०१ भूशुद्धिः

120-

श्री-लक्ष्मी-वल्लभारम्भां विखनोमुनि मध्यमाम्
अस्मदाचार्य-पर्यन्तां वन्दे गुरु-परम्पराम्॥
नारायणः पिता यस्य माता चापि हरि-प्रिया।
भृग्वादि मुनयः पुत्रास् तस्मै विखनसे नमः॥

आसन-मन्त्रस्य पृधिव्याः मेरुपृष्ठ ऋषिः, सुतलं छन्दः, कूर्म-रूपी श्रीमन्नारायणो देवता, आसने विनियोगः, कुं बीजं, मं शक्तिः, फट् कीलकं मम आसन-शुद्ध्यर्थे जपे विनियोगः,

केशवाय अङ्गुष्ठाभ्यां नम इत्यादि दामोदर-पर्यन्तम् अङ्गन्यासं करन्यासं च कुर्यादिति केचित्,

ध्यानं॥

अशेष-जगदाधारम् अनन्तं कूर्म-रूपिणम्
आसनस्य विशुद्ध्यर्थम् आत्मानन्तं भजे हरिम्॥
पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता।
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम्॥

अच्युताज्ञया, आम् आधार-शक्यै नमः। अं अनन्तासनाय नमः। कुं कूर्मासनाय नमः। हुं फट् कर्निकम्॥ यथा बलं प्राणायामं कुर्यात्। प्राणानायम्य॥

हरिः ॐ श्री-गोविन्द एवं त्रिः, आरप्स्यमाणस्य कर्मणः अङ्ग-भूतं करकाराधनं तन्निर्विघ्नेन परिसमाप्त्यर्थं, विष्वक्सेनाराधनं चाद्य करिष्ये,

अपउपस्पृस्य।