०३ पुण्याहः

पुण्याहपीठिका

सूत्रम् – अथ पुण्याहं पञ्चावरान् श्रोत्रियानाहूयाभिपूजयति ॥

भाष्ये॥ आचरति कर्मेत्याचार्यः निषेकादि-कृदितियजमान इत्यर्थः। अथ यजमानः प्रातस् स्नात्वाचम्य, धृतोभय-पवित्र-पाणिः द्वादशोर्ध्व पुण्ड्रस् सन्ध्यामुपास्य, ब्रह्मयज्ञं काण्डर्षि-तर्पणं च कृत्वा, शुद्धे देशे वक्ष्यमाणवत् गोमयेनोपलिप्यपैष्ट्या भूमिम् अलङ्कृत्याचार्यादि-श्रोत्रियान् पञ्चावरानाहूय, पाद्याननाद्यैरभ्यर्च्य प्रतिवाचकान् प्राङ्मुखानुदङ्मुखान् वा स्थापयेत्॥ सर्वत्रोदङ्मुख एव आचार्यः कर्मकारयति॥

यजमानः पादौ प्रक्षाल्य द्विराचम्य पत्न्या सह॥

हरिः ओम् अस्मद्गुरुभ्यो नमः। अस्मत्परमगुरुभ्यो नमः श्री-विखनस-गुरुभ्यो नमः सर्वेभ्यः श्री-वैष्णवेभ्यो नमः।

इति तान् प्रणमेत्, तत आचार्यः अनयोर्धम्पत्योः शोभन-कर्मारम्भ-मुहूर्तस् सुमुहूर्तो ऽस्त्विति भवन्तो ऽनुगृहन्तु। प्रतिवचनम्॥ तथास्तु। सुमुहूर्तो ऽस्तु।

ॐ ऋध्यास्महव्यैर्नमसोपसद्य। मित्रं देवं मित्रधेयन्नो अस्तु। अनूराधान् हविषावर्धयन्तः। शतं जीवेमशरदस्सवीराः। [[TODO: परिष्कार्यम्]]

इति तयोः अक्षतारोपणं कृत्वा, साक्षत-पवित्रे दद्यात्। यजमानः “इदं ब्रह्म-पुनीमह” इति पवित्रे गृहीत्वा, ब्रह्म-पुनात्विति हस्त-द्वयानामिकाङ्गुल्योर्निक्षिप्य

नमस्सदसे नमस्सदसस्पतये नमस्सखीनां पुरोगाणां चक्षुषे नमोदिवे नमः पृथिव्यै, [[TODO: परिष्कार्यम्]]

सप्रथ सभाम्मे गोपाय ये च सम्भ्यास्सभ्या सदः तानिन्द्रियावतः कुरु सर्वमायुरुपासताम्। [[TODO: परिष्कार्यम्]]

सर्वेभ्य श्री-वैष्णवेभ्यो नमः। यथा शक्ति-दक्षिणां गृहीत्वा स्वामिनः भवत् पाद-मूले मया समर्पिताम् इमां सौवर्णं दक्षिणां यत् किञ्चिद् दक्षिणां यथोक्त-दक्षिणाम् इव

[[100]]

स्वीकृत्य अनया धर्म-पत्न्या सह चिर-काल विच्छिन्नपुन स्सन्धान-कर्म-कर्तुं मम योग्यता-सिद्धिरस्त्विति भवन्तो महान्तो ऽनुगृह्णन्तु।

यजमानः घृतात्परीत्यद्भिर् यथाशक्ति-दक्षिणां ददाति,

त्वमग्ने यज्ञानां होतेतितधावदीरन् - मन्त्रः॥ त्वमग्ने यज्ञानाँ होता, विश्वेषाँ हितः, देवेभिर्मानुषे जने, स्वस्ति दक्षिणाः पान्तु देवस्यत्वा [[TODO: परिष्कार्यम्]]

इत्यादि,

प्रतिगृह्णामीत्यन्तं प्रतिगृहीतावदेत्। प्र। योग्यता सिद्धिरस्तु तयान्वारब्धः. प्राङ्मुखम् आसनोपरि दर्भेष्वासीनः।

हरिः ॐ भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतानुगृहीतो भगवतानुद्यातो भगवस्ध्यात्वा भगवत्-कर्म करिष्यामि

तत् भगवाननुमन्यताम्।

पुण्याहवाचनम्

प्राणानायम्य -

ॐ श्री-गोविन्द, गोविन्द गोविन्द अस्य श्री-विष्णोर् महा-पुरुषस्य - विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय-परार्धे श्वेत-वराह-कल्पे वैवस्वत-मन्वन्तरे अष्टाविंशति-तमे कलि-युगे प्रथम-पादे जम्बू-द्वीपे भरत-खण्डे भरत-वर्षे मेरोर्दक्षिण-पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके, प्रभवादि-षष्टि-संवत्सराणां मध्ये संवत्सरे - अयने - ऋतौ - मासे - पक्षे - शुभ-तिथौ - वासर-युक्तायां श्री- (विष्णु-नक्षत्र विष्णु-योग) शुभ-नक्षत्र शुभ-योग शुभ-करण एवं गुण-विशेषण-विशिष्टायां॥ अस्यां शुभ-तिथौ नक्षत्रे राशौ जातस्य - शर्मणः मम - नक्षत्रे राशौ जातायाः नाम्न्याः मम धर्म-पत्न्याश् च आवयोस् समस्त मङ्गलावाप्त्यर्थं श्रीमन्-नारायण-प्रीत्यर्थं भगवदाज्ञा-कैङ्कर्य-रूपं चिर-काल-विच्छिन्न-पुनस् सन्धान-कर्माङ्गं, एतस्मिन् स्थण्डिले आघार कर्माङ्गं स्थल-शुद्ध्यर्थं सर्वोपकरण-शुद्ध्यर्थं पुण्याह-वाचन-कर्म करिष्ये।

सर्वेभ्यश् श्री-वैष्णवेभ्यो नमः पुण्याह-जपं कुरुध्वम्।

प्र - वयं कुर्मः। भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्ये, प्र॥ ॐ वाच्यतां। सुपुण्याहं करोमि ॐ कुरुष्व। स्वस्ति सुप्रोक्षितम् अस्त्विति

[[101]]

स्थानं प्रोक्ष्य। “प्रजापतिः प्रियताम्” इत्युक्त्वा तैः प्रियाताम् इति वाचयति। प्रजापतिः प्रियताम्। प्र - प्रियतां प्रजापतिः, शाम्यन्तु घोराणीत्युत्तरान्तं त्रिरपस्रावयेत्। अत्रभाष्यं - कनकादि शुद्धं पात्रं मृण्मयं वा अभिस्राव जल-धारणार्थं पुरतः संस्थाप्य तस्मिन् कुशाक्षत-गन्धाश्वत्थ-पल्लवान् निक्षिप्य। करकम् उद्धृत्य दर्भोपरि उत्तरान्तं पात्राद् बहिः त्रिरपस्रावयेत्। तथास्ते शुभानि वर्धन्ताम् इति पात्रे स्रावयति। शाम्यन्तु घोराणि, शाम्यन्तु पापानि, शाम्यन्तु ईतयः, प्र - शुभानि वर्धन्तां - एवं त्रिः। अतो देवा इत्यग्रं दैविके।

मन्त्रः –

अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे। पृथिव्यास् सप्त-धामभिः। इदं विष्णुर् विचक्रमे त्रेधा निदधे पदं, समूढमस्यपाँ सुरे त्रीणि पदा विचक्रमे विष्णुर् गोपा अदाभ्यः। अतो धर्माणि धारयन्। विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यस्सखा। तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः। दिवीव चक्षुर् आततम्। तद्विप्रासो विपन्यवो जागृवाँ सस्समिन्धते। विष्णोर् यत् परमं पदम्। [[TODO: परिष्कार्यम्]]

सन्त्वासिञ्चमीत्यग्रं सूतके

सन्त्वासिञ्चामि यजुषा प्रजाम् आयुर्धनं च, बृहस्पति-प्रसूतो यजमान इहमारिषत्। [[TODO: परिष्कार्यम्]]

शुचीवो हव्या इत्यग्रं प्रेतके॥

शुचीवो हव्या मरुतश् शुचीनाँ शुचिग्हिनोम्यध्वरँ शुचिभ्यः, ऋतेन सत्य-मृत साप आयन्छुचिजन्मानश्शुचयः पावकाः। [[TODO: परिष्कार्यम्]]

प्र॥ द्रविणोदा इति तत्तन्मन्त्रान्ते यजमानस्य शिरसि अक्षतान् निक्षिपन्तो वदेयुः। यजमानः प्रतिमस्त्रं पात्रेजलं स्रावयति। द्रविणोदा सविता नवो नवो विद्युत् शतं जीव अष्टादेवा हिरण्य-रूप ऋध्यामस्तोमम् आहार्षन्त्वा अर्यमणं सोमं राजानम् इन्द्रावरुणासौ श्रिये जातयागुं गूः यस्त्वा हृदायस्मैत्वं नर्यप्रजां सुत्रामाणं शतायुधाय दक्षिणावतां भद्रं कर्णेभिश्शतमिन्नु, शरदोऽदितिर्द्यौर्

इति ऋचस्सर्वे वदेयुर् इत्यन्तम्।

[[102]]

मन्त्रः –

द्रविणोदा द्रविणसस्तुरस्य द्रविणोदास्सनरस्य प्रियं सत्। द्रविणोदावीरवतीमिषण्णो द्रविणो दारासते दीर्घम् आयुः॥ सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात्। सवितानस्सुवतु सर्वतातिँ सवितानोरासतां दीर्घमायुः॥ [[TODO: परिष्कार्यम्]]

नवो नवो भवति जायमानोह्नां केतुरुषसामेत्यग्रे, भागं देवेभ्यो विदधात्यायन्प्रचन्द्रमास्तिरति दीर्घम् आयुः॥ [[TODO: परिष्कार्यम्]]

विद्युन्नया पतन्तीदविद्योद्भरन्तीमे अप्याकाम्यानि जनिष्टो आपो नर्यस्सुजातः प्रोर्वशीतिरत दीर्घम् आयुः॥ [[TODO: परिष्कार्यम्]]

शतं जीव-शरदो वर्धमानश् शतं हेमन्तान्छतमुवसन्तान्। शत-मिन्द्राग्नी, सविता-बृहस्पतिश् शतायुषा हविषेमं पुनर्दुः॥ [[TODO: परिष्कार्यम्]]

अष्टौ देवावसवस् सोम्या सः चतस्रो देवी रजराश्रविष्टाः। ते यज्ञं पान्तु रजसः परस्तात्, संवत्सरीणम् अमृतँ स्वस्ति॥ [[TODO: परिष्कार्यम्]]

हिरण्य-रूपस्सहिरण्य सन्दृग पां नपात्सेदु हिरण्यवर्णः। हिरण्ययात्परियोनेर्निषद्या हिरण्यदाददद्यन्नमस्मै॥ [[TODO: परिष्कार्यम्]]

ऋध्यामस्तोमं सनुयामवाज मानोमन्त्रं सरधे होपयातम्। यशो न पक्वं मधुगोष्वन्तरा भूतां शो अश्विनोः काममप्राः॥ [[TODO: परिष्कार्यम्]]

आहार्षन्त्वा विदन्त्वा पुनरागाः पुनर्नव, सर्वाङ्गस्सर्वं ते चक्षुस्सर्वमायुश्च ते विदम्॥ [[TODO: परिष्कार्यम्]]

अर्यमणं बृहस्पतिमिन्द्रं दानायचोदय। वाचं विष्णुँ सरस्वतीँ सवितारं च वाजिनम्॥ [[TODO: परिष्कार्यम्]]

सोमँ राजानं वरुणमग्निमन्वारभामहे। आदित्यान् विष्णुँ सूर्यं ब्रह्माणं च बृहस्पतिम्॥ [[TODO: परिष्कार्यम्]]

इन्द्रावरुणासौमनसमतृप्तं रायस्पोषं यजमानेषु धत्तम्। प्रजां पुष्टिं भूतिमस्मासुधत्तं दीर्घायुत्वाय प्रतिरतन्न आयुः॥ [[TODO: परिष्कार्यम्]]

श्रियेजातश्श्रियआनिर्याय श्रियं वयो जरितृभ्यो दधाति। श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथामितद्रौ॥ [[TODO: परिष्कार्यम्]]

[[103]]

याँ गूर्यासिनीवाली याराकाया सरस्वती। इन्द्राणीमह्वऊतये। वरुणानीँ स्वस्तये॥ [[TODO: परिष्कार्यम्]]

यस्वाहृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि। जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने, अमृतत्वमश्याम्॥ [[TODO: परिष्कार्यम्]]

यस्मैत्वँ सुकृते जातवेद उलोकमग्ने कृणवस्स्योनम्। अश्विनँ सपुत्रिणं वीरवन्तं गोमन्तँ रयिं नशते स्वस्ति॥ [[TODO: परिष्कार्यम्]]

नर्यप्रजाम्मेगोपाय, अमृतत्वायजीवसे, जाताञ्जनिष्यमाणाञ्च, अमृते सत्ये प्रतिष्ठिताम्॥ [[TODO: परिष्कार्यम्]]

सुत्रामाणं पृथिवीं द्यामनेहसँ। सुशर्माणमदितिँ सुप्रणीतिम्। दैवीन्नावग्ग् स्वरित्रामनागसमस्रवन्तीमारुहेमा स्वस्तये॥ [[TODO: परिष्कार्यम्]]

शतायुधाय शतवीर्याय शतोतयेऽभिमातिषा हे।
शतं योनश्शरदो अजीतानिन्द्रो नेषदतिदुरितानि विश्वा॥
दक्षिणावतामिदिमानिचित्रा दक्षिणावतां दिवि सूर्यासः।
दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्रतिरन्त आयुः॥
भद्रं कर्णेभिश्शृणुयाम देवाः,भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेम देवहितं यदायुः॥
शतमिन्नु शरदो अन्तिदेवायत्रानश्चक्रा जरसं तनूनाम्।
पुत्रासो यत्र पितरो भवन्तिमानो मध्यारी रिषतायुर्गन्तोः॥
अदितिर्द्यौरदितिरन्तरिक्षम्। अदितिर्माता सपितासपुत्रः।
विश्वेदेवा अदितिः पञ्च-जनाः अदितिर्जातमदितिर्जनित्वम्॥ [[TODO: परिष्कार्यम्]]

“सर्वे देवाः प्रियन्ताम्” इति यजमानः तथा “प्रियन्ता"मिति “प्रतिवाचका वदेयु"रिति तथा सम्पूर्णमस्त्वित्यन्तम्॥

सर्वे देवाः प्रियन्ताम्। सर्वे ऋषयः प्रियन्ताम्। सर्वे पितरः प्रियन्ताम्। सर्वे ग्रहाः प्रियन्ताम्। सर्वा देव्यः प्रियन्ताम्। सर्वा ऋषि-पत्न्यः प्रियन्ताम्। सर्वाः पितृ-पत्न्यः प्रियन्तां सर्वे वेदाः प्रियन्तां सर्वे यज्ञाः प्रियन्ताम्।

[[104]]

पुण्याहम् अस्तु। शुभम् अस्तु। आयुष्यम् अस्तु। आरोग्यम् अस्तु। अविघ्नम् अस्तु। अचलम् ऐश्वर्यम् अस्तु। यत् पापं तत् प्रतिहतम् अस्तु। यच् छ्रेयस् तद् अस्तु। शिवं कर्मास्तु। शिवः पक्षो ऽस्तु। शिवा ऋतवस् सन्तु। शिवानि नक्षत्राणि भवन्तु, सर्व-कर्म-समृद्धिर् अस्तु। सर्व-धन-धान्य-सम्पूर्णम् अस्तु॥

यत्पुण्यं नक्षत्रं तद्बट्कुर्वीतो पव्युषं। यदावै सूर्य उदेति, अथ नक्षत्रं नैति, यावति तत्रसूर्यो गच्छेत्। यत्र जघन्यं पश्येत्। तावतिकुर्वीत यत् कारीस्यात्, पुण्याह एव कुरुते॥ [[TODO: परिष्कार्यम्]]

खण्ड॰ – यजमानस्य नक्षत्र-नामादि-गोत्र-नामसु तां तं मातृ-गोत्र-नामान्तात् परं शर्मान्तं नाम प्रणवादि भवन्तो ब्रुवन्तु। पुण्याहं स्वस्ति ऋद्ध्यन्तं त्रिधा त्रिधा यथा विभक्ति-वाचितम् अनुवाचयेयुः।

आश्वयुजाय, काश्यपाय, श्री-निवास-सुताय गौतमी-नन्दनाय, गोपाल-शर्मणे मह्यम् अस्मिन् कर्मणि पुण्याहं भवन्तो ब्रुवन्तु।

प्र॥ “आश्वयुजाये"त्यादि पूर्ववद् उक्त्वा तुभ्यं पुण्याहमस्तु।

पुण्याहं भवन्तो ब्रुवन्तु

प्र॥ पूर्ववत्

तुभ्यं पुण्याहम् अस्तु।

पुण्याहं भवन्तो ब्रुवन्तु।

प्र॥

तुभ्यं पुण्याहम् अस्तु।

स्वस्तिन इन्द्रो वृद्धश्रवाः, स्वस्तिनः पूषा विश्व-वेदाः। स्वस्तिनस्तार्यो अरिष्ट-नेमिः स्वस्तिनो बृहस्पतिर् ददातु॥ [[TODO: परिष्कार्यम्]]

पूर्ववद्

आश्वयुजाय काश्यपाय गौतमी-सुताय कृष्णशर्मणे मह्यम् अस्मिन् कर्मणि स्वस्ति भवन्तो ब्रुवन्तु।

पूर्ववत्

तुभ्यं स्वस्त्यस्तु।

त्रिः। ऋध्यास्महव्यै —— स्सवीराः॥

“आश्वयुजाय” इत्यादि पूर्ववत्। “आपोहिष्ठे"त्यभिस्रावोदकं करके संयोज्य आपो हिरण्य-पवमानैः॥ पुण्याह-करकोदकेन साचार्यैः प्रतिवाचकैः आत्मानं प्रोक्षयति।

आपोहिष्ठामयोभुवः ———, आपोजनयथाचनः।

हिरण्यवर्णाश्शुचयः पावकायासुजातः कश्यपोया स्विन्द्रः। अग्निं या गर्भं दधिरे विरूपास्तान आपश्शग् स्योना भवन्तु। यासाँ राजा वरुणो याति मध्ये सत्यानृते अवपश्यं जनानां। मधुश्चुतश्शुचयो याः पावकास्तान आपश्शग्ग् स्योना भवन्तु। यासान्देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे [[TODO: परिष्कार्यम्]]

[[105]]

बहुधा भवन्ति। याः पृथिवीं पयसोन्दन्ति शुक्रास्तान आपश्शग्ग् स्योनाभवन्तु। शिवेनमा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृश तत्वचं मे। सर्वाँ अग्नीँ रप्सुषदोहुवेवोमयि वर्चोबलमोजोनिधत्त। यददस्सम्प्रयतीरहा वनदताहते। तस्मादानद्योनामस्थतावो नामानि सिन्धवः। यत्प्रेषिता वरुणेनताश्शीभगं समवल्गत। तदाप्नोदिन्द्रोवोयतीन्तस्मादापो अनुस्थन। अपकामग्ग् स्यन्दमाना अवीवरतवोहिकम्। इन्द्रोवश्शक्तिभिर्देवीस्तस्माद्वार्णामवोहितम्। एकोदेवो अप्यतिष्ठत्स्यन्दमानायथावशम्। उदानिषुर्महीरिति तस्मादुदकमुच्यते। आपोभद्राघृतमिदाप आसुरग्नीषोमौ बिभ्रत्यापइत्ताः। तीव्रोरसो मधुपृचामरङ्गम आमा प्राणेन सहवर्चसागन्। आदित्पश्याम्युतवाशृणोम्यामाघोषोगच्छति वाङ्न आसाम्। मन्येभे जानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदावः। आपोहिष्ठामयोभुव——-यथाचनः। दिविश्रय स्वान्तरिक्षेयतस्वपृथिव्या सम्भवब्रह्मवर्चसमसि ब्रह्मवर्चसायत्वा। [[TODO: परिष्कार्यम्]]

पवमानस्सुवर्जनः। पवित्रेण विचर्षणिः। यःपोतास पुनातुमा पुनन्तुमादेव जनाः। पुनन्तुमनवोधिया। पुनन्तु विश्व आयवः। जातवेदः पवित्रवतु। पवित्रेण पुनाहिमा। शुक्रेणदेव दीद्यत्। आग्नेक्रत्वाक्रतूँरनु। यत्तेपवित्रमर्चिषि। अग्ने विततमन्तरा। ब्रह्मतेन पुनीमहे। उभाभ्यां देव सवितः। पवित्रेण सवेनच। इदम्ब्रह्मपुनीमहो। वैश्वदेवी पुनती देव्यागात्। यस्यै बह्वीस्तनुवोवीतपृष्ठाः। तयामदन्तस्सधमाद्येषु। वयग्ग्स्याम पतयोरयीणाम्। वैश्वानरोरश्मिभिर्मापुनातु। वातः प्राणेनेषिरोमयोभूः। द्यावापृथिवी पयसापयोभिः। ऋतावरी यज्ञियेमा पुनीताम्। बृहद्भिस्सवितस्तृभिः। वर्षिष्ठैर्देव मन्मभिः। अग्नेदक्षैः पुनाहिमा। येनदेवा अपुनत। येनापो दिव्यङ्कशः। तेनदिव्येन ब्रह्मणा। इदं ब्रह्मपुनीमहे। यःपावमानीरध्येति। ऋषिभिस्सम्भृतँ रसम्। सर्वँ सपूतमश्नाति। स्वदितिं मातरिश्वना। पावमानीर्यो अध्येति। ऋषिभिस्सम्भृतँ रसम्। तस्मै सरस्वतीदुहे। क्षीरँ सर्पिर्मधूदकम्। पावमानीः स्वस्त्ययनीः। सुदुघाहि पयस्वतीः। ऋषिभिस्सम्भृतोरसः। ब्राह्मणेष्वमृतँ हितम्। [[TODO: परिष्कार्यम्]]

[[106]]

पावमानीर्दिशन्तुनः। इमं लोकमथो अमुम्। कामान्समर्धयन्तुनः। देवीर्देवैस्समा भृताः। पावमानीस्स्वस्त्ययनीः। सुदुघाहिघृतश्चुतः। ऋषिभिस्सम्भृतो रसः। ब्राह्मणेष्वमृतँ हितम्। येनदेवाः पवित्रेण। आत्मानं पुनते सदा। तेन सहस्र-धारेण। पावमान्यः पुनन्तुमा। प्राजापत्यं पवित्रम्। शतोद्यामँ हिरण्मयम्। तेन ब्रह्मविदो वयम्। पूतं ब्रह्मपुनीमहे। इन्द्रस्सुनीती सहमापुनातु। सोमस्स्वस्त्या वरुणस्समीच्या। यमो राजा प्रमृणाभिः पुनातुमा। जातवेदामोर्जयन्त्या पुनातु। भूर्भुवस्सुवः। तच्छंयोरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञ-पतये। दैवीः स्वस्तिरस्तुनः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम्। शन्नो अस्तु द्विपदे। शञ्चतुष्पदे। ॐ शान्तिश्शान्तिश्शान्तिः॥ [[TODO: परिष्कार्यम्]]

(वास्तोष्पते प्रतिजानीह्यस्मात्स्ववेशो अनमीवो भवानः। यत्वेमहे प्रतितन्नो जुषस्वशन्न एधिद्विपदेशञ्चतुष्पदे॥ वास्तोष्पते शग्मया सँ सदाते सक्षीमहिरण्वयागातुमत्या। आवह क्षेम उतयोगेवरन्नो यूयम्पात स्वस्तिभिस्सदानः। अमीवहावास्तोष्पते विश्वरूपाण्याविशन् सखासुशेव एधिनः) शुभँ शुभम्। [[TODO: परिष्कार्यम्]]

पुण्याहे कृते तद्-अहः पुण्यं भवति। आदावंते वा पुण्याहेन सर्वाः क्रियाः परिपूर्णा भवन्ति।

“स्वाङ्कृतो ऽसी"ति दक्षिणा-कालम् उक्तवत्सु सत्सु।

स्वाङ्कृतोऽसि विश्वकृद्विश्वभ्यस्त्वेन्द्रियेभ्योदिव्येभ्यः पार्थवेभ्यः [[TODO: परिष्कार्यम्]]

स्वस्ति दक्षिणा-कालः।

घृतात् परीत्यत्याद्भिर् यथा-शक्ति-दक्षिणां हस्तेन दक्षिणेन ददाति।

घृतात्परिमण्ड इवाप्सुस्नेहस्सर्वाधिकस्सर्वधत्तेषु शर्वः। सचेतनश्चेतयते स्वशक्त्या एको लोकान् गर्भवत्पातु सर्वान्॥ [[TODO: परिष्कार्यम्]]

“त्वमग्ने यज्ञानाँ होते"ति तद् आददीरन् यत्र दक्षिणा-दाना ऽऽदाने तत्रैवं स्याद्

इति विज्ञायते।

त्वमग्ने यज्ञानाँ होता विश्वेषाँ हितः। देवेभिर्मानुषेजने। देवस्यत्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्यां, पूष्णोहस्ताभ्यां प्रतिगृष्णमि, राजात्वा वरुणोनयतु देवि दक्षिणेग्नये हिरण्यम्, तेनामृतत्वमश्याम्, वयोदात्रे मयो मह्यमस्तु प्रतिग्रहीत्रे क इदं कस्मा अदात्। कामः कामाय कामोदाता, कामः प्रतिग्रहीता, कामँ समुद्रमाविश, कामेनत्वा प्रतिगृह्लामि, कामैतत्ते, एषा ते कामदक्षिणा उत्तानस्वाङ्गीरसः प्रतिगृह्लातु॥ [[TODO: परिष्कार्यम्]]

अस्मिन् गृहे सर्वारिष्ट शान्तिर् अस्तु॥ शुभगं शुभम्॥

पुण्याह-वाचनं सम्पूर्णम्