०९ पद्माक्षतुलसीमालाविधिः

दीक्षितीये –

माला-धारण-शीलेन
विधिवत् सुप्रतिष्ठिताः
माला-हरि-पदाम्भोजे,
विन्यस्याभ्यर्च्य भक्तितः
धृत्वा यद्यज्जपेन्मन्त्रं,
तत्-कोटि-गुणितं भवेत्

पीठे षट्-कोणं विलिख्य,
तन्मध्ये श्री-बीजं विलिख्य,
तत्र पद्माक्ष-तुलसी-मणि-मालाः विन्यस्य,

दधिक्राव्ण्ण्-आपोहिष्ठा-हिरण्य-पवमान-मन्त्रैः प्रोक्ष्य
शुद्धोदकेनाभिषिच्य, “अतो देवा” इति पद्माक्षे विष्णुं,
“श्रियै जात” इति तुलसी-मणि-मालायां श्रियञ्चावाह्याभ्यर्च्य,
“चरणं पवित्रमि"ति भगवते समर्प्य,
ततस्स्वयं सदा धारयेत्

इति पद्माक्ष-तुलसी-माला-विधिस्समाप्तः