०८ यज्ञोपवीतविधिः

अथ यज्ञोपवीत-विधिं व्याख्यास्यामो ब्राह्मणो, ब्राह्मणी, ब्राह्मण-कन्यका, विधवा, ब्रह्म-चारी वा शुद्धस्स्नातोऽनटन्ननश्नन्नशयितः कार्पास-तन्तुङ्कृत्वा, कनिक्रतमिति-सूत्रं गृहीत्वा, सूत्रं स्निग्धं चतुरङ्गुलि-मात्रं षण्णवति सूत्रमेकं द्वितीयं तृतीयं प्रक्षाल्य “आपोहिष्ठामयोभुव” इति त्रिसृभिः प्रोक्ष्य, देवागारे गवाङ्गोष्टे नदी-तीरे यत्र शुचिर्देश, तत्र शुचिर्भवति ब्राह्मणस्सुप्रक्षालित-पाद-पाणिराचम्यापोहिरण्य-पवमानैस्थानम्प्रोक्ष्य,

द्वि(द्वौ)ब्राह्मणौ प्राङ्मुखौ तिष्टेतामेक-ब्राह्मणः प्रत्यङ्मुखस्तिष्ठस्सूत्रङ्गृहीत्वा “ओं भूर्भुवस्स्वरि"ति दक्षिण-हस्तेन, ऊर्ध्वं बध्नाति। तत्-त्रि-गुणी-कृत्य। यथा न श्रेयसस्कर-दिति-वाम-हस्तेन, ऊर्ध्वम्बध्नाति बैल्व-खादिराश्वत्थं वा (पृ)थिवीन्निधाय। ऋत्विग्भ्योन्यमनपेक्षमाणः “भूर्भुवस्स्वरि"ति उपतले वसन् दृष्ट्वा हस्ते वृङ्क्त्वा सम्यक्तेनमुचितासुलायाम् “उशन्तस्त्वाहवामह” इति, जलं निधाय,

भूरग्नयेच प्रथमं, भुवोवायवे च द्वितीयं, सुवरादित्याय च तृतीयं, भूर्भुवस्सुवः

इति ग्रन्थिङ्करोति “त्र्यम्बकं यजामह” इति ग्रन्थिमभिमृशति। “इदं विष्णुरि"ति श्री विष्णुमावाह्याभ्यर्च्य। पाणि-पादौ प्रक्षाल्याचम्य, आदित्याभिमुखं दक्षिण-हस्तमुद्धृत्य “यज्ञोपवीतमि"ति वाचयित्वा, धारयति, वामहस्तेन मेध्यामेध्याम् “अधावय”मिति जीर्णमप्सु विसृज्य

नाभेरूर्ध्वमनायुष्यमधोनाभिस्तपः क्षयम्।
तस्मान्नाभि-समङ्कुर्यात्सममायुष्यमक्षयम्भवति।
तद्भिभर्ता विप्र-समोभवेत्।

इति यज्ञोपवीत विधिर्विखनसाप्रोक्तमितिज्ञायते। इति ॥

इति श्री-वैखानस सूत्रे श्रौत-प्रश्ने दीक्षितीये

नवतन्तुदेवताः

ॐ कारः प्रथमस्तन्तुर्द्वितीयोग्निस्तथैव च
तृतीयो भगदैवत्यः चतुर्थस्सोम-दैवतः।
पञ्चमः पितृदैवत्यः षष्ठश्चैव प्रजा-पतिः
सप्तमो वसुदैवत्यः धर्मश्चाष्टम-देवता
नवमस्सर्वदैवत्य इत्येता नव-देवताः
य एतं न विजानाति यज्ञ-सूत्र-समुद्भवम्
वेदोक्तं निष्फलन्तस्य ज्ञान-दान-जपादिकम्
यज्ञाख्यः परमात्माय मुच्यते चतुर्हितृभिः
उपवीतं ततोह्यस्य तस्माद्यज्ञोपवीतकम्

इति॥

यज्ञोपवीत-मन्त्र-भागः

सूत्रम् – कनिक्रतदिति सूत्रङ्गृहीत्वा

मन्त्रः –

कनिक्रतज्जनुषम्प्रब्रुवाण इयर्ति वाचमधितेव नावम्

इत्यादि सूक्तेन कार्पास-तन्तु-निर्माणं कुर्यात् “भूर्भुवस्सुवरि"ति दक्षिण-हस्तेन “ऊर्ध्वम्बध्नाती"ति।

भूर्भुवस्सुवः प्रजाः प्रजया भूयासं….. ब्रह्म-चारिभिः, यथा न श्रेयसस्करदिति वामहस्तेन, ऊर्ध्वं बध्नातीति।

यथा न श्रेयनस्करद्यथानोवर्चनस्करद्यथानः॥ पशुमतः करद्यथानोव्यवसाययात्,

इत्यादि-यज्ञोपवीत-खण्डोक्त-मन्त्रः यज्ञोपवीतं प्रतिष्ठाप्य, “अग्निन्दूतमि"तिमन्त्रेण भगवते समर्प्य, ततः स्वयं धृत्वा ततः सूत्रम् “अधावयमि"ति सूत्र-दण्डादीन्यप्सु विसृज्येति,

अधावयमादित्य-व्रतेतवानागसो अदितयेस्याम

इति मन्त्रमुच्चार्य, जीर्णं पूर्व-धृतमुपवीतमप्सु विसृजेदिति-