+नृसिंहः

Source: TW

श्री वाजपेयीय माध्यसङ्ग्रह–: प्रनः } } अथ प्रथमः पटलः (अथ प्रथमः खण्डः) । प्रायश्चित्तं व्याख्यास्यामः । प्रायस्य चितं विनष्टकर्मणः सन्धानम् । विनाशशव्दपर्याय- प्रायशब्दोऽकारान्तः प्रसिद्धः । चित्तशब्दः सन्धानार्थकः, सुडागमः । अभिमुखमासीनः • होमकाले कर्ता यस्यां दिश्यासीनः कर्म करोति तदिमुखमासीनः । सर्वस्या- दावाधारे - आधारे अकृते । क्रियालाप - आधाराङ्गिकायाः कस्याश्चिकि- याया लोपे । विपर्यासे - विपरीताचरणे । प्रमाणवर्जिते - हीने – तत्तदुक्त- प्रमाणरहिते । संवेषां सम्माराणामभावे एकैकस्य वा सम्भारस्याप्यभावे वैपरीत्ये च। ऋत्विोरभावे । एकस्याभावे विद्यमानं ब्रणं वृत्वा सोमस्थाने कूर्चे नियात् । कूर्चावृविन सङ्कल्प्य स्वयमेव तत्तन्मन्त्रोच्चारणादिकं कृत्वा तन्त्तत्कर्म कुर्यात् । सर्वं युम्ममित्यादि । ’ मयि देवादिभिश्चतुर्भिर्दर्भानुक्षयेत्’ इत्यादौ सर्वं बर्हिः, प्रत्येक युग्मं - युगलं द्वौ द्वौ चतुरश्चतुरो वा । परिस्तरण - वर्हिषः परिधीच, सर्व परिमार्जन परिषेचनं कुण्डस्य स्थण्डिलस्य प्राच्यामुदीच्याञ्च । वाशब्दश्चार्थे । अग्रम् - परिस्तरणादीनां वर्हिषां परिधीनाञ्चाग्राणि । अन्तान्- अदितेऽनुमन्यस्वेत्यादि मार्जन, उद्धन्यमानमित्या सुलेखनञ्च । दैविके यत्तत्पैतृक वैपरीत्येनेत्युक्तं भवति । ब्रह्मसोमकूर्ची उत्पवनपविते प्रणिधिपवित्रे च वर्षिष्ठसमिधा- 1 समिधा आधाराहुती युक्तोवहाबाहुतयश्च यथोक्तं दैविक पैतृकयोः समाना- ग्रान्तवन्तः, न वैपरीत्यम् । तेषां सर्वदा दैविकत्वेनैव निर्वाहात् । होमे न्यूनातिरिक्ते चेति । हीने - सङ्ख्याहीने तत्तदाहुतिप्रमाणादिहीने, सङ्ख्याधिके आहुतिप्रमाणाधिक्ये च । विशेषे अनुक्ते – अनेन जुहुयादिति पात्रविशेषेऽनुक्ते तत्र सुवण होमः कर्तव्यः । हविप्यन्नादिद्रव्यविशेषेऽनुक्ते आज्यमेव होमद्रव्यम् । आज्यञ्च गव्यमाजमाविकं माहिषं वा घृतं यथालाभम् । एतेषाञ्चाला मे शुद्धेन तैलेनाज्यमिश्रेण अन्नेन यवाग्वा पैष्टिकेन क्षीरेण दना तण्डुलैः अन्येन वा महोत्रहविषा श्रौतोक्तेन द्रव्येण । मन्त्रानुतौ व्याहृतिर्मन्त्रः । पिपीलिका- दीति । आदिशब्देन सर्वे स्वेदजाः शलभादयश्च गृह्यन्ते । मार्जारादिगमने 117 । ९३० श्री श्रीनिवासमखिकृत- तात्पर्य चिन्तामणिसहितम् 1 तत्पदानि - पादनिक्षेपणस्थानानि । परिस्तरणादिदाहे – कार्त्स्न्येन दाहे, यत्र कुत्रचिद्दा वा । मेदे - इतस्ततो व्यत्ययेन चालिते । छेदे - कृत्ते । नाशे- सर्वनाशे, अलब्धे वा । तत्तत्स्थाने संयोज्य । सर्वनाशे पुनरन्यद्गृहीत्वा उक्तस्थाने निदध्यात् । भेदादौ तदेव यथापूर्व निदध्यात् । सर्वेषां होमानां न्यूनातिरेकक्रियालोपविपर्यासादौ अन्तहोमप्रायश्वितोत्ताहुतीः विष्णोर्नुकादिमिन्दा- हुत्या श्रावितादीन् हुत्वा व्याहृती महाव्याहृती- गायत्री सावित्रीं मिन्दाहुती वैष्णवञ्च चतुरावर्त्य दोषगौरवे जुहुयात् । लाघवे सकृज्जुहुयात । अथवा वैष्णवमिदविष्णुरित्येकाचं व्याहृतीश्च जुहुयात (इति प्रथमः खण्डः) ।

  • । (अथ द्वितीय खण्ड) आहुः केचिद्वदन्ति । सूत्रकारमतमन्यदिति पूर्वमेवोक्तम् । स्वभार्यायामित्यादि । चतुर्थेऽहनि उतहोमं कृत्वा गच्छेत् । चतुर्थेऽहन्यसम्भवे षोडशसु रात्रिषु एकस्यामृतुसङ्गमनं विधीयते । तत्राकरणे प्रायश्चित्तम् । पुत्रहीनायां - बन्ध्यायां, मृतप्रजायां वा । नान्यथा । पतिव्रता- पत्युः शुश्रूषां व्रतं यस्यास्सा । साध्वी साधुगुणा सर्वां सिद्धि - स्वर्गापवर्गी तस्मात पुरुषार्थसाधनोद्दिष्टाम् । दुष्टां - अननुकूलाम् । दैविकेन सहैका हे पैतृक वत्कृते च - दैविकेन कर्मणा सह एका हे संस्काराचरणदिन एव कृते । साधारण-. श्राद्धबुद्ध्या पैतृकवत्कृते च । पूर्वेद्युः - संस्करणदिनात्पूर्वस्मिन् दिने । यद्यपर- रात्रौ वां संस्कारकरणं, तदह्नि पूर्वाह्न वा यथासमुदाचारं दैविकवत्कुर्यात् । उद्यतं वा ददाति - ब्राह्मणभोजनं कर्तुमशक्तः होमं हुत्वा, आम दद्यात् । Tartart होमं कृत्वा यस्मै कस्मैचिद्राह्मणाय हिरण्यं शरावपूर्ण मोदनं वा दद्यात् । पूर्वेद्युरेवं कर्तुमशक्तः त्वरान्वितः शक्तो वा सद्यः पृथगेव होमं हुत्वा ब्राह्मणभोजनार्थमानं हिरण्यं वा दद्यात् । एवं नान्दीमुखं कृत्वा तदानीमेव ‘या सुगन्धा’ दिना कुम्भारिभिषेचनं प्रोक्षण वा कृत्वा तत्तत्कर्मणि प्रवर्तेत । तथा श्रौते सूत्रकारः । ‘दूर्वाक्षतयुक्तोद कुम्भं निधाय पूर्ववदैविकं पैतृकच हुत्वा तदानीमुद कुम्भाद्धि’ ‘या सुगन्धा रसा’ इति यजमानमभिषिच्य पुण्याई वाचयति’ इति । ( इति द्वितीयः खण्डः) इति प्रथमः पटलः । श्रीवर सासूत्रम् अथ द्वितीय- पटल (अथ तृतीयः खण्डः गर्भवत्कृत्वा - गर्भाकार सुवर्णेन कारयित्वा कार्यान्ते सौवर्ण वस्तु ब्राह्मणेभ्यो दद्यात् । विष्णुबलिः कर्तव्यः । सकाले कालेऽतीते वा अवश्यं प्रत्येक कर्तव्यः । विधिप्रत्ययवला- दत्यन्तावश्यकत्वं ज्ञायते । ‘गर्भे माष्टमे विष्णुबलि कुर्याद्यथाविधि । नारायणः स्वयं गर्भे मुद्रां धारयये निजा’ मित्यादि भगवच्छास्त्रवचनानि द्रष्टव्यानि । ‘यस्य मे श्रिय’ मित्यादि श्रुतयश्च तैरुपाता गाताः । पूर्वपूर्वस्य गर्भाधानादे- कालातिपन्नस्य उत्तरोत्तरेण पुंसवनादिना सहाचरणं युक्तम् । तदसम्भवे प्रसवकाला पूर्वं वा कर्तव्यम् । तत्राप्यसम्भवे जातकर्मादिभिस्सह गर्भ- संस्काराः कर्तव्याः, ‘गर्भाधानादि चौरकान्तेषु हीनेषु तन्त्रयित्वा एकहो कुर्याचे’ दित्युत्तरत्र वक्ष्यमाणत्वात् । पितुरौपासनाम्नौ पितुरिति गर्भस्थशिशुमुद- श्योच्यते । तन्पिता - शिशोः पितामहः । योनिबन्धु- - शिशोः मातुः पित्रादिः । अन्येषु संस्कर्तृषु ‘यजमानस्य पत्नी अनेन कर्मणा संस्कारप्या’- मीति सङ्कल्पः । एकस्मिन् प्रथमे गर्भे कृताः अकृताश्च संस्काराः प्रतिगर्भ कर्तव्या इति केचिदन्ति । नैतत्साधु । ( इति तृतीयः स्वण्डः) , ( अथ चतुर्थः खण्डः ) आशौचं विधीयते । श्रोत्रियस्याहिता मेरे काह- माशमनाहिताश्रोत्रियस्य त्रिरात्रमन्येषां दशरात्रमिति केचिद्वदन्ति । चतुर्थे दशरात्रन्तु पञ्चमे षड़ात्रं सप्तमे पुस्तकं नास्तीति पराशरः (१) । सन्ध्यौ- पासनादीति । आदिशब्देन जपतर्पण ब्रह्मयज्ञ नित्योपासन वैश्वदेवा गृहमन्ते । स्वाध्यायो वेदाध्ययनमध्यापनं, दानमन्त्रदानादिकं तस्य प्रतिग्रहञ्च वर्जयनि । यावदाशीचं तावत् परित्यजेत् । ग्रहणे सम्प्राप्ते दानं कर्तव्यमिति केचित् । स्वानममन्त्रकं सर्वदा कर्तव्यमेव । अग्रिहोत्रादिनित्य होमकार्यमन्येन असपिण्डेन ब्रह्मचारिणा या कारयेत । ( इति चतुर्थः खण्डः ) इति द्वितीय- पटलः । 1 अथ तृतीय- पटल- (अथ पञ्चमः खण्डः) नक्षत्रहोमे हीने इत्यादि । हीन कर्मणि प्रथमं प्रायश्चित्तहोमं हुत्वा अतिकान्तहोममुत्तरेणसह जुहुयात् । दशमेद्वादशे वा मासे । पूर्वस्य उक्तस्यासम्भवे अन्यस्मिन् शुभे मासे कुर्यादिति वाशब्दार्थः । ( इति पञ्चमः खण्डः ) १३२ श्री श्रीनिवासमविकृत- तात्पर्य चिन्तामणिसहितम् ( अथ षष्ठः खण्डः ) सामान्यप्रायश्चित्तम् । मुख्यतया कर्तव्यविवान प्रायश्चित्तस्य पूर्वमुक्तमित्युक्तं भवति । सर्वेषां कालातीतसंस्काराणां इदं माय- श्चित्तं समानमित्यर्थः । विष्णोर्नुकादीन् द्विरावत्य प्रत्येकं हुत्वा पूर्ववत्तत्तत्कर्म कुर्यादिति केचित् । अथ वा इत्यादि । तत्र विकल्पोऽप्यस्तीति वदति । उपनयनं यावता कालेन क्रियते araar गर्भाधानादि चीलकान्ते वेकादशसु संस्कारेषु हीनेषु – अकृतेषु सत्सु तन्त्रयित्वा - उपनयनेन सह समुच्चित्य एकस्मिन्नेव उपनयनविहितप्रधान होमे कालातीतानपि कर्तुं शक्यत इति । चान्द्रायणम् । तच्च द्विविधं यवमध्यचान्द्रायणं, पिप्पलिमध्यचान्द्रायणमिति । तन्त्र प्रथमे यथा शुक्लप्रतिपदमारभ्य शिख्यण्डपरिमितैरे के कप्रासवृद्धया पौर्णमास्यन्तमाहारं भुखन् पुनः कृष्णपक्षप्रतिपदमारभ्य तद्वदेकैकमासहासेन चरन् अमावास्याया - मनश्नन् वर्तेतेति । तथा द्वितीये प्रतिदिन मध्याह्ने अष्टकवलान्, अथ बा नक्तं दिवा च चतुरश्चतुरः, अथवा एकस्मिन् दिवसें चतुरः परस्मिन् द्वादश- कवानश्नन् त्रतं चरेदित्युक्तरीतिः । प्रत्यहं मध्यन्दिने हविष्यानष्टी पिण्डान् भुक्ता यद्व्रतमाचरेत्तद्यतिचान्द्रायणं प्रतिदिनं प्रातश्चतुरः पिण्डान् अस्तमिते आदित्ये चतुरः पिण्डान् भुक्ता यच्चरति तच्छिंशुचान्द्रायणं प्रतिदिनं दिवैव त्रीन् पिण्डान् प्राश्य नियतात्मा यच्चरति तदृषिचान्द्रायणमिति । एतेषां मध्ये यत्ति- मपि तं पिता चरति । प्राजापत्यम् - कृच्छ्रविशेषः । तथा पञ्चमा सैरेकमुक्तं द्वादशमासैर्नक्तं चतुर्विंशतिग्रासैरयाचितं एकाहमुपवास इति पराशरोक्तप्रकारेण वा अन्येन वा एकभक्ताया चितोपवासरूपेण चतुरहस्साध्य- पादकृच्छ्रः । एवं त्रिगुणं प्राजापत्यं त्रिदिनमेकभक्तं त्रिदिन नक्तं त्रिदिनमयाचितं त्रिदिनमुपवास इत्येतत् प्राजापत्यमित्यापस्तम्बः । मनुश्च तथा वदति । एतत्प्रजापत्यं कृच्छ्रं पुत्रश्चरेत् । अशक्तो धेनुमाचार्याय दद्यात् । द्वादशसंरख्याब्राह्मणभोजनमेकमन्न- । त्रिगुञ्जाभिस्तुलित सुवर्णमिति तद्दानं सुवर्णकृच्छ्रम् । पशुः सवत्सा गौः । एतानि दानानि यथाशक्ति दद्यात् । गर्भाधानादीन् - आदिशब्देन तत्तत्कर्मनाम्ना सङ्कल्प्य आदिपरिषेकं परिसमाप्तौ अन्तपरिषेकं च कुर्यात् । आघारोऽन्तहोम- चैको भवति । इति तृतीयः पटल- ( इति षष्ठः खण्डः ) । श्रीखानगृह्यसूत्रम् ९३३ ( अथ सप्तमः खण्डः ) अथ चतुर्थः पटलः । मातुलादिषु - आदिशब्देन पितामहादयः स्वजनो गृह्यते । यश्शुचिः - पापरोगादिरहित- अपतितः शुद्धात्मा विद्वान् विधिज्ञवोच्यते । तेन योजयति - उपनीतं वतुं नाशयतीति तात्पर्यम् । अन्य ब्राह्मणम् - आचार्यलक्षणसम्पन्नं भजेत । व्याधीत्यादि - व्याधिरपस्तारादिः दुर्भिक्षं क्षामः । आदिशब्देन राजविद्यारादयः । अन्त्यजातौ - चण्डालादौ, न्यूने शूद्रे तथा अनुलोमप्रतिलोमादौ वा । समाश्रिते - तदन्नपानादिसङ्करे सति ब्राह्मणाननु-. ज्ञाप्य तैरुक्तं तदनुरूपकृछ्रादिप्रायश्चित्तं चरित्या, पशुभूम्यादीन् दत्वा - आदिशब्देन पापापनोदनोदितानि तिलपावादीनि गृह्यन्ते । दानानि ब्राह्म- णेभ्य- । ( इति सप्तमः खण्डः) 1 (अथ अष्टमः खण्डः) अभौ समिद्भिः जुहुयात् । उपनयनाभौ alearnt at पालाशीम : याभि- कामिव समिद्धिहोम्मः इष्टः । नित्यखान- विहीने - निमज्ज्य, शरीराधे निमज्ज्य नारायणं ध्यायन् केशवाद्यैर्नामभिः विष्णु- स्मरणं कुर्वन् ‘जुबकाय स्वाहेति मन्त्रसमुचितेन ऋतच सत्यचे’ त्यघमर्षण- सूक्तेन पापापनोदनं कृत्वा वासः परिघाय आचम्य ‘अतो देवा’ दिमन्त्रान् जपति । पुनस्सान्ध्यागमात् । एक इति मतान्तरम् । प्रातस्सन्ध्याहीने आमच्याहात्, माध्याह्निकहीने आसन्ध्यागमात् सायंसन्ध्याहीने परेद्युराप्रातस्सन्ध्यागमात् अनशनमभोजनं स्थित्वा पूर्ववत्नात्वा अतीतां सन्ध्यामुपास्य तात्कालिकी सन्ध्यामुपासीतेति । सन्ध्याकालेऽतीते पूर्ववत्सन्ध्यामुपास्त्य कालातिक्रमप्राय- चितार्थं चतुर्थमध्ये सप्तव्याहृतिभिरभिमन्त्र्य निक्षिपेदित्येके । तर्पणहीने इति । काले काले वा परेद्युर्वा द्विगुणतर्पणम् । प्रातस्समिद्ध मे इति । यथाहतदिति सर्व तन्त्रं सकृदेव कृत्वा मन्त्रावृत्त्या समिद्धोमं षोडशसमिद्भिः कुर्यात् । दिनद्वये । खानादाविति । आदिशब्देन स्नानसन्ध्योपासनतर्पणब्रह्मयज्ञसमिद्धोमेष्वन्यतमस्य सर्वस्य वा हीने चतुर्थेऽहनि पूर्ववत् खानजपार्दिकं कृत्वा तदद्मायुक्तप्रायश्चित्तं जुहुयात्। ( इति अष्टमः खण्डः ) • ( अथ नवमः खण्डः) प्रादकृच्छ्रम् । एकभक्तनक्तायाचितानशनत्रतेन चतुर्दिनसाध्यं प्रायश्चित्तं प्राजापत्यकृच्छ्रं तस्य चतुर्थो भाग- पादकृच्छ्रं तदशकौ ९३४ श्री श्रीनिवास मलिकृत- सात्पर्यचिन्तामणिसहितम् एकदिनमनशनं वा । ’ पाहिनो अम’ इत्यादिहोमः प्रायश्चित्तार्थम् । एवं पञ्चदशरात्रं नानादो हीने द्विगुणं मासहीने चतुर्गुणं प्रतिमासं प्राजापत्यकृच्छ्रं चतुर्गुणादिवृद्ध्या अवकीर्णप्रायश्चित्तञ्च कुर्यात् । ( इति नवमः खण्डः ) इति चतुर्थ- पटलः । अथ पञ्चमः पटल (अथ दशमः खण्डः ) पुनरुपनयनप्रयोगो वक्ष्यते । वपन मेखलेत्यादि । अश्माधिरोहण वस्त्रोत्तरीय यज्ञोपवीतधारण उपनयनाचार- शिक्षण सावित्र्युपदेशाश्च वर्ज्यन्ते (१) । मतान्तरमाह अथवेति । अथवा अशक्तौ । घृतं पाले सङ्गृह्य उत्पूय पर्यमिं कृत्वा सावित्रीमष्टोत्तरशतमावर्त्य जप्त्वा घृतं भक्षयेत् । तत्राप्यशक्ती गुरोरुच्छिष्टं वा भुञ्जीत । ततः शुद्धो भवति । उपनयनसंस्कारवान् भवति । ( इति दशमः स्वण्ड :) . ( अथ एकादश- खण्ड- ) पारायणवतेत्यादि । व्रतानां बन्धो विसर्ग- कः संस्कारः । चतुरावर्त्य हुत्वा – एवं प्रायश्चित्तं हुत्वा कालातीतानामक- तानाश्च वेदवतानां बधे विसर्गे व्रतकाण्डाध्ययनञ्च कुर्यात् । श्रावणहोममित्यादि । एवं प्रतिसंवत्सरमासमावर्तनात्कर्तव्यम् । त्रैवार्षिक मित्येके । ततः पश्चात् सहस्र- सावलीप- कार्य- (इति एकादशः खण्डः) । ( अब द्वादश- खण्ड- ) तस्मादासुरेणेत्यादि । ब्राह्मणस्य आसुराधा आपल्या नवन्ति । ततः प्रायश्चित्तस्मृतिः, ब्राह्मादिष्वेकेन विधिना पुनर्विवाह - स्मृतिश्च । अन्यथेति । कन्यागमनप्रायश्चित्तं मन्वादिभिरुक्तं सान्तपनकृच्छ्रं चरित्या गोमूहिरण्यादिदानानि दत्वा पूर्वोक्तनाशं त्रयस्त्रिंशदित्यादिप्रायश्चित्तं हुत्वा विधिवद्विवाहं करोति । ( इति द्वादश- खण्ड- ) इति पञ्चमः पटलः । अथ षष्ठः पटलः (अथ त्रयोदश- खण्ड- ) रजः प्राप्तौ - प्राप्तिशङ्काया- मथवा साक्षात् प्राप्तौ प्रलोभ्य तामाच्छाद्य अज्ञात्वा वा विवाहे निवृत्ते, पश्चात् ततो ज्ञाने कृच्छ्राचरणपूर्वकं प्रायश्वितं पुनर्विवाहश्व । तत्क्रियापरिसमाप्तौ सा वधूरशुचिर्भवतीति । ततन्त्रान्ते तां वधूं बहिर्विवहास्य चतुर्थेऽनि ऋतुखातया सह आयस्थालीपाक नित्यहोम वैश्वदेवान् यथाक्रमं कुर्यात् । ज्येष्ठ तिष्ठती- त्यादि । ज्येष्ठे अकृतविवाहे पराशरमतेन अपरिगृहीतामिहोले भकृतसोमे वा श्रीमानसूत्रम् स्थिते तं ज्येष्ठ परित्यज्य अनुजेन विवाहादों कृते मनुजः परिवेत्ता जेष्ठः परिवित्तिरिति उसी निन्दित भवतः । तदोषशमनार्थ अनुजः चान्द्रायणं चरेत् । हो अथवा पराशरमतेन परिवेत्ता तत् कृच्छ्रे याजकश्चान्द्रायणञ्च वरित्या graft याभ्याता भतिकृच्छ्रम् । माथि पूर्वमुक्तम् । (to त्रयोदशः खण्डः) (अथ चतुर्दश- खण्ड) परदेशगते त्यात अनूढ अने धर्मार्थयोः कृते देशान्तर गरे पुनःपुनः श्रमाणे हा । अत्र व्यवस्थामा वेसिष्ठादयः अनीत बहुशः श्रयमाणे हाणवर्षाः कचित श्रमाणे दाषः सर्व अश्रूयमाणे अष्टौ वर्षाः प्रोपियन वृद्धे षडर्षाः विच प्रतीक्षा- इति । उक्तकाले अनुजम्य विवाहे निश्धिते तन्मासात्मागेकस्मिन् काले ब्राह्मणाननुमान्य पूर्ववनानिदहन सपिण्डीकरणान्त- ans for मुपनयनाम ब्राह्मं वैष्णवमा माहुत्वा समावर्तन वा कुरुते । तम्मन् पुनरागते इति । ज्येष्टम्योक्तप्रायश्चित्तं विवाह कारयिला अनुजश्च प्रायश्चित्तपूर्वक पुनर्विवाह कुरुते । ब्रह्महत्या - रिति । आदिशब्देन महापातकानि कुष्ठादिमहारोगापामारोन्मादाग वैकल्य- वेश्यातिसङ्गादिदोषा उपलक्ष्यन्ते । अनुजः वान्यवसन्निधौ ज्येष्ठनिष्ठदोषान् निवेद्य तैरनुज्ञातः स्वयं वारिपूर्ण बटमादाय स्वस्य ज्येष्ठस्य चान्तरे भूम्यामुतक्षिप्य ज्येष्ठे त्यक्ता स्वयं विवाह कुरुते । यदि ज्येष्ठः कालान्तरे शुद्धो भवेत् तदा पूर्ववद्वयोः प्रायश्चितपूर्व पुनरसंस्काराः कार्याः । विवाहान्ते इत्यादि । औपास- { नारियां समिध्यात्मनि वा आरोप्य तर्मानं बघूच होमकालात् प्रागेव स्वगृहमानीय। उत्तरस्यां - इदमुपलक्षणम्। पूर्वस्यां वायव्यामन्यत्र वा उचिते देशे afari for mana यतिं मथित्वा लकि वा आरोग्य निदधाति । सोऽयममि- निलो धार्यः, यावज्जीवं धारयितुं संरक्षितुं योग्यः । तुहने । विवाहादिनादारभ्य frषेकसंस्कारात्प्रागेव आय- स्थालीपाकं वैश्वदेवं चकारादीपासनच कुर्यादित्येक वदन्ति । ( इति वतुर्दश- खण्डः) । श्री श्रीनिवासमखिकृत - नात्पर्यचिन्तामणिसहितम् ( अथ पञ्चदश- खण्ड- ) त्रीहिभिरमिहोत्रहचिया वा । श्रौते अग्निहोत हविर्द्रव्याण्युक्तानि । ’ क्षीरमाज्यं दधि यवागूः अन्नं तण्डुलाः पिष्टं सोमरस इति । ऐतेष्वन्यतमेन होम इष्टः । सायं होमे हीने इत्यादि । साथ होने हीने तहव्येण प्रातर्होमकाले अमये स्वाहा वैश्वानराय स्वाहा इति प्रायश्चिताहुती हुत्वा पूर्ववत् सायमाहुती जुहुयात् । प्रातहोन्ने हीने सायं होमकाले अग्नये स्वाहा पथिकृते स्वाहा इति प्रायश्चित्ताहुती हुत्वा प्रातराहुती जुहुयात् । इति षष्ठः पटल- (इति पञ्चदशः खण्डः) अथ सप्तमः पटलः (अथ षोडशः खण्डः) पूर्ववत् । जातवेदो भुवनस्येति मन्त्रो ज्ञाप्यते । यद्यरण्यामारोपितोऽस्त्यग्निः तं भथ लौकिकारण्यां वा मथित्वा यद्वा व्याहृत्या श्रोत्रियागारात् स्वगृहाद्वा आनीय पल्या सह प्राणानायम्य पुनराधानं करिष्य इति सङ्कल्प्य आधारं जुहुयात् । पूर्णाहुतीत्यादि । मन्त्रपरि- भाषापूर्वमुक्ता । व्याहृतीश्च चतुष्कृत्वः । आज्यग्रहणं कृत्वैव होतव्यम् । प्रत्येक- मित्युक्तेः । एता एवं पुनराधानाहुतय- पूर्णाहुत्याद्याः । पूर्ववदौपासनं - सायं- होमपूर्व हुत्वाऽन्तहोमं जुहोति । औपासनं धार्यमित्यादि । यजमानः नित्य- होमान्ते पाणिभ्यामरणी आदाय अमेरुपरि धारयन् अयन्ते योनिरिति प्रति- तप्यामि तत्राहरेत् । होमकाले प्राप्ते पुनस्तामरणिं प्राक्शीर्षं निधाय मथित्वा तममिं प्राप्ते निघाय होमं जुहुयात् । अथवा अरण्यारोपणाकरणे अशक्तस्तु ‘याते अमे’ इति स्वपाणी प्रतप्य तमूष्माणमात्राय आत्मनि स्वहृदये समारोप्य होमकाले तमभिमुपावरोहेति लोकिकामाववरोध्यं जुहुयात् । आत्मारोपिताभिः यजमानः, नाप्सु निमज्जेत् । स्त्रीशूद्रादिसम्भाषण परिवेषणादीन् वर्जयेत् । अत एवं कर्तुमशक्तः आधत्थखादिरपालाशानामन्यतमेष्वेका सायां समिध- मादाय उपावरोहेति यावदीषत्कृष्णवर्णा स्यात् तावत्सन्तप्यानि तत आरोपयेत् । लौकिकाम पूर्ववत् होमकाले समवरोप्य जुहुयात् । सूतकप्रेतकयोः ब्रह्मचारिणा स्वेन असपिण्डेनान्येन वा नित्यहोमः कार्यः । तदसम्भवे आशौचान्ते मथितममि समिधं वा लौकिकानाववरोप्य पूर्ववत्प्रायश्चित्तं द्वादशाहात्कृत्वा जुहोति । यद्यात्मन्यारोपितोऽग्निः, आशौचान्ते पुनराधानमेव । मासे विच्छिन्ने

इति । प्राजापत्यमिति । निवा मेनुमानिक त्र्यमुपवासं चरेदिति होमस्य द्रव्यं क्षणमुक्तन् । अशक्तः प्राजापत्यर्थ वरत/ व्यं यमाज्य प्रस्वमित धान्य स्थिति शाथ । एवं प्रतिसंवत्सरं प्रायश्विसमामरणानं कर्तव्यमेव । मरणानुर्विमपि व संस्कारकापायचित बागादि कुर्यात् । भ्रूणहा - भोग- याजिहनन । इति सप्तमः पटलः (इति गोडश- खण्ड- अथ अष्टम पटल (अथ सप्तदश खण्ड) सावित्रीपूर्व मित्यादि । सावित्रीपूर्वैः द्वादशसूक्तैः स्वाध्याय ब्रह्मयज्ञः नैमित्तिकः । सावित्रीपूर्वैः चतुर्वेदादिमन्त्रैः स्वाध्यायोऽन्न्यः – नित्यः । पकेनैवान्नेन पितृभ्यो बलिदान पितृयज्ञः । तथैव भृतयज्ञः । अतिथिभ्य इत्यादि । वैधदेवकाले उपस्थितेभ्यः अतिथिभ्योऽभ्यागतेभ्यः यथाशक्ति अन्नदानं तदलाने मिक्षामात्रमन्नं दीयते इति मनुष्ययज्ञः । रात्रावमन्त्रकमिति । समन्तकं होमं हुत्वा तूप्णी बलिहरणम् । ब्रह्मणे नमः इत्यादिना बलिदानम्। पती वा कुर्यात । प्रातर्मात वैश्वदेवमिति केचित् । ( इति सप्तदश- खण्ड- ) ( अथ अष्टादश- खण्ड- ) मासे वैश्वदेवे हीने प्राजापत्यं चरित्वा होमद्रव्यं ब्राह्मणेभ्यो दत्वा पूर्ववत् स्थालीपाकमवकीर्णप्रायश्चित्तञ्च कृत्वा वैश्वदेवं जुहोति । एवं षण्मासम् । षण्मासेऽतीते चान्द्रायणचरणपूर्व पूर्वमुक्तं प्रायश्चितं चरेत् । एवमासंवत्सरम् । संवत्सरे हीने पूर्ववत्प्राजापत्य चान्द्रायण प्रकृच्छ्राचरणं सर्वं कृत्वा वैश्वदेवं पूर्वोक्तवत् कुर्यात् । मलिलेनाक्षतैर्वैश्वदेवं कुर्यात् परिधानीयवत् । प्रवासे इत्यादि – प्रवासादौ ब्रह्मचारी गृहस्थो वानप्रस्थो वा आहिताग्मिरनाहिताभिर्विधुरो वा तत्तदम लौलिकामौ वा वैश्वदेवं जुहुयात् । जले वा जुहोतीति । अन्नेनैव । अमेः जलयोनित्वात् अन्नस्याभावे जले जलेन वैश्वदेवं कुर्यात् । वैश्वदेवान्ते यलेनेति — नियमेन अतिथिपूजनाशक्तौ प्रायश्चित्तं कुर्यात् । चतुर्थीत्रतक्रिया - निषेकसंस्कारः । पुन- धतुर्थीहोमं निषेककर्म च कुर्यात । (इति अष्टादश- race) 1 १३८ श्री श्रीनिवासमखिकृत- तात्पर्यचिन्तामणिसहितम् ( अघ एकोनविंश- खण्ड- ) पर्वणि स्थालीपके हीने इत्यादि । मासे हीने प्राजापत्यं षण्मासे चान्द्रायणं संवत्सरे तप्तकृच्छ्रं चरित्वा पूर्ववत्प्रायश्चित्तं कुर्यात् । ब्राह्मणान् - चतुरः । उद्यतं - शरावपूर्णमन्नम् । आज्यपक्काभ्यां प्रथममाज्येन प्रायश्चित्तं हुत्वा पश्चात्तेन पक्केन च प्रायश्चित्तमेव जुहुयात् । एवमाज्यचरुभ्यां आज्यमिश्रेण पक्केन वा वैश्वदेवादिहोमाञ्च यथोक्तं कुर्यात । संवत्सरे हीनं आग्रयणाष्टकयोः प्राजापत्यचरणं चरुपाकं प्रायश्वित्तहोमांश्च हुत्वा पुनः करणं विहितम् । एवं प्रतिसंवत्सरं द्विगुणवृद्धया कर्तव्यमेव । (इत्येकोनविंशः खण्डः) . 1 ( अथ विश- खण्ड- ) पिण्डपितृयज्ञे इत्यादि । षष्मासे हीने प्राजापत्यं संवत्सरे हीने प्राजापत्यद्वयमेव द्विगुणवृद्ध्या प्रायश्चित्तं कृत्वा पूर्ववत् पिण्ड - पितृयज्ञ मासिश्राद्धञ्च कुर्यात् । चैतीयज्ञविहीनं इत्यादि । संवत्सरेऽतीते प्रत्यब्द द्विगुणवृद्धिस्सर्वत्रोद्यः । एवं नित्यानां पाकयज्ञानामकृतानां प्रत्येकं प्रायश्चित्तं हुत्वा यावज्जीवं यजेत । द्वादशाहेऽतीते इति । एवं मासान्तं कर्तव्यम् । एवं द्विगुणादिवृद्धया संवत्सरान्तं प्रत्यन्दञ्च प्रायश्चितं हत्वा पूर्ववदय निवेदयेत् । इत्यष्टमः पटल (इति विंश- खण्ड- ) । )* अथ सप्तमः पक्षः अथ प्रथमः खण्डः अथ मृतसंस्कारप्रायश्चित्तम् ॥ १ ॥ जानकसंस्कारो मृतसंस्कारश्चेति द्वौ संस्कारों भवतः ॥ २ ॥ अथ प्रथमः पटलः । जातकसंस्कारो निषेकादिः, मृतसंस्कारों दहनादिः । पूर्वेणेमं लोकमपरेण परलोकं जयति ॥ ३ ॥ मृतसंस्कारः शरीरस्य दहन मित्याहुः ॥ ४ ॥ निर्दोषशरीराहुतिरग्नेः प्रियतमा भवति ॥ ५ ॥ तया आहुत्या स मृत देवलोकं गच्छति ॥ ६ ॥ मातापित्रोः पुत्रोऽन्यो भ्राता सपिण्डः सगोवः पितुर्मातुश्च योनिबन्धुः गुरुपिलिजो वा पन्याः पतिस्सुतः पत्युर्भ्राता सपिण्ड- सगोत्रः पितुर्मातुश्च योनिवन्धुर्वा पुत्रस्य पित्रादयो मृत्य शरीरं दाहयन्ति ॥ ७ ॥ * पुत्र औरसः अन्यो दत्तकादिः भ्रातृपुत्रा वा श्राता अनुजो ज्येष्ठो वा । सपिण्डो - ज्ञातिः । सगोत्र– एकगोत्रः । पितुर्मातुञ्च योनिवन्धुः - पितु- मतुर्वा योनिबन्धुः । गुरुः- निषेकादिकृत् । शिन्योऽन्तेवासी । ऋत्विक्- यज्ञे आर्त्विज्यं कुर्वाणः मातापितरौ दाहयति । वा शब्दो विकल्पार्थः । पत्न्याः - मृतस्य भार्यायाः । पतिरित्यादि - पूर्ववत् । स्त्रियं मृतां दाहयति । पुत्रस्य मृतस्य पित्रादय- दाहयन्ति । 1 असगोत्रस्सगोत्रो वा यो दाहकर्ता स एव दशाहान्तं कर्म कुर्यात् । सपिण्डीकरणादीनि श्राद्धानि श्राद्धकर्तेव कुर्यादिति केचित् । मृतस्य संस्कारे को संस्कर्तुः सर्वसम्पत्समृद्धिस्त ॥ ८ ॥ अन्यथा भ्रूणहत्यामाोति ॥ ९ ॥ *त आरभ्य श्री वाजपेयि भाष्य सङ्ग्रह मुद्राप्यते । श्री श्रीनिवासमविकृत - तात्पर्यचिन्तामणिसहितम् [सनम प्रश्ने } } aara anar पतमेन वा विधानेन पूर्ववत् ‘अभिर्यजुभिः । ‘सेनेन्द्रस्य’ ‘वाचस्पते विधे नामन् ’ ‘वाचस्पते वाचो वीर्येण ‘मोमसोमस्य ’ ’ वाचस्पतेऽच्छिद्रया’ ‘वाग्घोता’ इति सप्तभिर्मन्त्र- फन राहिताग्नेः शरीरं पञ्चामिभितामिभित्र दाहयति ॥ १० ॥ 5 तस्मादित्यादि । ब्रह्ममेधेन - ‘हम प्रेतं ब्रह्ममेधेन विधिना संस्कार- प्यामि’ इति सङ्कल्प्य ‘ब्रह्मविदाप्नोति परम् ’ ‘भृगुर्वै वारणि-’ इति दक्षि- णादिकर्णयोः जप्चा । पूर्वस्तु खानादिस कृत्वा । सर्वत्र होमकाले चिति- श्रगादिभिम्म दशहोत्रादिभिः जुहुयात् । ‘मेरोरंह’ इत्युद्धरणकाले भर्ता सन् श्रियमाण’ इत्यनुवाकं जपेत् । अनुमरणे भारद्वाजमतेन ’ इयं नारी’ ‘मनेन्द्रस्ये’ ति पत्नीच पनिवासयेत् । अस्यैव मते प्रेतस्य हस्तयो- सुवर्ण निक्षिप्य ‘सुवर्ण हस्ता’ दिति ‘देवस्य वा सवितुरिति च समासेन हृदय- सम्मार्जनं कृत्वा प्रतिग्रहदोषनिरसनं करोति । हिरण्यशकलमदानकाले ‘सुवर्ण धर्म’ मित्याये ‘ब्रह्मेन्द्र मिति मन्त्रावृत्त्या नेत्रयोः ‘शतं नियुत ‘मिति मन्त्रा- वृत्त्या कर्णयोः ‘सुवर्ण कोश ‘मिति दक्षिणे नासापुटे ‘इन्द्रो राजेति वागे * सुवर्णानि निक्षिपेत् । पात्रचयनकाले ‘अभिर्यजुर्भिः’ इत्यनुवाक्रेन प्रत्येकमेकन वाक्येन या पात्राणि निक्षिप्य अवशिष्टानां पात्राणां चयनं पुनर्म- न्वावृत्त्या करोति । दहनकाले ‘ज्योतिष्मती’ मित्यनुवाकेन दहेत् । उपस्थानकाले ‘सहाशीर्षा पुरुषः ’ ’ अद्भयः सम्भूत’ इत्यनुवाकाभ्यामुपतिष्ठेन । ‘ब्राह्मण एकता’ इति हृदयं जपेत् । केषाञ्चित्पक्ष ‘चित्तं सन्तानेनेति हविराटने जुहुयात । ‘प्रयासाय स्वाहा’ इत्यनुवाकेन स्रुबाहुतीर्जुहुयात् । ‘हरिहरन’ मिनि मृत्युसूक्तनानुशासनं कुर्यात् । ’ आप्यायस्व मदिन्नम’ इति सङ्गाहनं कुर्यात । ‘तरणिर्विधदर्शिन’ इत्यादित्यमुपतिष्ठेन । ‘ईयुष्टेत’ इति ज्ञानं कुर्यात । अन्यत्सर्वं पितृमेववन । पूर्व पैतृमेधिकं समन्तकं सर्वं कृत्वा varatataunity ब्रह्मविधानेन ब्रह्मनिमाहिताग्निमनाहिताग्मिं ब्रह्मचारिणं ata । नान्येषां संस्कारः । तथा भारद्वाजः - " अथात उचरं । पितृमे व्याख्यास्यामः यं ब्रह्म’ इत्यते । अथाप्याहरन्ति प्रथमः खण्डः ] ‘द्विजातीनामपवर्गोऽर्थतच्चदर्शिभिः । • ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् ॥ होतंश्च पितृमेधञ्च संसृज्य विधिरुत्तरः । विहितश्च समासेन कनूनामुत्तमः क्रतुः ॥ इति १४१ प्रकृतिविकृती या पुरस्तात् तस्य समहैः होतुमिहमः । भर्तृगुन पत्नीभिरुपवेशनम् । दक्षिणा प्रति निर्मार्ग- ( ) । हृदये हिम्यशलान् सम्भारयजुर्भिः पात्रचयनं ज्योतिष्मतीभिरुपोषण नारायणाभ्यामुपस्थानम् । ‘ब्राह्मण एकहोते ‘ति चानुमन्त्रणम्। ‘चिरं सन्ताने ’ नेति हविराहुति- ’ प्रयासाय स्वाहेति सुबाहुति- मृत्युयुक्तेनानुशंसनं सोम्या सङ्गाहन सौर्येणादित्यापस्थान ‘ईयुष्ट’ इति प्रत्यवगाहनमत ऊर्ध्व पैनेधिकम् । आयवोदनप्राशनान्तात् परं त्याचक्षते । तां न साधारणे प्रयुञ्जीत । नाऽनाचारद्विजातीनामेवं सन्नित मेघः" इति । aana विधानेन सर्वं कृत्वा । अमिर्यजुर्भिः ‘सेनेन्द्रस्ये’ नि द्वाभ्यामोपासनामिना गृहस्थ- मनाहितात्रिं, तदुपनयनाग्रिना ब्रह्मचारिणश्च दाहयेत् ॥ ११ ॥ अग्निर्यजुभिरित्यादि । अभिर्यजुर्भिः सेनेन्द्रस्य - वाचस्पते वि नामन् - वाचस्पते वाचो वीर्येण - सामस्सोमस्य - वाचस्पतेऽच्छिद्रया वाचा- वाग्घोता’ इति सप्तभिर्मन्त्रः आहितानि यथाssधानक्रमं पञ्चामिमित्रताभि दाहयति। अग्निर्यजुर्भिः–सेनेन्द्रस्येति द्वाभ्यामनुवाकाभ्यामोपासनामिना गृहस्थ- मनाहितानिञ्च दाहयति । तदुपनयनामिना नचारिणं दाहयति । चकारात् निर्मन्थ्येन कपालसन्तपनामिना वा विधुरं विधवाञ्च सावित्र्या वा दाहयति । 6 ‘अस्मात्त्वमधि’ – ‘भूः पृथिवीं गच्छतु’ - ‘भुवोऽन्तरिक्षं गच्छतु’ - ‘सुवर्दिवं गच्छतु’ इति चतुर्भिर्मन्त्रैरित्येके ॥ १२ ॥ अस्मादित्यादि । चतुर्भिर्मन्त्रैः दाहवेदित्यर्थः । इति वाजपेयीये सप्तमप्रश्ने (प्रथमः खण्डः) । अथ द्वितीयः खण्डः आहिताग्निरनाहिताग्निश्च पूर्व पत्न्या मरणं स्वकीयाग्नेरर्ध- मादाय तदग्निना तैर्मन्त्रैस्तां दाहयित्वा अन्यामुपयभ्य पुनरग्निमा- दधीत ॥ १ ॥ आहिताग्निरित्यादि । गृहस्थो वानप्रस्थो वा स्वकीयाग्नेरर्धमादाय । अग्निं पूर्ववत् हुत्वा द्वेवा विभज्य स्वस्यार्धमरव्यादौ समारोप्य पल्या अर्धमा- दाय । तैर्मन्त्रैः - यद्याहिताभिः, तस्योक्तैः तैर्मन्त्रैरसप्तभिः तां दाहयेत् । यद्यनाहितामिः तस्योक्तमन्त्राभ्यां द्वाभ्यां दाहयेत । अत्र केचित् । आहिताभिः पूर्वमृतां पत्नीं श्रौताग्निना दाहयेत् पश्चान्मृतमाहितामि श्रौतोपासन- वह्निभिर्ब्रह्नेदिति । आहिताभिः पूर्वमृतां पतित्रतां पत्नीं वैतानिकामिभिर्दहेत् पश्चादृढां सती स्मार्तामिना दहेत् । यज्ञमुखे तन्मध्येऽपि निर्मन्थ्येनाभिना दहेत् । पत्नीबाहुल्ये पूर्वमृतां कनीयसीं निर्मन्ध्येन दहेत् । भर्तुः पूर्वं मृतां ज्येष्ठा- मनिहोत्रेण दहेत् पश्चान्मृतामोपासनामिना दहेत् । एवमनाहितामे : पूर्व- मृतामोपासनाग्निना पश्चान्मृतां निर्मन्थ्येन लौकिकन वा अग्निना दहेत् । एवं तां दावित्वा सपिण्डीकरणान्तं कर्म कृत्वा अन्यां कन्यामुपयम्य पुनरग्नि- मादधीत - पुनराधानं कुर्यात् । अशक्तयेद्रोढुं सन्न्यसेत् । ‘अनाश्रमी न तिष्ठेते ‘ति वचनात् । अथवा स्वकीयमर्थमग्निमनुत्सृजन् नित्यमौपासनवैश्व- देवादिकमेव तस्मिन् कुर्यात् । अन्ते च तेनामिना तं दहेत् इति केचित । सहमरणे सकचितायां दम्पती दाहयति ॥ २ ॥ सहेत्यादि । सहमरणे - एकस्मिन्नेव काले युगपन्मरणे । पूर्वापरकाल- मरणे विधिवत्कृतदाहादिकयोः पुनर्दहनकर्मणि वा । सह- तन्त्रेण दहनादि कुर्यात् । अपि वा सहमरणे - अनुमरणे । सह- तन्त्रेण । सर्वं कृत्वा दाहकाले हिरण्यशकलास्यतण्डुलवहिदानादीन् । तिलोदकबलिपिण्डदान नम- प्रच्छादन नवश्राद्ध ब्राह्मणामन्त्रणादिकं पृथक् पृथगेव कुर्यात् । एकानावे- / द्वितीय खण्ड- १४३ वोभयोः श्राद्धं सीकरणहोमं प्रत्येकमावाहनादिकं कृत्वा पितामहादीनां पितामह्यादीनाञ्च पूर्ववत्पिण्डदानादिकं कृत्वा पृथगेव ब्राह्मणभोजनं कारयित्वा पितृपिण्ड faar विभज्य तत्पित्रादीनां पिण्डैः सह संयोज्य मातृपिण्डं पितृपिण्डेन सहैव संयोजयेत् । कृतचौलमनुपनीतं जातकाग्निना लौकिकाग्निता वा ‘अस्मा- स्वमधी’ त्येकर्चया दाहयेत् ॥ ३ ॥ कृत्यादि । पितृन् सर्वं कृत्वा एकयोक्ता दाहयत । जातदन्तस्य पितृमेधवत् तूष्णीं दहनं कुर्यात् ॥ ४ ॥ जातदन्तस्येत्यादि । पितृमेधात् । जानकामिना लौकिकामिना वा तन्त्रं कृत्वा तूष्णीममन्त्रक दहनं कुर्यात् । पिदधाति । अजातदन्तं भूम्यामवटे पिदधाति ॥ ५ ॥ अजातेत्यादि । अजातदन्तं कुमारं कुमारीश्च पूर्ववत् भूम्यामवटे अथ वा कृतचौली कन्याकुमारी जातदन्तं कुमारं मृतदार वितृष्ण मृतकं खापयित्वा शाखया स्मशानं पूर्ववत् अपेत बीते ‘ति सम्मृज्य चिनायां प्रेतमारोप्य हिरण्यशकलतिलतण्डुलान् ‘आ ओ’ हेत्यास्ये निदधाति ॥ ६ ॥ f अथवेत्यादि । अन्यान् – अनार्तववन्ध्यादीनापद्दाह्यान् । शाखया - पालाश्या शम्या वा शाखया । सम्मृज्य शाखां विसृज्य प्रोक्ष्य तत्र निलान् विकीर्य तत्र काष्ठानि चालयित्वा । तस्यां चितायां प्रेतमित्यादि । आज्यं ’ असाचमधि’ इति व्याहृतीय हुत्वा ‘वातास्ते वा- न्त्विति सिग्वातं कृत्वा ‘हमा आपो मधुमत्यः’ इत्यादिमिरुदकुम्भं परीत्य उत्क्षिप्य कपालशेषोदकं भूः पृथिवी ’ मित्यास्ये दत्वा १४४ श्री श्रीनिवासकृत- तातार्यचिन्तामणिसहितम् [गलम प्रश्नं कपालसन्तपनाग्निना ‘अस्मात्वमधि’ इत्येकच्या सावित्र्य वा दाहयति ॥ ७ ॥ अज्यमित्यादि । अयमापद्दाह्यसंस्कारविधिः । एवं दहने कृत्वा जात- दन्तकृतचौलकानुपनीतानां कुमाराणां कुमारीणाञ्च पूर्ववत् निलोदकादीन् दत्वा द्वादशाहे सपिण्डीकरणस्थाने नारायणबलिं कुर्यात् । मृतदारस्य विधवायाश्चा- निन्दितायाः इतरेषां कृतविवाहानामनिन्दितानाञ्च सपिण्डीकरणानं कुर्यात । निन्दितानामापद्दाह्यानाञ्च प्रायश्चितान्ते नारायणबलिं कृत्वा श्राद्धं कुर्यात् । इति प्रथमः पटलः । इति वाजपेयिये सप्तम प्रश्न (द्वितीयः खण्डः) प्रथमः पटलः ।

अथ तृतीयः खण्डः शवे अन्याशौचयुक्ते अकुक्कुटमूनिकारजस्वलाद्यस्पृश्यस्पर्शने च मृतक पश्चगव्यैः कुशतोयैव स्वापयित्वा प्रोक्षणैः प्रोक्ष्य विधिदहनं करोति ॥ १ ॥ अथ द्वितीयः पटलः । शत्र इत्यादि । अन्याशौचं सूतकादि । प्रोक्षण– आपोहिष्ठाद्यैर्मन्त्रैः प्रोक्ष्य कृच्छ्रत्रयमेकं प्राजापत्यं वा चरित्वा । देशान्तरे मृते दहनविहीने काकाद्यैः शवे जीर्णे तदस्थीन्या- दाय काषायतोयैः पञ्चगन्यैः कुशतोयैश्व प्रक्षाल्य आकृति कृत्वा तस्याग्नी वैश्वदेवं याम्यं पैतृकं व्याहृतीच प्रायश्चित्तं हुत्वा विधिवदहनं कुर्यात् ॥ २ ॥ देशान्तर इत्यादि । अस्थीन्यादाय कृष्णाजिनेनाबद्धेय वेण्क्ग्रे चद्धा अनधी निधानः स्वग्रामं नीत्वा ग्राममर्यादायां निधाय । कापायतोयैः - अश्वत्थोदुम्बरप्लक्षवटाम्रजम्बूनां त्वचो गृहीत्वा तोये प्रक्षिप्य भावितेन तत्तोयेन । प्रक्षाल्य तदस्थिभिस्तस्याकृतिं कृत्वा । 1++3 अमन्त्रकं शवे दग्धे तदस्थीन्यादाय पयसा आज्येन प्रक्षाल्य आकृति कृत्वा पूर्ववत् प्रायश्वितं हुत्वा समन्तर्क दाहयति ॥ ३ ॥ अमन्त्रकमित्यादि । पूर्ववत् प्रायश्चित्तम् तस्यानावित्युक्तम् । तदस्नामप्यलाभे दशाहादूर्ध्व पालाशपणैः विधानेन आकृतिं कृत्वा प्रायश्चित्तान्ते तदग्निना दाहयेत् ॥ ४ ॥ कर्तुरेवाशौचं भवति ॥ ५ ॥ कर्तुरिति । न सपिण्डानाम् । १४६ श्री श्रीनिवासमखिकृत- तात्पर्यचिन्तामणिसहितम् [सप्तम प्रश्ने त्र्यहं बलिनिर्वापणमाशौचञ्चेति केचित ॥ ६ ॥ I त्र्यहमित्यादि । चकारात् तिलोदकादयः । दशाहादूर्ध्वं कृतास्थ्या- कृतिदहनानां पलाशपर्णाकृतिदहनानाञ्च विषये पुत्राणां इदं बलिनिर्वापणादिक भवतीति केचित् । दत्तपुत्रविषयमिति केचित् । वयमिदं मातापित्रन्यविषयं ब्रूमः । तथा प्रथमेsa द्वादश द्वितीये त्रिंशत् तृतीये त्रयस्त्रिंशतिलोदकानि भवन्ति । तथा त्रयश्चत्वारस्त्रय- पिण्डा बलयश्च स्युः । द्वितीयेऽहन्यस्थिसञ्चयन चितापिधानम् । प्रथमेऽह्नि नमप्रच्छादनं पञ्च नवश्राद्धानि चतुर्थेऽहन्येवमेव पण्णवश्राद्धानि स्युः । तृतीयेऽहनि तीर्थविसर्जनं चतुर्थेऽहन्ये कोद्दिष्टं पञ्चमेऽह्नि वा यथाकालं सपिण्डीकरणं भवेत् । एवं त्रिरात्त्राशौचपक्षे कर्तव्यम्, अन्यत् पूर्ववत् । इदमनाहितः । आहिताः सर्वत्र पुनसंस्कारेऽपि दशरात्रमेव । सूतिकां मृतामुदक्याश्च दावाशिना मन्त्रहीनं दायित्य दशाहेऽतीने तदस्थिभिः पालाशुपर्णैर्वा आकृति कृत्या दहनं करोति ॥ ७ सूतिकामित्यादि । दावाशिवेनवह्निः । तदस्थिभिः - कापायतोयपञ्च- गव्यकुशतोयैः प्रोक्ष्यानीतैः । अपि वा पालाशपणैर्वा आकृतिं कृत्या पूर्ववदहेत् । अथ वा तदन्येव कापतोयैः पञ्चगव्यैः कुशतोयैश्व स्त्राप- यित्वा पुण्याहं कृत्वा प्रोक्षणैः प्रोक्ष्य विधिवद्दहनं कुर्यादित्येके ॥ ८ ॥ अथवेत्यादि । तदन्येव - मरणदिन एव । काषायत्तोयैरित्यादि । स्त्रापयित्वा – प्रत्येकमभिषिच्य प्राजापत्यं चरित्वा विधिवदहनम् । इति वाजपेयीये सप्तम (तृतीयः खण्डः) । अथ चतुर्थः खण्डः सगर्भाया मरणे स्पन्दमानेनोदरेण जीवन्तं गर्भमालक्ष्य भर्ता पुत्रोऽन्यो बन्धुर्वा वैद्यकुशलाभ्यां नाभ्युपस्थयोरन्तरे गर्म परिहरन् ‘हिरण्यगर्भ’ इति शस्त्रेणोत्पाटयति ॥ १ ॥ मगर्भा । इत्यादि । वैद्यशल्याभ्यामिति पाठः । गर्भ परिहरन - यथा शस्त्रे गर्न न स्पृशति तथा । शस्त्रस्पर्शनात् गर्भस्य मरण पतितो भवति ॥ २ ॥ जीवन्तमपत्यमुन्मुच्य स्त्रापयित्वा आदाय घाली लोकमातर- मभ्यन्ये तस्य अन्यां मातरं कल्पयति ॥ ३ ॥ जीवन्तमित्यादि । उन्मुच्य – गर्भादुद्धृत्य । धात्री- भूदेवीम् । सा हि लोकमाता । तां पुष्पाद्यैरभ्यर्च्य । तस्य कुमारस्य मन्यां मातरं धात्री- नानी रक्षणार्थं कल्पयति । ★ प्रतायाः कुक्षावाज्येन प्राणाय स्वाहा’ अपानाय खाहा’ इति त्या निर्यणं कृत्वा तां स्वापयित्वा विधिवदनं करोति ॥ ४ ॥ ताया इत्यादि । प्राणाय स्वाहेत्यादिभिः पञ्चभिर्होमः । निर्व्रण - अक्षतं यथा स्यात्तथा कृत्वा (सूच्यादिना) खापयित्वा । पूर्ववत् । कुमारस्य जातका पूर्ववत् जातकं कुर्यात् ॥ ५ ॥ मृतक प्रेतयोरेकाहसन्निणते तन्त्रयित्वा वास्तुहोमं हुत्वा पृथगेवोत्थानहोमं पिण्डनिर्वापश्च करोति ॥ ६ ॥ सूतकेत्यादि । एकाइसन्निपाते - एकस्मिन् दिने प्राप्ते । तन्त्रयित्वा सूतकप्रेतकाशौचनिवृत्त्यर्थं वास्तुहोमं करिष्यामि इति सङ्कल्प्य एकमेव वास्तु होमं हुत्वा पर्यप्रपञ्चगव्याभ्यां गृहादिकं शोधयेत् । पृथगेव कुमारस्योत्थानहोमं प्रेतायाः एकोदिष्टश्राद्धादिकं पिण्डनिर्वापञ्च करोति । * श्री श्रीनिवासमविकृत - तात्पर्य चिन्तामणिसहितम् [ सात प्र ब्राह्मणाद्यैश्वण्डालान्तः अद्भिः सर्पेण दंष्ट्रिणा अशनिपातन- अग्निना पशुना वा पापमरणे तस्याशैौचवाक्तोदकम्पनाभ्रुशत्र भरणा- ऽनुगमनदहनोदक बलिपिण्डदानादि कस्यचिन्नैव कुर्यात् ॥ ७ ॥ ब्राह्मणाद्यैरित्यादि । वाकोद :- वाम्यथा । कम्पनं - दुःखाद्वेपनम् । अश्रु - रोदनम्। भरणं - वहनम् । पिण्डः सपिण्डीकरणा-ताङ्गपिण्ड- निक्षेपः । एतानि कर्तुः चान्द्रायणं तप्तकृच्छ्रं प्रायश्चित्तं भवति ॥ ८ ॥ एतानीत्यादि । पूर्वोक्तान्याशौचादीनि भयादज्ञानान्मोहाद्वा य- करोति तस्य प्रायश्चित्तमुक्तं भवति । अतः कस्यचित् पापमृतस्य तानि निषिद्धानि । पापमृतस्य शरीरं दावागिना शूद्रः दाहयित्वा दशाहेऽतीत नारायणबलिं कुर्यात् ॥ ९ ॥ पापमृतस्येत्यादि । शूद्रदहयित्वा स्वयमस्पृशन्नेव । दशाहे- ती उक्तं प्रायश्चित्तं चरित्वा अन्ते सर्वप्रायश्चित्तार्थं नारायणबलिं करोति । अथवा पालाशपणैरेव आकृतिदहनं करोति ॥ १० ॥ पक्षान्तरमाह अथवेत्यादि । आकृतिदहनं कृत्वा पूर्ववत् सपिण्डी- करणान्तं कुर्यादिति केचित् । ‘खादुत्पाटनं कृत्वा आत्मानं यस्तु घातयेत । तस्य पापविशुद्धयर्थं प्राजापत्यशतत्रयम् ॥ farोन्नशस्त्राद्यैरात्मानं घातयेद्दिजः । जीवेत्कृच्छ्रेण शुद्धयेत्तु दत्त्वा गोमिथुनं द्विजः ॥ उदक्या शवविष्ठाद्यैः व्याघ्रसिंहयादिभिः । रजकन्या शैलूषपशुदंष्ट्रिमृगैस्तथा ॥चतुर्थः खण्डः ] १४९ चण्डालधपचक्षत्तवेण चर्मोपजीविभिः । सूतिकाधवराहायैः व्याघ्रसिंहायादिभिः । स्पृष्टे च चर्विते प्रोक्तं पृथक् कृच्छ्रायं त्रयम् ’ ॥ इत्यादि क्वनैरुक्तं प्रायश्चित्तं तत्पुवादिभिश्चरित्वा दाहः कार्यः । शवस्य दहनकालेsara क्रियाहीने विपर्यासे च प्रेतकर्मणि सर्वत्र तिलैरेव वैश्वदेव याम्यं पैतृकं व्याहृनीय प्रायश्चित्तं जुहोति ॥ ११ शवस्य दहनार्थं होमे हुते तदभावुत्सन्ने पूर्ववत् भस्म समिध- मारोप्य लौकिकाग्नौ निधाय प्रायश्वितं हुत्वा तेनाग्निना दहनं कुर्यात् ॥ १२ ॥ शवस्येत्यादि । मनोज्योतिस्याश्चामे सिन्दाहृती व्याहृतीच आज्येन हुत्वा तिलै- वैश्वदेवादिकञ्च हुत्वा तेनामिना दहनं कुर्यात् । इति वाजपेयीये सप्तमप्रश्ने (चतुर्थः खण्डः) इति द्वितीयः पटलः । अथ पञ्चमः खण्डः उपनयनादूर्ध्वं ब्राह्मणस्य मरणे सपिण्डानां दशाहमाशौच विधीयते ॥ १ ॥ अथ तृतीयः पटलः । उपनयनादित्यादि । क्षत्रियस्य द्वादशाहं वैश्यस्थ पञ्चदशाहम् । उपनीतस्य वा गर्भाष्टमस्य वा मरणे प्रत्यासन्नसपिण्डानां दशरात्रं, पचमानां षडाल, षष्ठानां चतूरावं, सप्तमानां त्रिरात्रमिति केचित् । दन्तजननाद या नामकरणादूर्ध्वमेकाई जननादु सद्यशौचम् ॥ २ ॥ नृन्तजननादृर्ध्वं चौलात्प्राक् दाहत्यागयोः त्रिरात्रं, निखननेत्वे करात्रमाशौचं सपिण्डानां विधीयते । जननादूर्ध्वं नाम्नः प्राक् स्वानान्तमाशौचं जननादूर्ध्व - मुत्थानात् प्राक् सद्यदशौचम् । स्त्रिय मरणे विवाहादु दशाहमष्टवर्षादूर्द्ध यहं चौलका- दुर्ध्वमेका पूर्व सद्यशौचम् ॥ ३ ॥ स्त्रिया इत्यादि । स्त्रिया- - दुहितुः विर्वाहादूर्ध्वं मरणे भर्तसपिण्डा- दीनां दशाहमाशौचम् । वाग्दत्तानामनुदानां मरणे स्वसपिण्डानां परसपिण्डाना- मपि तिरात्रम् वाग्दत्तानामष्टवर्षादूर्ध्वं भर्त्रसपिण्डानां त्रिरात्रमाशौचं विधीयते । चौलकादूर्ध्वं वाग्दत्तानां मरणे सपिण्डानामेकाहमा शौचम् । चौकात्पूर्व स्त्रिया मरणे सपिण्डानां सद्यशौचम् । पूर्ववदिति पाठः । मानापित्रोअतृणाञ्च सर्वत्र दशाहमेव । गर्भे मृते गर्भिण्या- स्तन्मासतुन्यैरहोभिराशौचम् ॥ ४ ॥ मातापित्रोरित्यादि । मृतस्य मातापित्रोः सोदराणां च सर्वत्र दशरात्र- माशौचमिति केचित् । क्रीताद्यनौरसपुत्राणां जनने मरणे च त्रिरात्रमाशौचम् । 1 सः खण्डः ] सूत्रम् प्रथमादिषु त्रिषु मासेषु जनया यस्ता पचपचा 警蠶害 एवं रोशन । Hamare नातिकाशी fate । ar सर्वत्र पितुः खानान्तमश ! ति सानामपि श्रान्त- माशौचम् । तस्य मरणे मोहनशम् । मृताया पितृगृहे मानापित- । मृतके चान्य शुद्धिरस्यात् ॥ ५ ॥ तदुहितरि सत्मा। यात्रेत चान्यथेत प्राप्त शोचन सङ्ख्याक असमान- सुतक इत्यादि । सूतक वर्तमान तत्यनिमित दिवस अन्यसूतके प्रति सति पूर्वाशौचेन इतरागन्तुकस्य औशोचन्य शुद्धिः स्यात् । सूतिकायाः द्वितीययावाशीचस्य तत्संसर्गिणो भर्तुरपि न पूर्वतः शुद्धिः । न कुत्रापि सुनकवशात् शावाशौचनिवृत्तिः । शाक्वशासु सूतकनिवृत्तिर्भवति । एतत्सर्वं तुल्यसङ्ख्याविषयम् । विषमसङ्ख्याविषये दीर्घका- लिकापेक्षया स्वपस्य निवृतिः । न स्वरूपापेक्षया दीर्घerfort fagaः । यदि स्वरूपेऽपि पञ्चाद्भाविदीर्घा नाधिकः स्यान । तदा स्वल्पवशात दीर्घस्यापि निवृत्तिः । पञ्चदिनाधिकादल्पादपि दशरात्रादेश्चोत्तरतोऽधिकाशौचान्त्यदिवसे पूर्णाशीचे प्राप्ते सति पूर्वस्मादुपरि हाच्छुद्धिभेवेन । पूर्णाशौचम्योत्तरनोऽविका- शौचान्त्यदिवसे तत्प्रभाते वा प्राप्ते पूर्वाशौचेन शुद्धिस्यादिस्यर्थः । इतरस्य प्राप्ते परस्यैवाहोभिः शुद्धिर्भवति ॥ ६ ॥ इतरस्येत्यादि । सूतके व इतरस्य - शावास्य प्राप्तौ । अपरस्यैव – शावस्यैवाहोभिः शुद्धिर्भवति । असपिण्डवस्य स्नानालङ्करणे कृते त्र्यहं दिवसं वा, बहने कृते स्नात्वा दशप्राणायामान कृत्वा नक्षत्रदर्शनात्पूर्वं ग्रामादहिरा- सीत ॥ ७ ॥ दावदेव शौचम् ॥ ८ ॥ ९५२ श्री श्रीनिवासमखिकृत- तात्पर्यचिन्तामणिसहितम् [ सप्तम प्रश्न * असपिण्डशवस्येत्यादि । असपिण्डस्य सजातीयस्य विजातीयस्य वा ब्राह्मणस्य असगोवस्य प्रेतस्य स्नेहादिना स्नानालङ्करणे कृते सति आशौचं भवति इति शेषः नक्षत्रदर्शनात्पूर्व यावन्नक्षत्रदर्शनम् नक्षत्र दृष्टा ग्राम विशेत् । रात्रौ सूर्योदयात्पूर्वमासीत ॥ ९ ॥ रावावित्यादि । रात्रौ चेदहनवहनादिकरणं सूर्यं दृष्टा ग्रामं प्रविशेदि - त्युक्तं ज्ञेयम् । प्रश्चात् पञ्चगव्यप्राशनमनुष्ठानादिकञ्च कुर्यात । भृतिमादाय दहनवहनादिकर्तुः सचेलं खानमलं भवति । अन्यथा तद्ग्रामे प्रविष्टे शवभर्तुरेकाहं, तद्गृहे प्रविष्टे त्र्य, तत्र भोजने कृते दशाहं भवति ॥ १० ॥ अन्यथेत्यादि । अन्यथा - एवमकृत्वा । शवभर्तुः - वाहकस्य । तद्गृहे – प्रेतगृहे । तत्र - आशौचबहे । अत्र विकल्प केचिद्वदन्ति । अगत्या तद्गृहे मुक्तवतः एकरालं अज्ञानाद्भुक्तवतः तदन्नशुद्ध्यवधिकमा शौचमिति । आशौचमिस्सह शयनादिभिस्सह वसतां तावन्ति दिनान्यौशोचं भवति । अस्थिसञ्चयनादर्वाक् ब्राह्मणस्य रुदित्वा स्त्रायात् । अन्तर्दशाहे त्वाचमनं कुर्यात् । क्षत्रियवैश्ययोरस्थिसञ्चयनादर्वाक् ब्राह्मणो रौति चेदेकरावाशौच पश्चात् सचेल- स्नानम् । शुद्धविषये अस्थिसञ्चयनादर्वाक् शवस्य स्पर्शे सति त्रिरावमाशौच, तद्रहिते द्विरानं पश्चादेकत्रमाशौच भवति । हीनवर्णविषये रोदने यदाशौचमुक्तं तदेव भवति । इति वाजपेयीये सप्तमप्रश्ने (पञ्चमः खण्डः) । अथ पष्टः खण्ड- प्रेतं ज्ञातिमज्ञाति वा अनुगम्य खात्वा अनि स्पृष्ट्रा वृतं प्रानीयात् ॥ १ ॥ प्रेतमित्यादि । स्नात्वा ममेलन अनिं स्पृष्टा - पाणिभ्याम् । प्राश्नीयात् - हृदयङ्गममात्रम् । पुनः स्नात्वा शुद्धो भवति । आत्मनः पितुर्मातुश्च योनिबन्धूनाथ मरणे विज्ञाते सचेलनानं करोति ॥ २ ॥ आत्मन इत्यादि । विज्ञाते - यत्रकुल वाऽन्यव स्थितः पुत्रः श्रुत्वा मरणम् । स्नानं करोति खानं कृत्वा तदादि दशाहमाशौचमनुतिष्ठति । योनिबन्धुब्वियं व्यवस्था ज्ञेया । मातृभातुः मातृष्वसुश्च मरणे श्रुते त्रिरात्रम् । श्वशुरयोर्मरणे तथा । ऋत्विजः आचार्यस्याचार्यपल्या आचार्यसुतस्य शिष्यस्य गृहप्राप्तश्रोत्रियस्य च तथा त्रिरात्तमाशौचम्। मातृष्वस्रादीनां प्राप्तरजसामेव निराल- मित्यन्ये । उभयत्र सधइशौचमेवेति केचित् । स्त्रियाः, मातामहस्य मातामचा- पितामहस्य पितामया- मातुर्मातुलस्य तत्पुत्रदुहित्रोः मातृष्वसुः तत्पुत्रदुहितोः पितुः पितृव्यस्य तत्पुत्रदुहितो- आतुस्तत्पुत्रदुहितो- स्वसुस्तत्सुतदुहित्रोः दुहितुस्तत्पुत्र- दुहितो- स्वपुत्रदुहितुश्च मरणे पक्षिण्याशौचम् । पुरुषविषया पक्षिणी स्त्रियाः प्राप्तरजसध । उभयत्रापि अतोऽर्वाक् सचरशौचमेव । खियाः, मातृसपल्या ऊढाया- रसपत्नीसुतायाश्च मरणे चैकरावम् । एकप्रामवासिनः श्रोत्रियादेः सुहृदः मण्डलाधिपतेश्व मरणे एकरातमा शौचं भवति । अन्येषां योनिबन्धूनां मरणे सचेलखानमलं भवति । द्वितीयेऽहनि पुनर्दहनप्रभृति तदश्मन्युदकं दत्वा दक्षिणायं कूचे निधाय तन्नाम्ना प्रेतमावाद्य तैलमञ्जनं स्वानं वासोदकं दत्वा पाद्याचमनगन्धपुष्पधूपदीपाक्षताचमनैरम्यर्च्य सायम्प्रातर्बलिं दत्वोदकं ददाति ॥ ३ ॥ ९.५४ श्री वैखानगृह्यसूत्रम् [ सप्तम प्रश्न द्वितीयेऽहनीत्यादि । आहिता मेरनाहिताम्यादेश्च । द्वितीयेऽहनि - दहनदिनाद्वितीयेऽहनि । आवास द्वितीयान्तेन नाम्ना । अभ्यर्च्य - चतुर्थ्यन्तेन नाम्ना । प्रातर्बल हीने सायं द्विगुणं सायं हीने प्रातद्विगुणमेवमादशा- हात्करोति ॥ ४ ॥ श्वकुक्कुटमृतकोद क्यान्त्य जैरश्मनि स्पृष्ठे पञ्चगन्यैः प्रक्षान्य चलिं दद्यात् ॥ ५ ॥ कुक्कुटेत्यादि । अश्मनि नष्टे पुनरन्यमश्मानं निधायाचनादीनि करोति । (श्वकुक्कुटसूतिकाद्यैः पिण्डभाण्डे स्पृष्टे वा पुनर्नवेन भाण्डेन चर श्रपणादिकं कुर्यात् ) सप्तमेऽहनि नवे मृत्पात्रे चितास्थीन्यादाय पुण्यनयां समुद्रे वा प्रक्षिपति ॥ ६ ॥ सप्तमेऽहनीत्यादि । चितास्थीन्यादाय – पूर्वं सञ्चितानि अवशिष्टानि च सङ्गृवंशष्ट्यां बद्धा नो निदधानो नीत्वा । प्रक्षिपति पूर्ववत् संस्कृत्य अघमर्षणसूक्तं जपन् क्षिपति । पर्वणि समुद्रं गत्वा ‘रत्नाकर नमस्तु- भ्य’ मिति प्रणम्य ‘पिप्पलादसमुत्पन्न’ इति मन्त्रावृत्त्या सप्तपाषाणान् समुद्र- मध्ये प्रक्षिप्य ‘सर्वरत्नमय श्रीमन्’ इत्यर्थं दत्वा अवगाह्य ‘विश्वाची घृताची’ चेति त्रात्वा पिप्पलाद तर्पयेत् । एवं कल्पान्तरोक्तवद्वा स्नात्वा क्षिपति 1 अन्तर्दशाहे अमावास्या यदि भवेत् तस्यामैच शेषान् बलीन् दत्वा बलिकर्म समापयति ॥ ७ ॥ अन्तरित्यादि । दशाहमध्ये । शेषान् अवशिष्टान् । · द्विचन्द्रदर्शने महान दोषो भवेत् ॥ ८ ॥ पठः खण्डः ] १९५५ द्विचन्द्रेत्यादि । द्वयोर्भासयोश्चन्द्रस्य दर्शनं द्विचन्द्रदर्शनम् । अयं मातापित्रोरन्यत्र विषयः । अपि वा त्रिदिनादृर्ध्व विषयः । त्रिदिनादवगमावास्या चेत्तामतिक्रम्य कुर्यात् । 1 1 दशमेऽन्येकदा बलिं दत्वाऽश्मानं विसृजेत् ॥ ९ ॥ दशम इत्यादि । एकदा - प्रातर्बलिन् । इति वाजपेयीये सप्तमप्रश्ने (इति तृतीयः पटलः) षष्ठः खण्डः । अथ सप्तमः खण्डः –XOX** जातदन्तस्य चौकात्पूर्व मरणे त्र्यहं भूमौ तूष्णीं बलि- निर्वापणमित्येके ॥ १ ॥ (अथ चतुर्थ- पटल- ) । जातदन्तस्येत्यादि । पह-मरणादि त्र्यहं लीन् जलालीन् दत्वा तूष्णीं भूमौ बलिनिर्वापणं कृत्वा नारायणबलिं कुर्यादित्येके । दहनप्रभृत्याहिताग्नेः मरणप्रभृत्यनाहिताग्नेः एकादशेऽहन्ये- कोद्दिष्ट कुर्यात् ॥ २ ॥ दहनेत्यादि । आहिताः तत्पत्न्याः, अनांहिताः तत्पल्याश्च । । । एकोद्दिष्टनिमित्तश्राद्धे तनाना ‘प्रेतनिमित्तं भुंवे ‘ति ब्राह्मणं वरयित्वा ‘प्रेताय स्वधा’ इति पाणौ तिलोदकं दत्वा होमं पिण्डदानश्च कृत्वा अन्नादि सकृत्सकृद्दत्वा भोजयेत् ॥ ३ ॥ एकोद्दिष्टेत्यादि । एकमुद्दिश्य क्रियते इत्येकोद्दिष्टम् । एकोद्दिष्टकारणं श्राद्धमेकोद्दिष्टनिमित्तश्राद्धम् । तस्मिन् । प्रेतनिमित्तं प्रेततृप्त्यर्थं भुङ्क्ष्वेति । ब्राह्मणं वरयित्वा आसयित्वाऽभ्यर्च्य प्रत्येकमर्घ्यपात्रं संसाध तिलोकादि दद्यात् । उद्यन्तं वा ददातीति केचित् ॥ ४ ॥ उद्यन्तमित्यादि । अशक्तः अन्नाभावे भोक्तभावे वा उद्यन्तमामं ददाति । भोजनार्थ द्विपस्थतण्डुलैः पूर्ववत्तिलोदन सापूपव्यञ्जनं पक्का पाले प्रक्षिप्य प्रभूतेन सर्पिषोपसिच्य द्वात्रिंशत्कबलानि कृत्वा अभिमभ्यर्च्य तस्मिन्नमौ पुरुषसूक्तेन ‘उशन्तस्त्वा हवामहे’ इति पितृसूक्तेन वा ‘यत्ते कृष्णशकुन आतुतोद ’ इति मन्त्रावृत्त्या वा जुहुया दित्येके । निमिचभावे मासेऽतीते हीने च प्राजापत्यं चरित्वा प्रायि हुत्वा पूर्ववदेकोटिं कुर्यात् ॥ ५ ॥ सप्तम- खण्ड- ] श्रीदखानसगृह्यसूत्रम् १४७ निमित्त इत्यादि । प्रायश्चित्तं प्रेतकर्माणि सर्वत्र निरेव वैश्वदेव याम्यं पैतृकं व्याहृतीश्च प्रायश्चित्तम् । एवं प्रतिमासं द्विगुणादिवृद्धा प्रायश्चित्तं कृत्वा संवत्सरान्तमेवं कुर्यात् । संवत्सरेऽतीते दहनादि सर्व पूर्वव- कुर्यात् । 1 सपिडीकरणात्पूर्व मासिमासि तन्मरणदिने पिण्डं निरुयैकं भोजयति ॥ ६ ॥ द्वादशे षष्ठे तृतीये वा मासि शुभकार्ये प्राप्ते द्वादशाहं वा सपिण्डीकरणं कुर्यात् ॥ ७ ॥ द्वादश इत्यादि । द्वादशाहसपिण्डीकरणपक्षे एकादशेऽहन्येव एका- दिष्टं कृत्वा त्वा देशकालशस्यपेक्षया श्वः सपिण्डीकरणं कुर्यात् । तदा तत्तत्कालविहितानि षष्ट्यधिशतत्रयमेकोद्दिष्टश्राद्धानि सोदकुम्भानि प्रेततृप्त्यर्थ- मपकृष्य कुर्यात् । ब्राह्मणेभ्यस्तावत्सङ्ख्याकान्यामदानानि दत्वा पुनः तत्तत्काल- विहितानि षोडशैकोद्दिष्टश्राद्धान्यपकृप्य एकोद्दिष्टवद्राह्मणवरणादि पिण्डदानान्तं भोजनान्तञ्च कर्माचरेत् । ततः द्वादशाहे सपिण्डीकरणम् । पुनर्मासिमासि तहिने त्रिपुरुषोद्देशेन श्राद्धं कर्यात् । इति वाजपेयीये सप्तमप्रश्ने सप्तम- खण्ड- । अथ अष्टम- खण्ड- पूर्वेद्युः द्वौ विश्वेदेवार्थं वीन् पित्रर्थमेकं प्रेतार्थ ‘सपिण्डीकरण- श्राद्धे मोक्ष्यता’ मिति वरयित्वा ‘स्वाहा’ - ‘स्वाधा’ इति तेषां करे तिलोदकं दत्वा ‘पितृभ्यस्वाधा’ इति पात्रं तिलोदकैः पूरयित्वा पितृनावाद्य तन्नाशा ‘प्रेताय स्वधा’ इत्यन्यत्पातं पूरयित्वा प्रेतमावाह्य तथा होमं हुन्वा पिण्डं निरुप्य विश्वेदेवाभ्यां द्विद्विर्दत्वा पितृभ्यः प्रेताय सकृत्सकृद्दत्वा तान् योजयति ॥ १ ॥ पूर्वेद्युरित्यादि । पूर्वेद्युः रात्रौ । वीनू पित्रर्थ - पितामह प्रपितामह वृद्धप्रपितामहास्त्रय उद्दिष्टाः पितरः । विष्ण्वर्थमन्यमपि वरयेत् । वरयित्वा - फलादिभिर्वरणम् । इदं पूर्वरात्रकृत्यम् । परेद्युः श्राद्धदिवसे पूर्ववत् सुप्रक्षा- लितपाणिपादान् आसयित्वा ब्राह्मणान् अभ्यर्च्य अर्घ्यपात्रमासाद्य ‘विश्वेभ्यो देवेभ्यस्स्वाहा’ इति तयोः करे यवोदकं तथा ‘पितामहेभ्यः प्रपितामहेभ्यो वृद्धप्रपितामहेभ्यः स्वधा’ इति तेषां करे तिलोदक’ ‘प्रेताय स्वधा’ इति तत्करे अन्यस्मात्पात्रात्तिलोदकं दत्वा अन्यस्मात्पात्रात् ‘विष्णवे स्वाहा’ इति तत्करे यवोदकच दद्यात् । पितृभ्यस्स्वधा इत्यादि । पूर्वं प्रयोग उक्तः । पिण्डं निरुप्य - पितॄणां प्रेतस्य च प्रत्येकं पिण्डनिर्वापः । होमशिष्टादिकं विश्वेदेव- भोजनपात्रे द्विद्विः अन्येषां सकृददाति । ततो भोजनम् । 1 पितृ पिण्डैः प्रेतपिण्डं समारोप्य पितृपालोदकैः प्रेतपालोदकं संयोजयति ॥ २ ॥ पितृपिण्डैरित्यादि । प्रेतपिण्डं विधा कृत्वा पितृपिण्डैस्त्रिभिः क्रमेण समारोप्य – एकीकृत्य प्रेतपात्रस्थोदकं पितृपात्रोदकैः संयोजयति । सपिण्डीकरणे हीने कृतं शुभकार्य विनश्यति ॥ ३ ॥ सपिडीकरण इत्यादि । हीने - अकृते सति ।जन्मः स ] श्राम् ९४९ तस्मान्प्रायश्रितं त्वा सपिण्डीकरणं कृत्वा मिनेऽहनि विष्णु- सक्तं मिन्द्राहुत्याश्रावितादीन हत्या पुनः शुभकर्म कुर्यात् ॥ ४ ॥ तस्मादित्यादि । प्रायश्चित्तमुक्तम् । सपिण्डीकरणं पूर्ववत् पिण्डसंयोज- नान्तं कृत्वा । पुनः – कृतमपि शुभकर्म पुनः कुर्यात् । नियमेन । अष्टकाहीने तद्वंशविनाशो भवेत् ॥ ५ ॥ यन्त्रनाष्टकां करोति ॥ ६ ॥ यत्नेनेत्यादि । तस्मात् पूर्ववत् प्रायश्चित्तं कृत्वा । यत्नेन - जलदान पिण्डनिर्वाप ब्राह्मणभोजनेषु श्रद्धा कृतेषु सर्वसमृद्धिः वंशवर्धन भवेदिति विज्ञायते ॥ ७ ॥ इति वाजपेयीय सप्तमप्रश्न अष्टमः खण्डः । अथ नवमः खण्डः -***– गृहस्थस्योपासने विच्छिन्ने यदि प्राणोत्क्रान्तिः वृद्धानुज्ञातस्तत्पुत्रः श्रोवियागारादनिमाहृत्य संस्कृतायां भुवि व्याहृतीभिः संस्थाप्योपतिष्ठते ॥ गृहस्थस्येत्यादि । प्रेताधानप्रकार उच्यते । आहिताभेरनाहिताग्नेः गृहस्थस्य वनस्थस्य वा अग्निहोत्रादिके होमे विच्छिन्ने- नष्टे । यदि मरणं भवेत् । वृद्धैरनु- ज्ञातः - वृद्धाः प्रायश्चित्तनिर्देशकुशलाः तैरनुज्ञातः । पुत्रादिः पुनराधानोतं प्रायश्चित्तं कृत्वा अरण्याद्यारोपितं विधिना मथित्वा अथवा श्रोत्रियागाराद्वा अग्नि- माहृत्य । संस्कृतायां भूमौ भाघारं विना व्याहृतीभिरभि संस्थाप्य उपतिष्ठेत । } ‘जुष्टोदमूना’ मित्यथैनं परिसमूह्य परिस्तीर्य पर्युस्य आज्यं विलाप्यो- स्य सुचि चतुर्गृहीतं गृहीत्वा सप्तव्याहृतीर्हुत्वा पुनरपि पूर्ववत् गृही- त्वा ’ पूर्व देवाः ’ ’ प्राणापानौ’ इति द्वाभ्यां ‘मात्त्रा वृक्षौ संवाधिष्टां’ मात्वा वृक्ष सम्बाधेथां’ इति द्वाभ्यां ‘अग्नेऽस्यावर्तिन् – ‘अग्ने अङ्गिरः’ इति द्वाभ्यां ‘पुनरुर्जा’ ‘सह रय्या’ इति द्वाभ्यां ‘अया- श्राग्ने ‘ब्राह्मण एकहोता’ इति द्वाभ्यां क्रमेण चतुर्गृहीतानि हुत्वा पुनश्चतुर्गृहीतं गृहीत्वा महाव्याहृतिभिश्च जुहुयात् ॥ २ ॥ जुष्टोदमूनामित्यादि । परितस्समूहनं शोधनं परिसमूहनम् । परि- स्तीर्य - दर्भैः दक्षिणायैः पश्चिमाद्यैश्च । पर्युक्षण परिषेचनम् । सप्तकृत्व- स्वप्तव्याहृतिभिर्होमः । एकेन चतुर्गृहीतगृहीतेन सर्वत्र सप्तधा द्विधा च यथोक्त- होमः कार्यः । महाव्याहृतिहोमानन्तरं सायं पूर्वमग्निहोत्रहोमादिकं जुहुयात् । एवमुत्पाद्य पूर्वोक्तेन विधिना दद्दनं कुर्यादित्याह भगवान् विखनाः ॥ ३ ॥ इति वाजपेयीये सप्तमप्रश्ने (चतुर्थ- पटल-) नवम- खण्ड- । ॥ इति सप्तमः प्रश्नः ॥