सूत्रम् –
अथ नित्यार्चनं, “अतो देवा” इति देवम्प्रणम्य। निर्माल्यं व्यपोह्य, उत्पूतैराथावै र्व्याहृत्या वेदिम्परिमृज्य, पूर्ववद्देवन्ध्यात्वा, “प्रतद्विष्णुरस्वासनमि"त्यासनं, त्रीणिपदा इन्द्रोऽभिमनैतिपाद्यं, “आमावाजस्यत्रिर्देव” इत्यर्घ्यं, योगे योगे “शन्नोदेवीरि"त्याचमनं, “इषेत्वोर्जेत्वे"ति स्नापयित्वेत्यादि, नित्यं गृहे, देवायतने वा भक्त्या भगवन्तं श्रीमन्नारायणमर्चयेत्। “तद्विष्णोः परमम्पदङ्गच्छति”, इति विज्ञायत
इत्युक्त-प्रकारेण भगवदाराधनं कृत्वा, वैश्वदेवकाले प्राप्ते, “अतिथीन् शक्त्या तर्पयेदि"ति ।
प्राणाग्नि-होत्र-विधानम्
अथ प्राणाग्नि-होत्र-विधानम्॥
भाष्ये –
सायं प्रातर्होमान्ते विष्ण्वाराधनं, वक्ष्यमाणवत् वैश्व-देवञ्च कृत्वा, पाणि-पादौ मुखञ्च प्रक्षाल्य, द्विराचम्य, आसने प्राङ्मुखः प्रत्यङुखो वा, आसीनः, गोमयेन चतुरश्रोपलिप्ते मण्डले भस्मनाशुद्धं कांस्य-पात्रम् अनिन्द्यं पत्रं वा पालाश-पद्म-पत्र-वाटार्काश्वत्थ-कुम्भि-किंशुक-कोविदार-कदम्बादि पत्र-वर्जं, गृहस्थस्य तस्मिन् पात्रे शुद्धम्भोज्यमन्नं निक्षिप्य, तदन्नम्पूजयति, “अहमस्मी"त्यन्नसूक्तेनाभिमृशति। द्वौ पादौ,एकम्पादं वा भूमौ निधाय आसने समासीनः, “ऋतन्त्वा सत्येन परिषिञ्चामी"ति सायम् अन्नपात्रं देवेन तीर्थेन परिषिञ्चति, तथा “सत्यन्त्वर्तेन परिषिञ्चामी"ति प्रातः परिषिञ्चति, “अमृतोपस्तरणमसीत्या"धावं दक्षिण-पाणिना पीत्वा, प्रसन्नः निर्मलमनाः विधिना पूर्वोक्तेन प्राणाग्नि-होत्र-विधानेन, पञ्च-प्राणाहुतीः पात्रं स्पृशन्नेव हुत्वाऽन्नमनिन्दन्नकुत्सयन्नश्नाति। मौनी भुञ्जीयात्, यथेष्टं ब्रह्मचारी, द्वात्रिंशत्कबलान्गृही, षोडश-कबलान्वान-प्रस्थः, अष्ट कबलान् यतिः, वक्ष्यमाण-प्रकारेण भुक्त्वा। “अमृता पिधानमसी"ति अपः पीत्वाचम्य, मण्डल-शोधनानन्तरं पुनराचामेत्, नित्यमेवं सायम्प्रातर्भुञ्जीयात्
इति भाष्ये
अत्र दीक्षितीये –
अस्नाताशी मलं भुङ्क्ते, अहुत्वा पूय-शोणितम्
अजपाशी-कृमिम्भुङ्क्ते, अदत्त्वा विषमश्नुते
भोजने मूर्ति-होमे च कुर्यादुत्कुटि-काषनम्
मन्त्रेण च द्विराचम्य गोमयेनोपलेपिते
अथवा वारिणा तत्र मण्डलं कारयेत्ततः
नावश्यं भोजने मौनं कुटुम्बाश्रम-वासिनाम्
आप्राणाहुतिसर्वेषां कष्ठं मौनमुदाहृतम्
वाचोपचारः कर्तव्यः भुञ्जतां सह भोजने
मौन-व्रतं महा-कष्टं हुङ्कारेणापि नश्यति।
तथा सति महा-दोषस् तस्मात् तां नियतश् चरेत्।
हृदि ध्यायन्हरिं, तस्मै निवेद्याथ समाहितः
यथा रसन्न जानाति जिह्वा प्राणाहुतौ द्विजाः
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रितः
वक्रावशिष्टमन्यच्च मुखान्निस्सृतमेव च
विष्ठा-तुल्यं विजानीयात् भुक्त्वा चान्द्रायणञ्चरेत्
अन्नम्प्रोक्ष्यामृतो पेति अभिमृश्यान्नसूक्ततः
अभिघार्य च गायत्र्या प्रोक्ष्यान्नं परिषिञ्चति
ग्रास-शेषं न चाश्नीयात् पीत-शेषं पिबेन्न च
शाक-मूल-फलेक्षूनि दन्त-भेदैर्न भक्षयेत्
न भिन्न-कांस्ये सन्ध्यायां श्राद्धान्नं शिशुभिस्सह
दम्पत्योर्भुक्त-शेषञ्च भुक्त्वा चान्द्रायणञ्चरेत्
गोभिलः –
एक-पङ्क्त्युपविष्टानां विप्राणां सह-भोजने
यद्येकोऽपि त्यजेत्पात्रं नाश्नीयुरितरे पुनः
मोहात्तुभुङ्क्त्ये यस्तत्र स सन्तापनमाचरेत्
अग्निना, भस्मना चैव स्तम्बेन सलिलेन वा
द्वारे न चैव मार्गेण पङ्क्ति-भेदस्तृणे न वा
पैठीनसिः –
लवणं व्यञ्जनञ्चैव घृतं तैलं तथैव च
लेह्यं पेयञ्च शोष्यञ्च हस्त-दत्तं न भक्षयेत्
तस्मादन्तर्हितान्नं हि पर्णेन च तृणेन च
प्रदद्यान्न तु हस्तेन नायसेन कदाचन
अपक्वं स्नेह-पक्वञ्च हस्तेनैव तु दापयेत्
चण्डाल-सूतिकोदक्या वाक्यं श्रुत्वा न भोजयेत्॥
अत्र सूत्रम् –
एकवासाः, शयानस्तिष्ठन्वा, अस्नात-जप-होमी, शुष्क-पादः, उदङ्मुखो वा नाश्नाति, भिन्नं पर्युषितं शयनासनोत्सङ्ग-स्थावानभुञ्जीताञ्जलिनापो न पिबेत्। उच्छिष्टाशुच्या शौचिपतितैस्स्पृष्टं सूतकप्रेतकेवान्नञ्च नाश्नीयात्।
इति।
भाष्ये –
पर्युषितमितिपूर्वेद्युः पक्वमाज्य-दधियुक्तम् ओदनं, अन्नम् अश्नीयात्, अञ्जलिनेति, आस्येन, एक-हस्तेन वा पात्रमधृत्य वा न पिबेदितिकेचित्। सूतकप्रेतक-गृहे वा नाशीयादत्र च कारात्, नग्न-प्रच्छादन-नवश्राद्ध-मासिकाद्यन्नञ्च नाश्नीयात् यद्यश्नीयात्, चान्द्रायण-प्रायश्चित्तादिषु पञ्च-गव्य-प्राशन-पूर्वकम्
इति वदन्ति