…
विच्छिन्नौपासन-प्रायश्चित्त-विधिः
भो स्वामिनः भवत्-पाद-मूले…… स्वीकृत्य अनया धर्म-पत्न्या सह चिर-काल-विच्छिन्न-पुनस् सन्धान-कर्म कर्तुं योग्यता-सिद्धिर् अस्त्विति भवन्तो महन्तोनुगृह्णन्तु॥
प्र॥ योग्यता सिद्धिरस्तु॥
[[128]]
ॐ भूः श्री-गोविन्द गोविन्द गोविन्द श्री-भगवदा ज्ञा-कैङ्कर्य-रूपं नक्षत्रे राशौ जातायाः मम धर्म-पत्न्याः, नक्षत्रे राशौ जातस्य मम आवयोः समस्त-मङ्गलावाप्त्यर्थं भगवच् चरणारविन्दयोर् अचञ्चल-भक्ति-सिद्ध्यर्थञ् च चिर-काल-विच्छिन्नौपासन-पुनस् सन्धान-कर्म करिष्ये।
विच्छिन्नौपासन-दोष-निर्हरणार्थं यत् किञ्चिद्धिरण्य-दानं करिष्ये
अप उपस्पृश्य। यथा शक्ति दक्षिणां गृहीत्वा,
हिरण्य-गर्भ-गर्भस्थं हेम-बीजं विभावसोः।
अनन्त-पुण्य-फलदम् अतश् शान्तिं प्रयच्छ मे
इदञ् च यत् किञ्चिद्धिरण्यं तण्डुलञ् च मम चिर-काल-विच्छिन्नौपासन-दोष-निर्हरणार्थं महा-विष्णु-प्रीतिं कामयमानः अमुक-गोत्रावमुक[[?]] गोपाल-शर्मणे प्रतिगृहीत्रे तुभ्यम् इदं सम्प्रददे न मम, श्रीकृष्णार्पितमस्तु[[?]]।
ओम् भूः श्री-गोविन्द, शुभ-तिथौ अनया धर्म-पत्न्या सह चिर-काल-विच्छिन्नौपासन-प्रायश्चित्त-होमं होष्यामि,
अप उपस्पृश्य,
अदितेनु मन्यस्व……. प्रसुव, [[TODO: परिष्कार्यम्]]
उत्पूतम् आज्यं “भूर् आज्यं गृह्णामी"ति, स्रुवेण[[?]] चतुर् गृहीतं गृहीत्वा स्रुचा जुहुयात्।
भूर् आज्यं गृह्णामि, भुवर् आज्यं गृह्णामि, सुवर् आज्यं गृह्णामि भूर् भुवस् सुवर् आज्यं गृह्णामि, [[TODO: परिष्कार्यम्]]
आहुति-द्वयस्य एवं सर्वत्राज्य ग्रहणं
सप्तते अग्ने समिधस्सप्त जिह्वास्सप्तऋषयस्सप्तधाम प्रियाणि[[?]] सप्तहोत्रास्सप्त धात्वा यजन्ति सप्त योनीरापृणस्वामृतेन स्वाहा[[?]] (अग्नये सप्तवत इदम्।) [[TODO: परिष्कार्यम्]]
ऋतुधान विद्वाननुष्टुप्घृतेन पूर्णमाहुतिञ्जुहोति, म[?]प्रजापतये स्वाहा, (प्रजापतय इदम्।) भूराज्यं गृह्णामि…….. भूर्भुवस्सुवराज्यं, गृह्णामि,
[[129]]
आहुति-त्रयस्य
तन्तुन्तन्वन्रजसो भानुमन्विहिज्योतिष्मतः पथो रक्षथियाकृतान्। अनुल्बणं वयतजोगुवामपोमनुर्भवजनया दैव्यं जनग्ग् स्वाहा, (अग्नये तन्तुमत इदम्।) [[TODO: परिष्कार्यम्]]
उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्तेसँ सृजेथामयञ्च। पुनः कृण्वग्ग्स्त्वा पितरं युवानमन्वाताँ सीत्वयि तन्तुमेतग्ग् स्वाहा, (अग्नये तन्तुमत इदम्।)
त्रयस्त्रिँ शत्तन्तवो ये वितत्निरे य इमं यज्ञग्ग् स्वधया मदन्ते तेषाञ्छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवाँ अप्येतु स्वाहा, (अग्नये तन्तुमत इदम्।)
आहुति-चतुष्टयस्य
भूराज्यं गृह्णामि ….. आज्यं गृह्णामि। [[TODO: परिष्कार्यम्]]
अग्नेभ्यावर्तिन्नभिन आवर्तस्वायुषा वर्चसा सन्यामेधया प्रजया धनेन स्वाहा, (अग्नये अभ्यावर्तिन इदम्।) [[TODO: परिष्कार्यम्]]
अग्ने अङ्गिरश्शतन्ते सन्त्वावृतस्सहस्रन्त उपावृतः, तासां पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि स्वाहा, (अग्नये अभ्यावर्तिन इदम्।) [[TODO: परिष्कार्यम्]]
पुनरूर्जानि वर्तस्य पुनरग्न इषायुषा, पुनर्नः पाहि विश्वत स्वाहा, (अग्नये अभ्यावर्तिन इदम्।) [[TODO: परिष्कार्यम्]]
सहरय्या निवर्तस्वाग्ने पिन्वस्वधारया, विश्वप्स्निया विश्वतस्परि स्वाहा, (अग्नये अभ्यावर्तिन इदम्।) [[TODO: परिष्कार्यम्]]
भूराज्यं गृह्णामि, …. भूर्भुवस्सुवराज्यं गृह्णामि [[TODO: परिष्कार्यम्]]
आहुत्येकस्य।
मनोर्ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिमन्दधातु, या इष्टा उषसोनिम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा। (मनसे ज्योतिष इदम्।) [[TODO: परिष्कार्यम्]]
भूराज्यं गृह्णामि ……….भूर्भुववस्सुवराज्यं गृह्णामि। [[TODO: परिष्कार्यम्]]
[[130]]
एकाहुतेः
प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः, पृतनाज्येषु। तस्मै विशस्समनमन्तस्सर्वास्स उग्रस्सहिहव्यो बभूव स्वाहा। (प्रजापतय इदम्।) [[TODO: परिष्कार्यम्]]
ओम् भूस्वाहा ……..(प्रजापतय इदम्।) [[TODO: परिष्कार्यम्]]
एकाहुतेः
भूराज्यं गृह्णामि, अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः, अनुसूर्यस्य पुरुत्राचरश्मीननुद्यावा पृथिवी आततान स्वाहा, (अग्नये अनुख्यात्र इदम्।) [[TODO: परिष्कार्यम्]]
भूर् आज्यं गृह्णामि एकाहुतेः
अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्वमया असि, अयसामनसा धृतोयसा हव्यमूहिषे यानोधेहि भेषजग्ग् स्वाहा, (अग्नये अयस इदम्।) [[TODO: परिष्कार्यम्]]
भूर् आज्यं गृह्णामि - आहुतेर् एकस्य
उद्वयं तमसस्परि … ज्योतिरुत्तमं स्वाहा, (ज्योतिष्मत्या इदम्।) [[TODO: परिष्कार्यम्]]
एकाहुतेः
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि। घृतम्पीत्वा मधुचारुगव्यं पितेवपुत्रमभिरक्षतादिमं स्वाहा। (अग्नये आयुर्दायेदम्।) [[TODO: परिष्कार्यम्]]
भूर् आज्यं गृह्णामि - आहुति-द्वयस्य
यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणि स्वाहा, (अग्नये जातवेदसे विचर्षण इदम्।) [[TODO: परिष्कार्यम्]]
पुनरग्निश्चक्षुरदात्पुनरिन्द्रो बृहस्पतिः पुनर्मे अश्विनायुवं चक्षुराधत्तमक्ष्योस्स्वाहा। (अग्नीन्द्र बृहस्पत्यश्विभ्य इदम्।) [[TODO: परिष्कार्यम्]]
भूर् आज्यं गृह्णामि, आहुति-चतुष्टयस्य व्याहृतीश् च।
ओम् भूस्वाहा, (अग्नय इदम्), (प्रजापतय इदम्।)अदितेन्वमग्ग्स्थाः - देवसवितः प्रासावीः। [[TODO: परिष्कार्यम्]]
औपासन-क्रमः
अस्मद्गु-गुरुभ्यो नमः, श्री-विखनस-गुरुभ्यो नमः,
ओम् भूः - श्री-गोविन्द गोविन्द गोविन्द। अद्य पूर्वोक्त एवं गुण-विशेषण-विशिष्टायाम् अस्यां शुभ-तिथौ अनया धर्म-पत्न्या सह श्रीमन्नारायण प्रीत्यर्थं भगवदाज्ञा-कैङ्कर्य-रूपं, पूर्वेद्युस्स सायम् औपासनेन सह अद्य प्रातर् औपासन-होमं होष्यामि,
अप उपस्पृश्य, “यथाह तदि"ति दक्षिणादि वेदीः प्रदक्षिणं साधावेन पाणिना चतुर् दिशं परिमृज्य।
[[131]]
यथाहतद्वसवो गौर्यं चित्पदिषिताममुञ्चतायजत्राः। येवात्वमस्मत्प्रमुञ्चाव्यँहः प्रातार्यग्ने प्रतरान्न आयुः। अदितेनु मन्यस्व …….. प्रसुव॥ [[TODO: परिष्कार्यम्]]
सूत्रम् –
नित्यं यवैर् व्रीहिभिर् वा हस्तेन जुहोति, अत्र स्मृत्याम् आहुतिं प्रति शत-मान-व्रीहिभिर् जुहुयात्, प्रथमं समिधम् अग्नौ निधाय ततो होमान्ते च समिधम् अग्नौ निदध्यात्। “आहुति-संसर्गं विना जुहुयादि"ति विशेषः, द्वि-शत-मान-व्रीहीन् गृहीत्वा पत्न्याः हस्तयोर् दत्वा पुनस् सङ्गृह्य द्वेधा विभज्य “होष्यामी"ति आचार्यं प्रत्युक्त्वा आचार्येण जुहुधि, इत्युक्तस् सन् पश्चि-पूर्वयोर् जुहुयात्।
ओम् अग्नये स्वाहा, (अग्नय इदम्),
इति पश्चिमे।
प्रजापतये स्वाहा, (प्रजापतय इदम्),
इति पूर्वे जुहुयात्।
अदितेन्वमग्ग्स्थाः …….. प्रासावीः। [[TODO: परिष्कार्यम्]]
पुनः तथा
अदितेनुमन्यस्व …….. प्रसुव। [[TODO: परिष्कार्यम्]]
पूर्ववत् व्रीहिन् गृहीत्वा द्वेधा विभज्य, “होष्यामी"ति यजमानः जुहुधि। इत्याचार्येण उक्तः पूर्ववत् तद् उत्तरे पश्चिम-पूर्वयोर् जुहुयात्।
सूर्याय स्वाहा, (सूर्यायेदम्।) प्रजापतये स्वाहा, (प्रजापतय इदम्,)
यथाहतत् ……..आयुः। [[TODO: परिष्कार्यम्]]
अदितेन्वमग्ग्स्थाः …….. प्रासावीः, [[TODO: परिष्कार्यम्]]
[[132]]
“श्री-कृष्णाय नम” इति द्वादश-वारं जप्त्वा अधि श्रयणानन्तरं “भूतिस्माते” इति बर्हिषो भस्म गृहीत्वा।
मन्त्रः –
भूतिस्माते लभते नित्यँ सर्व यज्ञकृतं भवेत्, अग्निमारुतयोः भूतिः [[TODO: परिष्कार्यम्]]
सूत्रम् –
वामहस्ते सम्मर्द्य ललाट-हिक्क-बाहु-कण्ठोदरादीन् आदित्यस् सोमो नम इत्यूर्ध्वाग्रं चतुर् अङ्गुलोन्नतम् उपलिप्येति।
सूत्रम् –
अत्र द्वादशोर्ध्व-पुण्ड्रवदिति सुन्दरराजीये
मन्त्रः –
आदित्यस्सोमो नमः त्रियायुषं जमदग्नेः कश्यपस्य त्रयायुषं यद्देवानां त्रयायुषं तन्मे अस्तु त्रयायुषं दीर्घायुत्वाय बलायशताय शतञ्च वर्चसे त्रयायुषम्। [[TODO: परिष्कार्यम्]]
“बृहत्सामक्षत्रभृदि"ति स्त्रियः, ललाटे “ऊर्ध्वाग्रन्धारयेदि"ति स्मृतौ, श्रौते।
मन्त्रः –
बृहत्सामक्षत्रभृद्वृद्धवृष्णियं त्रिष्टुभौजश्शुभितमुग्रवीरम् इन्द्रस्तोमेन पञ्चदशेन, मध्यमिदंवातेन सगरेण रक्ष। [[TODO: परिष्कार्यम्]]
“अपोहिष्ठे"ति पुण्याहोदकेन प्रोक्षयति।
आपोहिष्ठामयोभुवः……. जनयथाचनः। [[TODO: परिष्कार्यम्]]
“यत्ते अग्ने"त्यग्निम् उपस्थाय
मन्त्रः –
यत्ते अग्ने तेजस्ते नाहन्तेजस्वी भूयासं। यत्ते अग्ने वर्चस्ते नाहं वर्चस्वी भूयासं। यत्ते अग्ने हरस्ते नाहँ हरस्वी भूयासं, मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु। मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु। मयि मेधां मयि प्रजां मयिसूर्यो भ्राजो दधातु। [[TODO: परिष्कार्यम्]]
“उद्वयं तमस” इति यत्रादित्यो दृश्यते तत्रादित्यं चोपस्थाय।
मन्त्रः –
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम्, देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्। उदुत्यं…. मुच्चरत्। पश्येमशरदश्शतं…. ज्योक्च सूर्यन्दृशे, यउदगात्… पुनातु। कामोकार्षीत्…. [[TODO: परिष्कार्यम्]]
अभिवादये…. अहम् अस्मि भो।
[[133]]
कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं हुताशन
यद्धुतं मया देव परिपूर्णं तद् अस्तु ते॥
प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै।
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्॥
“श्री-कृष्णाय नम” इति द्वादश-वारं जपेत्॥
नित्यौपासन-विधिः
पूर्ववत् पत्न्या सह त्रिः प्राणानायम्य।
ॐ भूः, अस्यां शुभ-तिथौ अनया मम धर्म-पत्न्या सह प्रातर् औपासन होमं होष्यामि।
अप उपस्पृश्य।
इन्द्रायनमः………ईशानायनमः।
सर्वोपचारान् समर्पयामि।
अग्नेर् भगवतः, अगस्त्यो भगवान् ऋषिः। ध्यानम्। चत्वारिशृङ्गा…., अभिमुखो भव।
अग्नये नमः, जातवेदसे नमः, पावकाय नमः, हुताशनाय नमः। इन्द्रादिभ्यो नमः सर्वोपचारान् समर्पयामि।
मन्त्रः –
यथाहतद्वसवोगौर्यञ्चित् पदिषिताममुञ्चतायजत्राः एवात्वमस्मत् प्रमुञ्चाव्यँहः प्रातार्यग्ने प्रतरान्न आयुः [[TODO: परिष्कार्यम्]]
अग्नि-कुण्ड-व्यतिरिक्त-विषये चतुर्भिः दर्भैः चदुर् दिशं परिस्तीर्य।
अदितेनु मन्यस्य…. प्रसुव, होष्यामि।
जुहुधि - पूर्ववत् व्रीहिभिस् सेध्मं जुहुयात् प्रातः।
सूर्याय स्वाहा, (सूर्यायेदम्) प्रजापतये स्वाहा (प्रजापतय इदम्)
यथाहतत्….. आयुः। अदितेन्वमग्ग्स्थाः…. प्रासावीः। भूतिस्माते, आपोहिष्ठा…. यत्ते अग्ने, उद्वयं तमस [[TODO: परिष्कार्यम्]]
इति पूर्ववद् उक्त्वा, प्रणम्य,
प्रायश्चित्तान्य…. कृष्णानु स्मरणं परम्।
सात्विक-त्यागं,
भगवतो बलेन…. भगवत्-कर्म कृतवान्… तद् भगवान् अनुमन्यताम्।
रात्रौ चेत् सर्वं पूर्ववत्
[[134]]
अग्नये स्वाहा, (अग्नय इदम्), प्रजापतये स्वाहा (प्रजापतय इदम्।)
अग्ने नयसुपथारये अस्मान्विश्वानि देववयुनानि विद्वान्, युयोद्ध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम। कामोकार्षीन्मन्युरकार्षीन्… अभिवाद्य। [[TODO: परिष्कार्यम्]]
पूर्ववत् सात्विक-त्यागं “भगवतो बलेने"ति मन्त्रेण कुर्यात्। एवं नित्यं सायं प्रातर् औपासनं कुर्यात्।
हरिः ओम्
वासुदेवार्पणम् अस्तु
धार्याग्नि-सन्धान-विधिः
सूत्रम् –
पाणि-ग्रहण प्रभृति गृहस्थोपि स्नानं सन्ध्योपासनं ब्रह्म-यज्ञं च कृत्वा - नित्यं विवाहाग्नौ औपासने परिस्तिर्य परिषिच्य, सायं प्रातः व्रीहिभिः अग्नि-होत्र-हविषा वा होमं जुहुयात्। सायं हीने प्रातर् अग्नये स्वाहा। वैश्वानराय स्वाहेति, प्रातर् हीने अग्नये स्वाहा पथिकृते स्वाहेति प्रायश्चित्ताहुती हुत्वा पूर्ववत्। आत्र्यहाज्जुहोतिर् औपासने अजस्रे वर्तमाने त्र्यहे होमे विच्छिन्ने पतिर् एकोपवासं कृत्वा पुनर् आधानं करोति। सद्योनुगते, क्षिप्रं त्र्यहाभ्यन्तरे अग्निं ध्यात्वा तद्-भस्म अयन्ते योनिरिति समिधमारोप्य, उद्बुध्य स्वेति लौकिकाग्नौ समिधं निधाय। पूर्ववत् प्रायश्चित्तं हुत्वा नित्यं जुहुयात्। अनुगते त्र्यहे हीने अन्याग्नेर् अपि संसर्गे पत्नी प्राजापत्यं पाद-कृछ्रं वा पतिर् एकोपवासं कृत्वा पुनर् आधानं करोति।
इति श्री-वैखानस-सूत्रे प्रायश्चित्ते पञ्च-दशः खण्डः
अत्र भाष्ये विशेषः अग्नि-होत्र-हविषेति व्रीह्यभावे यच्छ्रौतोक्तं क्षीराज्य-दधि-वाग्वन्न-तण्डुल-पिष्ट-सोमरसानाम् अन्यतमेन वा होमं कुर्यात्। तत्रैव भाष्ये औपासनाग्नौ यद्यात्मारोपिते यजमानः नाप्सु मज्जेत्। स्त्री-शूद्र-सम्भाषण-परिवेषणादीन् वर्जयेत्। सूतक-प्रेतकाभोज्य-भोजनानि च वर्जयेत्, एवं कर्तुम् अशक्तश् चेत्, आश्वत्थ-खदिर-पालाशानाम् मन्यतमां साग्रां समिधम् आदाय “उपावरोहे"ति मन्त्रं जपन् यावत् कृष्टं तावत् तप्त्वा
[[135]]
समारोप्य गच्छेत् “अहरहस्तेनैवोपावरोहे"ति मन्त्रेण तां समिधं लौकिकाग्नौ, निधाय अग्निम् अवरोप्य पूर्ववज् जुहुयात् एवं नित्यं हुत्वा होमान्ते पूर्ववद् अग्निं समारोपयेद् एवम् अरण्यादौ समारोपणे कृते होमे विच्छिन्ने पूर्ववत् प्रायश्चित्तं तत्-तत्-कालाहुते च हुत्वा आद्वादशाहाज् जुहोति, द्वादशाहे होमे विच्छिन्ने सति पुनर् आधानं करोति।
सूतक-प्रेतकयोर् अस्वेन[[??]]। ब्रह्म-चारिणा असपिण्डेन अन्येन ब्राह्मणेन वा नित्य-होमः कर्तव्यः। तद्-असम्भवे आशौचान्ते मथितम् अग्निं समिधं वा लौकिकाग्नाववरोप्य पूर्ववत् प्रायश्चित्तम् आद्वादशाहात् जुहोति। तात्कालिक-होमं च जुहुयात्, यद्यात्मारोपिताग्निः तस्याशौचान्ते पुनर् आधानं कर्तव्यम्।
इति षष्ट-प्रश्न-सूत्र-भाष्ये सप्तम-पटले द्रष्टव्यम्