अथाध्ययन-काल-क्रमः
खण्डः – एवम्भगवदाराधनरूप-प्राणाग्निहोत्रं हुत्वा, तदुपरि, अध्ययनकाले वेदाध्ययन-श्रीमद्रामायणेतिहास-पुराण-निगमान्त-पठनादीन्, सत्सल्लापादीन्वाकुर्यात्। ततो लोहितायति-सूर्ये, आपोहिष्ठादि मन्त्रैः मन्त्र-स्नानङ्कृत्वा, आलयाराधकश्चेत्, स्नात्वा, धौतं वासः परिधाय, सायं सन्ध्यावन्दनौपासनादिकं कुर्यात्।
सायं सन्ध्यावन्दन-प्रकारः
खण्डः – पूर्वोक्तवत्, पाणि-पादौ च प्रक्षाल्याचम्य, पवित्र-पाणिः जलस्थलेष्वासीनः “सायं सन्ध्यमुपासिष्ये”, इति सङ्कल्प्य, “आपोहिष्टे"ति पूर्ववत् प्रोक्ष्य
“अग्निश्चे"त्यनुवाकमन्त्रस्य, सूर्यऋषिः, गायत्री छन्दः, अग्निर्देवता, अपाम्प्राशने विनियोगः.
मन्त्रः –
अग्निश्चमामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्तां यदह्नापापमकार्षम्। मनसा-वाचा-हस्ताभ्यां, पद्भ्यामुदरेण शिश्ना (श्ञ्चा)। अहस्तदवलुम्पतु। यत्किञ्चदुरितम्मयि। इदमहं माममृतयोनौ। सत्ये ज्योतिषि जुहोमि स्वाहा। [[TODO: परिष्कार्यम्]]
खण्डः – इत्याचम्य, पुनराचमनादि केशवादि तर्पणान्तं प्रातः कालवत्कृत्वा, जप-स्थले चा न एव सङ्कल्प्य, सर्वं पूर्ववत्कृत्वा, अपराह्णे सरस्वतीं कृष्ण-वर्णाम्॥ पीत-वस्त्रां चतुर्भुजां, शङ्ख-चक्र-गदा-भय-हस्तां, पद्म-पीठासनस्थां, गरुडारूढाम्। विष्णु-दैवत्यां, सुवर्लोक-व्यवस्थितां, साम-वेद-सहितां, आदित्य-पथ-गामिनीं, सन्ध्यान्ध्यात्वा, सावित्री-जपानन्तरं
सायं सन्द्योपस्थानं करिष्ये,
इति सङ्कल्प्य।
मन्त्रः –
उत्तमे शिखरे देवि,….. यथा सुखम्॥
यच्छिद्धित इति मस्त्रस्य, शुनश्शेफ-ऋषिः गायत्री-छन्दः, वरुणो देवता।
मन्त्रः –
यच्छिद्धिते विशोयथाप्रदेव वरुणव्रतं, मिनीमसिद्य विद्यवि, यत्किञ्चेदं वरुणदैव्ये जनेऽभिद्रोहम्मनुष्याश्चरामसि। अचित्ती यत्तव धर्मायुयोपि ममानस्तस्मादेनसो देवरीरिषः। कितवासो यद्रिरिपुर्न-दीवियद्वाघासत्यमुतयन्न विद्म। सर्वाताविष्यशिथिरेवदेवा धातेस्यामवरुणप्रियासः। इमम्मेवरुण श्रुथीहवमद्याचमृडय, त्वामवन्युराचके, तत्वायामि ब्रह्मणा वन्दमानन्तदाशास्ते यजमानो हविर्भिः, अहेडमानो वरुणेह बोध्युरुशगं सामान आयुः प्रमोषीः॥ [[TODO: परिष्कार्यम्]]
पश्चिमार्कां प्रपद्येहं वारुणीं वेद-मातरम्।
सन्ध्यां वै सर्वदैवत्यां, प्रणम्य परमेश्वरीम्
खण्डः – “स्ध्यायै नमः” इत्यादि पूर्ववत्, नमस्काराभिवादनादीन्कुर्यात्
नित्यादर्धं चतुर्थी-वसु-मनु-तिथिषु स्याज्जपस्सप्तमी या,
सप्तत्रिंशच्च तस्यां प्रतिपदि च पुनष्षड्युता त्रिंशदेव।
एवं पर्वद्वये ऽपि त्रियुत-दश-तिथावष्ट-युग्विंशतिस्स्याद्
एवं विष्वादिकालेष्वखिल-मुनि-मतं सायम् एतन्न काल्ये
दीक्षितीये –
अनागतान्तु ये पूर्वामनतीतान्तुपश्चिमाम्
सन्ध्यन्नोपासते विप्राः कथन्ते ब्राह्मणा विदुः
इत्यादि वचनानि बहूनि सन्ति एवं भगवदाराधन-रूप-सायं सन्ध्यानन्तरं, भगवदाराधनं, वैश्वदेवञ्च कृत्वा, पूर्वोक्तवदभ्यागताराधनं प्राणाग्निहोत्रञ्च कुर्यात्।
भाष्ये – प्रातरेव वैश्वदेवमिति केचित्, एवं सायङ्काल-भगवदाराधन-रूप-प्राणाग्निहोत्र-पर्यन्तं कृत्वा, सात्विक-त्यागं कुर्यात्॥