अ वर्णाश्रमानां सामान्य-धर्माः
सूत्रम् – तिल-सक्तु-दधि-लाजं च रात्रावभक्ष्यम् १२१ अन्नं पर्युषितमाज्येन दध्ना वा युक्तं भोज्यम् १२२ क्रिमि-कीट-केश-युतं गवाऽऽघ्रातं पक्षि-जग्धं च भस्माद्भिः प्रोक्षितं शुद्धम् १२३ श्व-काकाद्युपहते बह्वन्ने तस्मिन्पुरुषाशन-मात्रं तत्तैवोद्धृत्य व्यपोह्य “पवमानस्सुवर्जनः” इति भस्म-जलैः प्रोक्ष्य दर्भोल्कयास्पर्शयित्वा गृह्णीयात् १२४ प्रसूतेऽन्तर्दशाहे गो-क्षीरं सदैक-शफोष्ट्र-स्त्रीणां पयश्च पलाण्डु-कवक-लशुन-गृञ्जन-विड्जमनुक्तं मत्स्य-मांसं च वर्जनीयम् १२५ यज्ञ-शिष्टं मांसं भक्षणीयम् १२६ उदक्यास्पृष्टं शूद्राऽनुलोमैः स्पृष्टं तेषामन्नं च वर्जयेत् १२७ स्व-धर्मानुवर्तिनां शूद्रानुलोमानामामं क्षुधितस्य सङ्ग्राह्यम् १२८ सर्वेषां प्रतिलोमाऽन्तरालव्रात्ना मामं पक्वं च क्षुधितोऽपि यत्नान्न गृह्णियात् १२९ तैः स्पृष्टि-सम्मिश्रं पर-पक्वं च सन्त्यजति १३० नित्यं श्रुति-स्मृत्युदितङ्कर्म कुर्वन्मनोवाक्काय-कर्मभिश्शनैर्धर्मं समाचरति इति विज्ञायते
इति श्री-वैखानस-कल्प-सूत्रे नवम-प्रश्ने इति पञ्च-दशः खण्डः
आ
गृहस्थाश्रमी द्वे यज्ञोपविते वैणवं दण्डं कमणलुं च धारयेत् १ स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणि श्रौताग्निषु श्रौतानि कुर्यात् २ सायं च होमान्तेऽतिथीभ्यागतान्प्राशयित्वा मितं प्राश्य पत्न्या शयीत ३ आर्द्र-पादः प्रत्यगुत्तर-शिराश्च न स्वपति ४ ऋतु-रात्रिषु स्व-भार्यामुपगच्छेत् ५ आदौ त्रि-रात्रमृतुमती-गमन-सहाऽऽसन-शयनानि वर्जयेत् ६ पर-दारान्न सङ्गच्छेत् ७ पर-दारागमनादायु श्रीर्ब्रह्मवर्चसं विनश्यति ८ भार्यया सह नाश्नाति ९ अश्नन्तीं तां जृम्भमाणां नग्नां च नवालोकयेत् १० असत्य-वादं वर्जयति ११ असत्यात्परम्पापं सत्यात्परोधर्मश्च नास्ति १२ सर्व-प्राणि-हितोऽद्रोहेणैव जीवेत् १३ शुद्धार्थवान्कुसूलधान्यः कुम्भी-धान्योऽश्वस्तनिको वास्यात् १४ द्वि-जातिः पतितान्त्य-जातान्नस्पृशेत् १५ उदयेऽस्तमये च सूर्यन्नेक्षेत १६ देव-गुरु-विप्र-घृत-क्षीर-दधि-मृत्-तोय-समिद्-दर्भाग्नि-वनस्पतीन्प्रदक्षिणं गच्छेत् १७
इति श्री-वैखानस-कल्प-सूत्रे दशम-प्रश्ने इति प्रथमः खण्डः
इ
स्नातक-राज-गुरु-श्रेष्ठ-रोगि-भारभृदन्तर्वत्निनां पन्था देयः १८ वाताऽर्क-रश्मिभिः पन्थानश्शुध्यन्ति १९ परस्यासन-शयनान्यदत्तानि नोपयुञ्जीत २० अदत्तेषूपयुक्तेषु स्व-पुण्य-चतुर्धांशो जहाति २१ अन्योपयुक्तानि वस्त्र-माल्योपानच्छत्राणि नैव धारयेत् २२ अग्नौ पादं न तापयेत् २३ नैनं मुखेन धमेत् २४ न पादेन स्पृवेत् २५ अधः पादतो न कुर्यात् २६ अग्नावग्निं जलं वा देवालयेऽग्नौ जले च मूत्र-पुरीष-पूय-शोणितरेतश्लेष्मोच्छिष्टाङ्गनिष्पेषान्न प्रक्षिपेत् २७ नग्नां पर-स्त्रीयं विण्मूत्रे च न पश्येत् २८ उच्छिष्टो देवार्क-चन्द्र-ग्रह-रक्ष-तारान्नेक्षेत २९ देव-गुरु-स्नातक-दीक्षित-राज-गो-श्रेष्ठानां छायां नाक्रामति ३० इन्द्र-धनुः परस्मै न दर्शयेत् ३१ न वदेत् ३२ स्वपन्तं नावबोधयति ३३ एकोऽध्वानं न गच्छेत् ३४ पर-क्षेत्रे चरन्तीं गां धयन्तं वत्सं च न वारयेत् ३५ नैवाचक्षीत ३६ जीर्ण-मल-वासा न स्यात् ३७
इति श्री-वैखानस-सूत्रे दशम-प्रश्ने द्वितीयः खण्डः
अक्षैः क्रीडां प्रेत-धूमं बालातपं च वर्जयेत् ३८ केश-रोम-तुषाङ्गार-कपालास्थि-विण्मूत्र-पूय-शोणित-रेतश्श्लेष्मोच्छिष्टान्नाधितिष्ठेत् ३९ अमेद्ध्य-लिपेऽङ्गे यावत्तल्लेप-गन्द-मनश्शङ्का न स्यात्तावन्मृत्-तोयैश्शोधयेत् ४० पतितान्त्यजमूर्खाधार्मिक-वैरिभिस्सार्धं न वसेत् ४१ उच्छिष्टोऽशुचिर्वा देव-गो-विप्र-अग्नीन्न स्पृशेत् ४२ देवान्वेदान्राज-गुरु-मातापितॄन्विद्वद्ब्राह्मणान्नावमन्येत ४३ न निन्देत् ४४ अवमन्ता निन्दकश्च विनश्यति ४५ सर्व-भूत-कुत्सां ताडनं च न कुर्वीत ४६ गुरुणा मातापितृभ्यां तत्पित्राद्यैः भ्रातृ-पितृ-भ्रातृ-मातुलाचार्यर्त्विगाद्यैर्विवादं नाचरेत् ४७ सर्व-शुद्धिषु पुरुषस्यार्थ-शुद्धिः स्त्री-शुद्धिरन्न-शुद्धिश्च श्रेष्ठतमा स्यात् ४८ द्रव्येषु रत्न-सौवर्ण-रजताश्म-मयान्यध्भिश्शोधयति ४९ अग्नौ वा स्पर्शयेत् ५० ताम्र-त्रपुसीसायसाद्यान्याम्ल-वारिभिर्दारु-दन्त-जातानि तक्षणाद्धावनाद्वा यज्ञ-पात्राणि दक्षिण-पाणिना मार्जनात् क्षालनाद्वा संशोध्यानि ५१
इति श्री-वैखानस-सूत्रे दशम-प्रश्ने तृतीय खण्डः
ई
चर्म-मयानि संहतानि वस्त्राणि शाख-मूल-फलानि च प्रोक्षयेत् ५२ अल्पानि क्षालयेत् ५३ घृतादीनि द्रव्याण्युत्पूयोल्कया दर्शयेत् ५४
कौशेयाविकानि अरुष्करैरंशु-पट्टानि श्री-फलैः शङ्ख-शुक्ति-गो-शृङ्गाणि सर्षपैस्स-वारिभिर्मृन्मयानि पुनर्दाहेन गृहं मार्जनोपलेपनाप्सेकैर्भुमिङ्खननाऽन्यमृत्पूरण-गो-वासकाद्यैर्मार्जनाद्यैश्च शोधयेत् ५५ गो-तृप्ति-करं भू-गतं तोयं दोष-विहीनं सुपूतम् ५६ वाक्छस्तं वारिनिर्णिक्तमदृष्टम् ५७ योषिदास्यं कारु-हस्तः प्रसारित-पण्यं च सर्वदा शुद्धम् ५८ शकुन्युच्छिष्ठं फलमनिन्द्यम् ५९ मशक-मक्षिकादिलीनं तद्विप्रुषश्च न दूष्याणि ६० वाय्वग्नि-सूर्य-रश्मिभिस्पृष्टं मेध्यम् ६१ आतुरे बाले पचनालये च शौचं न विचारणीयम् ६२ यथा-शक्ति स्यात् ६३ विण्मूत्राभ्यां बह्वापो न दूष्याः ६४ परस्याचामतस्तोय-बिन्दुभिर्भूमौ निपत्योद्गतैः पाद-स्पृष्टैराचामयन्नाशुचिः स्यात् ६५
इति श्री-वैखानस-सूत्रे दशम-प्रश्ने चतुर्थः खण्डः