ऐशान्यां धान्य-पद्मासनोपरि कूर्चं निक्षिप्य तस्मिन् आवाहयेत्।
विष्वक्सेनं चतुर्भाहुं शङ्ख-चक्र-समन्वितम्
सिंहासने समासीनं पीतवासोग्नि-वर्णकम्
[[97]]
श्री-वत्सं ब्रह्म-सूत्रञ्च कौस्तुभं च विनैवतम्
जया-पतिं शृङ्ग-केतुं सुपुष्प-रथ-वाहनम्
पूर्वाषाडोद्भवं देवं दक्षिणा-मुखमर्चयेत्॥
आग्नेयो यस्माद्यजामहे त्वा विश्वेसदात्वं महितोनुशम्भो, वैराजन्ते सुहुतं निधत्तां, प्रैषामधीशो विबुधानामनादिः यामे शस्तां धनितान्दधातु॥ [[TODO: परिष्कार्यम्]]
ॐ विष्वक्सेनम् आवाहयामि, शान्तम् आवाहयामि, हरम् आ॥ मि, अमितम् आ॥ मि, नित्यानपायिनम् आ॥ मि, दक्षिणे तत्पत्नीं सूत्र-वतीम् आ॥ मि, वामे जयाम् आ॥मि, सपत्नीकस्य विष्वक्सेनस्येदमासनं॥ विष्वक्सेनाय इदं पाद्यं, एते प्लोत(वस्त्रादयः ??)॥ इमे अक्षताः - गुडोप-हारं निवेदयामि। ताम्बूलं समर्पयामि। सर्वोपचारान् समर्पयामि।
यस्य द्विरद-वक्राद्याः पारिषद्याः परश्शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥
विष्वक्सेन-स्मृतो राजा भगवान् सर्व-कर्मणाम्
तस्मान्नान्यम् उपासीत कर्मणां विघ्न-शान्तये!
आरम्भे कर्मणां पुष्ट्यै विघ्नानां प्रशमाय च।
कुर्यात् सपरिवारस्य विष्वक्सेनस्य चार्चनम्।
इति विष्वक्सेनार्चनं कृत्वा -
इषेत्वोर्जेत्वेति करकं तन्तुना परिवेष्ट्य। इषेत्वोर्जेत्वा॥ कर्मणे-करकं धारास्वित्यद्भिरापूर्य॥
धारासु सप्तसु च मानसेषु सरस्सरित्सु परि पूरितेषु, अपो ऽभिगृह्णन् प्रतिपादयिष्ये गृणोमि धत्ताँ सुचिरँ सुशर्म। [[TODO: परिष्कार्यम्]]
“इदमापश्शिवा” इत्यपोभिमन्त्र्य,
इदमापश्शिवश्शिवतमाश्शान्ताश्शान्ततमाश्शुभाश्शुभतमाः पूताः पूततमाः पुण्याः पुण्यतमा मेध्या मेध्यतमा अमृता अमृतरसाः, पूताब्रह्म पवित्रेण पूतास्सूर्यस्य रश्मिभिः [[TODO: परिष्कार्यम्]]
“आपोवा” इति मन्त्रो अधिक-पाठः क्वचिद्देशे वर्तते।
[[98]]
आपोवा इदँ सर्वं विश्वाभूतान्यापः प्राणावा आपः पशव आपोमृत मापोऽन्नमापस्सम्राडापो विराडापस्स्वराडापश्चन्दाग्स्यापो ज्योतीग्ष्याप (यजूगुंष्याप) स्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ओम्॥ [[TODO: परिष्कार्यम्]]
पुष्पादिभिस् सर्व-तीर्थ-जलमभ्यर्च्य इत्युक्तत्वात् कूर्चाग्रेति कूर्चं निक्षिप्य
कूर्चाग्र-राक्षसाञ्च्चिन्दि एतत् कर्म-विघातिनः।
त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मसु
वृक्ष-राज इत्याम्रपल्लवान्निक्षिप्य,
वृक्ष-राज समुद्भूत-शाखायाः पल्लव-त्वचः
युष्मान् कुम्भे ह्यर्पयामि सर्व-दोषापनुत्तये।
इति नालिकेरम् ऊर्ध्व-मुखं विन्यस्य,
नालिकेर-समुद्भूत त्रि-नेत्र-हर-सम्मत
शिखया दुरितं सर्वं पापं पीडां च मे नुद॥
सहिरत्नानीति रत्नं सुवर्णं रजतं वा निक्षिप्य,
सहिरत्नानि दाशुषे सुवाति सविता-भगः, तं भागं चित्रमीमहे॥ [[TODO: परिष्कार्यम्]]
गङ्गे च यमुने चैव गोदावरि सरस्वति
नर्मेदे सिन्धु-कावेरि जलेऽस्मिन् सन्निधिं कुरु॥
येते शतं वरुणये सहस्रं यज्ञियाः पाशावितताः पुरुत्रा। तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वेदेवाऽमुञ्चन्तु मरुतः स्वस्त्या॥ [[TODO: परिष्कार्यम्]]
तस्मिन् पुष्प-गन्ध-तुलस्यक्षतान् निक्षिप्य॥
अस्मिन् कुम्भे वरुणम् आवाहयामि। प्रचेतसम् आवाहयामि, रक्ताम्बरधरम् आवाहयामि, यादस्पतिम् आवाहयामि। करकस्य पृष्टे पृथिवीम् आवाहयामि। कुक्षौ आकाशम् आवाहयामि, धारायां वायुम् आवाहयामि। पार्श्वयोः अग्निम् आवाहयामि। पुष्पे पुल्लम् आवाहयामि। गन्धे पृथिवीम् आवाहयामि, अक्षतेषु रविम् आवाहयामि। धूपे बृहस्पतिम् आवाहयामि। दीपे श्रियम् आवाहयामि। वरुणायनमः - वरुणस्येदम् आसनं। वरुणाय इदं पाद्यं, इदमर्घ्यं. इदमाचमनीय्यम्। एते प्लोत वस्त्रोत्तरीयाभरणोपवीतपुष्प-गन्ध-धूप-दीपार्घ्य-पाद्याचमनीय्यार्थे इमे अक्षताः।
[[99]]
सकलाराधनैस्स्वर्चितम्। वरुणाय नमः गुडोपहारं निवेदयामि॥
पूगी-फल-समायुक्तं नाग-वल्ली-दलैर्युतम्
कर्पूर-चूर्ण-संयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ताम्बूलं समर्पयामि। सर्वोपचारान् समर्पयामि॥