अर्चनानवनीते –
ब्राह्मेमुहूर्ते चोत्थाय निद्रां हित्वाप्रसन्नधीः।
हरिर्हरिर्हरिरिति व्याहरेद्वैष्णवः पुमान्॥
सगङ्गा सगयासेतुस्सकाशी सचपुष्करः
जिह्वाग्रेवर्ततेयस्य हरिरित्यक्षरद्वयम्
इत्यादि दीक्षितीयेच
मनुः –
उदयात् प्राक्रिघटिकामुहूर्तो ब्राह्मउच्यते,
ब्राह्मेमुहूर्ते देवानां पितॄणाञ्च समागमः॥
जागरस्तत्रकर्तव्योदेववन्मानसं हितत्,
य इच्चेच्छाश्वतीं सिद्धिं यमस्यादर्शनं तथा।
ब्राह्मेमुहूर्ते चोत्थाय निद्रान्त्यक्त्वा प्रसन्नधीः।
सङ्कीर्तयेज्जगन्नाथं वेदान्वापि समीरयेत्
इति॥ ब्राह्मेमुहूर्ते शयनादुत्थाय प्राङ्मुख उदङ्मुखोवासीनः,
गङ्गातुदक्षिणे कर्णे नासिकाग्रे हुताशनः,
उभयोस्स्पर्शनादेव सर्वपापैः प्रमुच्यते,
इत्युक्तत्वात् श्रोत्राचमनंवा कृत्वा हरिर्हरिर्हरिरित्यात्मोज्जीवनकरं हरिस्मरणं हर्यष्टकं भगवत्स्तोत्रं वेदान्वासमुच्चार्य,
भगवद्गीतायाम् –
यत्करोषियदश्नासि यज्ञुहोषिददासियत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥
इत्युक्तत्वात् - मरीचिनापि ज्ञानकाण्डे -
चरितक्रियाज्ञानयोगेषु चतुर्षु पूजामार्गेषु “इत्यादिना सर्वकर्मणामपि भगवदाराधनरूपत्वेन तदर्पणत्वेनाभिहितत्वात्, पञ्चखण्डेपि भगवतो बलेनेत्युक्तत्वाच्च"
मन्त्रः –
भगवतोबलेन, भगवतोवीर्येण, भगवतस्तेजसा, भगवतः कर्मणा, भगवतानुगृहीतो, भगवतानुध्यातो भगवत्कर्मकरिष्यामि, तद्भगवाननुमन्यताम्
इति सात्विकसङ्कल्पं कृत्वा
स्वशेषभूतेनमया भगवदाराधनरूपत्वेनाभिहिताभिगमनोपादानेज्याध्ययनयोगाख्यपञ्चकालरूपं भगवदाज्ञाकैङ्कर्यकर्मकारयति तद्भगवाननुमन्यताम्
इति प्रार्थ्य,
भूप्रार्थना
अर्चनानवनीते –
समुद्रवसनेदेवि पर्वतस्तनमण्डिते
नमोविश्वम्भरे मातः पादस्पर्शं क्षमस्वमे,
इति भुवं प्रार्थ्य। शयनादुत्थाय, स्नानार्थं वस्त्रोत्तरीय-खण्डवस्त्र-दर्भाक्षतादीन् सङ्गृह्य, नदीतटाक-कूपानामन्यतमं गत्वा, तत्रस्थलं संशोध्य, तान्निदाय, दीक्षितीये॥
शौचम्
व्यासः –
ततः पूर्वं समुत्थाय प्राचीमेवोपनिष्क्रमेत्।
उदीचीम्प्रागुदीचींवा शौचाचारक्षमां दिशम्॥
नैर्ऋत्यामिषु विक्षेपम् अतीत्य ह्यधिकम्भुवः।
दूरादावसधान्मूत्रं पुरीषञ्च विसर्जयेत्॥
अन्तर्थायतृणैर्भूमिं शिरःप्रावृत्य वाससा।
घ्राणास्येवाससावेष्ट्य मलमूत्रन्त्यजेद्बुधः॥
अप्रावृतशिरायस्तु मलमूत्रं त्यजेद्बुधः।
तच्छिरश्शतथाभूयादिति देवाश्शपन्तितम्॥
सूत्रे –
निवीती दक्षिण-कर्णे यज्ञोपवीतं कृत्वोत्कुटिकम् आसीऽनोहन्युदुङ्मुखो रात्रौ दक्षिणामुखस्तृणैरन्तरिते देशमूत्र-पुरीषे विसृजेत्
इति। भाष्येतु –
सन्ध्ययोरुदङ्मुखः नद्यां गोष्ठे पथि छायायां शालायां भस्मन्यप्सुकुशे दर्भेवा नाचरेत्।
गोविप्रोदकाग्नि-वाय्वर्कतारेन्दूनपश्यन् कुर्यादिति।
दीक्षितीयः –
सस्येगर्तेबिलेतोये पाषाणेतुलसीवने।
वृक्षमूलेदर्भमूले शाद्वले जनसंसदि॥
देवालये तत्समीपे देवोद्याने जलान्तिके
स्त्रीसन्निधौ महाकूपे तटाके पर्वतेशुचौ॥
पुरीषगर्तेवाप्यादौ श्मशानेतुगृहाङ्कणे।
गृहारामे नदीतीरे गोष्टेवर्त्मनि भस्मनि।
ऊषरे फालकृष्टेच छायायाम् अग्निसन्निधौ॥
एतेषुनोत्सृजेन्नित्यं मलमूत्रे द्विजोत्तमः
स्मृतिरत्ने –
नसोपाने पादुकीछत्रीवा नान्तरिक्षके
भाष्ये –
अग्न्यर्क-गोधान्य-सस्याम्बु-द्विज-देव-वायूनाम् अनभिमुखस् तेष्वेकम् अप्यनिरीक्षमाणो मूत्रपुरीषे विसृजेत्
इति।
मन्त्रः –
देवदानवगन्धर्व-यक्षराक्षसगुह्यकाः,
परित्यजन्त्विमन्देशं विण्मूत्रं विसृजाम्यहम्॥
इति मन्त्रमुच्चार्य पाणिना पाणिन्त्रिस्सन्ताड्य उत्तरीयेण सङ्घ्राणास्ये शिरश्चप्रावृत्य निवीती दक्षिणेकर्णे यज्ञोपवीतं संवेष्ट्य, मौनी उत्कुटिकमासीनः ष्ठीवनोच्छ्वासनं विना ऊर्ध्वज्ञुः अहनि सन्ध्ययोश्च उदङ्मुखो रात्रौ चेद् दक्षिणामुखः मूत्रपुरीषे विसृज्य शिश्नं वामहस्तेन गृहीत्वोत्थाय
मार्ग-देवालय-वल्मीक-मूषिकोत्थबहिश्चार-समीप-जलान्तस्थ-जलसमीपादि-मृदं वालुकाञ्च वर्जयित्वा अन्यत्रशुद्धमृत्तिकामादाय नदीतटाक-कूपानामन्यतमङ्गत्वा शुद्धमृदभावे अरत्निमात्राद्गृष्णीयाज्जलेवा मणिबन्धतः
इति व्यासोक्तत्वादरत्निमात्रान्तर्जलेवा मृदं गृह्णीयात्। पदा आपोनताडयेदित्युक्तत्वात् पाणिनोद्धृतजलेन जलस्थलं संशोध्य प्राङ्मुख उदङ्मुखोवा जलेचैकं स्थलेचैकम्पादं कृत्वासीनः स्वस्यदक्षिणे मृदं विन्यस्य, भाष्ये –
मूत्रोत्सर्जन-मात्रेतु गृहस्थस्समृज्जलेन लिङ्गशुद्धिं कृत्वा हस्तयोः पादयोः प्रत्येकन्द्विः द्विः मृज्जलेन प्रक्षालयेत्। पुरीषोत्सर्जनेतु प्रथमं वामकरेण प्रसृतिमात्रमृदा मलबाहुल्यं विमृज्य तथा वामकरञ्च मृदाद्भिः प्रक्षाल्य द्वितीयप्रभृति तदर्धमृदं वामकरे निक्षिप्य तेन गुदं दक्षिणपाणिनोद्धृतजलैरेव प्रक्षाल्य पुनश्च तथावामकरं प्रक्षाल्य। एवं षट्कृत्वः गुदं, वामकरञ्च प्रक्षालयेत्
इति।
नवनीते –
अन्तराचान्तरा वामहस्तं प्रक्षाल्यमृज्जलैर्
इति
एवं भाष्योक्तवद्गन्धलेपक्षयकरं प्रक्षाल्य वामहस्तेन कौपीनं धृत्वा तं करञ्च प्रक्षाल्य, कच्छन्धृत्वा, कमण्डलूद्धृतजलैर्
इतिकेचित्॥
दीक्षितेये –
यस्मिन्देशेकृतं शौचं वारिणा तं च शोधयेत्,
अशुद्धस्तुभवेत्तावत्तं देशं योनशोधयेत्
इत्युक्तप्रकारेण तत्स्थलं संशोध्य अन्यत्र जलस्थलं गत्वा स्थलं संशोध्य अन्तर्जले वा अन्यत्र वा शुद्धमृत्तिकामादाय तत्रनिक्षिप्यासीनः प्रथमं वामकरं मृदाद्भिर्दशकृत्वः प्रक्षाल्य ततः दक्षिणादि पाण्योः पादयोश्चप्रत्येकं दशकृत्वः मृदाद्भिः प्रक्षाल्य॥
दीक्षितीये –
जलान्तर्जानुपर्यन्तमपि वा चरणद्वयं
कूर्परान्तं करौ सम्यक् क्षालयेत्प्रथमम्बुधः॥
एतच्छौचं गृहस्थस्य द्विगुणंब्रह्मचारिणां,
त्रिगुणन्तुवनस्थानां यतीनान्तुचतुर्गुणम्
इति।
भाष्ये –
एतच्छौचम् अहन्येव रात्रावर्धम् आतुरस्यतदर्धं तदर्धं पथिशौचं रेतो विसर्गमूत्रवच्छौचं कर्तव्यम्
इति। तस्मादन्तर्जलं गत्वा आमणिबन्धजानुतो दक्षिणादि प्रत्येकं मृदाद्भिः प्रक्षाल्य।
दीक्षितीये –
विप्रस्य पुरतोदेवा दक्षिणे पितरस्तथा।
असुरावामभागेतु तस्मिन् गण्डूषणञ्चरेत्।
आसीनश्शौचगण्डूषान्वामभागे विसर्जयेत्
इति।
नवनीते –
मूत्रेपुरीषेभुक्त्यन्तो तथैव द्विजधावने
चतुरष्टद्विषड्द्व्यष्टगण्डूषैश्शुचिरुच्यते॥
इत्युक्तत्वात् जलस्थलेष्वासीन एव स्थले वामभागे, मूत्रोत्सर्गे चतुः, पुरीषोत्सर्गे अष्ट, भुक्त्यन्ते द्वादश, दन्तधावने षोडशच गण्डूषान् कृत्वा पाणिपादौ प्रक्षाल्य तत्फलञ्च संशोधयेत्।
उपजलाभावविषये याज्ञवल्क्यः –
सजलम्भाजनं स्थाप्य मृत्तिकाञ्च परीक्ष्यतां
कुर्यान्मूत्रपुरीषेतु नान्यथा शुद्धिमाप्नुयात्,
करस्थोदकपात्रश्चेत्कुर्यान्मूत्रपुरीषके,
तत्तोयम्मूत्रतुल्यं स्यात्पीत्वाचान्द्रायणं चरेत्
इति आपदि पात्रान्तराभावे - दीक्षितीये –
पात्राच्छौचं तु यच्छौचे पानेपादावनेजने
भूमौतदम्बुनिस्राव्यशेषेणाचमनञ्चरेत्
इति
मलमूत्रं त्यजेद्यस्तु विस्मृत्यैवोप वीतधृत्।
तत्सूत्रन्तु परित्यज्य दध्यादन्यत्पुनर्नवम्॥
तिष्ठन् सृजति मूत्रन्तु यावदार्दाश्चरेणवः।
तावन्त्यब्दाश्चनरके तिष्ठन्वैपितृभिस्सह॥
मूत्रं कृत्वा विनाशौचं कच्छम्बध्वाद्विजाधमः
कच्छान्वितो मूत्रयित्वा समूडो नरकंव्रजेत्॥
विट्छौचं प्रथमं कृत्वा मूत्रशौचमतः परम्।
शौचभ्रष्टं नरं दृष्ट्वा प्रहसन्तीह राक्षसाः॥
यक्षाः पिशाचाभूतानि येचान्येदुष्टचारिणः।
शुचिन्देवाश्चरक्षन्ति रक्षन्ति पितरश्शुचिम्॥
शुचेर्बिभ्यन्तिरक्षांसि येचान्येदुष्टचारिणः।
नयावदुपवीतास्ते द्विजाश्शूद्रास्तथाङ्गनाः॥
गन्धलेपक्षयकरं शौचमेषां विधीयते।
शौचं यथोदितं कुर्याच्चौच-मूलोद्विजस्मृतः॥
शौचाचारविहीनस्य समस्तानिष्फलाः क्रियाः॥
आचमनविधिः
दीक्षितीये –
उपविश्यशुचौ देशे प्राङ्मुखोब्रह्मसूत्रधृत्
बद्धचूडःकुशिकरो द्विजश्शुचिरुपस्पृशेत्॥
सपवित्रस्सदर्भोवा कर्माङ्गाचमनं चरेत्।
नोच्छिष्टस्स्यात्तदादर्भोभुक्तोच्छिष्टन्तुवर्जयेत्॥
जान्वोरूर्ध्वमथाचामेज्जलेतिष्ठन् शुचिर्भवेत्,
अथस्ताच्छतकृत्वोपि समाचान्तोन शुद्ध्यति ॥
तथा उपवीतन्धृत्वा मुखम्प्रक्षाल्य शिखाम्बद्ध्वा करौ प्रक्षाल्य उत्तरीयं कट्यां धृत्वा प्राङ्मुख उदङ्मुखोवा जलस्थलेष्वासीन आचामेत्॥
सूत्रम् –
अफेनमवस्रावमविच्छिन्नमद्रुतमशब्दमबहिर्जानु हृदयङ्गममुदकं गोकर्णवत्पाणिङ्कृत्वा ब्राह्मेण तीर्थेन त्रिराचम्य
इति।
भाष्यम् –
खट्वादावारूढः सुखासीनस्तिष्ठन्गच्छन् शयानः मन्त्रं विनापि नाचामेत्
इति।
नवनीते –
गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत्
तन्न्यूनम् अधिकं पीत्वा सुरापानसमम्भवेत्॥
दीक्षितीये –
करमध्यगतारेखा माष इत्युच्यतेबुधैः,
वामहस्तेन कं स्पृष्ट्वा ह्याचामेद्दक्षिणेनच।
तावन्नोपस्पृशेद्विद्वान्यावद्वामेन नस्पृशेत्
वामेहि द्वादशादित्यावरुणश्च जलेश्वरः
संयुक्ताञ्जलिनातोयं गृहीत्वापाणिनाद्विजः,
मुक्ताङ्गुष्ठकनिष्टेच शिष्टमाचमनञ्चरेत्।
शिरः प्रावृत्यकण्ठं वा तिष्ठन् मुक्तशिखोपिवा।
अकृत्वापादयोश्शौचम् आचान्तोपि नशुद्ध्यति
मणिबन्धनिमग्नेन हस्तेनादाय वै जलम्
जानुद्वयोरन्तरेच हस्तं कृत्वायथाविधि
हृत्कण्ठतालुकाभिस्तु यथासङ्ख्यन्द्विजातयः,
शुद्ध्येरन् स्त्रीश्चशूद्रश्च सकृत्कृत्वा द्विरन्ततः।
एलालवङ्गकर्पूरगन्धाद्यैर्वासितैर्जलैः,
नाचामेदद्भिरुष्णाद्भिस्तथाशौचावशेषितैः ॥
शस्तमाचमनन्तोयैरुष्णैरेवोष्णसेविनाम्,
नाम्रचर्माश्वपत्रैश्च नालिकेराश्मपत्रकैः।
नोपस्पृशेत्सहस्तस्थैरेतैरपि विचक्षणः॥
इति।
सूत्रम् –
ब्राह्मेणतीर्थेन त्रिराचम्य द्विरङ्गुष्ठमूलेन परिमार्ष्टि अङ्गुष्ठस्याग्निः, प्रदेशिन्यावायुः, प्रजापतिर्मध्यमस्यानामिकायास्सूर्यः, कनिष्ठस्येन्द्र इति देवता भवन्ति, अङ्गुष्ठमध्यमाभ्यां सर्वतीर्थैर्वा मुखं मार्ष्ट्यङ्गुष्ठानामिकाभ्यां चक्षुषी, अङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे, नासिकाम् अङ्गुष्ठप्रदेशिनीभ्यां भुजौ ताभ्यामङ्गुष्टेनवा हृदयम् अङ्गुलिभिः नाभिञ्चाङ्गुष्ठेन प्रत्यङ्गम् अपश्चस्पृष्ट्वा जङ्घुयोर्वामे पाणावद्भिरभ्युक्ष्य सर्वाभिर्मूर्धानं स्पृशति
इति।
सूत्रे –
दक्षिणपाणेर्मध्यतलमाग्नेयन्तीर्थं कनिष्ठाङ्गुलिमूलं दिव्यं, सर्वाङ्गुलिमूलाग्रम् आर्षं, प्रदेशिन्यङ्गुष्ठयोर्मध्ये पैतृकं, अङ्गुष्ठस्य मूलं ब्राह्मं, दैवेनतीर्थेन दैविकं कार्यं, आर्षणार्षं, पैतृकेनपित्र्यं सर्वं ब्राह्मेणब्रह्मतर्पणम् आचमनम्
इति।
दीक्षितीये – अन्यवार्तामश्रुण्वन् स्वयमकुर्वन् दिशोनपश्यन्नाचमनं प्रतिहृदयङ्गमं तीर्थं गमयित्वाचामेत् एवममन्त्राचमनेन मन्त्राचमनेपि सर्वं समानं। अमन्त्राचमने विशेषोवक्ष्यते ॥
अमन्त्राचमन-क्रमः
मन्त्रं विना त्रिराचम्य, अङ्गुष्ठमूलेन कपोलमूलयोर्धक्षिणादि अधः परिमार्ष्ट्यङ्गुष्ठ-मध्यमाभ्यां सर्वतीर्थेर्वा मुखं ललाटादि चुबुकान्तं परिमार्ष्ट्य कपोल-चक्षुराद्यङ्ग-द्वयस्य सकृदप्स्पर्शनं कृत्वा मुख-हृदयनाभि-शिरस्सु प्रत्यङ्गम् अप्स्पर्शनं कृत्वा यथा क्रममग्निः प्रीणात्वित्यन्तम् अङ्गुष्ठेन नाभिञ्च स्पृष्ट्वा अपस्सृष्ट्वा जङ्घयोः वामेपाणौचाद्भिरभ्युक्ष्य, सर्वाभिरङ्गुलिभिर्मूर्धानञ्च स्सृशेत्। ततः
समन्त्राचमनक्रमः
खण्डः – “इन्द्रोहमुभाभ्याम्” इति करौ प्रक्षाल्य,
मन्त्रः –
इन्द्रोहमस्मि यजमानायदेवान्। तत्वा सत्यंवृणीमह
इति दक्षिणकरं,
उभाभ्यां देवसवितः प्रहरेमवीतय
इति वामकरं,
खण्डः –
आपः पादा अस्मिन्कुल
इति पादौच प्रक्षाल्य।
मन्त्रः –
आपः पादावनेजनीर्द्विषन्तन्नाशयन्तुमे।
इति दक्षिणपादं।
अस्मिन्कुले ब्रह्मवर्चस्यसानि
इति वामपादं च प्रक्षाल्य।
खण्डः – आपः पुनन्त्वित्याचम्य।
मन्त्रः –
आपः पुनन्तुपृथिवीं पृथिवी पूतापुनातुमाम्। पुनन्तु ब्रह्मणस्पतिर्बह्मपूतापुनातुमाम्। यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम। सर्वं पुनन्तुमामापो सताञ्चप्रति ग्रहग्ग्स्वाहा॥ [[TODO: परिष्कार्यम्]]
इति सकृदपः पीत्वा,
पुनः
ऋग्वेदः प्रीणातु, यजुर्वेदः प्रीणातु, सामवेदः प्रीणातु,
इति त्रिरपः पीत्वा,
अथर्ववेदः प्रीणातु इतिहासवेदः प्रीणातु
इति अङ्गुष्ठमूलेन दक्षिणवामयोः कपोलयोरामूलान्तं परिमार्ष्ट्य,
तत्तदङ्गुलिदेवतास्मरणेन सहस्पर्शने कृते पूतो भवति
इति भाष्ये
“चन्द्रमाः प्रीणातु” इति ललाटादि चुबुकान्तम् अङ्गुष्ठमध्यमाभ्यां सर्वतीर्थेर्वा मुखं मार्ष्टि, सर्वाङ्गुलिभिर् “महेश्वरः प्रीणातु” इति मूर्धानम् अङ्गुष्ठानामिकाभ्याम् “आदित्यः प्रीणातु” इति, दक्षिणनयनं तथा “सोमः प्रीणातु” इति वामं च स्पृष्ट्वा, अङ्गुष्ठकनिष्ठिकाभ्यां “दिशः प्रीणन्तु” इति दक्षिण-वामश्रोत्रे, अङ्गुष्ठ-प्रदेशिनीभ्यां “वायुः प्रीणातु” इति नासिकापुटे ताभ्याम् “इन्द्रः प्रीणातु” इति भुजौ, सर्वाङ्गुलिभिः “विष्णुः प्रीणातु” इति हृदयम् अङ्गुष्टेन “अग्निः प्रीणातु” इति नाभिं च प्रत्यङ्गम् अपः स्पर्शनं विनास्पृशति। एवं पूर्वोक्तामन्त्रकाचमनं च समन्त्रकाचमनं नित्यं कुर्यात्। “नैमित्तिकम्” इति केचित्।
द्विराचमन-कालः
भाष्ये – भोजनवासोत्तरीय-परिधान-स्वापरध्योपसर्पण-हविर्विशेषभक्षणादौ आदावन्ते च द्विः। स्नानखादनपानेषु सकृदादौ द्विरन्ततः। दानप्रतिग्रहहोम-सन्ध्यावन्दन-बलिकर्मारम्भादौ आदौ द्विः सकृदन्ततः। अन्यत्र देवपूजादौ आद्यन्तयोस्सकृत्। अन्यत्र दक्षिणपाणिना दक्षिणकर्णं स्पृशेत्।
प्रक्षाल्य पाणिपादौ च, मुखञ्चाद्भिः प्रमृज्यच
आचम्य प्राङ्मुखासीनो दन्तधावनम् आचरेत्
दन्तधावन-प्रकारः
सकृदाचम्य, शिरोवेष्टनं कृत्वा
नवनीते – श्लो॥
कण्टकक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम्
कनिष्ठाङ्गुलिवत्सूक्ष्मं दन्तकाष्ठस्यलक्षणम्
तृणपर्णेस्सदाकुर्यादमामेकादशीं विना
तयोरपि च कर्तव्यं जम्बूप्लक्षाम्रपल्लवैः
दीक्षितीये – श्लो॥
इष्टकालोष्ट-पाषाणैरितराङ्गुलिभिस्तथा
मुक्त्वाचानामिकाङ्गुष्ठावर्जयेद्दन्तधावने
नवनीते –
प्रतिपत्पर्वषष्ठीषु नवम्याञ्चैव भारत
अष्टम्यां चतुर्दश्यां पञ्चदश्यां त्रिजन्मनि
दन्तानां काष्ठसंयोगे दहत्या सप्तमं कुलम्
प्राङ्मुखोदङ्मुखो वापि दन्तधावनम् आचरेत्
बाहू जान्वन्तरेकृत्वा कुक्कुटासनमास्थितः
तर्पणाचमनोल्लेख्यं दन्तशुद्धिं समाचरेत्
वामभागं समारभ्य प्रादक्षिण्य क्रमेणवै
शाखां विदार्यतस्यैव भागेनैकेन मार्जयेत्
जिह्वान्ततो द्वितीयेन गृहस्थश्च यतिस्तथा
प्रक्षाल्य दन्तकाष्ठन्तु शुचौदेशे नतत्त्यजेत्
यो वैगण्डूषसमये तर्जन्यादन्तशोधनम्
करोति यदि मूढात्मा रौरवं नरकं व्रजेत्
तत्र यमः[[??]] श्लो॥
आयुर्बलं यशोवर्चः प्रजा-पशुवसूनिच
ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वन्नोदेहिवनस्पते॥
इति मन्त्रेण दन्तकाष्ठं पर्णंवाप्रार्थ्य।
अन्नाद्याय व्यूहध्वं दीर्घायुरहमन्नादो भूयासम्॥ [[TODO: परिष्कार्यम्]]
इति मन्त्रमुच्चार्य पूर्वोक्तप्रकारेण प्राङ्मुख उदङ्मुखो वा कुक्कुटासनम् आस्थितः वामभागम् आरभ्य प्रदक्षिणक्रमेण यथोक्तवद्दन्तधावनं कृत्वा जलस्थलङ्गत्वा षोडशगण्डूषान् वामभागे जलाद्बहिः कृत्वा अनामिकाङ्गुल्या दन्तशोधनं कृत्वा पाणिपादौच प्रक्षाल्य तत्स्थलं दन्तधावनदेशं च संशोध्य स्नायात्
अमन्त्र-स्नानविधिः
सूत्रम्–
अथापोनमस्कृत्यावगाह्ययावदमनश्शङ्कमद्भिर्मदाचगात्रशुद्धिं कृत्वा वस्त्रमादशात्सूदितमितिनेनेक्ति
इति
आदशात्सूदितं मधूदितं महोदितम्
इति वस्त्रनिर्णेजनं कृत्वा गायत्र्या प्रागग्रिकमुदगग्रिकं वा स्तृणाति, शुष्केतयैव गायत्र्या गृह्णीयात्, अथवा पूर्वदिनधौतवस्त्रंवा आनीय।
दीक्षितीये - बोधायनः –
स्नात्वानुपहतं वस्त्रं परिदध्याद्यथा विधि।
अनुपहतमिति सद्यो धौतमित्यर्थः
अभावे पूर्ववस्त्रंवासम्प्रोक्ष्यच प्रणवेनतु
नोत्तरीयमधः कूर्यान्नोपर्यायस्त्यमम्बरम्
धर्मेकर्मणि विद्वद्भिर्वर्जनीयं प्रयत्नतः
एकवस्त्रो विवस्त्रश्च खण्डवस्त्रस्तथैवच
बहिः कच्छो विकच्छश्च नग्नः पञ्चविधस्मृतः
एकवस्त्रधरोनग्नः कौपीनरहितस्तथा
नस्नायादप्सुनग्नेन ससन्ध्यावन्दनादिकं
खण्डवस्त्रावृतश्चैव वस्त्रार्धालम्बिस्तथा
उत्तरीयव्यतीतस्य समस्ता निष्पलाः क्रियाः
देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम्
उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत्
खण्डः –
खण्ड एवं सर्वं समालोड्य दशहस्तायतान्तरीयं षड् हस्तायतोत्तरीयं च धृत्वास्नायात्
इति दीक्षितीयाभिप्रायः.
पवित्रलक्षणम् दशविधदर्भाः
कुशाः काशा यवा दूर्वा गोधूमाश् चृध[??]कुन्दुराः उशीरा व्रीहयो मौञ्जा दश दर्भाश् च बल्बजाः।
नवनी [??] –
चतुरङ्गुलमग्रं स्याद्ग्रन्थिरेकाङ्गुलं भवेत्
वलयं द्व्यङ्गुलं प्रोक्तं पवित्रस्यतु लक्षणम्
अग्रं ब्रह्माधिदैवत्यं ग्रन्थिर्विष्णुस्तथैवच
वलयं रुद्रदैवत्यं पवित्रस्याधिदेवताः
शातातपः –
जपे होमेचदानेच स्वाध्याये पितृतर्पणे
अशून्यन्तु करङ्कुर्यात्सुवर्णरजितैः कुशैः
अत्रिः –
उभाभ्यामपि हस्ताभ्यां विप्रैर्दर्भपवित्रके
धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमन्विते
ब्रह्मग्रन्थिसमायुक्ते पवित्रे मध्यपर्वणि
पाणिभ्यां सर्वदा धार्ये कर्मकाले विशेषतः
अग्रपर्वस्थितोदर्भस्तपोयुक्तं करोतिवै
मध्ये चैव प्रजाकामो मूले सर्वार्थसाधकः
काशहस्तस्तुनाचामेत् कदाचिद्विधिशङ्कया
अनामिकामुलदेशे पवित्रं धारयेद्द्विजः
यथाचक्रं महाविष्णोर्यथाशूलं पिनाकिनः
यथावज्रं महेन्द्रस्य तथा विप्रकरेकुशः
ब्रह्मग्रन्थिपवित्रेण कुर्यादाचमनक्रियाः
पवित्रग्रन्थियुक्तेन नकुर्यात्तु कदाचन
यज्ञोपवीते मौञ्ज्याञ्च तथा कुशपवित्रके
ब्रह्मग्रन्थिं विजानीयादन्यत्रतुयथारुचि।
काशस्तुरौद्रोविज्ञेयः कौशम्ब्राह्मं तथास्मृतम्॥
आर्षन्तु दौर्वमाख्यातं वैश्वामित्रन्तु वैष्णवम्
सपवित्रेणहस्तेन कुर्यादाचमनक्रियाम्
अपवित्रकृतङ्कर्म विप्रस्य विफलं भवेत्॥
त्रिवृतञ्चोपवीतं स्यात्तथैव ग्रन्थिरिष्यत
इति
एवं यज्ञोपवीतवत्। त्रिः परीत्य ब्रह्मग्रन्थिं कृत्वा हस्तद्वयकाङ्गुल्योर् उभयपवित्रं धारयेत्। अत्र वसन्तयाजीय व्याख्याने
सुवर्णपवित्रमस्तिचेत् उभयपवित्रस्थाने वामहस्ते तत्सन्धार्य, ब्रह्मग्रन्थि-पवित्रं दक्षिणकरे सन्धारयेत्
इति।
मरीचिपटले –
सुवर्ण-रजतगोवाल-कुश-विश्वामित्र-काशदूर्व्योशीर-मृदुतृणादिना पवित्रं कारयेत्
इति।
अग्रस्थूलं भवेन्नारी मूलस्थूलं नपुंसकम् मूलादग्रङ्क्रमाद्वृत्तम्पुन्दर्भमिति कीर्त्यते।
समन्त्र-स्नानविधिः
नित्यं दशस्नानपरस्य साथो रूपञ्च तेजश्च यशश्च शौचम्
आयुष्यमारोग्यमलोलुपत्वं दुस्वप्ननाशञ्च तपश्चमेधाम्
याम्यं हि यातना दुःखं प्रातः स्नायी नपश्यति
अस्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन
शोकदुस्वप्नहं स्नानं मोक्षदं ह्लादनं तथा
स्नानञ्च द्विविधं प्रोक्तं गौणमुख्यप्रभेदतः
तयोस्तु वारुणं मुख्यं षड्विधं तत्पुनस्स्मृतम्
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्
क्रियास्नानन्तथाषष्ठं षोढास्नानं प्रकीर्तितम्
दीक्षितीये –
अस्नातस्तु भवेन्नार्हो जपाग्नि-हवनादिषु
प्रातः स्नानन्तदर्धन्तु नित्यस्नानं प्रकीर्तितम्
चण्डालशवशूद्रादीन् स्पृष्ट्वा स्नातां रजस्वलाम्
स्नानार्हस्तुयदा स्नाति स्नानं नैमित्तिकं हि तत्
वृष्ट्या स्नानादिकं यत्तु दैवज्ञतिथिचोदितम्
तद्धिकाम्यं समुद्दिष्टं ना कामस्तत् प्रयोजयेत्
जप्तुकामः पवित्राणि ह्यर्चिष्यन् देवताः पितॄन्
स्नानं समाचरेद्यत्तुक्रियाङ्गं तद्विदुर्बुधाः
मलापकर्षणं नाम स्नानमभ्यङ्गपूर्वकम्
प्रेतकार्येषु सर्वत्र क्रियान्त-स्नानमुच्यते
सूत्रम् –
अथ चतुराश्रमिणां स्नानविधिरभिषेकं दिव्यं वायव्यमाग्नेयं गुर्वनुज्ञा
इति “पञ्चधा भवन्ति” इति।
अभिषेकं वारुणम् अवगाहनस्नानम्
इति भाष्ये तत्प्रकारमाह। उभयपवित्रपाणिः। द्विराचम्य।
मनुः – श्लो॥
असङ्कल्प्यतु यः कुर्यात् स्नानदानव्रतानिच
अन्यानि पुण्यकर्माणि विफलानि भवन्ति हि
सङ्कल्पसूक्तपठने मार्जनं चाघमर्षणम्
तर्पणं पितृदेवानां स्नानं पञ्चागमुच्यते।
इति
हरिः ॐ। अस्मद्गुरुभ्यो नमः। अस्मत्परमगुरुभ्यो नमः॥ श्री विखनसगुरुभ्यो नमः।
श्री लक्ष्मीवल्लभारम्भां…………… वन्दे गुरुपरम्पराम्।
आसन-मन्त्रस्य यथाबलं प्राणायामं कुर्यात्। श्लो॥
शुक्लां बरधरं विष्णुं…. विष्व्यक्सेनन्तमाश्रये॥
श्री गोविन्द गोविन्द, अस्यश्री भगवतो महापुरुषस्य। अस्यां शुभतिथौ श्रीमन्नारायणप्रीत्यर्थम्। भगवदाज्ञाकैङ्कर्यरूपभगवदाराधनाङ्गभूतं प्रातस्स्नानमहं करिष्ये।
भगवतोबलेनेतिसात्विकसङ्कल्पं कृत्वा श्लो॥
प्रातर्माध्यन्दिनस्नानं वानप्रस्थगृहस्थयोः॥
यतेस्त्रिषवणस्नानं स कृत्तु ब्रह्मचारिणाम्॥
प्रोतसोभिमुखस्तत्रखाते देवमुखस्तथा।
अन्यत्रार्कमुखस्स्नायाद्रात्रौचेदग्नि सन्निधौ
अप्रवाहोदकस्नानं विप्रपादावसेचनम्
गायत्र्याजपमर्घ्यञ्च आदित्याभिमुखश्चरेत्
जलं शुद्धमशुद्धं वा विष्णुवास्तु समीपतः
विष्णुगङ्गासमन्तोयं महापातकनाशनम्
नातिक्रमेद्ध्रदं सिन्धुं नानुष्ठातुन्नदीन्तरेत्
परकीयनिखातेषु नस्नायात्तु कदाचन निखातकर्तुस्संस्नानाद्दुष्कृतां शेन लिप्यते
एतत्तुपतिताति पापिनां विषयः।
मार्कण्डेयः –
पुराणानां नरेन्द्राणामृषीणाञ्च महात्मनाम्
स्नानं कूपतटाकेषु देवतानां समाचरेत्
उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानमाचरेत्
अन्त्यजैः खनिताः कूपास्तटाका वाप्य एवच
तेषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्ध्यति
वृथा तूष्णोदकं स्नानं वृथा जप्यमवैदिकम्
वृथात्वश्रोत्रियेदत्तं वृथा भुक्तमसात्विकम्
नस्नायादुत्सवेतीते माङ्गल्यं विनिवृत्यच
अनुसृत्य सुहृद्बन्धूनर्चयित्वेष्टदेवताः
मृतौ जन्मनि सङ्क्रान्त्यां श्राद्धजन्मदिने तथा
अस्पृश्य स्पर्शने चैव नस्नायादुष्णवारिणा
सगोहत्याकृतं पापं प्राप्नोत्येवनसंशयः
अथो वर्णोदकं स्नानं वर्ज्यं नद्यान्द्विजातिभिः
तस्यां रजकतीर्थेषु दर्शनादेव वर्जयेत्
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
तस्मान्नारायणं देवं स्नानकाले विचिन्तये॥
इति
सूत्रम् – “इदमापः प्रवहते"त्यभिगम्य
मन्त्रः –
इदमापः प्रवहता वद्यञ्च मलञ्चयत्। यद्वाभि रुद्रहानृता यद्वाशेपो अभीरुणम्। आपो मातस्मादेनसो विश्वान्मुञ्चं त्वँ हसः। निर्मामुञ्चामिशपधान्निर्मा वरुणादधि। निर्मायमस्य पड्बिशात् सर्वस्माद्देवकिल्बिषात्। इदमापः प्रणीत भेषजं तन्मेवरुणं नमः। [[TODO: परिष्कार्यम्]]
इति जलसमीपं गत्वा। “हिरण्यशृङ्गम्” इति प्रणम्य।
मन्त्रः –
हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहियाचतः। यन्मयाभुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः। यन्मे मनसा वाचा कर्मणावा दुष्कृतं कृतम्। तन्न इन्द्रोवरुणो बृहस्पतिस्सविताच पुनन्तु पुनः पुनः। सुमित्रान आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योस्मान् द्वेष्टि यं च वयं द्विष्मः। नमोग्नयेप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोद्भ्यः। यदपाङ्क्रूरं यद मेध्यं यदशान्तन्तदपगच्छतात्। अत्याशनादती पानाद्यच्च उग्रात्प्रति ग्रहात्। तन्मे वरुणो राजा पाणिना ह्यवमर्शतु। सोहमपापो विरजोनिर्मुक्तो मुक्तकिल्बिषः। नाकस्य पृष्ठमारुह्यगच्छेद्रह्म सलोकताम्। इमम्मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ सचतापरुष्णिया। असिक्निया मरुद्वृधे वितस्तयार्जीकीये शृणुह्यासुषोमया॥ [[TODO: परिष्कार्यम्]]
इति प्रणम्यः
खण्डः – “आपः पुनातु” इति समृदोदकेनाभ्युक्ष्य।
मन्त्रः –
आपः पुनातु पृथिवी सर्वं पुनातु धरणी। सर्वपूतामाँ सर्वपापैः पुनातु॥ [[TODO: परिष्कार्यम्]]
खण्डः – “इदमापश्शिवा” इति विगाह्य सुस्नाति।
मन्त्रः –
इदमापश्शिवाश्शिवतमाश्शान्ताः …….. रश्मिभिः [[TODO: परिष्कार्यम्]]
इति नाभि-दघ्नतीर्थे चतुर्निमज्ज्य ।
हृत्स्थितं सर्वभूतानां रविमण्डल-मध्यगम्
नील-जीमूत-सङ्काशं वासुदेवं चतुर्भुजम्
शङ्खचक्र-गदापद्म-धारिणं वनमालिनम्
तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि
चिन्तयेद्ब्रह्म-रन्द्रेण प्रविशन्तीं स्वकान्तनूम्
तया प्रक्षालितं सर्वं स्वदेहं परिचिन्तयेत्
इदं स्नानं वरं मन्त्रात् सहस्रादधिकं मतम्
ध्यात्वा गङ्गां हरेः पादात् पतमानां स्वमूर्धनि
प्रपूर्याञ्जलिना सिञ्चेत् काकस्नान-विसर्जनम्
इति अञ्जलिना जलमध्ये चतुरश्रं विलिख्य, तस्मिन्,
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु॥
इत्यञ्जलिना जलेनावाह्य पुनस्तच्चक्रस्थतीर्थमञ्जलिना गृहीत्वा स्व मूर्धनि चतुः कृत्वस्संसिच्य
समस्त जगदाधार शङ्खचक्र गदाधर।
देव, देहि ममानुज्ञां युष्मत्तीर्थनिषेवणे
इत्युक्त्वा, द्वौकर्णौ नासिकापुटे चाङ्गुष्ठ-मध्यमाभ्याम्पिधाय, मन्दं निश्वस्य, चतुर्निमज्ज्यान्तर्जले पूर्वोक्तवद्ध्यात्वा, स्नायात्, अस्पृश्यस्पर्शने पूर्वं त्रयोदशवारम् एकश्वासेन निमज्ज्य, ततो यधाविधि चतुर्निमज्जनं कुर्यात्। ततः प्राङ्मुखोनाभि-दघ्नजल एवस्थित्वा, सकृदाचम्य, देवेन तीर्थेन प्राच्यामूर्ध्वं
भूर्देवांस्तर्पयामि। भुवर्देवांस्तर्पयामि। सुवर्देवांस्तर्पयामि। भूर्भुवस्सुवर्देवांस्तरयामि
इति तर्पयित्वा, अथनिवीती, उत्तरस्यान्तिर्यक् आर्षण-तीर्थेन
भूः ऋषींस्तर्पयामि। भुवः ऋषींस्तर्पयामि। सुवः ऋषींस्तर्पयामि। भूर्भुवस्सुवः ऋषींस्तर्पयामि
इति तर्पयित्वा। अथ प्राचीनावीती, दक्षिणस्यामधः पैतृकतीर्थेन।
भूः पितॄंस्तर्पयामि। भुवः पितॄंस्तर्पयामि । सुवः पितॄंस्तर्पयामि। भूर्भुवस्सुवः पितॄंस्तरयामि
इति दक्षिणमुखस्तत्ततीर्थेन गृहीत्वा सन्तर्प्याचम्य,
यन्मया दुष्कृतं तोये शारीरमलसञ्चितम्
तस्य पापविशुद्ध्यर्थं यक्ष्माणं तर्पयाम्यहम्
इति
अञ्जलिना जलमादाय, बहिः प्रक्षिप्यस्थले दक्षिणामुखमासीनः, शुष्क-वस्त्रखण्डद्वयेन प्रत्येकं शिरोङ्गं च परिमृज्य, केशान् न च निर्धुनुयात्।
दीक्षितीये –
येनतीर्थेन गृह्णीयात्तेन दद्याज्जलाञ्जलिम्
अन्यथा तर्पणं स्याच्चेत्तत्तोयं रुधिरं भवेत्
गो-शृङ्गमात्रमुद्धृत्य जलमध्ये जलङ्क्षिपेत्
चतुरश्रं तीर्थपीठं पाणिनोल्लिख्यवारिषु
आवाहयामि त्वान्देवीत्यावाह्यात्रैव जाह्नवीम्
व्याहृत्या तर्पयेद्द्विद्वान् देवानृषिपितॄंस्तथा
ऊर्ध्वन्तिर्यगधस्स्वस्व-तीर्थेनैव क्रमाद्द्विजः
शौनकः
स्नानाङ्ग तर्पणं कृत्वा यक्ष्माणं जलमाहरेत् आर्द्रेण वाससायस्तु शरीरं परिमार्जयेत्
शुनोच्छिष्टं भवेद्गात्रं पुनस्स्नानेन शुद्ध्यति
दक्षिणा मुखमासीनो वस्त्रेण परिमार्जयेत्
अन्यथा मार्जनं कुर्यात्पुनस्स्नानेन शुद्ध्यति
स्नातोङ्गानि सुसम्मृज्यात् स्नानशाट्यानपाणिना
शुष्केण वस्त्रखण्डेन द्विजोङ्गं परिमार्जयेत्
न च निर्थुनुयात्केशान्नतिष्ठन्परिमार्जयेत्
स्नात्वा न धावयेद्दन्तान्नमृज्याद्वाससामुखम्
पिबन्ति शिरसो देवाः पिबन्ति पितरोमुखात्
सुराबिन्दु-समाः प्रोक्ताः पृष्ठतः केशबिन्दवः
त एव पुरतः प्रोक्तास्सर्व-तीर्थोपमा बुधैः
इति शुष्कवस्त्रा आपद्विषये -
सप्त वाताहतं वस्त्रं शुष्कप्रायमितीरितम्
इत्युक्तरीत्या सप्तवाताहतवस्त्रेण वा परिमार्जयेत्।
दीक्षितीये –
सोमस्येत्त्युत्तरीयेण शिरोवेष्टनतः परम्
कर्णेतु दक्षिणे कुर्याद्यज्ञ-सूत्रावकुण्ठनम्
कटिसूत्रं तथा कुर्यान्नाभेरूर्थ्वं यथातथा
कौपीनाच्छादनं कृत्वा प्रक्षाल्य च करावुभौ
कटे रधस्ताद्वामेन वाऽन्य वस्त्रेण शोधयेत्
तेजो वत्सेति मन्त्रेण सव्ये नावृत-वस्त्रकः
वस्त्रधारण-काले तु यस्तुपादं समुद्धरेत्
वार्तां कुर्वन्, चलन्वापि सद्यश्शूद्रो नसंशयः
प्राङ्मुखोदङ्मुखो वाऽपि वस्त्रधारणमाचरेत्
ब्राह्मणस्य सितं वस्त्रं नृपते रक्तमुल्बणम्
तथावैश्यस्य, शूद्रस्य नीलमेव वधिष्यते
क्षेमं वासः प्रशंस्यन्ति तर्पणे सदशं तथा
भोधायनः –
स्नात्वाऽनुपहतं वस्त्रं परिदध्याद्यथा विधि
अभावे पूर्ववस्त्रं वा सम्प्रोक्ष्य प्रणवेनतु॥
ततः
मन्त्रः –
सोमस्य तनूरसि, तनुवम्मे पाहि सामेतनूरसि। शिवामेतनूराविशेति [[TODO: परिष्कार्यम्]]
मन्त्रेण उत्तरीयं शिरसि संवेष्ट्य, यज्ञ-सूत्रं दक्षिणकर्णे अपुच्छं संवेष्ट्य, नाभेरूर्ध्वं कटिसूत्रं सन्धार्य कौपीनं चापुच्छं सन्धार्य, हस्तं समृदोदकेन प्रक्षाल्य।
मन्त्रः –
तेजोवत्स्यावस्सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् [[TODO: परिष्कार्यम्]]
इत्युच्चार्य, सद्यो धौतवस्त्राभावे पूर्वदिन-धौत-वस्त्रं प्रणवेन प्रोक्ष्यादाय, सव्यावर्तेन परिवेष्ट्य, मौनी नोद्धृतपादः.
पूर्वकच्छन्तु पूर्वं स्यात्पश्चात्कच्छं ततः परम्
ततः पूर्वे त्रिकच्छं स्यात्सपुच्छं त्वं तकच्छकम्
इत्युक्तरीत्या पूर्वभागे प्रथमतः कच्छं सन्धार्य, अनन्तरं पृष्ठभागे ततः पार्श्वकच्छं सपुच्छं धृत्वा, पादौ, हस्तौ च प्रक्षाल्य, उत्तरीयं कट्यां धृत्वा सोपवीतम् आचम्योर्ध्वपुण्ड्रन्धारयेत्।
दीक्षितीये –
स्नानेदाने तथा होमे दैवे पित्र्ये च कर्मणि
भोजने वन्दने सन्ध्यावन्दने च प्रदक्षिणे
बध्नीयादासुरीं कक्ष्यां शेषे काले यथास्मृतौ
यज्ञोपवीतवद्दार्यमुत्तरीयं सदाबुधैर्
इति तत आचामेत्॥
द्वादशोर्ध्व-पुण्ड्रधारण-विधिः
काश्यपप्रोक्ते –
अतः परं प्रवक्ष्यामि ह्यूर्ध्वपुण्ड्रस्य लक्षणम्
यागेदाने जपेहोमे स्वाध्याये पितृतर्पणे
भस्मी भवति तत्सर्वमूर्ध्व-पुण्ड्रं विनाकृतम्
ऊर्ध्वपुण्ड्र-विहीनस्य श्मशान-सदृशं मुखम्
अवलोक्य मुखं तस्य ह्यादित्यमवलोकयेत्
अशुचिर्वाऽप्यनाचारो मनसा पापमाचरन्
शुचिस्सतु भवेन्नित्यमूर्ध्व-पुण्ड्रस्य धारणात्
ऊर्ध्वपुण्ड्रं वरं सौम्यं ललाटे यस्य दृश्यते
चण्डालोऽपि विशुद्धात्मा पुण्य एव न संशयः
श्वेताश्च मृत्तिकाश्शुभ्रा वैष्णव-क्षेत्रसम्भवाः
वामे तु शोधितेहस्ते वाग्यतः प्रणवेनतु
सपवित्रो मृदन्तत्र विनिक्षिप्य स्मरेद्धरिम्
उद्धृताऽसीति मन्त्रेण प्रार्थयित्वा विचक्षणः
शतधारेति मन्त्रेण दर्व्या तोयं प्रगृह्य च
गन्धद्वारेति मन्त्रेण मृत्सङ्घर्षणमाचरेत्
अस्त्र-मन्त्रेण रक्षां च कृत्वा दशसुदिक्ष्वपि
नृसिंहबीजं च लिखेद्राक्षाऽर्थं दोष शान्तये
तमेकीकृत्य तर्जन्या स्मृत्वा विष्णोः पदद्वयम्
विष्णोर्नुकेतिमन्त्रेण प्रार्थयेदिष्टसिद्धये
मृदं प्राक् तारमन्त्रेण तर्जन्यामूर्ध्नि विन्यसेत्
हरेः पादाकृतिं रम्यं सुपार्श्वं सुमनोहरम्
नासिकामूलमारभ्य ललाटान्तन्तु विन्यसेत्
चतुरङ्गुलमूर्ध्वाग्रमच्छिद्रं ह्यूर्ध्व-पुण्डकम्
पार्श्वद्वये च प्रत्येकमेकाङ्गुल-समन्वितम्
सान्तरालोर्ध्वपुण्ड्रं स्यान्मध्ये च श्रियमावहेत्
ऊर्ध्व-पुण्ड्रस्य मध्ये तु हरिद्रा चूर्णमुत्तमम्
अभिषिक्तन्तु यच्चूर्णं विष्णुबेरे तु यो नरः
हरिद्रां धारयेन्नित्यं सोऽश्वमेधफलं लभेत्
दर्पणं तु समालोक्य देवस्यत्वेति मन्त्रतः
विवृतास्यो नवीक्षेत दर्पणन्तु विशेषतः
यथा शोभा, तथाकुर्यान्ननखैर्नपरिच्छदैः
ऊर्ध्व-गत्यान्तु यस्येच्छा तस्योर्ध्वम्पुण्ड्रमुच्यते
ऊर्ध्वपुण्ड्रं ललाटेतु कुर्वीत चतुरङ्गुलम्
दक्षिणोदरबाह्यं से स्वेवं वामे तथैव च
आद्यवत्पृष्ठतो द्वे च मूर्ध्नि चैव त्रयोदश
तत्र तत्र स्मरन्मन्त्रं केशवादीन् यथाक्रमम्
धृतोर्ध्व-पुण्ड्रमध्येतु दीपाकारं श्रियन्धरेत्
लक्ष्म्या सहसमासीनो रमते यत्र वै हरिः
मरीचिपटले –
अङ्गुष्ठ-तर्जन्यनामिका-कनिष्ठा
इतितेषां क्रमेण। “तुष्ठिर्मुक्तिरायुर्वश्यम्” इति हरिपादाकृति, शूर्पाकृति, वेणुपत्राकृति चोक्तम्।
तथाभार्गवे –
श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा
तृतीयं कमलाप्रोक्ता चतुर्थं लोकसुन्दरी
पञ्चमं विष्णुपत्नी च षष्ठं स्याद्वैष्णवी तथा
सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका
एकादशं महालक्ष्मीं द्वादशं सुरसुन्दरी
एतैरामपदैर्देव्यैर्हरिद्रान्धारयेच्छ्रियम्
इति
पञ्चमखण्डे च - सूत्रे – अर्चको नित्यकर्माणि च कृत्वा, पद्माक्षतुलसीदामानि धारयन् सोष्णीषोङ्गुलीयकधारी, उभय-पवित्रं धारयन्, शुक्लमृत्ति काभिः केशवादि द्वादश नामभिः - ऊर्थ्वपुण्ड्रविधिना, ऊर्ध्व-पुण्ड्राणि द्वादशकुर्यादित्युक्तप्रकारेण, उभयपवित्रधारी, वाग्यतः, विष्णुं स्मृत्वा, प्राङ्मुखमासने चासीनः। प्रणवेन शोधित-वामहस्ते मृदं न्यस्य
मन्त्रः –
उद्धृताऽसिवराहेण कृष्णेन शतबाहुना, भूमिर्धेनुर्धरणी लोकधारिणी, मृत्तिकेहनमे पापं यन्मया दुष्कृतं कृतम्। त्वया हतेन पापेन जीवामि शरदश्शतम्। मृत्तिके देहिमे पुष्टिं त्वयि सर्वं प्रतिष्ठितम्॥ [[TODO: परिष्कार्यम्]]
इति मन्त्रेण मृदं प्रार्थयित्वा,
मन्त्रः –
शतधारँ हिरण्मयगं सहस्रधारममृतं निहितं परमे व्योमन् [[TODO: परिष्कार्यम्]]
इति वामहस्ते दर्व्या तोयञ्च निक्षिप्य,
मन्त्रः –
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीग् सर्वभूतानां तामिहोपह्वयेश्रियम् [[TODO: परिष्कार्यम्]]
इति मृदं सङ्घृष्य, मध्ये नृसिंह-बीजं विलिख्य, “अस्त्राय हुंफट्” इति दश दिग्बन्धनं कृत्वा।
विष्णोर्नुकं……… विष्णवेत्व
इति तर्जन्या मृदं सम्मर्द्य, एकीकृत्य, विष्णोः पदद्वयं स्मृत्वा, तन्मूल-मन्त्रं त्रिरावृत्तिः जप्त्वा, तारमन्त्रेण तर्जन्या प्रथमं मूर्ध्नि विन्यस्य, तयैव ललाटे “केशवायनम” इति चतुरङ्गुलोन्नतं, पार्श्वद्वये चैकाङ्गुल-विस्तरं, सच्छिद्रं हरिपादाकृतिं शूर्पाकृतिं वा नासिका-मूलमारभ्य, सन्धार्य। उदरे “नारायणाय नमः” इति दशाङ्गुलं, हृदये “माधवाय नमः” इत्यष्टाङ्गुलम्। कण्ठे “गोविन्दाय नम” इति चतुरङ्गुलम्। दक्षिणोदरे “विष्णवे नम” इति दशाङ्गुलम्। दक्षिणबाहौ “मधुसूदनाय नम” इति, अष्टाङ्गुलम्। तत्कण्ठे “त्रिविक्रमाय नम” इति चतुरङ्गुलम्। वामोदरे “वामनाय नम” इति दशाङ्गुलम्। तद्भाहौ! “श्रीधराय नम” इत्यष्टाङ्गुलम्। तत्कण्ठे “हृषीकेशाय नम” इति चतुरङ्गुलम्। पृष्ठे “पद्मनाभाय नम” इति चतुरङ्गुलम्। ककुदि “दामोदराय नम” इति चतुरङ्गुलम्। शिरसि “वासुदेवाय नम” इति विन्यसेत्।
श्रिये जात……….. मितद्रे
इति श्रीचूर्णं सजलं सङ्घृह्य, श्रीबीजाक्षरं विन्यस्य, तन्मन्त्रञ्च त्रिवारञ्जप्त्वा, पूर्वोक्तरीत्या ललाटादि द्वादशस्थानेषु, मध्ये पूर्वोक्त-तत्तत्स्थानाङ्गुलक्रमेण,
श्रियैनमः। अमृतोध्भवायै नमः। कमलायै नमः। लोकसुन्दर्यै नमः। विष्णुपत्न्यै नमः। वैष्णव्यै नमः। वरारोहायै नमः। हरिवल्लभायै नमः। शार्ङ्गिण्यै नमः। देवदेविकायै नमः। महालक्ष्म्यै नमः। सुरसुन्दर्यै नमः
इति क्रमशः मन्त्रमुच्चार्य। वेणु-पत्राकृति श्रीचूर्णं धृत्वा, “महालक्ष्म्यै नमः” इति शेषं शिरसि विन्यसेत्।
ध्यानं –
चतुश्चक्रं नमस्यामि केशवं कनकप्रभम्
नारायणं घनश्यामञ्चतुश्शङ्खं नमाम्यहम्
माधवं मणिभङ्गाभं चिन्तयामि चतुर्गदम्
चन्द्रभासं चतुश्शार्ङ्गं गोविन्दमभि संश्रये
विष्णुञ्चतुर्हलं वन्दे पद्मकिज्ञुल्क-सन्निभम्
चतुर्मुसलमब्जाभं संश्रये मधुसूदनम्
अग्निवर्णं चतुः खड्गमाश्रयामि त्रिविक्रमम्
वामनं बालसूर्याभं चतुर्वज्रं विभावये
श्रीधरं पुण्डरीकाक्षञ्चतुः पट्टसमाश्रये
चतुर्मुद्गरमभ्येमि हृषीकेशं तटित्प्रभम्
पञ्चयुधं पद्मनाभं प्रणमाम्यर्करोचिषम्
दामोदरं चतुः पाशमिन्द्रगोपनिभं भजे
वासुदेवमुपासेऽहं पूर्णेन्द्वयुतसन्निभम्
पूर्वोक्तवत्।
श्रियै नमः। अमृतोद्भवायै नमः।
इत्यादि श्रीनामधेयैः प्रणमेत्।
दामोदरं केशवञ्च कदाऽपि न परित्यजेत्॥
इति स्मृत्या महासङ्कटादौ केशव-दामोदरौ वा धारयेत्।
पञ्चखण्डे पद्माक्ष तुलसीदामानि धारयन्
इति ॥
पद्माक्ष-तुलसीधारणम्
आनन्द संहितायाम् –
श्रीकृष्ण-तुलसीकाष्ठ-मणिमालाङ्गले सदा
मालाभिर्भूषयेदङ्गं हरिभक्ति-समृद्धये।
दृष्ट्वामालाधरं विप्रं भूतप्रेतपिशाचकाः
याम्याश्चैव पलायन्ते सचपापैर्नलिप्यते
भुक्तिकालेजलोच्चारेऽप्यशुद्धस्सहभाषणे
दुष्प्रवेशेपिशुध्धस्स्यात् पृष्ठीकृत्वैवमालिकाम्
अस्मद्गुरुभ्यो नमः, अस्मत्परमगुरुभ्यो नमः, श्रीविखनसगुरुभ्यो नमः,
नमोगुरुभ्यश्रीमद्भ्यः परमेभ्यो नमो नमः
नमोगुरुभ्यस्सर्वेभ्यश्श्रीशादिभ्यो नमो नमः
श्रियैनमश्श्रीधराय नमो नारायणाय च
नमःपरस्मैपुंसे च परहंसस्वरूपिणे
श्री लक्ष्मीवल्लभारम्भां….. पराम्॥
गुरुपरम्परानुसन्धानम्
अनन्तरं स्वाचार्यमारभ्य, श्रीमन्नारायणपर्यन्तं निजगुरुपरम्परानुसन्धानं कुर्यात्। तत्प्रकारम् –
वन्दे श्रीराघवाचार्यं श्रीरङ्गार्यमतः परम्
श्रीनिवासं नरहरिं गोविन्दार्यं वसन्तकम्
अनन्तङ्कृष्ण-भट्टार्यं श्रीमत्सुन्दरराजकम्
नृसिंहभट्टवर्यञ्च भास्करं वाजिपेयिनम्
वरदं वेङ्कटं रङ्गं कृष्णं गोविन्दनामकम्
रामाचार्यं राघवञ्च नरसिंहञ्च केशवम्
नारायणं भृगुमुनिं मरीचिं चात्रि-काश्यपौ
वैखानसं श्रियं वन्दे श्रीशं गुरुपरम्पराम्
श्रीविष्णुं श्रीमहीयुक्तं शास्त्रं शेषं खगाधिपम् सुदर्शनाद्यायुधानि समस्तानि नमाम्यहम्
श्रियासमेत श्रीपरमहंस-स्वरूपिणे श्रीमते नारायणाय नमः। एवं गुरुपरम्परान्ध्यात्वा ॥
सन्ध्यावन्दनप्रकारः
नवनीते –
उत्तमा तारकोपेता मध्यमालुप्ततारका
अधमासूर्यसहिता प्रातस्सन्ध्यात्रिधामता
सङ्गमेमध्यमासन्ध्या मध्याह्नेचोत्तमास्मृता
अधमा ह्यपराह्णे तु सन्ध्यमाध्याह्निकी-त्रिधा
उत्तमा सूर्यसहिता मध्यमालुप्ततारका
अधमा तारसहिता सायंसस्ध्यात्रिधामता
पादौ प्रक्षाल्य, द्विराचम्य, त्रिः प्राणानायम्य,
श्री गोविन्द गोविन्द गोविन्द श्रीभगवदाज्ञयाभगवत्कैङ्कर्यरूपं प्रातस्सन्ध्यामुपासिष्ये। भगवतो बलेन…. तद्भगवाननुमन्यताम्।
इतिसात्त्विकसङ्कल्पङ्कृत्वा “आपोहिष्ठा” इतिमन्त्रस्य,
सिन्धुद्वीपऋषिः। गायत्रीछन्दः। आपो देवता प्रोक्षणार्थे विनियोगः।
सदर्भपाणिना, आग्नेयतीर्थेन, आपोगृहीत्वा, सदर्भदेवतीथेन
शिरसिसप्त-प्रोक्षणं, एकमधः, एकम्परिषेचनम्
इति।
दीक्षितीये –
आपोहिष्ठादिभिर्मन्त्रैः शिरस्सप्ताथ विप्रुषः
यस्यक्षयायेत्यधस्तात् क्षिप्त्वाद्भिः परिषेचयेत्
इति
मन्त्रः –
आपोहिष्ठामयोभुवः। तानऊर्जेदधातन। महेरणाय चक्षसे। योवश्शिवतमोरसः तस्य भाजयतेहनः। उशतीरिवमातरः। तस्मा अरङ्ग मामवः। [[TODO: परिष्कार्यम्]]
इतिशिरसि “यस्यक्षयायजिन्वथ” इत्यधः, जान्वोर्वा। “आपोजनयथाचन” इति प्रदक्षिणं परिषिच्य, “सूर्यश्च” इति मस्त्रस्य।
अग्निऋषिः। गायत्री छन्दः। सूर्योदेवता। अपाम्प्राशने विनियोगः।
देवेनापोगृहीत्वा
मन्त्रः –
सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्। यद्रात्र्यापापमकार्षम्। मनसावाचाहस्ताभ्याम्। पद्भ्यामुदरेणशिश्ना। रात्रिस्तदवलुम्पतु। यत्किञ्चदुरितम्मयि। इदमहं माममृतयोनौ। सूर्येज्योतिषिजुहोमिस्वाहा। [[TODO: परिष्कार्यम्]]
इत्यपः पीत्वा. पुनराचम्य।
“दधिक्रावण्ण” इति मन्तस्य,
वामदेव-ऋषिः, अनुष्टुप्छन्धः, विश्वेदेवादेवताः, अपाम्प्रोक्षणे विनियोगः
मन्त्रः –
दधिक्रावण्णो अकारिषम्। जिष्णोरश्वस्यवाजिनः। सुरभिनो मुखाकरत्। प्रण आयूगंषि तारिषत्। आपोहिष्ठामयोभुवः……आपोजनयथा च नः [[TODO: परिष्कार्यम्]]
इतिपूर्ववत् प्रोक्षणं, परिषेचनं च कृत्वा
अर्घ्यप्रदानमस्त्रस्य।
विश्वामित्रऋषिः। गायत्री-छन्दः। सवितादेवता। निं बीजम्। यं शक्तिः। नः प्राणः। यात् कीलकम् । अर्घ्यप्रदाने विनियोगः। तत्सवितुः ब्रह्मात्मनेहृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। ह्मात्मनेभर्गोदेवस्य रुद्रात्मने शिखायैवषट्। धीमहि सत्यात्मने कवचाय हुं धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् परब्रह्मणे अस्त्राय फट्
आदित्याभिमुखोभूत्वा तद्गतान्तर्विलोचनः
वेदसारम्परञ्ज्योतिर्मूलभूतम्परात्परम्
चिन्तयेत्परमात्मानं अप ऊर्ध्वं विनिक्षिपेत्
इति देवेनाञ्जलिना गृहीत्वा गोशृङ्गमात्रमुद्धृत्य, जलमध्येजलङ्क्षिपेत्।
दीक्षितीये –
येनतीर्थेन गृह्णीयात्तेनतीर्थेन निक्षिपेत्
“गोशृङ्गम्” इति देवलः।
अर्घ्यप्रदाने विप्राणामीषन्नम्रशरीरिणाम्
चूचुकाग्रसमौ हस्तौ गोशृङ्गमितिकीर्त्यते
अङ्गुष्ठतर्जनीयोगे राक्षसीमुद्रिकास्मृता
राक्षस्यामुद्रयादत्तं रुधिरार्घ्यसमम्भवेत्
मन्देहानां विनाशार्थं गायत्र्यार्घ्यत्रयन्ददेत्
एकं शस्त्रास्त्रनाशाय ह्येकं वाहननाशने
असुराणां वधायैकं दद्यादर्घ्यत्रयं शुचिर्
इत्युक्तरीत्या गोशृङ्गमात्रमुद्धृत्य, किञ्चिन्नम्रशिराः, उद्गतपार्ष्णिः, अङ्गुष्ठतर्जनीयोगं विना, जलमध्ये देवतीर्थेनाञ्जलिना गायत्र्या त्रिवारमर्ध्यमूर्ध्वङ्क्षिप्त्वा, प्राणानायम्य,
अस्त्रोपसंहारार्थं, कालातीतार्थं च तुर्यार्घ्यप्रदानं करिष्ये।
अस्त्रोपसंहारमहामन्त्रस्य,
ब्रह्मा ऋषिः, गायत्री छन्दः। परमात्मादेवता, अस्त्रोपसंहारे विनियोगः।
ब्रह्मन्विवस्वते कर्मदायिने विश्ववेधसे
जगत्पवित्रशुचये सवित्रेभास्वतेनमः
उत्तिष्ठ; देव, गन्तव्यं पुनरागमनायच
प्रसीद; देवदेवेश प्रविश्यहृदयं मम
इति ध्यात्वा, गायत्र्या पूर्ववदर्घ्यमेकन्दत्वा, जलाद्बहिः “असावादित्यो ब्रह्मा” इति आत्मप्रदक्षिणं कुर्यात्,
तदादित्यमण्डलप्रदक्षिणं भवति
इति श्रुतिः तत आचम्य,
केशवन्तर्पयामि…… दामोदरं तर्पयामि, आदित्यन्तर्पयामि…… केतुन्तर्पयामि,
इति सन्तर्प्याचम्य, कृष्णार्पणमस्तु, अञ्जलिना जलं गृहीत्वा, जपस्थलं गायत्र्याप्रोक्ष्य,
नवनीते –
सन्ध्यास्थाने शतगुणं गृहेचैकगुणम्भवेत्
अग्नौशतगुणम्प्रोक्तमनन्तं विष्णुसन्निधौ
भाष्ये –
अश्वत्थ-बिल्वमूल-गोष्टेषु शुद्ध-स्थलेवाकुर्यात्।
इति दीक्षितीये –
चत्वारिंशत्पदादूर्ध्वं पुनस्सन्द्या विधीयते
अष्टाशीतिपदादूर्ध्वं पुनस्सन्द्येतिकेचन
इति
भाष्ये –
दर्भासने दारवे कृष्णाजिने व्याघ्रचर्मणि रत्नकम्बले वस्त्रेवा, आसने विष्णोः स्थानमसि
इति मन्त्रोच्चारणपूर्वकं स्थित्वा
अन्तरितगोरक्षोऽन्तरिता अरातय
इति रक्षोघ्नमन्त्रञ्जप्त्वा, पूर्वोक्तासने कूर्मरूपन्ध्यात्वा, प्रातस्तिष्ठन्, मध्याह्ने तिष्ठन्नासीनो वा, सायमासीन एव, उत्तरीयं यज्ञोपवीतवद्धृत्वेत्युक्तरीत्याजपङ्कुर्यात्।
अस्मद्गुरुभ्यो नमः। श्रीविखनसगुरुभ्यो नमः।
श्रीलक्ष्मीवल्लभारम्भा… परम्पराम्।
आसनमन्त्रस्य।
पृथिव्याः मेरुपृष्ठऋषिः। सुतलञ्छन्दः। कूर्मरूपी श्रीमन्नारायणो देवता। कुं बीजम्। मं शक्तिः। फट् कीलकम् । आसनशुद्ध्यर्थे विनियोगः। केशवाय अङ्गुष्ठाभ्यां नमः……
इत्यादि द्वादशनामभिः अङ्गन्यासं, करन्यासं च कृत्वा, कूर्मचक्रं लिखेत्॥
कूर्मासनलक्षणम्
भार्गवे –
चतुरश्रं लिखेच्चक्रं मुखे ह्रीङ्कारमेव च
पृष्ठे मन्मथबीजञ्च चतुष्कोणेषुतारकम्
अन्तर्वृत्तं सपद्मञ्च वृत्तमष्टदलन्तथा
एवङ्क्रमेण संलिख्य कूर्मचक्रं प्रकीर्तितम्
प्रथममष्टदल-सहित-वृत्तं विलिख्य, तन्मध्ये प्रणवं, क्षं, हंसस्सोऽहं हुं फट् सम् इम् ईम् उम् ऊं स्फ्यों, कुं, एवम्मध्ये विलिख्य, तद्दलेषु प्रागादि स्वरयुग्मं विलिख्य, तद्बहिः अष्टदलसहितं वृत्तमन्यद्विलिख्य, तद्दलेषु, “अकचटतपयश” इति तत्तद्वर्ग-प्रथमाक्षरं विन्यस्य, तद्बहिः मातृकावृत्तद्वयं विलिख्य, तन्मध्ये परितः अकारादिक्षकारान्तं विलिख्य, तद्बहिश्चतुर्द्वारयुतं चतुरश्रं विलिख्य,
मुखे ह्रीं कारं, पृष्ठे मम्
इति मन्मथबीजं, चतुष्कोणेषु तारकं, अष्टदिक्षु दिक्पालकबीजान्, मन्त्रयन्त्राख्यगायत्रीद्वयमन्तर्मुखं विलिख्य, इति दशाङ्ग-सहितं कूर्मचक्रं ध्यायेत्-
ध्यानम् –
तन्मध्योज्ज्वलकर्णिकं स्वरयुगैराविर्भवत्केसरम्
वर्गोल्लासवसुच्छदं वसुमतीगे हेनसंवेष्टितम्
ताराधीश्वरयज्ञवारिविलसद्दिक्कोण-ताराङ्कितम्
यन्त्रं सर्वमनोहरं परिवृतं वर्णैरविघ्नं परम् ॥ अशेषजगदाधारमनन्तं कूर्मरूपिणम्
आसनस्य विशुद्ध्यर्थमात्मानं तं भजे हरिम्
इति पीठे विलिख्य, तस्मिन् पीठार्चनङ्कृत्वा, तस्मिन्नासीनः,
भगवदाराधनं जपादिकं कुर्यात्
इति - एतद्रहस्यमाचार्यमुखेनैवज्ञातव्यम्॥
पृथ्वि, त्वयाधृतालोकाः…….अच्युताज्ञया॥
अपसर्पन्तु भूतानि पृधिव्यन्तरवासिनः।
अस्माकमविरोधेन ब्रह्मकर्मसमारभे॥
अं, आधारशक्यै नमः, अनन्तासनाय नमः, कूर्मासनाय नमः।
प्राणानायम्य,
भगवदाज्ञाकैङ्कर्यरूपं प्रातस्सन्द्यावन्दनजपं करिष्ये।
अप उपस्पृश्य
भगवतो बलेन……… अनुमन्यताम्
इति सात्विक-सङ्कल्पं कृत्वा,
प्रणवस्य ऋषिः ब्रह्मा। देवी गायत्री छन्दः। परमात्मा देवता।
भूरादिसप्तव्याहृतीनाम् अत्रिभृगुकुत्सवसिष्ठगौतमकाश्यपाज्ञीरसाऋषयः। गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्ति-त्रिष्टुब्जगत्यश्छन्दांसि, अग्निवाय्वर्कवागीश-वरुणेन्द्र-विश्वेदेवादेवताः।
ॐ भूः पादयोः। ॐ भुवः जान्वोः। ओँ सुवः कट्याम्। ॐ महः नाभौ, ॐ जनः हृदये, ॐ तपः कण्ठे, ओँ सत्यं ललाटे,
इतिसप्तव्याहृतीः सप्तस्थानेषुविन्यस्य, “भूर्भुवस्सुवरोम्” इति दिग्बन्धः ॥
ध्यानम् –
विष्णुं भास्वत्किरीटाङ्गदवलय(यु)गलाकल्पहारोदरार्चिश्
(श्रो) शोणीभूतं स्ववक्षोमणिमकुटमहाकुण्डलैर्मण्डिताङ्गम्
हस्तोद्यच्छङ्ख-चक्राम्बुजगदममलं पीतकौशेय-माशा विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि
इतिध्यात्वा, प्राणायामत्रयङ्कुर्यात् ।
प्राणायामप्रकारः
अनामिका कनिष्ठेद्वे अङ्गुष्ठं च तृतीयकम्
त्रिभिर्नासापुटम्बद्ध्वा प्राणायामञ्चरेद्भुधः
प्राणायामस्तु विज्ञेयो मध्यमान्तर्जनींविना
तर्जनीन्तु सकृत्सृष्ट्वा जपन् शूद्रसमोभवेत्
प्राणायामो द्विविधः, “सगर्भः, अगर्भश्च” इति। विष्णुध्यानपूर्वकस्स गर्भः। ध्यानरहितः अगर्भकः। तयोस्सगर्भ एवश्रेष्ठः तत्र तु
रेचकः पूरकः कुम्भकश्च इति।
भार्गवे –
उदराद्रे च येद्वायुं रेचनात्सतुरेचकः
बाह्येनवायुनामूर्ध्नि पूरयेत्सतुपूरकः
न मुञ्चति न गृह्णाति वायुमन्तर्बहिस्थितम्
सम्पूर्णकुम्भवत्तिष्ठेदचलस्सतुकुम्भक
इति
इळया रेचयेद्वायुं पूरयेत्पिङ्गळाख्यया
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह
त्रिः पठेदायतप्राणः प्राणायामस्सउच्यते
मात्राकालः –
न द्रुतं न विलम्बञ्च जानुङ्कृत्वा प्रदक्षिणम्
अङ्गुलिस्फोटनङ्कुर्यात्समात्राकाल उच्यते
अथवा “ॐ नम” इत्युच्चार-कालो वा। षोडशमात्राकालो रेचकः। द्वात्रिंशन्मात्राकालः पूरकः। चतुष्षष्ठि मात्राकालः कुम्भकः। तादृशकुम्भके विष्णुस्मरणपूर्वकं प्राणायामत्रये कृते स एकप्राणायामः। एवन्त्रिः प्राणानायम्य।
आयात्वित्यनुवाकस्य,
वामदेवऋषिः। अनुष्टुप्छन्दः। परमात्मादेवता।
मन्त्रः –
आयातुवरदादेव्यक्षरं ब्रह्म-सम्मितम्। गायत्रीं छन्दसांमादेदं ब्रह्मजुषस्वनः। ओजोसि सहोसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः। सर्वमसि सर्वायुः। अभिभूरों - गायत्रीमावाहयामि। सावित्रीमावाहयामि। सरस्वतीमावाहयामि। [[TODO: परिष्कार्यम्]]
सावित्र्या ऋषिः विश्वामित्रः। देवीगायत्री छन्दः। परमात्मा सविता देवता॥
गायत्र्याः चतुर्विंशत्यक्षरमुद्रादेवता स्थानान्याचार्यमुखेन ज्ञातव्यानि।
ॐ तत्सवितुः अङ्गुष्ठाभ्यां नमः। वरेण्यं तर्जनीभ्यां नमः । भर्गोदेवस्य मध्यमाभ्यां नमः। धीमहि अनामिकाभ्यां नमः। धियोयोनः कनिष्ठिकाभ्यां नमः। प्रचोदयात् करतल-पृष्ठाभ्यां नमः।
एवं हृदयादिन्यासः। “भूर्भुवस्सुवरोम्” इति दिग्बन्धः
ध्यानं पूर्वाह्णे –
गायत्रीं,रक्ताभां कुमारीं सुधृतकुण्डलाक्षमालां कमण्डलु-हस्तां, कनकपीठासनस्थां हंसारूढां ब्रह्मदैवत्याम्। भूलोकव्यवस्थितां, ऋग्वेदसहिताम् आदित्य-पथगामिनीम्
एवं ध्यात्वा ।
काशस्तुरौद्रो विज्ञेयः कौशम्ब्राह्मं तथास्मृतम्
ध्यात्वा ।
यो देवस्सवितास्माकं धियोधर्मादिगोचराः
प्रेरयेत्तस्ययद्भर्गस्तद्वरेण्यमुपास्महे।
ततः हृदय-कमलकर्णिकामध्ये वासुदेवं नारायणमनामयं चतुर्भुजं शङ्ख-चक्रगदाधरं, किरीटकेयूरादि विभूषणान्वितं, श्रीवत्सवक्षसं पूर्णचन्द्रनिभाननं, पद्मनिभेक्षणम्। पद्मोदरगलाभोष्ठम्। शुचिस्मितम्। शुद्धस्फटिकसङ्काशम्। पीतवाससमच्युतं, पद्मच्छविपाणि-पादतलं, परमात्मानमीश्वरं, प्रभामयं पुरुषोत्तमं सर्वभूत-हृदिस्थितं, देवेशं मनसावलोक्य, प्रणवमेकपदं, व्याहृतिमेकपदं, चतुर्विंशत्यक्षरा त्रिपदागायत्री, एवं, व्यस्तपञ्चपदं यथा तथा नासाग्रस्थेक्षणः तुलसीपद्माक्षमालिकया यथाशक्तिजपेत्।
दशभिः कालजनितं शतेन तदहर्निशम्
सहस्रान्मुच्यतेपापाद्गायत्री हन्तिकिल्बिषम्
यावद्दर्शनमर्कस्य तावद्वादशवाजपेत्
इति पराशर-स्मरणात्॥
नवनीते –
अच्छिन्नपादागायत्री ब्रह्महत्यां प्रयच्छति
छिन्नपादातुगायत्री ब्रह्महत्यां व्यपोहति
पद्माक्षतुलसीकाष्ठैः फलमक्षयमुच्यते
अथवा
प्रारभ्यानामिकायास्तु मध्यमेपर्वणि क्रमात्
तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु
प्रातर्नासासमङ्कुर्यान्मध्याह्ने भुजयुग्मयोः
सायं नाभिसमङ्कुर्याज्जपहस्तस्यलक्षणम्
अधोहस्तस्तु पैशाचमूर्ध्वहस्तस्तुदैवतम्
बद्धहस्तस्तु गान्धर्वं मध्यहस्तस्तु राक्षसम् जकारो जन्मविच्छेदः पकारः पापनाशनः
जन्मकर्महरो यस्मात्तस्माज्जप इति स्मृतः
त्रिविधो जपयज्ञस्यात्तस्य भेदं निबोधत
यदुच्चनीचस्वरितैश्शब्दैस्स्पष्टपदाक्षरैः
मन्त्रमुच्चारयेद्वाचा वाचिकोयं जपस्स्मृतः
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् अपरैरश्रुतङ्किञ्च दुपांशु जप ईरितः
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम्
शब्दार्थ-चिन्तनं भूयः कथ्यते मानसोजपः
त्रयाणाञ्जपयज्ञानां श्रेष्ठस्यादुत्तरोत्तरः
सम्पुटा च षडोङ्कारा भवेतामूर्ध्व-रेतसाम्
न कदाचिज्जपेत्प्राज्ञः गायत्रीमुदकेजपेत्
प्रतिग्रहादन्नदोषात्पातकादुपपातकात्
गायन्तं त्रायते यस्माद्गायत्रीप्रोच्यते बुधैः
एवञ्जप्त्वा यथाशक्ति सावित्रीन्तु समाहितः
देवार्चने जपे होमे स्वाध्याये श्राद्धकर्मणि,
स्नाने दाने तथा ध्याने प्राणायामास्त्रयस्त्रयः
जपक्रमः – मालिकाभावे अनामिका मध्यमपर्वमारभ्य तर्जनीमूलपर्वपर्यन्तं प्रादक्षिण्य क्रमेण गणयन्नेवोत्तरीयान्तरितहस्तो जप्त्वा, त्रिः प्राणानायम्य
प्रातस्सन्ध्यावन्दन-जपोपस्थानं करिष्ये
इति सङ्कल्प्य, उत्तरीयं कट्याम्बद्ध्वा, उत्तम इत्यनुवाकस्य,
वामदेवऋषिः, अनुष्टुप्छन्दः, गायत्री देवता।
मन्त्रः –
उत्तमेशिखरेदेवि भूम्याम्पर्वतमूर्धनि। ब्राह्मणेभ्योह्यनुज्ञानं गच्छदेवियथासुखम्। [[TODO: परिष्कार्यम्]]
मित्रस्येतिमन्त्रस्य,
विश्वामित्रऋषिः; अनुष्टुप्छन्दः। बृहतीदेवता।
मन्त्रः –
मित्रस्यचर्षणीधृतश्रवो देवस्य सानसिम्। सत्यञ्चित्रश्रवस्तमम्। मित्रोजनान्यातयत्रि प्रजानन्मित्रो दाधारपृथिवीमुतद्याम्। मित्रः कृष्टीरनिमिषाभिचष्टे सत्यायहव्यं घृतवद्विधेम। प्रसमित्रमर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षतिव्रतेन। न हन्यते न जीयते त्वोतोनै नमँहो अश्नोत्यन्तितो न दूरात्॥ [[TODO: परिष्कार्यम्]]
उदितार्कां प्रपद्येहमिन्द्राणीं वेदमातरम् सन्ध्यां वै सर्वदैवत्यां प्रणम्यपरमेश्वरीम्।
ॐ सन्ध्यायै नमः। सावित्र्यै नमः। गायत्र्यै नमः। सरस्वत्यै नमः इन्द्राय नमः ……. ईशानाय नमः।
दक्षिणामुखः। प्राचीनावीती
पितृभ्यो नमः। …… ज्ञातिवर्गपत्नीभ्यो नमः।
उपवीती - उदङ्मुखः
ब्रह्मणे नमः। सप्तऋषिभ्यो नमः। सप्तऋषिपत्नीभ्यो नमः। गुरुभ्यो नमः। गुरुपत्नीभ्यो नमः। नारायणाय नमः।…… दामोदराय नमः। कामोकार्षीन्मन्युरकार्षीन्नमो नमः।
इति नमस्कृत्य,
अभिवादये ……. अहमस्मिभो।
कायेन वाचा……. समर्पयामि।
श्रीकृष्णार्पणमस्तु
मरीचि(ः) –
सन्ध्यावन्दन जपमन्त्राणाम् ऋषिच्छन्दो देवता-ज्ञात-विषये, सामान्येन
अन्तर्यामी ऋषिः। गायत्री छन्दः। परमात्मा देवता।
इति स्मृत्वाजपेत्। जपमध्ये शूद्रान्त्य-पतित-श्वादि दर्शने। आचम्य, पुनर्जपेत्। सम्भाषणे स्नात्वा पुनर्जपेत्।
आर्द्रवासास्तुयः कुर्याज्जपहोमप्रतिग्रहम्
सर्वन्तद्राक्षसं विद्याद्बहिर्जानु च यत्कृतम्
उष्णीषीकञ्चु की नग्नो मुक्तकेशो गलावृतः
अपवित्रकरो विप्रो प्रलपन्नजपेत्क्वचित्
आलस्यं जृम्भणं निद्रां जपकाले विवर्जयेत्
एतेष्वेवावसक्ते तु यद्यागच्छेद्द्विजोत्तमः
अभिवाद्य ततो विप्रं योग-क्षेमं न चार्चयेत्
श्रीमदष्टाक्षर-मस्त्रजप-प्रकारः
प्राणानायम्य।
भगवदाज्ञाकैङ्कर्य-रूपं श्रीमदष्टाक्षर-महामन्त्र-जपं करिष्ये।
श्रीमदष्टाक्षर-महामन्त्रस्य।
बदरिकाश्रमवासी श्रीमन्नारायण ऋषिः। अनुष्टुप्छन्दः। श्रीमन्नारायणो देवता। अं बीजम्। आयुशक्तिः। मं कीलकम्। ह्रीं कवचम्। ऐम् अस्त्रम्। शुक्लो वर्णः। उदात्तादिः स्वरः। श्री वैकुण्ठभुवनं क्षेत्रम्। जीवपरयोस्स्वस्वामिभावस्सम्बन्धः। श्रीमन्नारायणप्रीत्यर्थे जपे विनियोग ः। ॐ अङ्गुष्ठाभ्यां नमः। नमस्तर्जनीभ्यां नमः। नारायणाय मध्यमाभ्यां नमः। ॐ अनामिकाभ्यां नमः। नमः कनिष्ठिकाभ्यां नमः। नारायणाय करतलकरपृष्ठाभ्यां नमः।
एवं हृदयादिन्यास ः।
ध्यानं –
सव्यं पादं प्रसार्य (र्या) श्रित दुरितहरं दक्षिणं कुञ्चयित्वा
जानुन्याधाय सव्येतरमितर-भुजं नागभोगे निधाय
पश्चाद्भाहुद्वयेन प्रतिभटशमने धारयन् शङख-चक्रे
देवी भूषादिजुष्टो जनयतु जगतां शर्मवैकुण्ठनाथः
इति ध्यात्वा। गायत्री समस्यङ्ख्याकमष्टाक्षरं जपेत् (मूलमन्त्रम् आचार्यमुखेन ज्ञातव्यम्)
द्वादशाक्षर-महामन्त्रजप-प्रकारः
(अस्यश्रीमत्) द्वादशाक्षर-महामन्त्रस्य
साध्यनाम ऋषिः। गायत्री छन्दः। परमात्मा वासुदेवो देवता। अं बीजम्। श्रीं शक्तिः। नमः कीलकम्। भगवत्प्रीत्यर्थे जपे विनियोगः।
ॐ अङ्गुष्ठाभ्यां नमः। नमस्तर्जनीभ्यां नमः। भगवते मध्यमाभ्यां नमः। वासुदेवाय अनामिकाभ्यां नमः। ॐ कनिष्ठिकाभ्यां नमः। नमः करतलकरपृष्ठाभ्यां नमः। भगवते हृदयाय नमः। वासुदेवाय शिरसे स्वाहा। ॐ शिखायै वौषट्। नमः कवचाय हुम्। भगवते नेत्रत्रयाय वौ षट्। वासुदेवाय अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः।
ध्यानम् –
भगवन् सर्वभूतस्थं सर्वभूत-प्रतिष्ठितम्
वासुदेवं जगद्योनिं नौमिनारायणं हरिम्
इति ध्यात्वा मूलमन्त्रः आचार्य-मुखेन ज्ञातव्यः -
द्वयमन्त्रः –
श्रीमन्नारायण चरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः।
इति
शरणागति-श्लोकः
सर्वधर्मान् परित्यज्य…….मा शुचः॥
इति
प्रपत्तिमन्त्रान् श्लोकांश्च। सकृज्जपेत्। प्रपत्तिमन्त्रार्थाः। श्री लक्ष्मी-विशिष्टाद्वैत-भाष्ये जिज्ञासाधिकरणान्ते प्रपञ्चिताः। प्रपत्ति-प्रकारः। भट्ट-भास्करीय-मन्त्रप्रश्नान्तर्गत-खिलऋङ्मन्त्रभाष्ये अष्टम-प्रश्नादौ भगवदाराधनयोग्यता-सम्पादनार्थं प्रदर्शितः। सोपिवक्ष्यते। श्रीनिवास-दीक्षितीय-पारमात्मिक-भाष्ये प्रपत्ति-मन्त्रत्रयार्थ उक्तः
मरीचि-सप्ताशीति-पटले अर्चिरादिमार्गे। अधातोर्चिरादिमार्गं व्याख्यास्यामः। अपुनरावृत्ति-हेतुभूत-निवृत्ति-कर्मणा-परब्रह्मोपासनात् प्रपत्त्यादिमार्गरतो जीव इत्याद्युक्तं, किञ्च
आत्रेये ज्ञानप्रकरणे –
नारायण नमस्तेस्तु करुणात्मन् दयानिधे
पाहिमां कृपया देव भक्तं ते भक्तवत्सल॥
मम कर्मवशाज्जातो नानायोनिषु मूढधीः
कर्मक्षयादहम्प्राप्तस्तवपादाब्जपत्तनम्॥
अद्यप्रभृति दासोऽहं देव देव जगत्पते
जन्म मा भूज्जगन्नाथ देव देव जनार्दन॥
संसारार्णव-मग्नस्य त्वत्पादाब्जं विनागतिः नान्यदस्ति समुद्धर्तुं मृत्यु-संसार-सागरात्॥ मदीय-धनदारादि सर्व-भारस्समर्पितः
आत्मानं शेषभूतं हि रक्षमां शरणागतम्
इति
पञ्च-श्लोका उक्ताः। तस्मादवश्यमाचार्यमुखेन प्रपत्तिं कारयित्वा। तदर्थं तन्मुखेन ज्ञात्वा। प्रतिदिनमनुसन्दधीत। एतन्मंत्रार्थरहस्यमपि आचार्य-मुखेन ज्ञातव्यम्॥
देवर्षि-पितृ-तर्पण-विधिः
द्विराचम्य।
देवर्षि-पितृतर्पणं करिष्य
इति सङ्कल्प्य। अप उपस्पृश्य। पूर्ववत् जलस्थलेष्वासीनः कौरुक्षेत्रमिति जलं नमस्कृत्य
मन्त्रः –
कौरुक्षेत्रं पुण्यं जपति, कुरुक्षेत्रं वेदिक्षेत्रं ब्रह्मक्षेत्रं, प्रजापतिक्षेत्रमृषिक्षेत्रं जम्बूक्षेत्रं सम्मितं परिमितँ शयनं दयनं मध्वग्रं मधुशाखं पूति प्लक्षाणाकमसि स्थानमसि विराट्स्वराट् सविराट् सम्राट्पारि प्लवनं सौमनसं सुस्थानं सुगन्धिनित्यं कुरुक्षेत्रे वसताम्॥ [[TODO: परिष्कार्यम्]]
महाव्याहृत्या जलमभिमन्त्र्य
मन्त्रः –
भूरग्नये च पृथिव्यै च महते च नमः। भुवोवायवे चान्तरिक्षाय च महते च नमः। सुवरादित्याय च दिवे च महते च नमः। भूर्भवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च नम [[TODO: परिष्कार्यम्]]
इति।
सूत्रम् –
हस्तेन तलतीर्थक्रमेण कूप्याभ्य इति स्वाहान्तं तर्पयति
इति
मन्त्रः –
कूप्याभ्यस्स्वाहा कूल्याभ्यस्स्वाहा विकर्याभ्यस्स्वाहा अवट्याभ्यस्स्वाहा खन्याभ्यस्स्वाहा ह्रद्याभ्यस्स्वाहा सूद्याभ्यस्स्वाहा सरस्याभ्यस्स्वाहा वैशन्तीभ्यस्स्वाहा पल्वल्याभ्यस्स्वाहा वर्ष्याभ्यस्स्वाहा अवर्ष्याभ्यस्स्वाहा ह्रादुनीभ्यस्स्वाहा पृष्ट्वाभ्यस्स्वाहा स्यन्दमानाभ्यस्स्वाहा स्थावराभ्यस्स्वाहा, सर्वाभ्यस्स्वाहा, अद्भ्यस्स्वाहा नादेयीभ्यस्स्वाहा, सैन्धवीभ्यस्वाहा, समुद्रियाभिस्स्वाहा, नादेयीभ्यस्स्वाहा वहन्तीभ्यस्स्वाहा परिवहन्तीभ्यस्स्वाहा समन्तं वहन्तीभ्यस्स्वाहा शीघ्रं, वहन्तीभ्यस्स्वाहा शीभं वहन्तीभ्यस्स्वाहा उग्रं वहन्तीभ्यस्स्वाहा भीमं वहन्तीभ्यस्स्वाहा अम्भोभ्यस्स्वाहा नभोभ्यस्स्वाहा महोभ्यस्स्वाहा सर्वस्मैस्वाहा॥ [[TODO: परिष्कार्यम्]]
इति देवतीर्थेन पूर्वदिशि गोशृङ्गमात्रमुद्धृत्य तर्पयेत्
सूत्रम् –
दक्षिणपाणेर्मध्यतलमाग्नेयं, कनिष्ठाङ्गुलिमूलं दिव्यं, सर्वाङ्गुलिमूलाग्रमार्षं, प्रदेशिन्यङ्गुष्टयोर्मध्ये पैतृकं, अङ्गुष्ठस्य मूलं ब्राह्मम्
इति। ततो देवेनापोगृ हीत्वा भूपत्यादि पञ्चमन्त्रैरञ्जलिमध्यगतसाक्षतब्राह्मतीर्थेन तर्पयेत्
भूपतिं तर्पयामि भुवनपतिं त…मि भूतानां पतिं त….मि प्राजापतिं त….मि ब्रह्माणं त.. मि
पूर्ववद्देवेन पूर्वस्यां नारायणादीन् पञ्च तर्पयेत्
नारायणं तर्पयामि। महादेवं त….मि स्कन्दं त.. मि। विघ्नं त..मि। विनायकं त..मि।
इति।
सूत्रम् –
ततो यथा दिशं तन्नामादिनां दिग्देवतास्तर्पयति
इति।
इन्द्रं त… मि। ईशानं त.. मि। आदित्यं तर्पयामि। सोमं त…मि। केतुं त..मि। ग्रहां स्त… मि। नक्षत्राणि त…मि। ताराँ स्त… मि। विश्वान् देवां स्त..मि। सर्वाश्च देवतास्त… मि। वेदां स्त .. मि। यज्ञाँ स्तर्पयामि। छन्दांसि त.. मि।
अत निवीती, आर्षेण साक्षततीर्थेन उत्तरस्यां तिर्यक् स्वगोत्रादि सप्तर्षिंस्तर्पयति।
विखनसं त… मि। काश्यपं त….मि। विश्वामित्रं त…मि। जमदग्निं त .. मि। भरद्वाजं त.. मि। गौतमं त….मि। अत्रिं त….मि। वसिष्ठं त.. मि। भृगुं त… मि। सर्वानृषींस्त…मि। सर्वर्षिपत्नीस्त.. मि।
प्राचीनावीती। सतिलपितृतीर्थेन दक्षिणा मुखः । अथस्तर्पयति, ऊर्मोदकान्ते मार्जयन्तां मे पितरस्सोम्यासः। असौ आपः।
पितृभ्यस्वधानमस्त .. मि। पितामहेभ्यस्स्वधानमस्त…मि। प्रपितामहेभ्यः स्वधानमस्त….मि। ज्ञातिवर्गेभ्यस्स्वधानमस्त… मि। पितृपत्नीभ्यस्स्वधानमस्त…मि। पितामहपत्नीभ्यस्स्वधानमस्त…मि। प्रपितामहपत्नीभ्यस्स्वधानमस्त…मि। ज्ञातिवर्गपत्नीभ्यस्स्वधानमस्त…मि।
अथ निवीती अप उपस्पृश्य। उत्तरस्यामारेण तिर्यक्।
भौमांस्त… मि। भौमदिव्यास्त….मि, नागांस्त…मि, नागदिव्यांस्त… मि,
अथ प्राचीनावीती पूर्ववत् जलाद्बहिस्थले, यावन्तो जलार्थिनस्तावन्तः प्रतिगृहन्त्वित्यपो विसृज्य उपवीत्याचम्य।
धृतवस्त्र-निष्पीडन-विधिः
वस्त्रं चतुर्गुणीकृत्य प्राचीनावीती दक्षिणामुखः।
येकेचास्मत्कुले जाता अपुत्रा गोत्रजामृताः
ते गृह्णन्तु मयादत्तं वस्त्र-निष्पीडनोदकम्
इति
वस्त्र-निप्पीडनं कृत्वा, वामप्रकोष्टे तन्निक्षिप्य, उपवीत्याचम्य, स्नान-वस्त्रं मन्त्रेण नेनेक्तीति।
मन्त्रः –
आ दशात्सूदितं मधूदितं महोदितम्
इति वस्त्रं निर्णेजनं कृत्वा। द्विराचम्य
सूत्रम् –
शुद्धदेशे बर्हिरास्तीर्य ब्राह्ममासनमास्थाय पवित्रपाणिः ब्रह्माञ्जलिं कृत्वा प्राङ्मुखस्सावित्री पूर्वं नित्यमिषेत्वोर्जेत्वादि यथा कामम्। नैमित्तिकम् ऋतं सत्यञ्च देवकृतस्ययने गर्भे तरत्समन्दी। वसोः पवित्रं जातवेदसे विष्णोर्नुकं सहस्रशीर्षन्त्वमग्ने रुद्रः आत्वाहार्षं त्वमग्ने पवस्वादीन् स्वाध्यायमधीयीत। सौरीभिऋग्भिर्यथाकाममादित्यं चोपतिष्टेत
इति।
दीक्षितीये मनुः –
ब्रह्माञ्जलि-कृतोऽध्याप्यो लघु वासाजितेन्द्रियः
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिस्स्मृतः
स्मृतिरत्नावल्यां –
सव्यस्य पाणेरङ्गुष्ठप्रदेशिन्योस्तु मध्यतः
दक्षिणस्याङ्गुलीर्न्यस्य चतस्रोङ्गुष्ठ-वर्जिताः
तथा सव्यकराङ्गुष्ठं दक्षिणाङ्गुष्ठ-वेष्टितम्
सदर्भहस्तो जानूर्ध्वे दक्षिणे दक्षिणोत्तरम् कृत्वा जानुनिकर्तव्यमेतत्कर्म करोमि यत्
तिथिवारादिकं स्मृत्वा सुसङ्कल्प्य यथा विधि
स्वमानसेन वाचावासोस्तु सङ्कल्प उच्यते
प्रणवं व्याहृती चैव गायत्रीं च जपेत् क्रमात्
पच्छोऽर्थर्चश उच्चार्य वेदादींश्चतुरो जपेत्
हरिरोमिति निर्दिश्य यत्कर्म क्रियते बुधैः
अधीय ते वा राजर्षे तद्दि वीर्योत्तरं भवेत्॥
इति
श्रुतौ –
दक्षिणोत्तरौ पाणी पादौ कृत्वा, सपवित्रावोमिति प्रतिपद्यत
इति किञ्च, ब्रह्मयज्ञेन यक्ष्ये “विद्युदसि”
प्राङ्मुखस्सावित्री पूर्वं ब्राह्ममासीन स्वाध्यायीमधीयीत
इति ।
ब्रह्मयज्ञक्रमः
द्विराचम्य, शुद्धेदेशे बर्हिरास्तिर्य ब्राह्ममासनमास्थाय हस्तद्वये उभयपवित्रपाणिः प्राङ्मुखमासीनः
भाष्ये –
ऊरुद्वयं भूमाववस्थाप्य वामजङ्घोपरि दक्षिणपादमास्थाप्य। ब्रह्माञ्जलिं कृत्वेति। ब्रह्मणे कृतोञ्जलिस्तं मुकुलितहस्तं कृत्वा
इति भाष्ये
दीक्षितीये –
एवं ब्राह्मासनमास्थाय त्रिः प्राणानायम्य। दक्षिण-जानुनि वामहस्तन्न्यस्य वामहस्तस्याङ्गुष्ठ-प्रदेशिन्योर्मध्ये तर्जन्यादि दक्षिण-हस्त-चतुरङ्गुलीर्न्यस्य तथैव वामकराङ्गुष्ठं सयज्ञोपवीतदक्षिणकराङ्गुष्ठवेष्ठितं कृत्वा, ब्रह्मयज्ञेन यक्ष्य
इति सङ्कल्प्य.
मन्त्रः –
हरिः ॐ - विद्युदसि विद्यमे पाप्मानमृतात्सत्यमुपैमि - ॐ भूः तत्सवितुर्वरेण्यम्। ॐ भुवः भर्गोदेवस्य धीमहि। ओँ सुवः धियो योनः प्रचोदयात्। इति पच्छः…. (पदश इत्यर्थः)। ॐ भुवः तत्सवितुर्वरेण्यम्। भर्गो देवस्य धीमहि। ओँ सुवः धियो योनः प्रचोदयात्। इत्यर्थर्चशः। ओँ सुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो योनः प्रचोदयादितिव्यस्ताम्। ॐ भूर्भुवस्सुवः। तत्सवितुर्वरेण्यम्। भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्।
इति समस्तामद्याप्य।
हरिः ॐ। हरिः ॐ। इषेत्वोर्जेत्वा वायवस्त्सोपायवस्त्सदेवो वस्सविताप्रार्पयतु श्रेष्ठतमायकर्मणे। [[TODO: परिष्कार्यम्]]
हरिः ॐ हरिः ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम् [[TODO: परिष्कार्यम्]]
हरिः ॐ, हरिः ॐ, अग्न आयाहि वीतये गृणानो हव्य दातये। निहोता सत्सि बर्हिषि। [[TODO: परिष्कार्यम्]]
हरिः ॐ, हरिः ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरभिस्र वन्तुनः। [[TODO: परिष्कार्यम्]]
हरिः ॐ इषेत्वोर्जेत्वा वायवस्त्सोपायवस्त्सदेवोवस्सविताप्रार्पयतु श्रेष्ठ तमायकर्मण आप्यायध्व मघ्निया देव भागमूर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मावस्तेन ईशतमाघशँसो रुद्रस्य हेतिः परिवो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि। [[TODO: परिष्कार्यम्]]
हरिः ॐ हरिः ओम्। यथाकाममध्यापयेदिति।
अत्र मनुः –
ब्रह्मयज्ञे जपन् सूक्तं पौरुषं चिन्तयन् हरिम्
स सर्वान् जपते वेदान् साङ्गोपाङ्गान् द्विजोत्तम
॥इति॥
तस्मात्पुरुषसूक्तमवश्यञ्जप्त्वा
वृष्टिरसि वृश्चमे पाप्मानमृतात्सत्यमुपागाम्
इत्युक्त्वाचामेत्।
स्मृत्यन्तरे –
अथ काण्डऋषी नेतानुदकाञ्जलिभिश्शुचिः
अव्यग्रस्तर्पयेन्नित्यं मन्त्रैरेवाष्टनामभिः
इत्युक्तत्वात्ततः प्राणानायम्य “काण्डर्षितर्पणं करिष्य” इति सङ्कल्प्य, पूर्ववज्जलस्थलेष्वासीनो जानुदघ्नजले वा स्थित्वा। निवीती उत्तराभिमुखः आर्षेण तीर्थेन उत्तरस्यां तिर्यक्
सावित्रं काण्डऋषिं तर्पयामि। सदसस्पतिं त…मि। प्रजापतिं काण्डऋषिं त.. मि। सद… मि। सोमङ्काण्डऋषिं त…मि। सदसस्पतिं…मि। अग्निङ्काण्डऋषिं…मि। सदसस्पतिं त…मि। विश्वान् देवान् काण्डऋषीग् स्त….मि। सदसस्पतिं त… मि। ब्रह्माणं काण्डऋषिं त….मि। सदस…मि। शुक्रियं काण्डऋषिं त….मि। सदस….मि । ऋग्वेदं त…..मि। यजुर्वेदं त…मि । सामवेदं त…मि । अथर्वणवेदं त…मि । ऋक्स्कन्दं त….। यजुस्कन्दं त… मि। सामस्कन्दं त…मि। अथर्वस्कन्दं त….मि। इतिहास पुराणां स्त….मि। अघाघातां स्त…..मि। नाराशँसीस्त…मि। सांहितीर्देवता उपनिषदस्त….मि। याज्ञिकीर्देवता उपनिषदस्त….मि। वारुणीर्देवता उपनिषदस्त….मि । तृप्यत तृप्यत तृप्यत। आचम्य।
मन्त्रः –
भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा भगवतः कर्मणा भगवतानुगृहीतो भगवतानुध्यातो
प्रातस्सन्ध्यावन्दनाख्यं भगवत्कर्म कृतवान् तद् “भगवाननुमन्यताम्” इति सात्विकत्यागं कुर्यात्।
अशक्त-स्नानविधिः
रोगादिना अवगाहस्नानाशक्त-विषये
सूत्रम् – अशक्तो नित्यं पादौ प्रक्षाल्याचम्य, अतो देवादि वैष्णवञ्जप्त्वा, दिव्यं वायव्यमाग्नेयं मन्त्रस्नानं वा कृत्वा, पूर्ववदाचमनादीनि कुर्यात्। पादिविच्युतैर्गाङ्गेयैराधापैस्सातपैर्वर्षैर्वा सेचनं दिव्यं गवां पादोद्दतैः वायुनीतैः पांसुभि स्पर्शनं वायव्यम्। भस्मना शुद्धेन सर्वाङ्गमालेपनमाग्नेयम्। “आपो हिष्ठा” इति मन्त्रेण आग्नेयेन तीर्थेनाभ्युक्षणं मन्त्रस्नानम्।
अत्र भाष्ये विशेषः मन्त्रस्नाने –
भुविमूर्ध्नि तथाकाशे मूर्ध्न्याकाशे तथा भुवि
आकाशे भुविमूर्ध्निस्यादापोहिष्ठादि मन्त्रतः
भुविमूर्ध्न्याकाशे प्रथमम् मूर्ध्न्याकाशे भुवि द्वितीयम् । आकाशे भुवि मूर्ध्नि तृतीयम्। एवम् “आपो हिष्ठा” इति मन्त्रेण तुलस्यादि पवित्रस्थलादाहृतयामृदासह त्रिः प्रोक्षणम्। मन्त्रस्नानं भवति । शङ्खचक्र-गदाधरस्य विष्णोः पादाङ्गुष्ठ-विनिस्सृतामृतधारयास्नातोहमिति यत्। तन्मानसिक-स्नानमुत्तमोत्तमं भवति। एतेष्वेकं वा स्नानङ्कृत्वाचम्यपूतो भवति। ततः नित्यनैमित्तिककर्मार्हस्स्यात्। अत्र
धर्मप्रश्नभाष्ये – आतुरस्य व्याधिग्रस्तस्य नैमित्तिके स्नाने प्राप्ते दशकृत्वो द्वादशकृत्वो वा तं आतुरं स्पृष्ट्वा अनातुरः स्वार्थपरस्सन् ब्राह्मणः जले अवगाह्य, स्नात्वाचम्य तं स्पृशेत्। तस्य स्पर्शनादातुरः पूतो भवति स सर्वकर्मार्हो भवति।
अग्नितप्तास्तु या आपश्शक्तानान्तु न पावनाः
अशक्तानां पावनास्स्युरिति धर्मेषु निश्चिताः
एवं विधिना स्नात्वाचम्य धौतं परिधाय यथा विधि कर्मकुर्यात्।
उत्तमन्तु नदीस्नानं तटाके मध्यमं स्मृतम्
कूप-स्नानं निकृष्टं स्यात् भाण्डस्नानं वृथा वृथा
पूर्वालाभे परङ्ग्राह्यं पूर्वसिद्धे तु नापरं
नित्यौपासन-विधिः
सूत्रम् –
दशमप्रश्ने। स्नात्वा सहभार्यो गृह्याग्निषु गार्ह्याणि। श्रौताग्निषु श्रौतानिकुर्यात्
इति ।
दीक्षितीये - स्मृति-रत्नावल्यां –
गतं वित्तमदानेन गता नारी निरङ्कुशा
ब्रह्मस्वेन गतो राजा निरग्निर्ब्राह्मणो गतः
याज्ञवल्क्यः –
द्वादशाहमनग्निस्तु सन्द्याहीनस्तथैव च
शूद्र एव भवेद्विप्रश्चतुष्पादेषु जायते
तस्माद्विप्रस्यौपासनमावश्यकमिति
तण्डुलस्य शृतात्पूर्वमुपस्थानं न कारयेत्
कारयेद्यदि मूढात्मा तत्कर्म विफलं भवेत्॥
इति
सूत्रम् –
नित्यं यवैर्व्रीहिभिर्वेत्युक्तत्वात्। यवादीनां शृतानन्तरमुपस्थानं कुर्यादिति। सूर्योदयप्रभृति षड्घटिकापर्यन्तमभिगमनकालक्रमोयमभिहितः।