तदुपरि द्वादश-घटिकावधिकोपादान-कालोक्त-भगवदाराध-ननित्यकर्मकलापः प्रोच्यते
दीक्षितीये –
समित्-पुष्प-कुशादीनि श्रोत्रियस्स्वयमाहरेत्
शूद्राहृतैरन्य-नीतैः कर्म-कुर्वन्पततत्यधः
दर्भग्रहण-मन्त्रः
विरिञ्चेन सहोत्पन्न-परमेष्ठि-निसर्ग-ज
नुद सर्वाणि पापानि दर्भ-स्वस्ति-करो मम
हुङ्कारेणैव मत्रेण कुशास्स्पृश्याद्विजोत्तमैः
इति
समिधः पावनाः पूज्याश्चर्म-युक्ताः परुड्भराः
युष्मान् हरामि होमार्थमस्मान् रक्षितुमर्हथे
इति समिद्ग्रहणम्
तुलसी-ग्रहण-कालः
आदि-वारे च शुक्रे च मन्वादिषु युगादिषु
नाहरेत्तुलसी-पत्रं मध्याह्नात्परतोऽहनि
सङ्क्रान्त्यां पक्षयोरन्ते द्वादश्यां निशि-सन्ध्ययोः
तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः
तुलसी-ग्रहण-मन्त्रः
तुलस्यमृत-जन्मासि सदा त्वं केशव-प्रिये
केशवार्थे लुनामि त्वां वरदाभव शोभने त्वन्मूले सर्व-तीर्थानि त्वन्मध्ये सर्व-देवताः
त्वदग्रे विष्णु-पत्नी च तुलसि त्वां नमाम्यहम्॥
मोक्षैक-हेतोर्द्धरणि-प्रसूते
विष्णोस्समस्तस्य गुरोः प्रिये ते
आराधनार्थं पुरुषोत्तमस्य
लुनामि पत्रं तुलसि क्षमस्व
तुलसी-कुसुमं ग्राह्यं तस्याभावे तु पल्लवम् साङ्कुरं तु चतुः पत्रं षट्पत्रं वा समाहरेत् पल्लवानामभावे तु……… तुलसी-काष्ठमुच्यते
काष्टाभावे तु मूलं स्यान्मूलाभावे तु मृत्तिका
मृत्तिकाया अभावे तु तुलसी शब्द उच्यते
तुलसी-पूजनादन्यद्विष्णोः प्रीतिकरन्न च
सर्वेषामपि पुष्पाणां पद्मं शत-गुणं भवेत्
पद्मात्कोटि-गुणं प्रोक्तं तुलसी-दलमुत्तमम्
ना हरेत्तुलसीं रक्तां कृष्णां वापि हरेत्तथा
नाशयेत्तुलसी-कृष्णा दत्ता केशव-मूर्धनि
वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम्
न वर्ज्यं तुलसी-पत्रं न वर्ज्यं जाह्नवी-जलम्
तुलसी-रहिता पूजा निष्पला तु भवेद्ध्रुवम्
तुलसी चैव षण्मासं केतकी दिन-पञ्चकम्
दिन-त्रयञ्च जलजं करवीरं दिने दिने
नियमादर्चनार्थन्तु तुलसीं नित्यमाहरेत्
पूर्वोक्त-वार-दोषश्च तिथि-दोषो न विद्यते
इत्युपादान-काल-क्रमः।
अथाष्टादश-घटिकावधिक-भगवदाराधन-रूपेज्या-काल-क्रमः
अथमाध्याह्निक-स्नानप्रकारः
सूत्रम् - नवम-प्रश्ने अष्टम-खण्डे –
मध्याह्ने जले शुद्धे मृदाद्भिः पादौ हस्तौ च धावयित्वाऽचम्य। सर्वाङ्गानि संशोध्य आपः पुनात्विति निमज्जेदाचान्तो वैष्णवैर्मन्त्रैः विष्णुं हिरण्यशृङ्गमिति वरुणञ्च प्रणम्य। अघ-मर्षण-सूक्ते नाघ-मर्षण-ऋचो जप्त्वा, इदमापश्शिवा इति स्नायात्। आश्रमिणश्चत्वारः। नित्यमेवं पूर्वोक्त-विधिना काम्यं नैमित्तिकञ्च कुर्वन्ति। धौत-वस्त्रमाच्छाद्य। पूर्ववदाचम्य। आसीनस्तिष्ठन्वा। कृत-प्राणायाम-सावित्रीं जप्त्वा आदित्यमुपतिष्टेत।
इति
माध्याह्निक-क्रमः
मध्याह्न-काले स्नात्वा अस्नात्वा वा जलस्थलेष्वासीनः द्विराचम्य, “माध्याह्निकं करिष्य” इति सङ्कल्प्य “आपोहिष्ठे"ति पूर्ववत्प्रोक्ष्य।
आपः पुनन्त्विति मन्त्रस्य। आप ऋषिः। अनुष्टुप्चन्दः। बृहस्पतिर्देवता। अपाम्प्राशने विनियोगः।
मन्त्रः –
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु मां पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम्। यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम। सर्वं पुनन्तु मामापोऽसताञ्च प्रति ग्रहग्ग् स्वाहा [[TODO: परिष्कार्यम्]]
इत्यपः प्राश्य।
पुनराचम्य। “दधिक्रावण्ण” इति पूर्ववत् प्रोक्ष्य। अर्घ्य-प्रदानस्य पूर्ववदङ्गन्यासं कृत्वा।
दीक्षितीये –
अर्घ्यमेकं प्रदातव्यं मध्याह्ने भास्करं प्रति
इति कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम् आदित्याभिमुखस्तिष्ठन्
त्रिरूर्ध्वं सन्ध्ययोः क्षिपेत्
इति “पितामहस्मरणादि"ति।
नवम-प्रश्न-भाष्ये –तस्मादर्घ्यमेकं दत्त्वा। ततः पूर्ववत्। अस्त्रोपसंहारार्घ्यादि तर्पणान्तं कृत्वा जप-स्थलं प्रोक्ष्य
माध्याह्निक-जपङ्करिष्य
इति सङ्कल्प्य, अत्र विशेषमाह।
मध्याह्ने सावित्रीं श्वेताम्बरां श्वेत-वर्णां यौवनस्थां त्रिणेत्रीँ शूल-हस्तां रजत-पीठासनस्थां वृषभारूढां रुद्रदैवत्यां भुवर्लोक-व्यवस्थितां यजुर्वेद-सहिताम् आदित्य-पथ-गामिनीं ध्यात्वा सर्वं प्रातः कालवज्जप्त्वा
माध्याह्निकोपस्थानं करिष्य
इति सङ्कल्प्य,
उत्तमे शिखरे देवि…..गच्छ देवि-यथा-सुखम्।
आसत्येनेति मन्त्रस्य। हिरण्य-गर्भ-ऋषिः। त्रिष्टुप्छन्दः। सविता-देवता।
आसत्येन रजसा वर्तमानो निवेशयन्…… शुक्रमुच्चरत्।
मन्त्रः –
पश्येम शरदश्शतं जीवेम शरदश्मतम्। नन्दाम शरदश्शतं मोदाम शरदश्शतम्। भवाम शरदश्शतग्म्। शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतम्। ज्योक्च सूर्यं दृशे। य उदगात्… मनसा पुनातु। [[TODO: परिष्कार्यम्]]
अभिवादनादिकं पूर्ववत्कुर्यात्।
नैमित्तिकस्नानक्रमः
भाष्ये – पूर्वोक्त-निषेकादि नैमित्तिकेषु कर्मसु आचम्य,
सूत्रम् – अथापो नमस्कृत्यावगाह्य, यावदमनश्शङ्कमद्भिर्मृदा च गात्र-शुद्धिं कृत्वा, “वस्त्रमादशात्सूदितमि"ति नेनेक्ति। गायत्र्या प्रागग्रिकमुदगग्रिकं वा सृणाति। शुष्के, तयैव गृह्णीयात्। “इदम्ब्रह्म-पुनीमह” इति पवित्रङ्गृहीत्वा, “ब्रह्मापुनात्वि"त्यङुल्या निक्षिप्य, “शत-धारमि"ति जलङ्गृहीत्वा,
मन्त्रः –
शतधारँ हिरण्मयँ सहस्र-धारममृतं निहितं गुहायाम्। [[TODO: परिष्कार्यम्]]
सूत्रम् – “पयस्वतीरोषधय” इत्याचम्य,
मन्त्रः –
पयस्वतीरोषधयः पयस्वद्वीरुधाम्पयः । अपां पयसो यत्पयस्तेनमामिन्द्रसँ सृज स्वाहा [[TODO: परिष्कार्यम्]]
सूत्रम् – “भूरग्न” इत्युपस्थानमादित्यस्य।
मन्त्रः –
भूरग्नये च पृथिव्यै च महते च नमः। भुवो….. दिग्भ्याश्च महते च नमः [[TODO: परिष्कार्यम्]]
सूत्रम् – “चित्पति”रिति त्रिभिरनामिकोपान्ताभ्यां समृदोदकेन त्रिः प्रदक्षिणमावृत्य, शिरो मार्ष्टि
मन्त्रः –
चित्पतिस्त्वा पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः। वाक्पतिस्त्वा पुनात्व……… रश्मिभिः। देवस्त्वा सविता पुनातु….. रश्मिभिः॥ [[TODO: परिष्कार्यम्]]
सूत्रम् – आपो हिरण्य-पवमानैः प्रोक्षयति “उद्वयन्तमस” इत्यादित्यमुपस्थाय, महा-व्याहृत्या जलमभिमन्त्र्य कर्णावपिधाय पूर्ववत् अङ्गुलिभिः पीधाय। अभिमुखमादित्यस्य पूर्वोक्त-तत्तदभिमुखो वा, अर्धं निमज्ज्य, “ऋतञ्च सत्यञ्च या सुगन्धा” इति त्रिरावर्तयन्, सकृद्वा, अघ-मर्षणङ्करोति।
मन्त्रः –
ऋतञ्च सत्यञ्चाभीद्धात्तपसोध्य जायत। ततो रात्रिरजायत ततस्समुद्रो अर्णवः। समुद्रादर्णवादधि संवत्सरो अजायत। अहो रात्राणि विदधद्विश्वस्यमिषतो वशी। सूर्यचन्द्रमसौ धाता यथा पूर्वमकल्पयत्। दिवञ्च पृथिवीञ्चान्तरिक्षमथोसुवः। यत्पृथिव्यागं रजस्वमान्तरिक्षे विरोदसी। इमाग् स्तदापो वरुणः पुनात्वघमर्षणः। एष भूतस्य भव्ये भुवनस्य गोप्ता। एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयँ। द्यावापृथिव्योर्हिरण्मयँ सँ श्रितँ सुवः। सनस्सुवस्सँ शिशाधि। आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि। यो हमस्मि ब्रह्माहमस्मि। अहमेवाहं माञ्जुहोमि स्वाहा। अकार्य कार्यवकीर्णिस्तेनो भ्रूणहा गुरुतल्पगः। वरुणोऽपामघ-मर्षणस्तस्मात्पापात्प्रमुच्यते। रजो भूमिस्त्वमाँ रोदयस्व प्रवदन्ति धीराः। पुनन्तु ऋषयः पुनन्तु वसवः पुनातु वरुणः पुनात्वघ-मर्षणः। आक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्यराजा। वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः। [[TODO: परिष्कार्यम्]]
मन्त्रः –
या सुगन्धा रसावर्णा बलञ्चनिहिते उभे। ताम आपश्शिवास्सन्तु दुष्कृतम्प्रवहन्तु मे। या ऊर्जमभिषिञ्चन्ति देवेन प्रेषितामही। ताम.व.हन्तुम्। या सामिमे त्रयो लोकाः तेजसा यशसा वृताः। तामापश्शिवास्सन्तु दुष्कृतं प्रवहन्तु मे। यासान्निष्क्रमणे सर्वमिदं वै जायते जगत्। तामाप…. वहन्तुमे॥ [[TODO: परिष्कार्यम्]]
खण्डः – इति मन्दं निश्श्वस्य, पूर्वोक्तवत् काक-स्नानमकृत्वा, नारायणं ध्यात्वा स्नायात्, अन्यत्पूर्ववत्कुर्यात्। सद्यो धौतम्परिधाय आचम्य, पुण्ड्रादि जपोपस्थानं कृत्वा, निषेकादि नैमित्तिक-शुभदिनेषु ब्रह्म-यज्ञ-काण्ड ऋषि-तर्पणान्तं यथोक्तवत्कुर्यात्, श्राद्धादि-पैतृक-दिनेषु।
सूत्रम् –
ततः पञ्च-महा-यज्ञान् करोतीत्युक्तत्वात्, मध्याह्न-काले श्राद्धानन्तरं देवर्षि-पितृ-तर्पण-ब्रह्म-यज्ञादीन् कुर्यात्।