०४ होमः

आघारः

आघारपीठिका

श्रौत-स्मार्तादिकं कर्म-निखिलं येन सूत्रितं, तस्मै समस्त-वेदार्थ-विदे विखनसे नमः ॥

श्री-सूत्रम् – अथाग्न्यायतनं प्राक्-प्रवणे उत्तर-प्रवणे वा शुद्धे देशे गोमयेनोपलिप्ते शुद्धाभिस् सिकताभिः प्राक्-पश्चिमं दक्षिणोत्तरं च द्वा-त्रिंशदङ्गुल्यायतं द्व्यङ्गुलोन्नतं यथा लाभोन्नतं वा स्थण्डिलम् अग्न्यालयं भवति॥ परिस्तरण-बर्हिषः प्रतिदिक् पञ्च-दश-स्थण्डिल-प्रमाणाः कुण्डे षट्त्रिंशद्-अङ्गुलास् तथैकाङ्गुलि-परिणाहाः व्रण-वक्र-हीनाः परिधयः पञ्च-दश-दर्भैर् ग्रथितं चतुर् अङ्गुलाग्रं द्व्यङ्गुल-ग्रन्थिं हस्त-मात्रं प्रोक्षण-कूर्चं तथैव द्वा-दशाङ्गुल-मात्रं पवित्रं तत्-प्रमाणा याज्ञिकास् समिधः पात्र-स्रुवादयो यज्ञे प्रोक्ताः, दर्भेषु द्वन्द्वं पात्रादि-सम्भारान् उत्तरे दैविके प्रत्येकं दक्षिणतः पैतृके सम्भरति॥ नित्य-होमे ऽग्नि-शालायां मृदा चतुर् देशं द्वा-त्रिंशदङ्गुल्यायतां चतुर् अङ्गुल-विस्तारां द्व्यङ्गुलोन्नताम् ऊर्ध्व-वेदिं चतुर् अङ्गुल-विस्तारोन्नताम् अधो वेदिञ् च मध्ये निम्नं षडङ्गुलम् अग्नि-कुण्डं कृत्वा ऽस्मिन् गृहस्थाग्निम् औपासनम् आधाय नित्यं जुहोति - वनस्थस्य श्रामाणिकाग्नेः कुण्डम् आधान-विशेषञ् च धर्मे वक्ष्यामः॥

इति श्री-वैखानस-सूत्रे प्रथम-प्रश्ने अष्टमः खण्डः॥

अघार-प्रयोगः

यजमानः पादौ प्रक्षाल्याचम्य। धृत-द्वा-दशोर्ध्व-पुण्ड्रः शुद्धे देशे चतुर् हस्तायत-विस्तारं गो-चर्मेत्युक्तम्। गो-चर्म-मात्रम् उपलिप्य। पैष्ट्या

[[108]]

भूमिम् अलङ्कृत्य, तत्र शुद्धाभिस् सिकताभिः प्राक्-पश्चिमं दक्षिणोत्तरं च। द्वा-त्रिंशद् अङ्गुल्यायतं द्व्यङ्गुलोन्नतं यथा लाभोन्नतं वा स्थण्डिलम् उपकल्प्य, अथाघार-विधानं, ब्राह्मं प्राङ्मुखम् आसीनः अग्नेर् उत्तरतः प्रागग्रान् दर्भान् आस्तीर्य। तेषु दर्भ-दर्वी-सुक्-सृव-प्रणिध्याज्य-स्थाल्यादीन् द्वन्द्वम् अवाङ्मुखं प्रागन्तं सन्यस्य। अग्नेर् नैऋत्यां धान्योपरि जल-पूर्ण-करकं निधाय। तस्मिन् प्रोक्षण-कूर्चं निधाय। उभय-पवित्र-पाणिः प्राणायामं कृत्वा।

ॐ भूः॥ अद्य पूर्वोक्त एवं गुण-विशेषण-विशिष्टायाम् अस्यां (पञ्चम्यां) शुभ-तिथौ अनया धर्म-पत्न्या सह चिर-काल-विच्छिन्नौपासन-पुनस् सन्धान-कर्माङ्गम् एतस्मिन् स्थण्डिले आघार-कर्म करिष्ये।

सूत्रम् –

अप उपस्पृश्य। “एतोन्विन्द्रमि"त्यग्न्यालयं कुण्डं स्थण्डिलं वा कूर्चेन प्रोक्ष्य।

मन्त्रः –

एतोन्विन्द्रं स्तवामशुद्धं शुद्धेनसाम्ना। शुद्धैरुकेर्वा वृद्ध्यांसं शुद्ध आशीर्वान्ममत्तु। इन्द्रशुद्धोन आगहिशुद्धश्शुद्धाभिरूतिभिः। शुद्धोरयिं निधारय शुद्धोममद्धि सोम्यः। इन्द्रशुद्धोहिनोरयिं शुद्धोरत्नानि दाशुषे। शुद्धोवृत्राणि जिघ्नसे। शुद्धोवाजं सिषाससि॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

मयि देवादिभिश् चतुर् दिशं चतुरश् चतुरो दर्भान् प्रागग्रान् उत्तराग्रानुक्षयेत्।

मन्त्रः –

मयिदेवा द्रविणमायजन्तां मय्याशीरस्तु मयिदेवहूतिः। दैव्याहोतारावनिषन्तपूर्वेऽरिष्टास्याम तनुवासुवीराः॥ [[TODO: परिष्कार्यम्]]

इति पूर्वतः।

मह्यं यजन्तु ममयानि हव्याकूतिस्सत्या मनसोमे अस्तु। एनो मानिगां कतमच्चनाहं विश्वेदेवासो अधिवोचतामे॥ [[TODO: परिष्कार्यम्]]

इति दक्षिणतः।

देवीष्षडुर्वीरुरुणः कृणोत विश्वेदेवास इहवीरयध्वम्। माहास्महि प्रजयामातनूभिर्मारधामद्विषते सोमराजन्॥ [[TODO: परिष्कार्यम्]]

इति पश्चिमतः॥

अग्निर्मन्युं प्रतिनुदन्पुरस्ताददब्दोगोपाः परिपाहिनस्त्वम्। प्रत्यञ्चोयन्तु निगुतः पुनस्तेमैषां चित्तं प्रबुधाविनेशत्॥ [[TODO: परिष्कार्यम्]]

इत्युत्तरतः।

[[109]]

सूत्रम् –

“उद्धन्यमानमि"ति मध्यापर-पूर्व-यम-निरत्यग्नि-सोम-मरुद्-ईशानानि युग्म-बर्हिषा खनति॥

मन्त्रः –

उद्धन्यमानमस्या अमेथ्यमपपाप्मानं यजमानस्य हन्तु। शिवानस्सन्तु प्रदिशश्चतस्रश्शन्नो माता पृथिवीतोकसाता॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

तथा “पूतह्यतन” इति मध्य-यम-सोमेषु पश्चिमादि-प्रागन्ताः तिस्रः - मध्यापर-पूर्वेषु दक्षिणाद्युत्तरान्ताः तिस्रः - एवं षड्-रेखाः प्रादेश-मात्राः लिखति।

मन्त्रः –

पूतह्यतनेन सौम्याः कृणुध्वँ रशनाहोतविँ शत्॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“अष्टाबन्धमि"ति वक्रितं युग्म-दर्भं दक्षिण-पश्चिमस्यां दिशि विसृज्य।

अष्टाबन्धँ रशनाभितोऽहरं येनदेवासो जनयन्नभिष्क्रियाः। सूर्येण ब्रह्मऋतथाविदुरधैकं चक्रं यद्गुहातदहं विश्वेदेवासो अनुदन्मानु जातँ। श्रोत्रन्ते चक्रे आस्तान्द्वि पन्थाः। चराचर शुचीते पुत्रं वृणीत पूषायदयातँ शुभस्पती वरेयम्॥ [[TODO: परिष्कार्यम्]]

अप उपस्पृश्य। रेखाः गायत्र्या प्रोक्ष्य -

तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि धियोयोनः प्रचोदयात्॥ [[TODO: परिष्कार्यम्]]

रेखा-मध्ये हिरण्य-शकलं मुष्टि-मात्र-व्रीहीन् वा निधाय।

भाष्ये॥

राक्षस-रौद्र-नैरृत-पैतृक-छेदन-भेदन-खनन-निरसनावघ्रातात्माभिमर्शनानि च कृत्वा। “सर्वत्राप उप स्पृशेदि"ति॥

सूत्रम् –

“जात-वेदो भुवनस्ये"त्यरणिं गृहीत्वा। मथितं लौकिकं वा ऽग्निमादाय, आहरेत यत। यद्यात्मा-रोपितस् समिदारोपितो वा अग्निः तदा लौकिकम् अग्निम् आदायास्मिन्नौपासनाग्निम् उपावरो हेत्यवरोप्य। अत्र तत्-तत्-कर्म-होमं हुत्वा, पुनरुपावरो हेत्यग्निम् आहरेत औपासनाग्नि-पक्षे लौकिकाग्नि-पक्षे च “जात-वेदो भुवनस्ये"ति मन्त्रो लुप्यत

इति भाष्ये।

मन्त्रः –

जातवेदोभुवनस्यरेत इहसिञ्चतपसो यज्जनिष्यसे। अग्निमश्वत्थादधिहव्यवाहँ शमीगर्भाज्जनयन्योमयोभूः॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“घृत-प्रतीक” इति गो-करीषाद्यैः प्रज्वाल्व

मन्त्रः –

घृतप्रतीकोघृतयोनिरग्निः। घृतैस्समिद्धो घृतमस्यान्नम्। घृतपृषस्त्वा सरितो वहन्ति। घृतं पिबन्सुयजायक्षिदेवान्॥ [[TODO: परिष्कार्यम्]]

[[110]]

सूत्रम् –

“आयुर्दा” इति प्रणम्य॥

मन्त्रः –

आयुर्दा अग्ने हविषोजुषाणो घृतप्रतीको घृतयोनिरेधि, घृतं पीत्वा मधुचारुगव्यं पितेव पुत्रमभिरक्षतादिमम्॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“उपावरोह” इति तम् अग्निं स्थण्डिल-मध्ये निधाय।

मन्त्रः –

उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वहनः प्रजानन्। आयुः प्रजाँ रयिमस्मासुधेह्यजस्रोदीदिहिनोदुरोणे॥ [[TODO: परिष्कार्यम्]]

अत्र अग्नि-ग्रहण-पात्रे सजलाक्षतान् निधाय

इति। वसन्तयाजीय व्याख्याने उक्तम्॥

अग्न आया हि। अयन्तो योनिरितीन्धनैः पुनः प्रज्वाल्य।

अग्न आयाहि वीतये गृणानो हव्यदातये। निहोतासत्सिबर्हिषि॥ अयन्तेयो निरृत्वियो यतोजातो अरोचथाः। तञ्जानन्नग्न, आरोहाथानो वर्धयारयिम्॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“मयि गृह्णामी"त्यभिवन्द्येति॥

अत्र प्रायश्चित्त-सूत्र-भाष्ये अभिमुखम् आसीनम् अग्निम् इन्द्रादींश् च ध्यात्वा अभ्यर्च्येति॥

मयिगृह्णाम्यग्रे अग्निँ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय। मयिप्रजां मयिवर्चोदधाम्यरिष्टास्याम तनुवासुवीराः। योनो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याँ आविवेश॥ तमात्मन्परिगृह्णीमहेवयं मासो अस्माँ अवहाय परागात्। [[TODO: परिष्कार्यम्]]

अग्नि-ध्यान-मन्त्रस्य अगस्त्य-ऋषिः। अनुष्टुप्-छन्दः। हुताशनो देवता। रं बीजं स्वाहा-शक्तिः। स्वधा-कीलकम्। औपासन-होम-सिद्ध्यर्थे विनियोगः॥

स्वस्ति-पूर्ण-मुखात्मने अङ्गुष्ठाभ्यां नमः तेजो राशये तर्जनीभ्यां नमः धूम्राक्षाय मध्यमाभ्यां नमः धनुर्धराय अनामिकाभ्यां नमः सहस्रार्चिषे कनिष्टिकाभ्यां नमः वैश्वानराय कर-तल-कर-पृष्ठाभ्यां नमः। एवं हृदयादिन्यासः॥ “भूर्भुभुवस्सुवरोमि"ति दिग्बन्धः॥

[[111]]

ध्यानं –

अग्नि-ध्यानं प्रवक्ष्यामि सर्व-होमार्थ-सिद्धये।
आत्माभिमुखम् आसीनं ध्यायेद् देवं हुताशनम्॥
ब्राह्म-मासनम् आसीनं कुण्ड-मध्ये हुताशनम्।
प्रत्यङ्मुखं रक्त-वस्त्रं तरुणादित्य सन्निभम्॥
स्वाहा स्वधाभ्याम् आसीनं सर्व-देवात्मकं परम्।
एकं वै हृदयं तस्य त्रयः पादाश् शिरोद्वयम्।
चतुश् शृङ्गं चतुर् नेत्रं सप्त-जिह्वं द्वि-नासिकम्।
कृष्णाजिनोत्तरासङ्गं मौञ्जी-दण्ड-समन्वितम्।
बिभ्रतं दक्षिणे शक्तिम् अक्ष-मालां च स्रुक्-स्रुवौ। तोमरं व्यजनं चाज्य-पात्रं वै वाम-बाहुभिः॥
मेषारूढं सुतीक्ष्णं च स्फुरन् मकर-कुण्डलम्।
चित्र-वर्णाम्बरोष्णीषं रत्न-माला-विभूषितम्।
होतारं सुमुखी-कृत्य सप्तैधस् सप्त-बाहुकम्।
दीप्तं सुवर्ण-वपुषं तुङ्ग-पिङ्गल-लोचनम्। बिम्बेन यज्ञ-मूर्तिञ् च कुर्याद् एवम् इति श्रुतिः।
होम-कालेग्नि-रूपञ् च गुह्यं सर्वत्र सिद्धि-दम्। इत्थं रूपं स्मरेद् अग्निं ध्यात्वा कर्म समारभे॥

मन्त्रः –

चत्वारि शृङ्गास्त्रयो अस्यपादाद्वेशीर्षे सप्तहस्तासो अस्य। त्रिधाबद्धो वृषभोरोरवीति महोदेवो मर्त्यागम् आविवेश। एषहि देवः प्रदिशोनु सर्वाः पूर्वोहि जातस्स उगर्भे अन्तः। सविजायमानस्सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः॥ [[TODO: परिष्कार्यम्]]

अभिमुखो भव।

अग्नये नमः ध्यायामि, आवाहयामि आसनादि-सर्वोपचारान् समर्पयामि। इन्द्राय नमः, अग्नये नमः, यमाय नमः, निरृतये नमः, वरुणाय नमः, वायवे नमः, कुबेराय नमः, ईशानाय नमः, ध्यायामि, आवाहयामि॥

[[112]]

सूत्रम् –

“कर्मणेवामि"ति करौ प्रक्षालयति,

मन्त्रः –

कर्मणेवान्देभ्यश्शकेयम्, [[TODO: परिष्कार्यम्]]

सूत्रम् –

“इदमापश्शिवा” इत्यपोभिमन्त्र्य।

मन्त्रः –

इदमापश्शिवाश्शिवतमाश्शान्ताश्शान्ततमाश्शुभाश्शुभतमाः पूताः पूततमाः पुण्याः पुण्यतमामेध्या मेध्यतमा अमृता अमृतरसाः, पूताब्रह्म पवित्रेण पूतास्सूर्यस्य रश्मिभिः॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“अदितेनुमन्यस्वे"ति दक्षिण-वेदिं नैरृत्याद्याग्नेयान्तम्। “अनुमतेनुमन्यस्वे"ति तथा पश्चिम-वेदिं नैरृत्यादि-वायव्यान्तम्। “सरस्वतेनुमन्यस्वे"ति उत्तर-वेदिं वायव्यादीशानान्तम्। “देवसवितः प्रसवे"ति पूर्व-वेदिम् आग्नेयादीशानान्तम्, साधावेन पाणिना देव-तीर्थेन कूर्चेन वा परिमृजेत्।

अदितेनु मन्यस्व दक्षिणतो वेदिं परिमृजामि। सत्येनत्वा परिमृजामि। सत्यव्रतोऽहमस्मि। [[TODO: परिष्कार्यम्]]

अनुमतेनुमन्यस्व पश्चिमतो वेदिं परिमृजामि सत्येनत्वा परिमृजामि सत्यव्रतोऽहमस्मि। [[TODO: परिष्कार्यम्]]

सरस्वतेनुमन्यस्वोत्तरतो वेदिं परिमृजामि सत्येनत्वा परिमृजामि सत्यव्रतोऽहमस्मि। [[TODO: परिष्कार्यम्]]

देवसवितः प्रसुव पुरस्ताद्वेदिं परिमृजामि सत्येनत्वा परिमृजामि सत्यव्रतोऽहमस्मि। [[TODO: परिष्कार्यम्]]

सूत्रम् –

गायत्र्या चतस्रोवे दीः प्रोक्षयति।

मन्त्रः –

तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियोयोनः प्रचोदयात्॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

वेद्याः दक्षिणोत्तरयोः अग्न्यभिमुकौ ब्रह्म-सोमावृत्विजौ वरयित्वा - ब्राह्मणाभावे अग्नेर् धक्षिणोत्तरयोः स्थण्डिलयोः प्रत्येकं हस्त-मात्र-कूर्चयोः ब्रह्म-सोमावावाहयेत्।

मन्त्रः –

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः। सबुध्निया उपमा अस्यविष्ठाश्शतश्चयोनि मसतश्च विवः॥ [[TDO: परिष्कार्यम्]]

[[113]]

ॐ भूः ब्रह्माणम् आवाहयामि, ॐ भुवः प्रजापतिम् आवाहयामि ओँ सुवः हिरण्यगर्भम् आवाहयामि, ॐ भूर् भुवस् सुवः पितामहम् आवाहयामि।

सोमोधेनुँ सोमो अर्वन्तमाशुँ सोमोवीरं कर्मण्यं ददातु, सादन्यं विदध्यँ सभेयं पितुश्श्रवणं योददाशदस्मै॥ [[TODO: परिष्कार्यम्]]

ॐ भूः सोमम् आवाहयामि, ॐ भुवर् यज्ञाङ्गम् आवाहयामि, ओँ सुवर् इन्दुम् आवाहयामि। ॐ भूर्भुवस्सुवश् चन्द्रम् आवाहयामि।

ब्रह्मण इदम् आसनम्, सोमस्य इदम् आसनम्॥ प्लोतं समर्पयामि। कदली-फलं गुडोपहारं ताम्बूलञ् च निवेद्य॥

सूत्रम् –

अध्वर्युः “ॐ भूपते भुवन-पत” इति प्रत्येकं प्रेक्ष्य।

मन्त्रः –

ॐ भूपते भुवनपते महतोभूतस्यपते, ब्रह्माणन्त्वावृणीमहे॥ [[TODO: परिष्कार्यम्]]

उत्तरतः॥

ॐ भूपते भुवनपते महतोभूतस्यपते सोमगं राजानन्त्वा वृणीमहे। [[TODO: परिष्कार्यम्]]

सूत्रम् –

इत्युक्त्वा, ताभ्याम् “अहम्भूपति"रित्युक्ते सति,

मन्त्रः –

अहं भूपतिरहम्भुवनपतिरहं महतोभूतस्य पतिः, देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि, देवसवितरेतन्त्वावृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि, मनोगायत्र्यै, गायत्री त्रिष्टुभे, त्रिष्टुब्जगत्यै जगत्यनुष्टुभे अनुष्टुक्पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्योदेवेभ्यः - विश्वेदेवा बृहस्पतये, बृहस्पतिर्ब्रह्मणे, ब्रह्मभूर्भुवस्सुवः, बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणां बृहस्पते यज्ञं गोपाय। [[TODO: परिष्कार्यम्]]

उत्तरतः –

ॐ भूपते भुवनपते महतोभूतस्यपते सोमँ राजानन्त्वावृणीमहे, अहम्भूपतिरहं भुवनपतिः अहं महतोभूतस्यपतिः, देवेन यज्ञपतिरार्त्विज्यं करिष्यामि, देवसवितरेतन्त्वा वृणते बृहस्पतिन्दैव्यं सोमं तदहं मनसे प्रब्रवीमि मनोगायत्रियै गायत्रीत्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुक्पङ्क्त्यै पङ्क्तिः प्रजापतये [[TODO: परिष्कार्यम्]]

[[114]]

प्रजापतिर्विश्वभ्यो देवेभ्यो विश्वेदेवा बृहस्पतये, बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवस्सुवः, बृहस्पतिः वानाँ सोमोऽहं मनुष्याणां बृहस्पति यज्ञं गोपाय॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“ब्रह्मन् सोम-प्रोक्षिष्यामी"त्यन्तं तथोक्त्वा पुनस् ताभ्यां प्रोक्षयेत्युक्तस् तथा यजमानेन बर्हिषा प्रोक्षयति।

मन्त्रः –

ब्रह्मन्प्रोक्षिष्यामि, (ब्रह्मा-ॐ) प्रोक्ष, यज्ञं देवता वर्धयत्वं नाकस्य पृष्टे यजमानो अस्तु सप्तऋषीणाँ सुकृतां यत्रलोकः, तत्रेमं यज्ञं यजमानञ्च धेहि ॐ प्रोक्ष। [[TODO: परिष्कार्यम्]]

सोमप्रोक्षिष्यामि, (सोमः ॐ) प्रोक्ष, यज्ञं देवता वर्धयत्वं नाकस्यपृष्टे यजमानो अस्तु, सप्तऋषीणाँ सुकृतां यत्रलोकस्तत्रेमं यज्ञं यजमानञ्च धेहि, ॐ प्रोक्ष। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“पात्रात् प्रणिध्या माधाव मादाय पवित्रेस्थ” इति उत्तरस्यां वेद्यां बर्हिषः कूर्चान् वा सपवित्रान् सर्वान् स्थापयित्वा।

मन्त्रः –

पवित्रेस्थोवैष्णव्येस्थायज्ञीयेस्थो वायुपूतेस्थो विष्णोर्मनसा पूतेस्थो यज्ञस्यपावनेस्थः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“तान् परशुरसी"ति प्रणिध्यद्भिस् सकृन् मन्त्रेण द्विः प्रोक्ष्य।

मन्त्रः –

परशुरसि पवित्रेस्थोवैष्णव्योदेवसवितः प्रसुव पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः, आपोदेवीरग्रेपुवो गुवोग्र इमं यज्ञं नयताग्रे यज्ञपतिन्धत्त युष्मानिन्द्रोवृणीत वृत्रतूर्येयूयमिन्द्रमवृणीद्ध्वं वृत्रतूर्ये प्रोक्षितास्स्थ। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“कृष्णासी"ति परिध्यादि समिधः मुक्त-बन्धा प्रोक्ष्य

मन्त्रः –

कृष्णोऽस्याखरेष्ठोऽग्नयेत्वास्वाहा [[TODO: परिष्कार्यम्]]

सूत्रम् –

“वेदिरसी"ति पश्चिम-वेदिं द्विः प्रोक्ष्य

मन्त्रः –

वेदिरसि बर्हिषेत्वा स्वाहा [[TODO: परिष्कार्यम्]]

सूत्रम् –

“बर्हिरसी"ति बर्हिः द्विः प्रोक्ष्य

मन्त्रः – “बर्हिरसि”

सूत्रम् –

स्रुवादि सर्व-साधनान् स्रुग्भ्यस्वैति द्विः प्रोक्ष्य।

मन्त्रः – “स्रुग्भ्यस्त्वा स्वाहा,”

सूत्रम् –

“बर्हिषोग्रं दिवेत्वे"ति

मन्त्रः – “दिवे त्वा”

[[115]]

सूत्रम् –

“मध्यमन्तरिक्षायत्वे"ति,

मन्त्रः – “अन्तरिक्षाय त्वा”

सूत्रम् –

मूलं “पृथिव्यै त्वे"ति प्रोक्षयति

मन्त्रः – “पृथिव्यै त्वा”

सूत्रम् –

“पोषायत्वे"ति अपो बर्हिः बन्धने संस्राव्य

मन्त्रः – “पोषय त्वा”।

सूत्रम् –

“स्वधा पितृभ्य” इति सापसव्यं दक्षिणतः प्रोक्ष्य।

मन्त्रः – “स्वधा पितृभ्यः”

उपवीते अप उपस्पृश्य

सूत्रम् –

अपां शेषं पश्चिमस्याम् अधो वेद्यामुत्तरान्तम् “ऊर्ग्भवे"ति स्रावयेत्

मन्त्रः –

ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छत [[TODO: परिष्कार्यम्]]

सूत्रम् –

“उभाभ्यामि"ति पाणी प्रक्षालयति

मन्त्रः –

उभाभ्यां देवसवितः प्रहरेम वीतये [[TODO: परिष्कार्यम्]]

सूत्रम् –

“पूषात” इति बर्हि-बन्धं विसृज्य

मन्त्रः – “पूषातेग्रन्थिं विष्यतु”

अप उपस्पृश्य

सूत्रम् –

बर्हिषः मूलाद् आरभ्य अग्रस्तम् आदित्य-व्यञ्जनमसी"ति पाणिनाभिमृश्य।

मन्त्रः –

“आदित्य व्यञ्जनमसि” [[TODO: परिष्कार्यम्]]

सूत्रम् –

पश्चिमतो वेद्यधस्तादुत्तराग्रम् “उर्णाम्रदसमि"ति दर्भैरच्छिद्रं परिस्तीर्य।

मन्त्रः –

ऊर्णाम्रदसन्त्वास्तृणामि [[TODO: परिष्कार्यम्]]

सूत्रम् –

“स्वासस्थन्देवेभ्य” इति प्रागग्रं दर्भं स्वासने निधाय

मन्त्रः – “स्वासस्थं देवेभ्यः”

सूत्रम् –

“विष्णोस्तूपोसी"ति प्राच्याम्

मन्त्रः – प्राच्यां “विष्णोस्तूपोसि”

सूत्रम् –

“दक्षिणत” इति याम्यां,

[[116]]

मन्त्रः –

दक्षिणतो विष्णोस्तूपोसि, [[TODO: परिष्कार्यम्]]

सूत्रम् –

“पश्चिमत” इति प्रतीच्याम्

मन्त्रः –

पश्चिमतस्सौधत्तां देवेभ्यो विष्णोस्तूपोसि, [[TODO: परिष्कार्यम्]]

सूत्रम् –

“उत्तरत” इति उदीच्याम्

मन्त्रः –

उत्तरत उदीच्यैर्युञ्जनमसि विष्णोस्तूपोनि, [[TODO: परिष्कर्यम्]]

सूत्रम् –

प्रागग्रान् उत्तराग्रान् सर्वत्र अधो वेद्याञ् च परिस्तृणाति, पूर्व-बर्हिषोत्तराग्रम् ऐशान्ये ऊर्ध्वं कृत्वा “गन्धर्वोसी"ति पश्चिमस्याम्

मन्त्रः –

गन्धर्वोसि विश्वावसुर्विश्वस्मादीषतो यजमानस्य परिधिरि ईडितः इति पश्चिमतः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“इन्द्रस्ये"ति याम्याम्

मन्त्रः –

इन्द्रस्यबाहुरसिदक्षिणो यजमानस्य परिधिरिड ईडितः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“मित्रावरुणावि"त्युदीच्याम्। वेद्यां प्राग् उत्तराग्रान् परिधीन् परिदधाति

मन्त्रः –

मित्रावरुणौत्वोत्तरतः परिधत्तां धृवेण धर्मणा यजमानस्य परिधिरिड ईडितः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

वायव्याम् उत्तराग्रम् ऊर्ध्वङ्करोति। “सूर्यस्त्वे"ति प्राच्याम् उत्तरान्तम् अधो वेद्यां कूर्चेनाद्भिः परिषिच्य

मन्त्रः –

सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“उपरिष्टादि"ति अग्नेर् उपरि-भागम् उत्तरान्तं परिषिच्य।

मन्त्रः –

उपरिष्टाद्देवारक्षन्तु कस्याश्चिदभिशस्त्याः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“अधस्तान्नागा” इति अग्नेर् अधो भागं तथा परिषिच्य।

मन्त्रः –

अधस्तान्नागारक्षन्तु कस्याश्चिदभिशस्त्याः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“वीतिहोत्रमि"त्यग्न्यालये समिधावग्नीशयोर् दिशोर् ऊर्ध्वाग्रे मन्त्रावृत्त्या निदधाति

[[117]]

मन्त्रः –

वीतिहोत्रं त्वाकवेद्युमन्तँ समिधीमह्यग्ने बृहन्तमध्वरे समिदसि [[TODO: परिष्कार्यम्]]

सूत्रम् –

“परिस्तीर्यमि"त्यादिना ऐन्द्राद्युदगन्तम् आर्षेणापो दत्त्वा कूर्चेन वा संस्राव्य

मन्त्रः –

परिस्तीर्यमग्निं परिदधाम्यग्ने अग्निँ सृतां वेदिमभिमस्त्रयामि [[TODO: परिष्कार्यम्]]

सूत्रम् –

“सृतासी"त्यादिभिर् दक्षिणादि तेनैवार्षेण तीर्थेन प्रागन्तम् उत्तरान्तञ् च परिषिच्य।

मन्त्रः –

सृतासि, घृतासि, धृवासि

सूत्रम् –

“तरुणासी"ति आग्नेयाद् ईशानान्तं परिषिच्य, पुनस् तथा, गृहीत्वा प्रदक्षिणम् आग्नेयाद्यन्तं परिषिञ्चति। “वानस्पत्योसी"ति प्रणिधी प्रक्षाल्य

मन्त्रः –

वानस्पत्योसि देवेभ्यश्शुन्दस्व [[TODO: परिष्कार्यम्]]

सूत्रम् –

“पृथिव्यापोगृहीष्यामि"ति साक्षतं प्रत्येकं मन्त्रावृत्त्याद्भिर्र आपूर्य

मन्त्रः –

पृथिव्यापोगृहीष्यामि। कोवोगृह्णाति, सवोगृह्णाति, कस्मैवोगृह्णामि तस्मैवोगृह्णामि। पोषायवः अनया पृथिव्यापो गृहीष्यामि [[TODO: परिष्कार्यम्]]

सूत्रम् –

“वसूनां पवित्रमि"ति उदग् अग्रे पवित्रे प्रक्षिप्य।

मन्त्रः –

वसूनाम्पवित्रमसि शतधारं वसूनाम्पवित्रमसि सहस्रधारम्। [[TODO: परिष्कार्यम्]]

सूत्रम् –

दक्षिणेन पाणिनाग्रम् इतरद् वामेनाङ्गुष्ठानामिकाभ्यां गृहीत्वा “देवोवस् सवते"ति त्रिरुत्पूय।

मन्त्रः –

“देवोवस्सवितोत्पुनातु”, इति पूर्वान्तम् “अच्छिद्रेण पवित्रेणे"ति पश्चिमान्तम् “वसोस्सूर्यस्यरश्मिभिरि"ति पूर्वान्तम् [[TODO: परिष्कार्यम्]]

पवित्रं दक्षिणाग्रं कृत्वोत्पूय यथा पूर्वम् उदगग्रं प्रदक्षिण-क्रमेण निदधाति

[[118]]

सूत्रम् –

“ब्रह्मन्नप” इति “सोमाप” इति ब्रह्म-सोमावृत्विजौ प्रत्येकं प्रेक्ष्य

मन्त्रः –

ब्रह्मन्नपः प्रणेष्यामि यजमानवाचं यच्छ [[TODO: परिष्कार्यम्]]

ब्रह्मा –

प्रणययज्ञन्देवतावर्धयत्वन्नाकस्यपृष्टे यजमानो अस्तु। सप्त-ऋषीणाँ सुकृतां यत्रलोकस्तत्रेमं यज्ञं यजमानञ् च धेहि। ॐ प्रणय। सोम-आपः प्रणेष्यामि यजमानः…. ॐ प्रणय……. [[TODO: परिष्कार्यम्]]

सूत्रम् –

ताभ्यां प्रणयेत्युक्तोऽध्वर्युः कोव इति मन्त्रावृत्त्या प्रणिधी ललाटान्तम् उद्धृत्य दक्षिण-प्रणिधिमग्निं प्रदक्षिणी-कृत्य वेद्यां दक्षिणस्यां ब्रह्मणः पुरत अधो वेद्यां निधाय तथोत्तर-प्रणिधिम् उत्तरस्याम् अधो वेद्यां सोमस्याग्रे निदधाति।

मन्त्रः –

कोवः प्रणयतुसवः प्रणयत्वापो देवीः प्रणया यज्ञग् सँसादयन्तुनः इदम्मदन्ति घृतपृष्टा उदाहुस्सहस्रपोषं यजमाने न्यञ्चतीः, कोवोयुनक्तु सवोयुनक्तु। [[TODO: परिष्कार्यम्]]

खम्॥ ब्रह्म-सोमर्त्विजाभावे ब्रह्माणम् एव वा वृत्वा तेनैव मन्रान् उच्चारयित्वा प्रोक्षणादि सर्वं कर्तव्यं ब्रह्मणस् सर्व-मन्त्रोच्चारणाधिकारत्वात् श्रौते तथा दृष्टत्वात् “संविशन्तामि"ति मान्त्रावृत्त्या तत्-तत्-तीर्थेन कूर्चेन प्रणिधौ जलं संस्राव्य

मन्त्रः –

संविशन्तां दैवीर्विशः पात्राणि देवयज्यायै। [[TODO: परिष्कार्यम्]]

उत्तरे दैव-तीर्थेन

संविशन्तां दैवीर्विशः पात्राणि देवयज्यायै [[TODO: परिष्कार्यम्]]

सूत्रम् –

गायत्र्या स्रुवादीन् प्रोक्ष्य।

मन्त्रः –

तत्सवितु …….प्रचोदयात् [[TODO: परिष्कार्यम्]]

सूत्रम् –

भूस् स्रुवं गृह्णामीति स्रुवं स्रुगादीन् गृहीत्वा

मन्त्रः –

भूस् स्रुवं गृह्णामि, भुवस् स्रुवं गृह्णामि, सुवस् स्रुवं गृह्णामि भूर् भुवस् सुवस् स्रुवं गृह्णामि रायस्पोषायत्वा स्रुवं गृह्णामि। विष्णोर्हस्तोसि पूर्णोहस्ताभ्यां बृहस्पतिरुत्तानँ स्रुवङ्गृह्णामि [[TODO: परिष्कार्यम्]]

सूत्रम् –

वर्षिष्ठे अधिनाक इति पश्चिम-वेद्यधस्तात् समिधौ प्रागग्रौ निदध्यात्

मन्त्रः –

वर्षिष्ठे अधिनाकेग्निस्ते तनुवं मातिधागग्ने हव्यँ रक्षस्व। [[TODO: परिष्कार्यम्]]

[[119]]

सूत्रम् –

“अहीनो निर्वपामि"ति सृवादीन् प्रक्षाल्य।

मन्त्रः –

अहीनो निर्वपामि सुप्रतीकमजस्रेण भानुनादित्य सात्प्रतद्याम्। पश्चिमातांसोमम्महिष्याम्यरण्येसिद्धे सत्रेयाजिमान्साक्षी मेभवान्भव। [[TODO: परिष्कार्यम्]]

सूत्रम् –

“निर्दग्धमि"ति पर्यग्निं कृत्वा

मन्त्रः –

निर्दग्धँ रक्षो निर्दग्धा अरायतः निर्दग्धस्सोऽस्तियोऽस्मान्द्वेष्टियञ्च वयन्द्विष्मः॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

“निष्टप्तमि"ति पुनरग्नौ स्रुवादीन् प्रति किञ्चित् तप्य। वरिष्ठ-समिधोर् उपर्युदग् अग्रं निदध्यात्

मत्रः –

निष्टप्तँ रक्षो निष्टप्ता अरातयः निष्टप्तस्सोऽस्तियोऽस्मान्द्वेष्टियञ्च वयन्द्विष्मः [[TODO: परिष्कार्यम्]]

सूत्रम् –

अदितिर् अस्य छिद्र-पत्रे त्याज्य-स्थालीं गृहीत्वा

मन्त्रः –

अदितिरस्यच्छिद्रपत्र [[TODO: परिष्कार्यम्]]

सूत्रम् –

उत्तरे भूत-कृत-स्थोपोढम् इत्यङ्गारं न्यस्य

मन्त्रः –

भूतकृतस्थापोढञ्जन्यं भयमपोढास्येना अभीत्वरीः, [[TODO: परिष्कार्यम्]]

सूत्रम् –

सगरास्थेति विन्यस्य।

मन्त्रः –

सगरास्थ।

सूत्रम् –

महीनामिति पचति।

मन्त्रः –

महीनां पयोस्योषधीनाँ रसस्तस्यतेऽक्षीयमाणस्य निर्वपामि देव यज्यायै। [[TODO: परिष्कार्यम्]]

सूत्रम् –

वसूनां पवित्रमित्युदग् अग्रं पवित्रं प्रक्षिप्य।

मन्त्रः –

वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम्॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

देवोवस् सवितेति त्रि-रुत्पूय

मन्त्रः –

देवोवस्सवितोत्पुनातु ……..रश्मिभिः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

आज्य-स्थाल्याः पृष्ठ-गत-भस्म इदं विष्णुर् इति वेदेन शोधयित्वा।

मन्त्रः –

इदं विष्णुर्विच ……..सुर॥ [[TODO: परिष्कार्यम्]]

[[120]]

सूत्रम् –

उद्भवस्थोदहमिति बर्हिर् दग्ध्वा

मन्त्रः –

उद्भवस्थोदहं प्रजयाप्र पशुभिर्भूयासं हरस्तेमाविकादुद्यन् स्वर्गोलोकस्त्रिषुलोकेषुरोचय [[TODO: परिष्कार्यम्]]

सूत्रम् –

अङ्गारम् अन्तरितम् इत्याज्यस्य दर्शयति।

मन्त्रः –

अन्तरितँ रक्षोन्तरिता अरातयोऽपहतावृद्धिरपहतं पापं कर्मापहतं पापस्यपापकृतः पापङ्कर्मयोनः पापं कर्मचिकीर्षति प्रत्यगेनमृच्छ॥ [[TODO: परिष्कार्यम्]]

खण्ड॰॥

सर्वत्राज्यादि होम-द्रव्याणाम् एवं कर्तव्यं,

गव्यम् आविकं माहिषं तैलं वा होमार्थं पूर्वालाभे परङ् ग्राह्यम् इति श्रौते प्रोक्तम्

सूत्रम् –

आज्य-स्थालीम् उदग् उद्वास्याग्निं परिसमूह्य दक्षिणतोङ्गारं गायत्र्या व्यस्य तयैव चरु-स्थालीम् अधिश्रित्य, दर्भोल्केन पक्त्वावतारयति।

मन्त्रः –

तत्सवितु ….. चोदयात्। [[TODO: परिष्कार्यम्]]

“पञ्च-गायत्रीम् उच्चरेद्” इति सुन्दर-राजीयो विशेषः अधिश्रवण-वर्जम् एव कर्तव्यम्। चरु-स्थालीम् उदग् उद्वास्य, पश्चिम-वेद्यां स्रुवादीनां पश्चिमत आज्य-स्थालीन् निधाय

सूत्रम् –

पूर्ववत् पवित्रेण “देवो वस् सविते"ति त्रि-रुत्पूय। पवित्र-ग्रन्धिं “घर्मोसी"ति विसृज्य।

मन्त्रः –

घर्मोसिरायस्वोषवनिरिहोर्जन्द्रुँ ह, इहप्रजां पशून्द्रुँ ह। [[TODO: परिष्कार्यम्]]

सूत्रम् –

उत्तर-पश्चिमे वायव्यां वेद्यूर्ध्वे प्रागग्रं निधाय, तूष्णीम् अद्भिः प्रोक्ष्य। अप उपस्पृश्य आदाय “आप्यायन्ताम्” इति पवित्रं नैर्ऋत्याम् अग्नौ अच्छिन्नं जुहोति,

मन्त्रः –

आप्यायन्तामाप ओषधयो मरुतां पृषतयस्थ दिवं, गच्छततोनो वृष्टिमेरयस्वाहा। (अद्भ्य ओषधीभ्य इदं नमम,) [[TODO: परिष्कार्यम्]]

सूत्रम् –

“वीतिहोत्रमि"ति समिदग्रं घृताक्तम् अग्नौ वायव्ये स्थापयित्वा।

मन्त्रः –

वीतिहोत्रन्त्वा कवेद्युमन्तँ समिधीमह्यग्ने, बृहन्तमध्वरे, समिदसि। [[TODO: परिष्कार्यम्]]

[[121]]

सूत्रम् –

देवस्यत्वेति स्रुवेण होम्यं, अग्निं प्राजापत्यम् इति स्मृत्वा मन्त्रान्ते घृतं विहरामीति द्विधा विभजति।

मन्त्रः –

देवस्यत्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णोहस्ताभ्याम्। घृतं विहरामि। [[TODO: परिष्कार्यम्]]

सूत्रम् –

दक्षिण-प्रणिधौ ब्राह्मेण तीर्थेन प्रजापति-पुरोगानाम् आवाहयामीति चतुरो देवान् आवाहयेत्।

मन्त्रः –

ॐ प्रजापतिम् आवाहयामि, ॐ इन्द्रम् आवाहयामि, ॐ अग्निम् आवाहयामि, ॐ सोमम् आवाहयामि। [[TODO: परिष्कार्यम्]]

सूत्रम् –

उत्तर-प्रणिधौ देव-तीर्थेन अग्न्यादि देवान् प्रणव-पूर्वम् आवाह्य,

मन्त्रः –

ॐ अग्निम् आवाहयामि, ॐ सोमम् आवाहयामि, ॐ अग्नीषोमावावाहयामि, ॐ प्रजापतिम् आवाहयामि, ॐ ब्रह्माणम् आवाहयामि, ॐ इन्द्रम् आवाहयामि, ॐ वसून् आवाहयामि, ॐ मरुत आवाहयामि,ॐ रुद्रान् आवाहयामि,

अप उपस्पृश्य,

ॐ श्री-विष्णुम् आवाहयामि, ॐ बृहस्पतिम् आवाहयामि, ॐ मित्रम् आवाहयामि, ॐ वरुणम् आवाहयामि, ॐ आदित्यान् आवाहयामि, ॐ अश्विनावावाहयामि, ॐ पूषणम् आवाहयामि, ॐ कक्षम् आवाहयामि, ॐ कक्ष-दैवत-सोमम् आवाहयामि, ॐ (तत्-तत्-कर्म) यज्ञम् आवाहयामि। ॐ यज्ञ-दैवत-विश्वान् देवान् आवाहयामि, सर्व-देवान् आवाहयामि।

आवाहित देवताभ्यो नमः आसनादि सर्वोपचारान् समर्पयामि,

सूत्रम् –

यथा वाहनम् आज्य-भागयोः प्रत्येकं सृवेणाज्यं गृहीत्वोर्ध्वं किञ्चिन् नीत्वा जुष्टं निर्वपामिति चतुर्थ्यन्तेन तत्तन्नाम्ना तत्तद्भागयोः आज्य-पात्रे स्रावयेत्,

मन्त्रः –

दक्षिण-भागे

प्रजापतये जुष्ठं निर्वपामि, इन्द्राय जुष्टं निर्वपामि, अग्नये जुष्टं निर्वपामि, सोमाय जुष्टम् …..मि, [[TODO: परिष्कार्यम्]]

उत्तर-भागे-

अग्नये जुष्टं…..मि, सोमाय जुष्टं…..मि, अग्नीषोमाभ्यां जुष्टं….. मि, प्रजापतये जुष्टं निर्वपामि, ब्रह्मणे जुष्टं….. मि, इन्द्राय जुष्टं….. मि, वसुभ्यो जुष्टं निर्वपामि, मरुद्भ्यो जुष्टं …. मि, रुद्रेभ्यो जुष्टं…… मि, [[TODO: परिष्कार्यम्]]

अप उपस्पृश्य

ॐ श्री-विष्णवे जुष्टं…. मि, बृहस्पतये

[[122]]

जुष्टं… मि, मित्राय जुष्टं ….. मि, वरुणाय जुष्टं …. मि, आदित्येभ्यो जुष्टं …..मि, अश्विभ्यां जुष्टं ….मि, पूष्णे जुष्टं…..मि, कक्षाय जुष्टं ….मि, कक्ष-दैवत-सोमाय जुष्टं….. मि, (तत्-तत्-कर्म) यज्ञाय जुष्टं….. मि, यज्ञ-दैवत-विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि, सर्व-देवेभ्यो जुष्टं ….. मि, [[TODO: परिष्कार्यम्]]

इत्यन्तं कृत्वा।

सूत्रम् –

तृप्यधिद्वयेन द्विधाग्नौ होम्यम् आज्यं दर्शयित्वा,

मन्त्रः –

तृप्यधिश्रयामि, तृप्यधिश्रयामि, [[TODO: परिष्कार्यम्]]

सूत्रम् –

अग्निर् ज्योतिर् द्वयेन समिदुल्केन दक्षिणोत्तरभागयोर् यथाग्निर् अन्तर् ज्वलति तथा दहेदिति

मन्त्रः –

अग्निर्ज्योतिरसि, अग्निर्ज्योतिरसि, [[TODO: परिष्कार्यम्]]

सूत्रम् –

समिदसि स्वाहेति समिधं जुहोति,

मन्त्रः –

समिदसि स्वाहा, समिध इदम् [[TODO: परिष्कार्यम्]]

सूत्रम् –

स्रुवेणाज्यम् ऊर्ध्वं नीत्वा, अमृतम् असीत्यनुत्तानं, अधो बिलं स्रुवं कृत्वा प्रदक्षिणम् अभिमन्त्र्य,

मन्त्रः –

अमृतमसि वारुणमसि, [[TODO: परिष्कार्यम्]]

सूत्रम् –

अन्तरितम् इत्युत्तानम्,

मन्त्रः –

अन्तरितँ रक्षोऽन्तरिता अरातयः। [[TODO: परिष्कार्यम्]]

सूत्रम् –

प्रत्युष्टम् इत्यनुत्तानम्।

मन्त्रः –

प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः, [[TODO: परिष्कार्यम्]]

सूत्रम् –

होम्यं प्रदक्षिणम् अभिमन्त्र्य, आज्यं गृहीत्वोत्तानं स्वतो दक्षिणतो वामतः प्रणिध्यां सन्धाय, उत्तरतो प्रणिध्यां सन्धाय, चित्पतिस् त्वादिभिर् मन्त्रैस् त्रिभिः प्रतिमन्त्रम् एवम् आज्यं गृहीत्वा त्रिधाग्नौ संवपति।

मन्त्रः –

चित्पतिस्त्वा पुनात्वच्छिद्रेण पवित्रेणवसोस्सूर्यस्य रश्मिभि [[TODO: परिष्कार्यम्]]

(चित्पतय इदं न ममे)ति सर्वत्र वक्तव्यं

कृतिस्त्वा पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः, (वाक्पतय इदम्) [[TODO: परिष्कार्यम्]]

[[123]]

देवस्वा सवितापुनात्वच्छद्रेण पवित्रेण वसोस्सूर्यस्यरश्मिभि (देवायसवित्र इदम्) [[TODO: परिष्कार्यम्]]

सूत्रम् –

गायत्र्या समिधः प्रोक्ष्य,

मन्त्रः –

तत्सवितु …. ….. चोदयात्॥ [[TODO: परिष्कार्यम्]]

सूत्रम् –

एक-विंशतिर् आहुति-प्रमाणाः कर-सम्पूर्णा वा समिधो गृहीत्वा, मूलाग्राभ्यां घृतं स्पर्शयित्वा अभ्यर्च्य अक्षताज्य चरुभिः “इमामे अग्न” इति मूल-मध्याग्राणि-स्पृशन् अधो नीत्वोर्ध्व-भागे मध्ये च सन्दधाति।

भाष्ये॥

अस्मिन् आघारे यावन्त्यः प्रधानाहुतयस् तावत् समिध

इति अत्र मन्त्रावृत्तिः प्रत्येकं भवति ॥

तत्सवितु ……चोदयात्, [[TODO: परिष्कार्यम्]]

इति समिधः प्रोक्ष्य समिधो गृहीत्वा, मूलाग्राभ्यां, घृतं स्वर्शयित्वाभ्यर्च्य,

मन्त्रः – अक्षतैः

इमामे अग्न इष्टकाधेनवस्सन्तु……. सन्तु [[TODO: परिष्कार्यम्]]

अज्येन

इमामे अग्नि इष्टकाधेनवस्सन्तु…. सन्तु [[TODO: परिष्कार्यम्]]

अभिघार्य, चरुणा

इमामे अग्न इष्टकाधेनवस्सन्तु…… सन्तु [[TODO: परिष्कार्यम्]]

पुनर् अभिघार्य,

सूत्रम् –

दैवेन तीर्थेन “अदितेनुमन्यस्वे"ति दक्षिणस्याम् अद्भिः प्रागन्तं, “अनुमतेनुमन्यस्वे"ति पश्चिमस्याम् उत्तरान्तम्, “सरस्वतेनुमन्यस्वे"ति उत्तरस्यां प्रागन्तम्, “देवसवितः प्रसुवे"ति पूर्व-वेदिञ् च आग्नेयाद्युदगन्तं सर्वत्र अधो वेद्यां परिषिच्य, पुनर् आग्नेयाद्यन्तं सर्वतश् च प्रदक्षिणं परिषिञ्चति,

मन्त्रः –

अदितेनुमन्यस्व, अनुमतेनुमन्यस्व, सरस्वतेनुमन्यस्व, देवसवितः प्रसुव, [[TODO: परिष्कार्यम्]]

सूत्रम् –

षष्टिशतेति समिधोभिमन्त्र्य,

मन्त्रः –

षष्टिशत सहस्राण्ययुतमक्षयमर्बुदमानय। ब्रह्मन्, सोम, इध्ममाधास्ये [[TODO: परिष्कार्यम्]]

प्रतिवाचकाः - आधत्स्व,

सूत्रम् –

अयन्त इध्म इति इध्मानसङ्कुलान् शरोङ्गारेऽग्नौ जुहुयात्

मन्त्रः –

अयन्त इध्म आत्माजातवेदस्तेनेध्यस्व वर्धस्ववोचे वर्धय चास्मान्, प्रजयापशुभिर्बह्मवर्चसे नान्नाद्येन समेधय स्वाहा। (अग्नये जातवेदसे वर्धमानायेदम्) [[TODO: परिष्कार्यम्]]

[[124]]

अग्नये नमः, जातवेदसे नमः, पावकाय नमः, हुताशनाय नमः, सर्वोपचारान् समर्पयामि।

आघार-प्रायश्चित्तम्

अथाघार-प्रायश्चित्तम्

स्थण्डिले प्रमाण-हीने सिकता-लाभे परिस्तरणाद्यभावे च मिन्दाहुती-सावित्रीं व्याहृतीश् च प्रायश्चित्तं हुत्वा पुनर् आघारं कुर्वीत। अग्न्यायतने गो-वराहाश्व-सर्प-मण्डूकाद्यैः गमने तत्-पदाङ्कित-प्रदेशम् “इदं विष्णुर्” इति प्रोक्ष्य। वैष्णवं रौद्रं च हुत्वा पुनः कर्म-शेषं समारभेत, परिस्तरणादि सम्भाराणां दाहे भेदे छेदे नाशे च अशुच्यादिना स्पृष्टे तत्तद्व्यपोह्य तत्-तत्-स्थाने अन्यत् संयोज्य मिन्दाहुतीर् द्विरावर्त्य जुहुयात्, क्रिया-लोपे विपर्यासे च भूरादि व्याहृतीः, “भूर् अग्नय” इत्यादि महा-व्याहृतीः। “तत्सवितुरि"ति गायत्रीं “ॐ भूर् भुवस् सुवस् तत् सवितुरि"ति सावित्रीं - मिन्दाहुती वैष्णवञ् च द्विरावर्त्य जुहुयात्,

पुनः “प्रजापतये स्वाहे"त्यारभ्याघोरौ जुहुयात्। होमे न्यूनेतिरिक्ते च पूर्णाहुती मिन्दाहुती च जुहोति। अग्नावाज्ये चरौ वा मक्षिका-कृमि-रोम-पिपीलिकानां पतने तद्व्यपोह्य बर्हिषोद्दीप्य, प्राजापत्यम् आग्नेयं प्रायश्चित्तं जुहुयात्, तस्मिन् अग्नौ, समुत्सन्नेत्वग्निं ध्यात्वा “तद्भस्मायन्ते योनिरि"ति समिधम् आरोप्य “उद्बुध्यस्वाग्न” इति लौकिकाग्नौ समिधं निधाय प्रज्वाल्य मनोज्योतिरयाश् चाग्ने मिन्दाहुती व्याहृतीश् च जुहुयात्। “पुनः कर्म-शेषं समारभेदि"ति, वर्ष-वातादिभिः स्थानाच् चलनम् अन्तर्भवेद्यदि सर्वत्र परिस्तरणादीन् आदाय अग्निम् अपि स्थाल्याम् उद्धृत्य अन्यत्र स्थण्डिलं कृत्वा, तूष्णीम् उल्लिख्य अग्निं निधाय परिस्तरणादीन्यथाक्रमं निधाय विष्णोर्नुकादीन् हुत्वा, “कर्म-शेषं समाचरेदि"ति पाठान्तरम्॥

इत्याघार-प्रायश्चित्तं समाप्तम्।

उद्देश-त्यागः

अत्र उद्देश-त्याग-विषये श्री सूत्रे -

सूत्रम् –

यस्यै देवतायै हविर् निरूप्यते। तान् देवतां मनसा ह वै ध्यायन् निर्वपेत्।

भाष्ये – नृ-सिंह-वाजपेय भाष्ये -

यस्यै देवतायै यस्मै देवाय हविस् समिदाज्य-चर्वादीन् निरूप्यते अग्नौ निक्षिपेत्, जुहुयात्, तद् आहुति-काले तान् देदतां मनसा चित्तेन ह वै शब्दौ प्रसिद्धार्थ-प्रयोगात् ध्यायन् निर्वपेत्, जुहुयात्।

ततः (अग्नय इदं न ममे)ति वदेत्, एवं श्रौत-स्मार्तयोस् तत्-तद्-देवतां चतुर्थ्याविभक्त्योद्दिश्य इदं नममेति वक्तव्यम्। यजमानेनैव सर्वत्रोद्देशत्यागः कर्तव्यः।

किमर्थं देवता-स्मरणम् अग्नावेव हुतं भवति कथं तद्-देवताम् आहुतिः प्राप्यते अत्र श्रुतिं दर्शयति। यथा ह वा इति यथा यस्मात् कारणात् ह वै प्रसिद्धौ

इति भाष्ये।

इत्येवं सुन्दर-राजीये, वसन्त-याजीये, श्रीनिवास-दीक्षितीये भृगु-प्रोक्ते क्रियाधिकारे प्रतिष्ठादर्पणादि ग्रन्थेषु द्रष्टव्यम्।

सूत्रम् –

स्रुवेणाज्यं गृहीत्वा, परिधिं स्पृष्ट्वा रेखाकारेण स्रावयन्, वायव्याद् आग्नेयान्तं प्रजापतिं मनसा स्मरन् उपांशुना जुहुयात्।

मन्त्रः –

ॐ प्रजापतये स्वाहा, (प्रजापतय इदं)

सूत्रम् –

नैर्ऋत्याद् ईशानान्तं पूर्वोक्तवत् तथा जुहुयात्, “ॐ इन्द्राय स्वाहा”, (इन्द्रायेदम्) इत्याघारौ जुहुयात्, चक्षुषी बुध्वा अग्नेर् उत्तर-भागे “अग्नये स्वाहा”, (अग्नय इदम्)। दक्षिणे “सोमाय स्वाहा”, (सोमायेदम्)। इत्याज्यभागावुत्तर-दक्षिणयोर् जुहोति।

सूत्रम् –

युक्तो वहेति पश्चिमादि सौम्यान्तं जुहुयात्,

[[125]]

मन्त्रः –

युक्तोवहजातवेदः पुरस्तादग्नेविद्धिकर्म क्रियमाणं यथेदम्, त्वं भिषग्भेषजस्यासि कर्तात्वयागा अश्वान्पुरुषान्सनेमस्वाहा, (यज्ञ-पुरुषायेदम्), [[TODO: परिष्कार्यम्]]

सूत्रम् –

यातिरश्चीति सौम्यादीन्द्रान्तम्,

मन्त्रः –

यातिरश्चीनिपद्यसेहं विधरणी इति, तान्त्वाघृतस्य धारया यजेसँ राधनीमहँ स्वाहा, (सँ राधन्या इदम्), [[TODO: परिष्कार्यम्]]

सूत्रम् –

सँ राधन्या इति इन्द्रादियाम्यान्तम्,

मन्त्रः –

सँराधन्यै देव्यै स्वाहा, (देव्या इदम्),

सूत्रम् –

प्रसाधन्यै देव्यै स्वाहेति याम्यादि वारुणान्तम्, रेखाकारेणाज्यं स्रावयन् हुत्वा।

मन्त्रः –

प्रसाधन्यै देव्यै स्वाहा, (प्रसाधिन्या इदम्),

सूत्रम् –

मध्यमास्यमिति बुद्ध्वा तत्र व्याहुतीर् जुहोति।

मन्त्रः –

ओम् भूस्स्वाहा (अग्नय इदम्), ओम् भुवस्वाहा (वायव इदम्)ओँ सुवस्स्वाहा (सूर्यायेदम्), ओम् भूर्भुवस्सुवस्स्वाहा (प्रजापतय इदम्), [[TODO: परिष्कार्यम्]]

सूत्रम् –

सर्वाहुतीश् च अत्रैव जुहोति तदग्नि-मुखम् इति ब्रह्मवादिनो वदन्तीति।

भाष्ये –

सत्येनेत्याज्याम् अभिमृश्य - स्रुवेण प्रदक्षिणम् अभिमन्त्र्य चतुर् अङ्गुलम् अविच्छिन्नं माष-मात्रम् आज्याहुतिञ् जुहुयात्, सत्येनत्वाभिघारयामि तस्यते भक्षीय,

मन्त्रः –

ॐ अग्नये स्वाहा - (अग्नय इदं), सोमाय स्वाहा, (सोमायेदम्) अग्निषोमाभ्याँ स्वाहा, (अग्नीषोमाभ्यामिदं), प्रजापतये स्वाहा (प्रजापतय इदं), ब्रह्मणे स्वाहा, (ब्रह्मण इदं), इन्द्राय स्वाहा, (इन्द्रायेदं), वसुभ्यस्स्वाहा (वसुभ्य इदं), मरुद्भ्यस्स्वाहा, (मरुद्भ्य इदं), रुद्रेभ्यस्स्वाहा, (रुद्रेभ्य इदं), [[TODO: परिष्कार्यम्]]

अप उपस्पृश्य,

ॐ श्री विष्णवे स्वाहा, (श्री विष्णव इदं), बृहस्पतये स्वाहा, (बृहस्पतय इदं), मित्राय स्वाहा, (मित्रायेदं), वरुणाय स्वाहा (वरुणायेदं), आदित्येभ्यस्स्वाहा (आदित्येभ्य इदं), अश्विभ्याग् स्वाहा, (अश्विभ्यामिदं), पूष्णे स्वाहा, (पूष्ण इदं), कक्षाय स्वाहा,

[[126]]

(कक्षायेदं), कक्षदैवतसोमाय स्वाहा, (सोमायेदं) (तत्तत्कर्म) यज्ञाय स्वाहा, (यज्ञायेदं), यज्ञदैवतविश्वेभ्यो देवेभ्यस्स्वाहा (विश्वेभ्यो देवेभ्य इदं), सर्वदेवेभ्यस्स्वाहा, (सर्वदेवेभ्य इदम्), [[TODO: परिष्कार्यम्]]

सूत्रम् –

इत्यन्तं हुत्वा दर्व्याभिघार्य, चरुं सावित्र्या स्रुचा गृहीत्वा,

मन्त्रः –

ॐ भूर्भुव…… चोदयात्। [[TODO: परिष्कार्यम्]]

खं॰ –

जुह्वा व्याहृतीर् जुहोति, व्याहृति-चतुष्टयस्य, प्रत्येकं प्रत्येकम् अक्ष-मात्रं गृहीत्वा जुहोति,

मन्त्रः –

ओम् भूस्स्वाहा (अग्नय इदम्।) [[TODO: परिष्कार्यम्]]

खं॰ –

पुनः दर्व्याभिघार्य, चरुं सावित्र्या स्रुचा गृहीत्वा, जुह्वा जुहोति,

मन्त्रः –

ओम् भुवस्स्वाहा (वायव इदम्।) [[TODO: परिष्कार्यम्]]

खं॰ –

पुनः पूर्ववद् अभिघार्य, गृहीत्वा,

मन्त्रः –

ओम् सुवस्स्वाहा, (सूर्यायेदम्।) [[TODO: परिष्कार्यम्]]

खं॰ –

पुनः पूर्ववद् अभिघार्य, गृहीत्वा,

मन्त्रः –

ओम् भूर्भुवस्सुव स्वाहा, (प्रजापतय इदम्।) [[TODO: परिष्कार्यम्]]

सूत्रम् –

अस्मिन् आघारे मन्त्र-तन्त्र-न्यूनातिरिक्त-प्रायश्चित्तार्थम् अतो देवा इदं विष्णुर् इत्याज्यं स्रुवेण जुहुयात्, समृद्ध्यै , इत्युक्तत्वात्,

मन्त्रः –

अतो देवा अवस्तुनो…… धामभिस्स्वाहा, (विष्णव इदं), इदं विष्णुर्विचक्रमे…… सुरेस्वाहा, (विष्णव इदम्), [[TODO: परिष्कार्यम्]]

सूत्रम् –

अदितेन्वमग्ग्स्था इति देव-तीर्थेन परिषिञ्चेत्।

मन्त्रः –

अदितेन्वमग्ग्स्थाः, अनुमतेन्वमग्ग्स्थाः, सरस्वतेन्वमग्ग्स्थाः, देवसवितः प्रासावीः॥ [[TODO: परिष्कार्यम्]]

इत्याघार-होमस् समाप्तः।

सर्व-होमानाम् आदिर् आघारो विज्ञायत

इति सूत्रे

इत्यनेन प्रकारेण सर्व-होमानाम् आदावाघारः कर्तव्य इति विज्ञायत

इति भाष्ये,

हरिः ओम्

श्री-कृष्णार्पणम् अस्तु,

इति श्री-वैखानस-गृह्यसूत्रे प्रथम-प्रश्ने, पञ्च-दशः खण्डः आघार-प्रयोगस् समाप्तः

[[127]]

होम-परिभाषा धातादि-मन्त्राः

अथ सामान्यतः क्रियाया होम-मन्त्राः

धाताददातुनो रयिमीशानो जगतस्पतिः। सनः पूर्णेनवावनत्स्वाहा। (धात्र इदम्)॥१॥ [[TODO: परिष्कार्यम्]]

मन्त्रः –

धाताप्रजाया उतराय ईशे धातेदं विश्वं भुवनं जजान। धातापुत्रं यजमानाय दातातस्मा उहव्यं घृतवद्विधेमस्वाहा॥ (धात्र इदम्)॥२॥ [[TODO: परिष्कार्यम्]]

मन्त्रः –

धाताददातुनो रयिं प्राचीं जीवातुमक्षिताम्॥ वयन्देवस्य धीमहि सुमतिँ सत्यराधसस्स्वाहा। (धात्र इदम्)॥३॥ [[TODO: परिष्कार्यम्]]

धाताददातु दाशुषेवसूनि प्रजाकामाय मीडुषे दुरोणे। तस्मै देवा अमृतास्संव्यन्तां विश्वेदेवासो अदिति सृजोषास्वाहा। (धात्र इदम्)॥४॥ [[TODO: परिष्कार्यम्]]

[[171]]

अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यताम्। अग्निश्च हव्यवाहनो भवतां दाशुषे मयस्स्वाहा। (अनुमत्या इदम्)॥५॥ [[TODO: परिष्कार्यम्]]

अन्विदनुमतेत्वं मन्यासैशञ्चनः कृधि॥ क्रत्वेदक्षायनो हिनुप्रण आयूगंषितारिषत्स्वाहा। (अनुमत्या इदम्)॥६॥ [[TODO: परिष्कार्यम्]]

आमावाजस्य प्रसवो जगम्यादाद्यावा पृथिवी विश्वशम्भू। आमागन्तां पितरामातराचामासोमो अमृतत्वायगम्यात्स्वाहा। (पृथिव्यादिभ्य इदम्)॥७॥ [[TODO: परिष्कार्यम्]]

समाववर्ति पृथिवी समुषास्समु सूर्यस्समु विश्वमिदं जगत्। वैश्वानरज्योतिर्भूयासं विभुङ्कामं व्यश्नवै भूस्स्वाहा। (पृथिव्यादिभ्य इदम्)॥८॥ [[TODO: परिष्कार्यम्]]

अनुमन्यतामनुमन्यमाना प्रजावन्तँ रयिमक्षीयमाणम्। तस्यै वयँ हेडसि मापिभूमसानोदेवी सुहवाशर्म यच्छतु स्वाहा। (अनुमत्या इदम्)॥९॥ [[TODO: परिष्कार्यम्]]

यस्यामिदं प्रदिशिय द्विरोचतेनुमतिं प्रतिभूषंत्यायवः॥ यस्या उपस्थ उर्वन्तरिक्षँ सानोदेवी सुहवा शर्मयच्छतु स्वाहा। (अनुमत्या इदम्)॥१०॥ [[TODO: परिष्कार्यम्]]

राकामहँ सुहवाँ सुष्टुतीहुवे शृणोतुनस्सुभगा बोधतुत्मना। सीव्यत्वपस्सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्थ्यग्ग् स्वाहा। (राका इदम्)॥११॥ [[TODO: परिष्कार्यम्]]

यास्तेराके सुमतयस्सुपेशसोयाभिर्ददासि दाशुषे वसूनि ताभिर्नो अद्य सुमना उपागहि सहस्रपोषँ सुभगेर राणा स्वाहा। (राकाया इदम्)॥१२॥ [[TODO: परिष्कार्यम्]]

सिनीवालि पृथुष्टुके यादेवानामसिस्वसा। जुषस्व हव्यमाहुतं प्रजां देविदिदिड्डिनस्स्वाहा। (सिनीवाल्या इदम्)॥१३॥ [[TODO: परिष्कार्यम्]]

यासुपाणिस्स्वं गुरिस्सुषूमा बहुसूवरी। तस्यै विश्पत्नियै हविस्सिनीवाल्यै जुहोतन स्वाहा। (सिनीवाल्या इदम्)॥१४॥ [[TODO: परिष्कार्यम्]]

कुहूमहँ सुभगां विद्मनाप समस्मिन् यज्ञे सुहवाञ्जोहवीमि। सानो ददातु श्रवणं पितृणां तस्यास्ते देवि हविषा विधेम स्वाहा। (कुह्वा इदम्)॥१५॥ [[TODO: परिष्कार्यम्]]

[[172]]

कुहूर्देवानाममृतस्यपत्नी हव्यानो अस्य हविषश्चिकेतु। सन्दाशुषे किरतु भूरिवामँ रायस्पोषं चिकितुषे दधातु स्वाहा॥ (कुह्वा इदम्)॥१६॥ [[TODO: परिष्कार्यम्]]

इति धातादि षोडश॥

पञ्च-वारुणम्

इमम्मेवरुण श्रुधीहवमद्याचमृडय। त्वामवस्युराचके स्वाहा। (वरुणायेदम्)॥१॥ तत्त्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः। अहेडमानो वरुणेह बोध्युरुशँ समान आयुः प्रमोषीस्स्वाहा। (वरुणायेदम्)॥२॥ त्वंनो अग्नेवरुणस्य विद्वान्देवस्य हेडोवयासिसीष्ठाः। यजिष्ठो वह्नितमश्शोशुचानो विश्वाद्वेषाँसि प्रमुमुग्ध्यस्मत्स्वाहा। (वरुणायेदम्)॥३॥ सत्वन्नो अग्ने वमो भवोतीनेदिष्ठो अस्या उषसोव्युष्टौ। अवयक्ष्वनो वरुणँ रराणो वीहिमृडीकँ सुहनो न एधि स्वाहा। (वरुणायेदम्)॥४॥ त्वमग्ने अयास्ययासन्मनसा हितः॥ अयासन् हव्यमूहिषे यानो धेहि भेषजग्ग् स्वाहा। (वरुणायेदम्)॥५॥ [[TODO: परिष्कार्यम्]]

मूल-होमः

अथ मूल-होमः॥

प्रजापते नत्वदेतान्यन्यो विश्वाजातानि परिता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तुवयग्ग् स्याम पतयो रयीणाँ स्वाहा॥ (प्रजापतय इदम्)॥१॥ प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु। तस्मै विशस्समनमन्त सर्वास्स उग्रस्सहिहव्यो बभूव स्वाहा॥ (प्रजापतय इदम्)॥२॥ [[TODO: परिष्कार्यम्]]

इत्युपांशु यजेत प्राजापत्ये……

चित्तादि। चित्तञ्चस्वाहा। (चित्तायेदम्)॥१॥ चित्तिश्चस्वाहा॥ (चित्या इदम्)॥२॥ आकूतं च स्वाहा॥ (आकूतायेदम्)॥३॥ आकूतिश्च स्वाहा॥ (आकूत्या इदम्)॥४॥ विज्ञातं च स्वाहा॥ (विज्ञातयेदम्)॥५॥ विज्ञानं च स्वाहा। (विज्ञानायेदम्)॥६॥ मनश्च स्वाहा॥ (मनस इदम्)॥७॥ शक्वरीश्च स्वाहा। (शक्वरीभ्य इदम्)॥८॥ दर्शश्च स्वाहा॥ (दर्शायेदम्)॥९॥ पूर्णमासश्च स्वाहा। (पूर्णमासायेदम्)॥१०॥ बृहच्च स्वाहा। (बृहत इदम्)॥११॥ रथन्तरं च स्वाहा। (रथन्तरायेदम्)॥१२॥ [[TODO: परिष्कार्यम्]]

इति द्वादश जयादिः मन्त्राः।

[[173]]

अग्निर्भूतानामधिपतिस्समावत्वस्मिन्ब्रह्मन्नस्मिन् क्षत्रेस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्याग् स्वाहा। (अग्नय इदम्)॥१॥ इन्द्रोज्येष्ठानामधिपतिस्समावत्वस्मिन्ब्रह्मन्नस्मिन् क्षत्रेस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याग् स्वाहा। (इन्द्रायेदम्)॥२॥ यमः पृथिव्या अधिपतिस्समावत्वस्मिन्……… देवहूत्याग् स्वाहा। (यमायेदम्)॥३॥ वायुरन्तरिक्षस्याधिपतिस्समावत्वस्मिन्…… स्वाहा। (वायव इदम्)॥४॥ सूर्योदिवोधिपतिस्समावत्वस्मिन्…… स्वाहा। (सूर्यायेदम्)॥५॥ चन्द्रमानक्षत्राणामधिपतिस्समावत्वस्मिन्… स्वाहा। (चन्द्रमस इदम्)॥६॥ बृहस्पतिर्ब्रह्मणोधिपतिस्समावत्वस्मिन्…. स्वाहा। (बृहस्पतय इदम्)॥७॥ मित्रस्सत्यानामधिपतिस्समावत्वस्मिन्….. स्वाहा। (मित्रायेदम्)॥८॥ वरुणोपामधिपतिस्समावत्वस्मिन्….. स्वाहा। (वरुणायेदम्)॥९॥ समुद्रस्स्रोत्यानामधिपतिस्समावत्वस्मिन्……. स्वाहा। (समुद्रायेदम्)॥१०॥ [[TODO: परिष्कार्यम्]]

अन्नँ साम्राज्यानामधिपतिस्समावत्वस्मिन्…….स्वाहा। (अन्नायेदम्)॥११॥ सोम ओषधीनामधिपतिस्समावत्वस्मिन्….. स्वाहा। (सोमायेदम्)॥१२॥ सविता प्रसवानामधिपतिस्समावात्वस्मिन्……..स्वाहा। (सवित्र इदम्)॥१३॥ रुद्रः पशूनामधिपतिस्समावत्वस्मिन्……. स्वाहा। (रुद्रायेदम्)॥१४॥ [[TODO: परिष्कार्यम्]]

अप उपस्पृश्य

त्वष्टारूपाणामधिपतिस्समावत्वस्मिन्……. स्वाहा। (त्वष्ट्र इदम्)॥१५॥ विष्णुः पर्वतानामधिपतिस्समावत्वस्मिन्……. स्वाहा। (विष्णव इदम्)॥१६॥ मरुतो गणानामधिपतयस्तेमावं त्वस्मिन्….. स्वाहा। (मरुद्भ्य इदम्)॥१७॥ पितरः पितामहाः परेवरेततास्ततामहा इहमावत अस्मिन्ब्रह्बन्नस्मिन् क्षत्रेस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याग् स्वाहा। (मन्त्रोक्त देवताभ्य इदम्)॥१८॥ [[TODO: परिष्कार्यम्]]

व्याहृतिः इत्यष्टादशाभ्यातानाः।

ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोप्सरस ऊर्जोनामस इदं ब्रह्मक्षत्रं पातुता इदं ब्रह्मक्षत्रं पान्तुतस्मै स्वाहा…….. (अग्नये गन्धर्वायेदम्) ताभ्यस्स्वाहा (ओषधीभ्योप्सरोभ्य इदम्)॥१॥ सँहितो विश्वसामा सूर्योगन्धर्वस्तस्य मरीचयोप्सरस आयुवोनाम….. स्वाहा। (सूर्याय गन्धर्वायेदम्।) ताभ्यस्स्वाहा। (मरीचिभ्योप्सरोभ्य इदम्)॥२॥ सुषुम्नस्सूर्यरश्मिश्चन्द्रमागन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नामस इदं ब्रह्म…… स्वाहा। (चन्द्रमसे गन्धर्वायेदम्।) ताभ्यस्स्वाहा। (नक्षत्रेभ्योप्सरोभ्य इदम्)॥३॥ भुज्युस्सुपर्णोयज्ञो गन्धर्वस्तस्य दक्षिणा अप्सर सस्तवा नामस इदं ब्रह्म…… स्वाहा। (यज्ञाय गन्धर्वायेदं…….)

[[174]]

ताभ्यस्स्वाहा, (दक्षिणाभ्योप्सराभ्यो इदम्)॥४॥ प्रजापतिर्विश्वकर्मामनो गन्धर्वस्तस्यर्क्सामान्यप्सरसोवह्नयोनामस इदं ब्रह्म…..स्वाहा। (मनसे गन्धर्वायेदम्।) ताभ्यस्स्वाहा (ऋक्सामेभ्योप्सरोभ्य इदम्)॥५॥ इषिरो विश्वव्यचावातो गन्धर्वस्तस्यापोप्सरसोमुदानामस इदं ब्रह्म……. स्वाहा। (वाताय गन्धर्वायेदम्।) ताभ्यस्वाहा। (अद्भ्योप्सरोभ्य इदम्)॥६॥ भुवनस्य पते यस्यत उपरिगृहा इह च। सनोरास्वाज्यानिँ रायस्पोषँ सुवीर्यँ संवत्सरीणाँ स्वस्तिँ स्वाहा। (भुवनस्यत्य इदम्)॥७॥ परमेष्ठ्यधिपतिर्मृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवोनामस इदं ब्रह्म………. स्वाहा। (मृत्यवे गन्धर्वायेदम्।) ताभ्यस्वाहा। (विश्वस्मा अप्सरोभ्य इदम्)॥८॥ सुक्षितिस्सुभूतिर्भद्रकृत्सु वर्वान्पर्जन्यो गन्धर्वस्तस्यविद्युतोप्सरसोरुचोनामस इदं ब्रह्म……… स्वाहा। (पर्जन्याय गन्धर्वायेदम्।) ताभ्यस्स्वाहा। (विद्युद्भ्योप्सरोभ्य इदम्)॥९॥ दूरे हेतिरमृडयो मृत्युर्गन्धर्वस्तस्यप्रजा अप्सरसोभीरुवोनामस इदं ब्रह्म…….. स्वाहा। (मृत्यवे गन्धर्वायेदम्।) ताभ्यस्स्वाहा (प्रजाभ्योप्सरोभ्य इदम्)॥१०॥ चारुः कृपणकाशीकामो गन्धर्वस्तस्याधयोप्सरसश्शोचयन्तीर्नामस इदं ब्रह्म……… स्वाहा। (कामाय गन्धर्वायेदम्।) ताभ्यस्स्वाहा। (आदिभ्योप्सरोभ्य इदम्)॥११॥ सनोभुवनस्य पतेयस्यत उपरिगृहा इह च। उरुब्रह्मणेस्मै क्षत्राय महिशर्म यच्छ स्वाहा॥ (भुवनस्य पते ब्रह्मण इदम्)॥१२॥ [[TODO: परिष्कार्यम्]]

व्याहृतिः। इति द्वादश-राष्ट्र-भृतः॥

सप्त-जिह्वासु होम-विधिः

मरीचि पञ्च-सप्ततितम-पटले -

एवम् अग्नि-पुरुषं ध्यात्वा

हिरण्या कनका रक्ता कृष्णा चैव सुप्रभाति रक्ता बहु-रूपा

इति सप्त-जिह्वास् तास् वैशान्ये, हेमाभा हिरण्या हिरण्यायां समीद्धोमम् ऐन्द्रे श्यामाभा कनका कनकायाम् आज्य-होमम् आग्नेय्यां रक्ताभा रक्तायां यव-होमं नैर्ऋत्यां नीलाभा कृष्णा कृष्णायां लाज-होमं, वारुण्यां पीताभाव सुप्रभाव सुप्रभायां सक्तु-होमं वायव्ये श्वेताभातिरक्ता अतिरक्तायां तिल-होमं दक्षिणोत्तरयोः मध्ये च बहु-वर्णाभा बहु-रूपा बहु-रूपायाम् इध्म-होमं चरु-होमं च सप्त-जिह्वासु च क्रमेण सप्त-समिद्दोमम् अन्यानि होम-द्रव्याणि सर्वाणि मध्यास्ये जुहुयात् यत्र काष्ठं तत्र श्रोत्रं धूमो नासिकाल्प-ज्वलनं नेत्रं भस्म-शीर्षम् इति ज्ञात्वा श्रोत्रे हुते व्याधि-पीडनं च चक्षुष्यन्धत्वं नासिकायां महा-रोगं मस्तके सर्व-नाशं तस्माज्ज्वलदग्नौ, जुहुयाद्

इत्याह मरीचि ः॥

अत्र नृसिंह-वाजपेय-भाष्ये -

दर्भाः अप्रच्छिन्नाग्राः अगर्भाः कुश-विश्वामित्र-काशादयः परिस्तरण-बर्हिषः धर्मे वक्ष्यमाणवत् कूर्चा भवन्ति॥ यद् वा बोधायनापस्तम्बादीनां मतेन सर्वत्र स्थण्डिले बर्हिषो भवन्तीति परिधयः पलाशाश्वत्थ-खादिरावान्येपि यज्ञ-वृक्षीया भवन्तीति। यथा प्रोक्षण-कूर्चं तथैव सर्वम् आयतं तु वत्स-जानुवत् त्रिवृच्छिरसं वा श्रौतवत् ग्रन्थेः प्रादेशतश्छित्वा वेदं करोतीति परिस्तरणादींश् च सर्वान् एकीकृत्य पुनर् बध्नाति पात्राणि स्रुवादयो जुहूपजुहू दर्व्यादयः प्रागग्रान् दर्बान् आस्तीर्य तेषु द्वन्द्वम् आज्य-स्थाली-चरु-स्थाल्यौ प्रणिधि पात्रे च दर्वी-स्रुवौ जुहुपजुहू हवनार्थस्त तञ् च द्वन्द्वं स्थण्डिलस्योत्तरे दैविके सम्भरति। प्रत्येकं दक्षिणतः दर्बेषु पैतृके सम्भरतीति।

हरिः ओम्

अन्तहोमः

अन्तहोम-प्रयोगः

ॐ भूः, अस्मिन् कर्मणि होमावसाने उपरिष्टात् तन्त्रं करिष्ये

अपउपस्पृश्य। “यदस्य कर्मण” इत्यारभ्य द्वादशमन्त्राः स्स्विष्टाकाराः।

यदन्यकर्मणोत्यरीरिचं यद्वान्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान् सर्वग् स्विष्टँ सुहुतं करोतु स्वाहा, (अग्नये स्विष्टकृत इदम्।) [[TODO: परिष्कार्यम्]]

मन्त्रः –

अग्नयेस्विष्टकृते सुहुतहुदाहुतीनां, कामानां समृद्दयित्रे स्वाहा। (अग्नये स्विष्टकृत इदम्।) अग्नये स्वाहा, (अग्नय इदम्।) अग्नयेन्नादाय स्वाहा, (अग्नयेन्नादायेदम्।) अग्नयेन्नपतये स्वाहा, (अग्नयेन्नपतय इदम्।) प्रजापतये स्वाहा, (प्रजापतय इदम्।) इन्द्राय स्वाहा, (इन्द्रायेदम्।) विश्वेभ्यो देवेभ्य स्वाहा, (विश्वेभ्यो देवेभ्य इदम्।) सर्वाभ्यो दैवतभ्यस्स्वाहा, (सर्वाभ्यो देवताभ्य इदम्।) सर्वत्रैवादिष्टं सर्वत्रैवानादिष्टं देवताममुष्मै स्वाहा (देवेभ्य इदम्।) अग्नयेस्वि विष्टकृते स्वाहा, (अग्नये स्विष्टकृत इदम्।) वास्तुपते नमो वास्तुपतये स्वाहा। (वास्तुपतय इदम्।) [[TODO: परिष्कार्यम्]]

“यन्मआत्मनः पुनरग्निश्चक्षुरि"ति मिन्दाहुती॥

मन्त्रः –

यन्मआत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिस्स्वाहा। (अग्नये जातवेदसे विचर्षणय इदम्।) [[TODO: परिष्कार्यम्]]

पुनरग्निश्चक्षुरदात्पुनरिन्द्रो बृहस्पतिः। पुनर्मे अश्विनायुवम्। चक्षुराधत्तमक्ष्योस्स्वाहा। (अग्रीन्द्रबृहस्पत्यश्विभ्य इदम्।) [[TODO: परिष्कार्यम्]]

“इष्टेभ्य” इत्यादि दशान्ते व्याहृति ऋद्धिः

[[138]]

इष्टेभ्यस्स्वाहा (इष्टेभ्य इदम्।) वषडनिष्टेभ्यस्स्वाहा (वषडनिष्टेभ्य इदम्।) भेषजं दुरिष्ट्यै स्वाहा; (भेषजं दुरुष्ट्या इदम्।) निष्कृत्यै स्वाहा, (निष्कृत्या इदम्,) दौरार्थ्यै स्वाहा, (दौरार्थ्या इदम्,) दैवीभ्यस्स्वाहा, (दैवीभ्य इदम्।) तनूभ्यस्स्वाहा, (तनूभ्य इदम्।) ऋद्ध्यै स्वाहा, (ऋद्ध्या इदम्।) समृद्ध्यै स्वाहा, (समृद्ध्या इदम्।) सर्वसमृद्ध्यै स्वाहा, (सर्वसमृद्ध्या इदम्,) ॐ भूस्वाहा…. (प्रजापतय इदम्।) [[TODO: परिष्कार्यम्]]

“आश्रावितं ब्रह्मयदकर्मे"ति कृतान्तम्।

मन्त्रः –

आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तञ्च यज्ञे, अतिरिक्तं कर्मणो यच्चहीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् स्वाहा कृताहुतिरेतु देवान् स्वाहा। (यज्ञायेदम्।) [[TODO: परिष्कार्यम्]]

मन्त्रः –

ब्रह्मप्रतिष्ठा मनसोब्रह्मवाचोः, ब्रह्मयज्ञानाँ हविषामाज्यस्य, अतिरिक्तं…. देवान् स्वाहा, (यज्ञायेदम्।) [[TODO: परिष्कार्यम्]]

यदकर्मयन्नाकर्मयदत्यरेचियन्नात्यरेचि। यदतिरिक्तं यच्चहीनं तद्विष्णुर्यज्ञे यज्ञं प्रतिष्ठापय स्वाहा कृताहुतिरेतुदेवान् स्वाहा, (विष्णव इदम्।) [[TODO: परिष्कार्यम्]]

“यत्प्रमत्तो मनोज्योतिरयाश्चाग्ने यदस्मिन्स्वस्तिनो यतइन्द्र” इति च विच्छिन्नं

यत्प्रमत्तोन्तरगामि किञ्चिदस्मिन् यज्ञे मन्त्रतः कर्मतोवा, अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा, (देवेभ्य इदम्।) [[TODO: परिष्कार्यम्]]

मनोज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिमं दधातु। या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा। (मनसे ज्योतिष इदम्।) [[TODO: परिष्कार्यम्]]

अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्वमया असि, अयसामनसाधृतोयसाहव्यमूहिषेयानोधेहि भेषजँ स्वाहा, (अग्नये अयस इदम्।) [[TODO: परिष्कार्यम्]]

यदस्मिन्यज्ञेन्तरगामि किञ्चिदस्मिन्यज्ञे मन्त्रतः कर्मतो वा अनया हुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा, (देवेभ्य इदम्।) [[TODO: परिष्कार्यम्]]

[[139]]

स्वस्तिन इन्द्रोवृद्धश्रवाः, स्वस्तिनः पूषा विश्ववेदाः, स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः, स्वस्तिनो बृहस्पतिर्दधातु स्वाहा, (इन्द्रपूषतार्क्ष्य बृहस्पतिभ्य इदम्।) [[TODO: परिष्कार्यम्]]

यत इन्द्रो वीर्यमकृणोदूर्ध्वो अध्वरहोता, अग्नेर्वेदोर्ध्वस्तयास्विष्टकृद्देवेभ्य इन्द्र आज्येन हविषाघृतेन स्वाहा, (इन्द्रायेदम्) बैल्वम्, एथोस्येधिषीमहिस्वाहा, (एथसइदम्,) [[TODO: परिष्कार्यम्]]

पालाशं समिदसि तेजोसि तेजो मयि धेहि स्वाहा, (समिध इदम्),न्यग्रोधं यमस्य धीमहि मृत्योम्मेहि स्वाहा, (यमायेदम्),अश्वत्थं सूर्यस्य धीमहि चक्षुर्मे पाहि स्वाहा, (सूर्यायेदम्), औदुम्बरं सोमस्य धीमहि चित्तम्मे पाहि स्वाहा, (सोम्यायेदम्), शमीं सोमस्य धीमहि चित्तम्मे पाहि स्वाहा, (वायव इदम्), खादिरम् ब्रह्मणो धीमहि बुद्धिम्मे पाहि स्वाहा, (ब्रह्मण इदम्)। [[TODO: परिष्कार्यम्]]

इति सप्त-समिधः, तद अभावे यथा लाभं पालाशाश्वत्थौ वा भवतः “सप्तते अग्ने ऋतुधाने"ति पूर्णाहुती।[[??]]

सप्तते अग्ने…. स्वा घृतेन स्वाहा, (अग्नये सप्तत इदम्।) ऋतुधानविद्वान्… प्रजापतये स्वाहा, (प्रजापतय इदम्।) [[TODO: परिष्कार्यम्]]

अग्निर्भुक्तमित्युपजुह्वामाज्यं प्रत्येकं गृहीत्वा जुहुयात्

अग्निर् भुक्तं, वेदिर् भुक्तं, द्यौर् भुक्तं, पृथिवी-भुक्तं, ओषधि-वनस्पति-गन्धर्वाप्सरसश्चैदभुक्तम्।[[??]] “अग्निर्जीर्णमि"ति प्रत्येकं जुह्वां चरुम् अभिघार्यादाय जुहोति।

अग्नि-जीर्णं, वेदि-र्जीर्णं, द्यौर् जीर्णं, पृथिवी-जीर्णं, ओषधि-वनस्पति-गन्धर्वाप्सरसश् चैव जीर्णं

“समङ्त्कां बर्हिरि"ति स्रुवेण आज्यं गृहात्वा स्रावयन् जुहोति

समङ्त्कां बर्हिर्हविषाघृतेन समादित्यैर्वसुभिस्सं मरुद्भिः समिन्द्रेण विश्वेभिर्देवेरङ्त्कां दिव्यं नभो गच्छतुयत् स्वाहा, (नभस इदम्।) [[TODO: परिष्कार्यम्]]

प्रायश्चित्ते षष्ठम-प्रश्ने - सू॥

स्थण्डिले परिस्तरणादि सम्भारे च प्रमाण-वर्जिते हीने च मिन्दाहुती। व्याहृतीः सावित्रीञ् च जुहुयाद् इति। सर्वं युग्मं प्राच्याम् उदीच्यां वा अग्रम् अन्तं च दैविके सर्वम् अयुग्मं दक्षिणस्याम् अग्रम् अन्तं च पैतृके करोति।

[[140]]

होमे न्यूनातिरिक्ते पूर्णाहुती मिन्दाहुती जुहोति,

भाष्ये –

सर्वेषाम् अभ्युदयादि होमानां न्यूनातिरिक्तस्य क्रिया-लोपस्य विपर्यासस्य च पूर्वोक्ताहुतीः व्याहृतीः, महा-व्याहृतीः गायत्रीं सावित्रीं मिन्दाहुती वैष्णवं च लाघवे सकृदेव जुहुयात्। अपिवा वैष्णवम् “अतो देवा इदं विष्णुरि"त्येवं व्याहृतीश् च सर्व-प्रायश्चित्तं जुहुयात्।

ततो वामेन सृवं गृहीत्वा दक्षिणेनाज्य-पात्रं सङ्गृह्य अग्नेर् उपरि धारयन् आज्य-शेषं स्रावयन् “इन्द्राय जुहोमि स्वाहे"ति जुहुयात्,

इन्द्राय जुहोमि स्वाहा, (इन्द्रायेदम्,) [[TODO: परिष्कार्यम्]]

तत्-पात्रेणाधावमादाय स्रुवेणान्तरितं जलम् अग्नेस् समीपे “अग्निस् तृप्यतु”। इति निनीय, पश्चिमतः “वेदिस् तृप्यतु” इति वेद्यां “द्यौस् तृप्यतु” इत्याकाशे “पृथिवी तृप्यतु” इति भूमौ “ब्रह्माद्यस् तृप्यन्ताम्” इति दक्षिणस्यां वेद्यां तर्पयति।

प्रणीतायां दक्षिणस्यां दैवेनापो गृहीत्वा

ओषधि-वनस्पति-गन्धर्वाप्सरसश् चैव तृप्यन्ताम्

इति उत्तरस्यां वेद्यां तर्पयेत्। तथोत्तरस्यां प्रणीतायां सापसव्यमपो गृहीत्वा पैतृकेण मे दक्षिणतः

पितरः पितामहाः प्रपितामहाः प्रपितामहाश् चाक्षय्यम् अस्तु तृप्यन्ताम्

इति दक्षिणस्यां तर्पयति। उपवीति। अप उपस्पृश्य।

अदितेन्वमग्ग्स्थाः …. प्रासावीः, [[TODO: परिष्कार्यम्]]

दक्षिणोत्तर प्रणिध्योः आवाहित-देवताः यथा स्थानं प्रतिष्ठापयामि दक्षिणोत्तर-प्रणिध्योरुपान्ताङ्गुष्ठानामिकाभिः पवित्रम् अक्षतं गृहीत्वा पर्यायतो जुहोति।

“पवित्रमसि पवित्रं मे भूयाः” इति दक्षिण-प्रणिधि-पवित्रं गृहीत्वा तूष्णीं ग्रन्थिं विसृज्य, अद्भिः प्रोक्ष्य, अप उपस्पृश्य, अग्नौ जुहुयात्। तथा “पूर्णमसि पूर्णं मे भूयाः” इति उत्तर-प्रणिधि-पवित्रं पूर्ववज् जुहुयात्। “सदसि सन् मे भूयादि"ति दक्षिण-प्रणिध्यक्षतान् पूर्वोक्ताङ्गुलिभिः गृहीत्वा अग्नौ हुत्वा “सर्वम् असि सर्वं मे भूया” इत्युत्तर-प्रणिध्यक्षतान् गृहीत्वाग्नौ हुत्वा “अक्षितमसी"ति प्रणिधिम् उत्तरां प्राक् स्थानात् किञ्चिच् चालयित्वा अक्षितमसि मामेक्ष्येष्ठाः, तदाथावेन प्राच्यान् दिशि दक्षिणायान् दिशि प्रतीच्यान् दिश्यूर्ध्वायां दिश्यथोधरा धरैरिति यथादिशं परिषिच्येति

सूत्रे –

तदम्बुना प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां, दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि ग्रहाः पशवो मार्जयन्ताम् उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तां

इति चतुर्भिः अग्नेः पूर्वादि दिक्षु वेद्यां परिषिच्य

[[141]]

अग्नेर् उपरि

ऊर्ध्वायां दिशि यज्ञस् संवत्सरो यज्ञपतिर् मार्जयन्ताम्।

अग्नेर् अधः

अधोधराधरैर् नागेभ्यो मार्जयन्ताम्।

“माहं प्रजामि"ति उत्तर-प्रणिदिं गृहीत्वा

माहम्प्रजां परासिचं यानस् सयावरीस्तन, समुद्रेवो निन यानस् सम्पाथो अपिथः। [[TODO: परिष्कार्यम्]]

इत्यग्नेः पुरतो नीत्वा दक्षिण-प्रणिधौ स्वल्पम् आधावं स्रावयित्वा “स्वां योनिम् अपि गच्छत” इति दक्षिण-प्रणिथिम् उद्धृत्य तज् जलम् उदक-पात्रे[[??]] स्रावयति। “स्वां योनिम् अपि गच्छत” तद्-अद्भिः “आपोहिष्ठे"ति मन्त्रेण आत्मानं प्रोक्षयति। प्रोक्षणं यजमानस्यैव कर्तव्यं तथा श्रौते दृष्टत्वात् “न प्रणिधोरि"तिभाष्ये।

आपोहिष्टा….यथाचनः। [[TODO: परिष्कार्यम्]]

“प्रणिधी विसर्जयती"ति विसर्जनन् तु पात्र-पेटिकायां निधानं पुनर् देवेभ्यो हव्यं वहेत्यग्नेर् दर्शनेन स्रुवं विसृजेति स्रुवं स्रुगादीन् प्रक्षाल्य। अग्नौ किञ्चित् प्रतपनेन पात्र-पेटिकायां निधानम्।

पुनर्देवेभ्यो हव्यं वह। [[TODO: परिष्कार्यम्]]

“वर्षिष्ठा गह्वरेष्ठोग्रमि"ति वर्षिष्ठ-समिधौ उभौ समेत्य जुहुयात्।

वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं त्वेषं वचो अपावधीँ स्वाहा (अग्नये वर्षिष्ठायेदम्)। [[TODO: परिष्कार्यम्]]

“ऊर्ध्वं यज्ञमि"त्यूर्ध्व समिधौ जुहुयात्।

ऊर्ध्वं यज्ञं नयतं माजीह्वरतमत्ररमेथां वर्ष्मन्पृथिव्या दिवोवा विष्णवुतवा पृथिव्याँ स्वाहा, (विष्णव इदम्), [[TODO: परिष्कार्यम्]]

पश्चिमतः परिधिम् अपनयेत्येवं दक्षिणतः उत्तरश् च परिधीन् प्रत्येकम् अग्नौ नैर्ऋत्यां नात्यग्रं प्रहरतीति मध्यम-परिधेर् अधस्ताद् अङ्गारेषूपोहयेत्।

पश्चिमतः परिधिम् अपनय, दक्षिणतः परिधिम् अपनय, उत्तरतः परिधिम् अपनय। एवं परिधीक जुहुयात्,

पश्चिमतो विष्णोस् सदनमसीत्येवं दक्षिणतो विष्णोस् सदनमसि, उत्तरतो विष्णोस् सदनमसि, प्राच्यां विष्णोस् सदनमसीति परिस्तरण-बर्हिषस् सर्वान् परिसमूह्य

ग्रन्थितश् चेत् “घर्मोसी"ति ग्रन्थिं विसृज्य।,

[[142]]

घर्मोसि रायस्पोषवनिरिहोर्जं दृग्ँह इह प्रजाम्पशूं दृग्ँह। [[TODO: परिष्कार्यम्]]

अद्भिः प्रोक्ष्य, अप उपस्पृश्य “आप्यायन्तामि"ति नात्यग्रं जुहोति।

आप्यायन्तामाप ओषधयो मरुतां पृषतयस्थदिवं गच्छततोनो वृष्टिमेरय स्वाहा। [[TODO: परिष्कार्यम्]]

(अद्भ्य ओषधीभ्य इदम्) इत्य विच्छिन्नम् आस्तीर्य नैर्ऋत्ये दहेत्। अविच्छिन्नेन ब्रह्मवर्चसायेति यजमानो भवतीति विज्ञायते

“भूतिस्मेही"ति तद्-भस्म गृहीत्वा।

भूतिस्माते लभते नित्यं सर्व यज्ञकृतं लभेत्। अग्निमारुतयोः भूतिः [[TODO: परिष्कार्यम्]]

ललाट-हिक्क[[??]]-बाहु-कन्ठोदरादीन् “आदित्यस् सोमो नम” इत्यूर्ध्वाग्रमालिप्य

आदित्यस्सोमोनमः त्रियायुषं…. शतञ्चवर्चसे त्रियायुषम्। [[TODO: परिष्कार्यम्]]

अत्र श्रौतोक्तत्वात् “बृहत्सामक्षत्रभृदि"ति पत्न्याः ललाटे भस्म ऊर्ध्वाग्रमालिप्य “आपोहिष्ठे"त्यात्मानं प्रोक्ष्य।

आपोहिष्ठामयोभुवः…… आपो जनयथाचनः। [[TODO: परिष्कार्यम्]]

“यत्ते अग्ने, तेजस्तेने"त्यग्निम् उपस्थाय।

यत्ने अग्ने……. भूयासम्। मयिमेधां….. भ्राजो दधातु। [[TODO: परिष्कार्यम्]]

आदित्यो यत्र दृश्यते तत्र गत्वा “उद्वयं तमस” इति आदित्यम् उपस्थाय।

उद्वयं…. मनसापुनातु। [[TODO: परिष्कार्यम्]]

पुनर् वेदि-मूलम् आसाद्य औपासनाग्निं वैश्वानर-सूक्तेनोपस्थाय “प्रणामङ्कुर्यादि"ति।

वैश्वानरसूक्तम्

वैश्वानरस्य रूपं पृथिव्यां परिस्रसा स्योनमाविशन्तु नः। अग्निनाग्नेब्रह्मणा आनशेव्यानशे सर्वमायुर्व्यानशे। नर्यप्रजां मे गोपाय अमृतत्वाय जीवसे। जाताञ्जनिष्यमाणां च। अमृते सत्ये प्रतिष्ठिताम् अथर्वपितम्मे गोपाय रसमन्नमिहायुषे। अदब्धायोशीततनो अविषन्नः पितुं कृणु। शग्ग्स्यपशून्मे गोपाय, द्विपादोये चतुष्पदः। अष्टाशफाश्च य इहाग्ने, ये चैकशफा आशुगाः सप्रथ सभाम्मे गोपाय। ये च सभ्यास्सभासदः। तानिन्द्रियावतः कुरु। सर्वमायुरुपासताम्। अहेबुध्निय मन्त्रम्मे गोपाय, यमृषस्त्रै विदाविदुः। ऋचस्सामानियजूँषि। साहिश्रीरमृतासतां चतुश्शिखण्डा

[[143]]

युवतिस्सुपेशाः। घृतप्रतीकाभुवनस्य मध्ये मर्मृज्यमाना महते सौभगाय, मह्यन्धुक्ष्व यजमानायकामन्। इहैव सन्तत्र सतो वो अग्नयः प्रानवाचा मनसाबिभर्मि। तिरोमासन्तमायुर्माप्रहासीत्। ज्योतिषाणे वैश्वानरेणोपतिष्ठे। पञ्चधाग्नीन्व्यक्रामत्। विराट् स्रष्टाप्रजापतेः। ऊर्ध्वारोहद्रोहिणी, योनिरग्नेः प्रतिष्ठितिः, नमो ब्रह्मणे नमो अस्त्वग्नये नमः, पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि। अहमिन्द्रो भवाम्यहं विष्णुस्सूर्यस्सर्वान्तरात्मा ब्रह्मब्रह्मान्तरात्मा विराडहं चतुर्मुखः। यामहमग्नौ वपाम्याहुतिं तद्देवानाममृतँ षाण्मासिकं तदसुराणां विषँ सद्यो नाशम्भवतु यन्ममहस्तं तद्विष्णोरसुरान्तकमस्तु। यन्मन्त्र हीनं तदहीनं भवतु। तदृषीणां तपसा पृथिव्याः। क्षमया देवा मुनयो मामाविशन्ताम्। शास्त्रामेवाचिसं विशन्तां तदस्माकं भूत्यै रायिमत्यै पुष्टिमत्यै मनो नो भवतु वर्चो भवतु। सर्वमस्माकँ सम्पदस्तु - अग्नये नमः। जातवेदसे नमः। पावकाय नमः। हुताशनाय नमः। सर्वोपचारान् समर्पयामि। [[TODO: परिष्कार्यम्]]

मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं हुताशन।
यद्धुतं तु मया देव पुरिपूर्णं तद् अस्तु ते।
प्रायश्चित्तान्य शेषाणि तपः कर्मात्मकानि वै
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्।

श्री-कृष्णाय नमः। द्वादश-वारं भगवतो बलेन… भगवत्-कर्म कृतवान्…. तद् भगवान् अनुमन्यताम्

इति सात्विक-त्यागं कृत्वा।

कायेन वाचा…. नारायणायेति समर्पयामि।

अन्तहोमप्रायश्चित्तम्

स्विष्टकृत् प्रभृति अन्त-होमे हीने परिध्यादि प्रहरणे च कृते तस्मिन् एवाग्नौ विष्णोर्नुकादीन् मिन्दाहुत्या श्रावितादीन् हुत्वा अग्निं विसृजेत्।

इत्यन्त-होम-प्रायश्चित्तं समाप्तम्।