गुरुस्तुतिः
लक्ष्मी-चारुकुचद्वन्द्व-कुङ्कुमाङ्कित-वक्षसे
सर्गस्थित्यन्त-लीलाय वेङ्कट-ब्रह्मणे नमः॥
श्रीलक्ष्मीवल्लभारम्भां विखनोमुनिमध्यमाम्
अस्मदाचार्य-पर्यन्तां वन्देगुरुपरम्पराम्॥
देवराजदयापात्रं धीभक्त्यादिगुणार्णवम्।
भृग्वादि-मुनिभिर्मान्यं वन्दे श्रीविखनोमुनिम्॥
फालेदिव्योर्ध्वपुण्ड्रं करकमलयुगे शङ्खचक्रेसुहृद्ये
पाणिद्वन्द्वे परस्मिन्-सुललितवरदाभीतिमुद्रेचरम्ये
कण्ठेपद्माक्षमालां सुरभिलतुलसी-मालिकाञ्चोद्वहन्तं
वन्देनारायणस्यापरवर-वपुषं दिव्यवैखानसार्यम्॥
लक्ष्मीनारायणोरस्थल-फलकमभूद्यनु-नेर्जन्मभूमिः
साक्षाद्ब्रह्मापि यस्यावरपदमयतेयैश्च-भृग्वत्रिमुख्यैः
मान्यैरन्यैर्मुनीन्द्रेर्विखनसमुनिराड्योभवत्पुत्रवांस्तं
ध्याये पद्मत्रिदण्डादिभिरपिलसितं दिव्यवैखानसार्यम्॥
श्रीमन्नारायणं देवं श्रीमन्तं विखनोगुरुम्
भृग्वत्रिकाश्यपादींश्च प्रणम्यास्मद्गुरून्सदा॥ काश्यपान्वयसम्भूतश्रीरङ्गाचार्यनन्दनः,
वासुदेवाभिधोदासः श्रीनिवासस्य शासनात्॥
वैखानसेन कथितं सूत्रं भृग्वादि संहिताः॥
नृसिंहवाजपेयैश्चकृतं श्रीनिवास-दीक्षितैः॥
समालोढ्य सुसङ्गृह्य किञ्चित्तत्राह्निकामृतम्॥
वैखानसानां तनुते सुखबोधाय साम्प्रतम्॥
वैखानसामहीदेवास्सूत्रभाष्यादिसिन्धुजम्।
मथितं वासुदेवेन पिबन्त्वद्याह्निकामृतम्॥
ग्रन्थ-प्रारम्भः
स्वसूत्रे नवम-प्रश्ने चतुर्थखण्डे
धर्म्यं सदाचार-मित्यादि।
मरीचि-सप्ततिपटले
अधातोनुष्ठान-कल्पं व्याख्यास्यामस्सर्वे वैदिकाचारास्त-पोयज्ञाश्च विष्णुपूजाविधेर्भेदास्तस्मात् वैखानस-सूत्रोक्तानुष्ठानं सर्वं समाचरतीत्यादि।
श्रीनिवास-दीक्षितीये - अधस्व-कृत-पूर्व-पुण्यविशेषात्, श्रीमन्नारायणैकशेषत्वेनाभिहितानां गर्भवैष्णवनाम्नां श्रीवैखानसानामितर-सूत्रिणामपि चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं भगवदाराधन-रूपत्वेनाभिहितानां चरितक्रियाज्ञानयोगाख्य निष्काम-कर्मणा-मनुष्ठान-योग्यता-सम्पाद-नाङ्गभूत-स्नानाद्यनुष्ठान-क्रमः प्रारभ्यते। वाजपेयभाष्ये नवमप्रश्ने, चतुर्थखण्डे धर्म्यमित्यादि नूत्रविवरणे
ब्राह्मेमुहूर्ते उत्थायात्मनोहितं विष्णुस्मरणं कृत्वेत्यादि।