले निक्षिपेत्। अपि वा वायसेभ्यो दद्यात्।

अस्तु “तृप्तिर् आमावाजस्ये"ति भुक्तवतस् तान् नमस्कृत्य, प्रदक्षिणी-कृत्य नमस् कुर्यात्।

अस्तु तृप्तिरमेयाहि मधु-धाम-तिलोदकैः, घृत-पायसपूपान्न,
स्रग् वस्त्रा-भरणादिकैः तृप्ता भवन्तु सततं मम वंश-विवर्धनाः।

[[165]]

आमागन्तां पितरामातराचामासोमो अमृतत्वाय गम्यातो

इति नमस्कुर्वतः यजमानस्य शिरसि “ऋध्यास्म हव्यैरि"ति अक्षतारोपणं कारयेयुः.

ॐ नमस्सदसे…… पृथिव्यै, [[TODO: परिष्कार्यम्]]

ॐ स्वस्ति मन्त्रार्थास् सत्यास् सफलास् सन्त्विति भवन्तो महान्तो ऽनुगृह्णन्तु।

प्र॥ “तथास्तु”।

अनयोर् दम्पत्योः वेदोक्तं दीर्घम् आयुष्यं भूयाद् इति भवन्तो महान्तो ऽनुगृह्णन्तु। अनेन पितृ-यज्ञेन यजमानस्य पितरः नित्य-तृप्ताः भूयासुर् इति भवन्तो महान्तो ऽनुगृह्णन्तु अस्मिन् गृहे महालक्ष्म्या स्थैर्यं शोभन-परम्परावाप्तिश् च भूयाद् इति भवन्तो महान्तो ऽनुगृह्णन्तु।

सर्वे जनास् सुखिनो भवन्तु। समस्त-सन्मङ्गलानि सन्तु। उत्तरोत्तराभिवृद्धिर् अस्तु,

नमस्कृत्य। प्राचीनावीति।

उत्तिष्ठत पितरः…… देवतासु, पितृ-पितामह-प्रपितामहान्य यथा स्थानम् उद्वासयामि।

उपवीती, अप उपस्पृश्य।

वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः, अस्यमध्वः पिबतमादयध्वं तृप्तायात पथिभिर्देवयानैः। [[TODO: परिष्कार्यम्]]

पुरूरवार्द्रव-सञ्ज्ञक-विश्वान्देवान् श्राद्ध-संरक्षक-महा-विष्णुना सह यथा स्थानम् उद्वासयामि।

“परेतपितर” इति तान् प्रवासयति

परेतपितरस्सोम्यागम्भीरैः पथिभिः पूर्वैः। अधापितॄन् सुविदत्राँ अपीत यमेनयेसधमादं मदन्ति। [[TODO: परिष्कार्यम्]]

इति तान् प्रवासयित्वा पृष्ठतो आसीमान्तं गत्वा प्रदक्षिणी-कृत्य नमस्कुर्यात्। अत्र स्वोत्तरीयं द्वार प्रदेशे विस्तरी-कृत्य तेषां गमनानन्तरं “तत्-पाद-धूलिं शिरसा वहेत्” इति “सदाचारानुष्ठानमि"ति केचित्। “उपचार-वार्तां पर्परं वदेदि"ति केचित्। ततो यजमानः पादौ प्रक्षाल्याचम्य होम-स्थाने आसीनः।

ॐ भूः अस्मिन् कर्मणि होमावसाने उपरिष्टात् तन्त्रं करिष्ये

इति सङ्कल्प्य अप उपस्पृश्य।

अदितेनुमन्यस्व…… प्रसुव। [[TODO: परिष्कार्यम्]]

आज्येन यदस्य कर्मण इत्यादि अन्त-होमं कुर्यात्। अत्र विशेषः, “अग्निर् भुक्तमि"ति स्थले अग्निर् भुक्तं, अग्निर् जीर्णं विना प्राचीनावीती।

पितृ-भुक्तं पितामह-भुक्तं प्रपितामह-भुक्तं, पितृ-जीर्णं, पितामह-जीर्णं, प्रपितामह-जीर्णं। एवं मातृ-श्राद्धेपि हुत्वा “पितृ-पत्नी-जीर्णमित्यादि"रिति।

[[166]]

होमान्ते भगवतो बलेन…… भगवत्-कर्म-कृतवान् तद्-भगवान् अनुमन्यताम्

इति सात्विक-त्यागं कृत्वा औपासनाग्निं नित्याग्नि-कुण्डे समिदादौ वा प्रतिष्ठापयेत्। ततः पादौ प्रक्षाल्याचम्य। “कौरुक्षेत्रमि"त्यादि स्नानाङ्ग-तर्पणं कृत्वा, ततः निवीती सन् वस्त्र-निप्पीडनं कृत्वा वाम-प्रकोष्ठे निक्षिप्य, उपवीती सन् आचामेत्।

सूत्रम् –

ततः पञ्च महायज्ञान् करोतीति।

आचम्य शुद्धे देशे बर्हिर् आस्तीर्य ब्राह्मम् आसनम् आस्थायेत्यादि ब्रह्म-यज्ञ-जपं काण्ड-ऋषि-तर्पणञ् च कृत्वा आचम्य। वैश्व-देवार्थं प्रत्येकम् अन्नं पाचयित्वा, तत्-प्रसादं भगवते निवेद्य वैश्व-देवं कुर्यात्, नित्यम् अकृत-वैश्व-देव-होमश् चेत्, औपासनारम्भ-काले औपासन-होमानन्तरं प्रतिदिनं वैश्वदेवाकारण-प्रायश्चित्त-होमं वक्ष्यमाण-रीत्या, श्राद्धानन्तरं वैश्व-देव-होमं हुत्वा

ज्ञातिभिस् सह आत्म-यजनं कुर्यात्। ज्ञाति-व्यतिरिक्तानां पितृ-शेषो न भोक्तव्य

इति स्मृतिः सदाचारश् च। श्राद्धानन्तरं कर्तव्य-देवर्षि-वस्त्र-निष्पीडन-पितृ-तर्पण-विषये, दीक्षितीये “अष्टका श्राद्ध-स्थले” मनुः

पितॄन् सन्तर्प्य विधिवद् बलिं दद्यात् यथा विधि
वैश्व-देवं ततः कुर्यात् पश्चाद् ब्राह्मण-भोजनम्

इति तत्रैव

पितृभ्यो विधिवद् दत्तं तान् प्रवक्ष्याम्यशेषतः।
तिलैर् व्रीहि-यवैर् माषैर् अद्भिः मूल-फलेन वा
दत्तेन मासं प्रियन् ते विधिवत् पितरोनृणाम् ॥

शुभम् अस्तु श्री-विखनस-गुरुभ्यो नमः श्री-वासुदेव-परब्रह्मणे नमः

“हरिः ॐ श्री-विखनस-गुरुभ्यो नमः”