०६ पञ्चगव्यक्रमः

भृगुः –

पञ्च-गव्य-क्रमं वक्ष्ये, सर्वेषामपिकर्मणाम्
महा-दोषोपशान्त्यर्थं स्थापयेत्पञ्च-गव्यकम्
प्रस्थद्वयन्तदर्धं वा व्रीहीन् संस्तीर्य तण्डुलान्
चतुरश्रं लिखेद्दर्भैः तस्मिन् पञ्च-पदान् लिखेत्,

इत्यादि

अलाभे यदि, एकायाः गव्यंवा पञ्चधा हरेत्
मध्ये प्रधान-कुम्भन्तु प्राच्याङ्गोमूत्रमुच्यते
आग्नेय्यां गोमयन्न्यस्य यामे दधि तथा न्यसेत्
पश्चिमे तु घृतन्न्यस्य उत्तरे क्षीरमुच्यते
ऋग्वेदं गोजले ध्यात्वा ह्यग्निमीळेति मन्त्रतः
बृहस्पते, अतियदिति, गोमये तु बृहस्पतिम्
इषेत्वेति यजुर्वेदं दधिन्यावाहयेद्घृते
साम-वेदं तथावाह्याप्यग्न-आयाहि मन्त्रतः
शन्नोदेवीरिति क्षीरे अधिदैवमथर्वणम्
गोमूत्रमेकभागं स्यादेक-भागन्तु गोपयम्
क्षीरं त्रि-भागं दधि च द्वि-भागं घृतमेकशः
अधिदेवान् समभ्यर्च्य प्रत्येकन्तु निवेदयेत्
ततो गायत्रिया मध्ये गोजलं सेवयेद्बुधः
गोमयं गन्धद्वारेति आप्यायस्वेति गोमयः
घृतं शुक्रमसीत्युक्त्वा दधिक्रेति दधि क्षिपेत्
देवस्यत्वेति पुण्याह-कुशोदेन प्रपूरयेत्
पूर्व-मन्त्रं तथैवोक्त्वा, कूर्चेन परिमर्दयेत्
तस्मिन् कूर्चं विनिक्षिप्य, पल्लवान्नालिकेरकम्
रत्नं सुवर्ण-यन्त्रञ्च नव-वस्त्रेण वेष्टयेत्
ध्यात्वा, ईशं त्र्यम्बकेति पञ्च-गव्याधिदैवतम्
एवमभ्यर्च्य ताम्बूलं फलं हविर्निवेदयेत्
उपस्नानं चतुर्दिक्षु दिगीशान्तत्र पूजयेत्
पञ्च-गव्येन देवेशमभिषिच्य च, तज्जलम्
यश्शीर्षे प्रोक्ष्य च पिबेत्सर्व-पापैः प्रमुच्यते
शिष्ट-गव्यैश्च सर्वत्र प्रोक्षयेदाह वै भृगुः

इति पञ्च-गव्य-विधिस्समाप्तः