विस्तारः (द्रष्टुं नोद्यम्)
source: śrī vaikhānasa mantra praśnaḥ
publisher: Sangendhi Dr. S. Muthu Batter & Thanjavur Dr. S. Sudarshan
script: grantha
मन्त्राः
धा॒रा॒सु॒ स॒प्त॒सु॒ च मा॑नसे॒षु सरःसरित्सु परिपू॑रिते॒षु।
अपोऽभिगृह्णन् प्रतिपा॑दयि॒ष्ये गृणोमि धत्ताँ सुचिरँ॑ सुश॒र्म।
(इ॒दमापः॑ शिवाः।)
इ॒दमापः॑ शि॒वाः शि॒वत॑माः शा॒न्ताः शा॒न्तत॑माः॒ शुभाः॒ शुभ॑तमाः॒ पू॒ताः पू॒तत॑माः पुण्याः
पुण्य॑तमा॒ मेध्या॒ मेध्य॑तमा अ॒मृता॑ अ॒मृत॑रसाः। पू॒ता ब्र॑ह्म प॒वित्रे॑ण पू॒ताः सूर्य॑स्य र॒श्मिभिः॑।
सु॒पु॒ण्या॒हं क॑रोमि। स्व॒स्ति सुप्रोक्षि॑तमस्तु।
प्र॒जाप॑तिः प्रीयताम्। प्री॒य॒तां प्र॑जाप॒तिः॥ **
** प्रीयतां भगवान् प्रजापतिः इत्यपि पाठः
शाम्य॒न्तु घो॑राणि। शाम्य॒न्तु पा॑पानि। शाम्य॒न्तु ई॑तयः।
शु॒भानि॒ वर्ध॑न्ताम्। व॒र्धन्तां शु॑भानि।
अतो॑ दे॒वा अ॑वन्तु नो॒ … विष्णो॒र्यत् प॑र॒मं प॒दम्॥
सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च।
बृह॒स्पति॑ प्रसूतो यज॑मान इ॒ह मारि॑षत्।
शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नाँ॒ शुचिँ॑ हिनोम्यध्व॒रँ शुचि॑भ्यः।
ऋ॒तेन॑ स॒त्यमृत॒साप॑ आय॒ञ्छुचि॑ जन्मानः॒ शुच॑यः पाव॒काः।
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सनि॑रस्य॒ प्रियँ॑ सत्।
द्र॒वि॒णो॒दा वी॒रव॑ती॒ विष॑ण्णो द्रविणो॒दा रा॑सते दी॒र्घमायुः॑।
स॒वि॒ता प॒श्चाता॑त् सवि॒ता पु॒रस्ता॑त् सवि॒तोत्त॒रात्ता॑त् सवि॒ताऽध॒रात्ता॑त्।
स॒वि॒ता नः॑ सुवतु स॒र्वतातिं सवि॒ता नो॑ रासतां दी॒र्घमायुः॑।
नव्हो॑ नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मेत्यग्रे॑।
भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा॑स्तिरति दी॒र्घमायुः॑।