अथ भगवदाराधन-रूप-योग-काल-क्रमः॥
मरीचि-पटले खण्डः –
चरित-क्रिया-ज्ञान-योगेषु चतुर्षु पूजा-मार्गेषु
इत्युक्तत्वात्,
योगः – योग-काले सम्प्राप्ते, सुप्रक्षालित-पाणिपादः, स्वाचान्तः, शुचौ देशे निषण्णः, प्राणानायम्य,
भगवतो बलेनेति……. योगाख्यं भगवदाराधन-रूपं कर्म करिष्यामि,
तद्भगवाननुमन्यतामिति॥
सात्विक-सङ्कल्पं कृत्वा, योग-शास्त्र-मार्गेण भगवन्तन्ध्यायेत्। तदशक्तौ, पूर्वाचार्योक्त-भगवत्-स्तोत्रेण भगवन्तं स्तुत्वा, भगवत्-पादारविन्द-युगले स्वात्मानं समर्प्य।
सूत्रः –
सायञ्च होमान्ते,
अतिथीन् अभ्यागतान् प्राशयित्वा,
मितम् प्राश्य,
पत्न्या शयीत।
आर्द्रपादः प्रत्यग्-उत्तर-शिराश्च न स्वपति।
ऋतु-रात्रिषु स्व-भार्याम् उपगच्छेत्,
आदौ त्रि-रात्रम् ऋतुमती-गमन-सहासन-शयनानि वर्जयेद्
इति।
निद्रा-प्रसक्तौ,
निद्राञ्च करिष्यमाण-भगवद्-आराधनोपकरणेन्द्रिय-वर्ग-विश्रान्त-निमित्ततया
भगवद्-आराधनत्वेनानुसन्धाय,
“शयने माधवं स्मरेद्”
इत्य्-उक्तरीत्या माधव-स्मरण-पूर्वकं
यथासुखं शयीत,
ततोऽपर-रात्रे योगाद् उत्थितः
पूर्वेद्युर् अभिगमनोपादानेज्याध्ययन-योगाख्यं भगवत्-कर्म कृतवान्
तद्-भगवान् अनुमन्यताम्
इति सात्विक-त्यागं कुर्यात्
इति सर्वं निरवद्यम्॥