गृह्यम्

वैखानसगृह्यसूत्रम्
अथ निषेकादिसंस्कारान्व्याख्यास्यामः ऋतुसङ्गमनगर्भाधानपुंसवनसीमन्तविष्णुबलिजातकर्मोत्थाननामकरणान्नप्राशनप्रवासागमनपिण्डवर्धनत्तौडकोपनयनपारायणव्रतबन्धविसर्गोपाकर्मस-मावर्तनपाणिग्रहणानीत्यष्टादश संस्काराः शारीराः यज्ञाश्च द्वाविंशत् ब्रह्मयज्ञो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति पञ्चानामहरहरनुष्ठानं स्थालीपाक आग्रयणमष्टका पिण्डपितृयज्ञो मासिश्राद्धं चैत्र्याश्वयुजीति सप्त पाकयज्ञाः अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणेष्टिश्चातुर्मास्यो निरूढपशुबन्धः सौ-त्रामणीति सप्त हविर्यज्ञाः अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाज-पेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञा इत्येते चत्वारिंशद्भवन्ति निषेकादा जातकात्संस्कृतायां ब्राह्मण्यां ब्राह्मणाज्जातमात्रः पुत्रमात्र उपनीतः सावि-त्र्यध्ययनाद्ब्राह्मणो वेदमधीत्य शारिरैरा पाणिग्रहणात्संस्कृतः पाकयज्ञैरपि यजन्श्रोत्रियः स्वाध्यायपर आहिताग्निर्हविर्यज्ञैरप्यनूत्तानः सोमयज्ञैरपि भ्रूणः संस्कारैरेतैरुपेतो नियमयमाभ्यामृषिकल्पः साङ्गचतुर्वेदतपोयोगादृषिः नारा-यणपरायणो निर्द्वन्द्वो मुनिरिति संस्कारविशेषात्पूर्वात्पूर्वात्परोवरीवानिति विज्ञायते १
अथ चातुराश्रमिणां स्वानविधिरभिषेकदिव्यवायव्याग्नेयगुर्वनुज्ञा इति पञ्चधा भवति नदीतटाककूपानामलाभे पूर्वस्योत्तरमुपतिष्ठते प्राङ्मुख उदङ्मुखो वाक्रम्य जलस्थलेष्वासीनः पाणिपादावा मणिबन्धजानुतो दक्षिणादि प्रत्येकं प्रक्षा-ल्याकेनावस्त्रावमविच्छिन्नमद्रुतमशब्दमबहिर्जानुहृदयङ्गममुदकं गोकर्णव-त्पाणिं कृत्वा
ब्राह्मेण तीर्थेन त्रिराचम्य द्विरङ्गुष्ठमूलेनास्यं परिमार्ष्ट्यङ्गुष्ठस्याग्निः प्रदेशिन्या वायुर्मध्यमस्य प्रजापतिरनामिकायाः सूर्यः कनिष्ठिकस्येन्द्र इत्यधिदेवता भवन्त्य्
अङ्गुष्ठमध्यमाभ्यां सर्वतीर्थैर्वा मुखं मार्ष्ट्यङ्गुष्ठानामिकाभ्यां चक्षुषी अङ्गुष्ठप्रदेशिनीभ्यां नासिकामङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे भुजौ ताभ्याम-ङ्गुष्ठेन वा हृदयमङ्गुलिभिर्नाभिं चाङ्गुष्ठेन प्रत्यङ्गमपश्च स्पृष्ट्वा जङ्घयोर्वामे पाणा-वप्यभ्युक्ष्य सर्वाभिर्मूर्धानं स्पृशतीन्द्रोऽहमुभ्याभ्यामिति करावापः पादाव-स्मिन्कुल इति पादौ च तथा प्रक्षाल्यापः पुनन्त्विति पुनस्तथाचामति ऋग्वेदः प्रीणातु यजुर्वेदः प्रीणातु सामवेदः प्रीणात्विति त्रिरपः पीत्वाथर्ववेदः प्रीणात्वितिहासवेदः प्रीणातु चन्द्रमाः प्रीणात्विति त्रिधा मुखं मार्ष्टि महेश्वरः प्रीणात्विति मूर्धानमादित्यः प्रीणातु सोमः प्रीणात्विति चक्षुषी दिशः प्रीणन्त्विति श्रोत्रे वायुः प्रीणात्विति नासिकामिन्द्रः प्रीणात्विति भुजौ विष्णुः प्रीणात्विति हृदयमग्निः प्रीणात्विति नाभिं स्पृशतीत्येके २
अथापो नमस्कृत्यावगाह्य यावदमनश्शङ्कमद्भिर्मृदा च गात्रशुद्धिं कृत्वा वस्त्रमा दशात्सूदितमिति नेनेक्ति गायत्र्या प्रागग्रिकमुदगग्रिकं वास्तृणाति शुष्के तयैव गृह्णीयादिदमापः प्रवहतेत्यभिगम्य हिरण्यशृङ्गमिति जलं प्रणम्य स-मृदोदकेनापः पुनात्वित्यभ्युक्ष्येदमापः शिवा इत्यपो विगाह्य सुस्वातीदं ब्रह्म पुनीमह इति पवित्रं गृहीत्वा ब्रह्म पुनात्वित्यङ्गुल्यां निक्षिप्य शतधारमिति जलं गृहीत्वा पयस्वतीरोषधय इत्याचम्य भूरग्नय इत्युपस्थानमादित्यस्य चित्पति-रिति त्रिभिरनामिकोपान्ताभ्यां समृदोदकेन त्रिः प्रदक्षिणमावर्त्य शिरो मार्ष्ट्या-पोहिरण्यपवमानैः प्रोक्षयत्युद्वयमित्यादिनादित्यमुपस्थाय महाव्याहृत्या ज-लमभिमन्त्र्य कर्णावपिधायाभिमुखमादित्यार्धं निमज्ज्य ऋतं च सत्यं च यासु गन्धा इति त्रिरावर्तयन्नघमर्षणं करोति ततो मन्दं निःश्वस्य धौतं परिधा-यानुपमृज्य वासः प्रातः सूर्यश्चेत्यादिनाचम्यापोहिष्ठादिभिरृग्भिस्तिसृभिः प्रोक्ष्य गायत्र्यापोऽभिमन्त्र्यादित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति प्राणा-याममेकावरं कृत्वाष्टावरां सावित्रीमभ्यस्य मित्रस्येत्यादिभिरृग्भिस्तिसृभि-स्तिष्ठन्सन्ध्यामुपासीत मध्याह्न आपः पुनन्त्वित्याचम्य तथा प्रोक्ष्योद्वयमि-त्यादिभिर्यजुर्भिस्तिष्ठन्नादित्यमुपस्थाय तथा करोति सायमग्निश्चेत्यादिनाचम्य तथा प्रोक्ष्य यच्चिद्धीत्यादिभिः सामभिरुपास्यासीनस्तथा करोत्युदितार्कां प-श्चिमार्कामिति च सन्ध्ये यथादिशं तन्नामादिना दिग्देवताः पितॄन्सापसव्यं ब्रह्माणं चोदङ्मुखो नारायणादीन्नमोऽन्तेनोपतिष्ठेत ३ अथाचम्य कौरुक्षेत्रमिति जलं नमस्कृत्य महाव्याहृत्या जलमभिमन्त्र्य हस्तेन तलतीर्थक्रमेण कूप्याभ्यः स्वाहेत्यादिभिस्तर्पयति भूपतिं तर्पयामि भुवनपतिं तर्पयामि भूतानां पतिं तर्पयामि प्रजापतिं तर्पयामि ब्रह्माणं तर्पयामि नारायणं तर्पयामि महादेवं तर्पयामि स्कन्दं तर्पयामि विनायकं तर्पयामि यथादिशं तन्नामादिना दिग्देवतास्तर्पयतीन्द्रं तर्पयामि यमं तर्पयामि वरुणं तर्पयामि कुबेरं तर्पयाम्यग्निं तर्पयामि निरृतिं तर्पयामि वायुं तर्पयामीशानं तर्पयाम्यादित्यं तर्पयामि सोमं तर्पयाम्यङ्गारकं तर्पयामि बुधं तर्पयामि बृहस्पतिं तर्पयामि शुक्रं तर्पयामि शनैश्चरं तर्पयामि राहुं तर्पयामि केतुं तर्पयामि ग्रहाँस्तर्पयामि नक्षत्राणि तर्पयामि ताराँस्तर्पयामि विश्वान्देवाँस्तर्पयामि सर्वाश्च देवतास्तर्पयामि वेदाँस्तर्पयामि यज्ञाँस्तर्पयामि छन्दाँसि तर्पयामि स्वगो-त्रादिसप्तर्षींस्तर्पयति विश्वामित्रं तर्पयामि जमदग्निं तर्पयामि भरद्वाजं तर्पयामि गौतमं तर्पयाम्यत्रिं तर्पयामि वसिष्ठं तर्पयामि कश्यपं तर्पयामि भृगुं प्राचीनावीती पित्र्याणि करोति ऊर्म्योदकान्त इति पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो ज्ञातिवर्गेभ्यः पितृपत्नीभ्यः पितामहपत्नीभ्यः प्रपितामहपत्नीभ्यो ज्ञातिवर्गपत्नीभ्यः स्वधा नमस्तर्पयामीति तर्पयति अथ निवीती भौमाँस्तर्पयामि भौमदिव्याँस्तर्पयामि नागाँस्तर्पयामि नागदिव्याँस्तर्पयामि यावन्तो जलार्थि-नस्तावन्तः प्रतिगृह्णन्त्वित्यपो विसृज्याचम्य ब्रह्मयज्ञं करोति शुद्धे देशे बर्हिरास्तीर्य ब्राह्ममासनमास्थाय पवित्रपाणिर्ब्रह्माञ्जलिं कृत्वा प्राङ्मुखः सावित्रीपूर्व नित्यमिषे त्वोर्जे त्वेत्यादि यथाकामं नैमित्तिकमृतं च सत्यं च देवकृतस्य यन्मे गर्भे तरत्स मन्दी वसोः पवित्रं जातवेदसे विष्णोर्नु कं सहस्रशीर्षैकाक्षरमा त्वाहार्षं त्वमग्ने पवस्वादीन्स्वाधायमधीयीत सौरीभिरृग्भिर्यथाकाममादित्यं चोपतिष्ठेत ४
अशक्तो नित्यं पादौ प्रक्षाल्याचम्य अतो देवादि वैष्णव जप्त्वा दिव्यं वायव्यमाग्नेयं मन्त्रस्नानं वा कृत्वा पूर्ववदाचमनादीनि कुर्याद्दिवश्च्युतैर्गाङ्गे-यैराधावैः सातपैर्वर्षैर्वासेचनं दिव्यं गवां पादोद्गतैर्वायुनीतैः पांसुभिः स्पर्शनं वायव्यं भस्मना शुद्धेन सर्वाङ्गमालेपनमाग्नेयमापो हि ष्ठेति मन्त्रेणाग्नेयेन तीर्थेनाभ्युक्षणं मन्त्रस्नानं
दक्षिणपाणेर्मध्यतलमाग्नेयं तीर्थं
कनिष्ठाङ्गुलिमूलं दैवं
सर्वाङ्गुलिमूलाग्रमार्षं प्रदेशिन्यङ्गुष्ठयोर्मध्यं पैतृकम्
अङ्गुष्ठस्य मूलं ब्राह्मं
दैवेन तीर्थेनोपवीती दैविकं कार्यम्
आर्षेणार्षं
पैतृकेण पित्र्यं
सर्वं ब्राह्मेण ब्रह्मतर्पणम् आचमनम्
आग्नेयेन तीर्थेनाभ्युक्षणं करोति दक्षिणहस्तमुद्धत्योपवीतं धारयेदुप-वीती वाममुद्धृत्य प्राचीनावीती कण्ठसक्ते निवीती भवति स्नात्वा पुण्येऽहनि संस्कारहोमं जुहुयादिति विज्ञायते ५
अथ पुण्याहं पञ्चावराञ्छ्रोत्रियानाहूयाभिपूजयत्याचार्यः करकं धारास्वित्यद्भिरापूर्येदमापः शिवा इत्यपोऽभिमन्त्र्य पुष्पाद्यैः सर्वतीर्थजलमित्यभ्यर्च्य प्रतिवाचकान् प्राङ्मुखानुदङ्मुखात्वा स्थापयित्वोदङ्मुखः सुपुण्याहं करोमीति रुङ्कल्प्य स्वस्ति सुप्रोक्षितमस्त्विति स्थानं प्रोक्ष्य प्रजापतिः प्रियतामित्युक्त्वा तैः प्रियतामिति वाचयति शाम्यन्तु घोराणीत्युत्तरान्तं त्रिरपः स्रावयति अतो देवा इत्यग्रं दैविके सं त्वा सिञ्चामीत्यग्रं सूतके शुची वो हव्येत्यग्रं प्रेतके द्रविणोदाः सविता नवो नवो विद्युच्छतं जीवाष्टौ देवा हिरण्यरूप ऋध्याम स्तोममाहार्षं त्वार्यमणं सोमँ राजानमिन्द्रावरुणा श्रिये जातो या गुङ्गुर्यस्त्वा हृदा यस्मै त्वं नर्य प्रजां सुत्रामाणं शतायुधाय दक्षिणावतां भद्रं कर्णेभिः शतमिन्न्वदितिर्द्यौरित्यृत्विजः सर्वे वदेयुः ६
देवा ऋषयः पितरो ग्रहा देव्य ऋषिपत्न्यः पितृपत्न्यो वेदा यज्ञाश्च सर्वाद्याः प्रियन्तामन्तः प्रतिवचनं पुण्याहं शिवमायुष्यमरोग्यमविघ्नमचलमैश्वर्यं यत्पापं तत्प्रतिहतं यच्छ्रेयः शिवं कर्म शिवः पक्ष इत्यस्त्वन्तास्तथान्तः प्रतिवचनं शिवा ऋतवः सन्तु शिवानि नक्षत्राणि भवन्तु सर्वकर्मसमृद्धिरस्तु सर्वधन-धान्यसम्पूर्णमस्त्वित्येकैकमुक्तवन्तः प्रतिवचनं यत्पुण्यं स्वस्ति न ऋध्यास्मेति पूर्वोक्तामितरेऽनुवदन्ति यजमानस्य नक्षत्रनामादि गोत्रनाम सुतान्तं मातृगोत्र-नामान्तात्परं शर्मान्तं नाम प्रणवादि भवन्तो ब्रुवन्तु पुण्याहं स्वस्त्यृद्ध्यन्तं प्रत्येकं त्रिधा त्रिधा यथाविभक्तिवाचितमनुवाचयेयुः आपोहिरण्यपवमानैः प्रोक्षयति पुण्याहे कृते तदहः पुण्यं भवत्यादावन्ते वा पुण्याहेन सर्वाः क्रियाः पुण्याः परिपूर्णा भवन्ति स्वाङ्कृतोऽसीति दक्षिणाकालमुक्तवत्सु घृतात्परी-त्यद्भिर्यथाशक्ति दक्षिणां हस्तेन दक्षिणेन ददाति त्वमग्ने यज्ञानाँ होतेति तदाददीरन्यत्र दक्षिणादानादाने तत्रैवं स्यादिति विज्ञायते ७
अथाग्न्यायतनं प्राक्प्रवणे वोत्तरप्रवणे वा शुद्धे देशे गोमयेनोपलिप्ते शुद्धाभिः सिकताभिः प्राक्पश्चिमं दक्षिणोत्तरं च द्वात्रिंशदङ्गुल्यायतं द्व्यङ्गुलोन्नतं यथा-लाभोन्नतं वा स्थण्डिलमग्न्यायतनं भवति परिस्तरणबर्हिषः प्रतिदिक् पञ्चदश स्थण्डिलप्रमाणाः कुण्डे षट्त्रिंशदङ्गुलास्तथैकाङ्गुलिपरिणाहा व्रणवक्रहीनाः परिधयः पञ्चदशदर्भैर्ग्रथितं चतुरङ्गुलाग्रं द्व्यङ्गुलग्रन्थि हस्तमात्रं प्रोक्षणकूर्चं तथैव द्वादशाङ्गुलमात्रं पवित्रं तत्प्रमाणा याज्ञिकाः समिधः पात्रस्रुवादयो यज्ञे प्रोक्ता दर्भेषु द्वन्द्वं पात्रादिसम्भारानुत्तरे दैविके प्रत्येकं दक्षिणतः पैतृके सम्भरति नित्यहोमेऽग्निशालायां मृदा चतुर्दिशं द्वात्रिंशदङ्गुल्यायतां चतुरङ्गुलविस्तारां द्व्यङ्गुलोन्नतामूर्ध्ववेदिं चतुरङ्गुलिविस्तारोन्नतां तत्परिगतामधोवेदिं च मध्ये निम्नं षडङ्गुलमग्निकुण्डं कृत्वास्मिन् गृहस्थोऽग्निमौपासनमाधाय नित्यं जुहोति वनस्थस्य श्रामणकाग्रेः कुण्डमाधानविशेषं च धर्मे वक्ष्यामः ८
अथाघारविधानं ब्राह्मं प्राङ्मुखमासीन एतो न्विन्द्रमित्यग्न्यालयं प्रोक्ष्य मयि देवा इत्यादिभिश्चतुर्दिशं दर्भानुक्षयेदुद्धन्यमानमिति मध्यपूर्वापरयमाग्निनि-रृतिसोमेशानमरुतो बर्हिषा खनति तथा पूत ह्यातनेति षड्रेखा लिखि-त्वाष्टाबन्धमिति वक्रितं दर्भं दक्षिणपश्चिमस्यामुत्सृज्य रेखा गायत्र्या प्रोक्ष्य जातवेदो भुवनस्येत्यरणिं गृहीत्वा मथितं लौकिकं वाग्निमादायाहरेत घृतप्रतीक इति प्रज्वाल्यायुर्दा इति प्रणम्योपावरोहेति निधायाग्न आयाह्ययं ते योनिरिति प्रज्वाल्य मयि गृह्णामीत्यभिवन्द्य कर्मणे वामिति करौ प्रक्षालयति इदमापः शिवा इत्यपोऽभिमन्त्र्यादितेऽनुमन्यस्व दक्षिणत वेदिं परिमृजामीति दक्षिणवेदिं नैरृत्याद्यन्तमनुमतेऽनुमन्यस्व पश्चिमतो वेदिं परिमृजामीति तथा पश्चिमवेदिं सरस्वतेऽनुमन्यस्वोत्तरतो वेदिं परिमृजामीत्युत्तरवेदिं वायव्याद्यन्तं देव सवितः प्रसुव पुरस्ताद्वेदिं परिमृजामीति पूर्ववेदिं चाग्नेयाद्यन्तमङ्गुली-रास्तीर्य साधावेन पाणिना कूर्चेन वा परिमृज्य गायत्र्या वेदीः प्रोक्षयति ब्रह्मसोमावृत्विजौ वरयित्वाध्वर्युरॐ भूपते भुवनपत इति प्रत्येकं प्रेक्ष्य ताभ्यामहं भूपतिरित्युक्ते ब्रह्मन् सोम प्रोक्षिष्यामीत्यन्तं तथोक्त्वा पुनस्ताभ्यां प्रोक्षेत्युक्तस्तथा प्रोक्षयति ९ पात्रादाधावमादाय पवित्रे स्थ इति वेद्यां बर्हिषः स्थापयित्वा तान्परशुरसीति प्रोक्ष्य समिधो मुक्तबन्धाः कृष्णोऽसीति वेदिरसीति वेदिं स्रुवादीन्बर्हिषो बर्हिरसि स्रुग्भ्य इति बर्हिषोऽग्रं दिवे त्वेति मध्यमन्तरिक्षायेति मूलं पृथिव्यै त्वेति प्रोक्षयति पोषाय त्वेत्यपो बर्हिर्बन्धने संस्राव्य स्वधा पितृभ्य इति सापसव्यं दक्षिणतः प्रोक्ष्यापां शेषं पश्चिमस्यामुत्तरान्तमूर्ग्भवेति स्रावये-दुभाभ्यामिति पाणी प्रक्षालयति पूषा त इति बर्हिर्बन्धं विसृज्य मूला-दूर्ध्वमादित्यं व्यञ्जनमसीत्यभिमृश्य पश्चिमतो वेद्यधस्तादुत्तराग्रमूर्णाम्रद-समिति दर्भैः परिस्तीर्य स्वासस्थं देवेभ्य इति प्रागग्रं स्वासने चैकं निधाय विष्णोः स्तूपोऽसीति प्राच्यां दक्षिणत इति याम्यामुत्तरत इत्युदीच्यां पश्चिमत इति प्रतीच्यां प्रागुत्तराग्रं परिस्तृणात्युत्तराग्रमैशान्यामूर्ध्वं कृत्वा गन्धर्वोऽसीति पश्चिमस्यामिन्द्रस्येति याम्यां मित्रावरुणावित्युदीच्यां वेद्यां प्रागुत्तराग्रान्परिधीन्परिदधाति १० वायव्यामुत्तराग्रमूर्ध्वं करोति सूर्यस्त्वेति प्राच्यामुत्तरान्तमुपरिष्टादित्यूर्ध्वमधस्तान्नागा इत्यधश्च परिषिच्य वीतिहोत्रमित्यग्न्यालये समिधावग्नीश-योर्दिशोरूर्ध्वाग्ने निदधाति परिस्तीर्यमित्यादिनैन्द्राद्यमुदगन्तमार्षेणापो दत्त्वा सृतासीत्यादिभिर्दक्षिणादि तेनैव प्रागन्तमुत्तरान्तं च परिषिच्य तरुणा-सीत्याग्नेयादीशानान्तं प्रदक्षिणमाग्नेयान्तमद्भिः परिषिञ्चति वानस्पत्योऽसीति प्रणिधी प्रक्षाल्य पृथिव्यापो ग्रहीष्यामीति साक्षतमद्भिरापूर्य वसूनां पवित्र-मित्युदगग्रे पवित्रे प्रक्षिप्य दक्षिणेन पाणिनाग्रमितरद्वामेन गृहीत्वा देवो वः सवितेति त्रिरुत्पूय तथा निदधाति ब्रह्मन्नप इति सोमाय इति च ब्रह्म-सोमावृत्विजौ प्रत्येकं प्रेक्ष्य ताभ्यां तथा प्रणयेत्युक्तः को व इति प्रणीय वेद्यां दक्षिणोत्तरयोः प्रणिधी निधाय संविशन्तामिति कूर्चेन जलं संस्राव्य गायत्र्या स्रुवं प्रोक्षयेत् ११
भूः स्रुवं गृह्णामीति स्रुवं गृहीत्वा वर्षिष्ठे अधि नाक इति वेद्यधस्तात्समिधौ न्यस्याहीनो निर्वपामीति स्रुवं प्रक्षाल्य निर्दग्धमिति पर्यग्निं कृत्वा निष्टप्तमिति समिधोर्निदध्याददितिरस्यछिद्रेत्याज्यस्थालीं गृहीत्वोत्तरे भूतकृतः स्थोपोढ-मित्यङ्गारं न्यस्य सगराः स्थेति विन्यस्य महीनामिति पचति पूर्ववत्पवित्रेण त्रिरुत्पूयाज्यस्थाल्याः पृष्ठभस्मेदं विष्णुरिति वेदेन शोधयित्वोद्भवः स्थोद-हमिति बर्हिर्दग्ध्वाङ्गारमन्तरितमित्याज्यस्य दर्शयति दक्षिणतोऽङ्गारं गायत्र्या न्यस्य तयैव चरुस्थालीमधिश्रित्य दर्भोल्केन पक्त्वावतारयति पवित्रेणाज्यं पात्रे त्रिरुत्पूय घर्मोऽसीति ग्रन्थिं विसृज्योत्तरपश्चिमे निधायाद्भिः प्रोक्ष्या-प्यायन्तामिति पवित्रं जुहोति वीतिहोत्रमिति समिदग्रं घृताक्तं वायव्येऽग्नौ स्थापयित्वा देवस्य त्वेति स्रुवेण होम्यं द्विधा विहरति १२
दक्षिणप्रणिधौ ब्राह्मेण तीर्थेन प्रजापतिपुरोगानादाहयामीत्युत्तरप्रणिधौ दैवेनाग्न्यादीनौपासनयज्ञं यज्ञदैवतविश्वान्देवान्सर्वदेवानावाहयामीत्यन्तं पैतृके वैश्वदेवयज्ञं यज्ञदैवतविश्वान्देवानावाहयामीत्यन्तमावाहयेद्यथावाहनं स्रुवे-णाज्यमूर्ध्व नीत्वा जुष्टं निर्वपामीति निर्वापं करोति तृप्यधिद्वयेन द्विधाग्नौ होम्यं दर्शयित्वाग्निर्ज्योतिर्द्वयेन समिदुल्केन द्विधा दहति समिदसि स्वाहेति समिधं जुहोति स्रुवेणाज्यं गृहीत्वामृतमसीति अनुत्तानमन्तरितमित्युत्तानं प्रत्युष्टमि-त्यनुत्तानं होम्यं प्रदक्षिणमभिमन्त्र्याज्यं गृहीत्वोत्तानं स्वतो दक्षिणतो वामतः प्रणीतायां सन्धाय चित्पतिस्त्वादिभिस्त्रिभिरेव त्रिधाग्नौ संवपति १३ गायत्र्या समिधः प्रोक्ष्यैकविंशतिराहुतिप्रमाणाः करसम्पूर्णा वा समिधो गृहीत्वा मूलाग्राभ्यां घृतं स्पर्शयित्वाभ्यर्च्याक्षताज्यचरुभिरिमा मे अग्न इति मूलमध्याग्राणि स्पृशन्नधो नीत्वोर्ध्वभागे मध्ये च सन्दधाति दैवेन तीर्थेन दक्षिणस्यामद्भिः प्रागन्तमदितेऽनुमन्यस्वेति पश्चिमस्यामुत्तरान्तमनुमतेऽनुम-न्यस्वेत्युत्तरस्यां प्रागन्तं सरस्वतेऽनुमन्यस्वेति देव सवितः प्रसुवेति पूर्वस्या-मुदगन्तमाग्नेयाद्यन्तं सर्वतश्च प्रदक्षिणं परिषिञ्चति षष्टिँ शतेत्यभिमन्त्र्यायं त इध्म इतीध्मानसङ्कुलाञ्छरोऽङ्गारेऽग्नौ जुहुयाद्यस्यै देवतायै हविर्निरुप्यते तां देवतां मनसा ह वै ध्यायन्निर्वपेद्यथा ह वास्य सुषुम्ना ज्योतिष्मती प्राणवती रेतोधा इत्येता हुतं गृहीत्वा रश्मयश्चतस्रः पृश्नौ सन्दधीरन्स ह वा शुद्धामृतवहा चिनुही दिव्या लोकपावनीत्येताभिश्चन्द्रमसमाप्याययत्यसौ नु राजा सोम आप्यायितो मूलगामी वपायन्यमृतोद्गारी सुरप्रियेत्येताभिरमृतेन तां देवतां तर्पयति १४
स्रुवेणाज्यं स्रावयन्परिधी स्पृष्ट्वा वायव्याद्याग्नेयान्तं प्रजापतये स्वाहेति नैरृत्यादीशानान्तमिन्द्राय स्वाहेत्याघारौ जुहुयाच्चक्षुषी बुद्ध्वाग्नये स्वाहा सो-माय स्वाहेत्याज्यभागावुत्तरदक्षिणयोर्जुहोति युक्तो वहेति पश्चिमादिसौम्यान्तं या तिरश्चीति सौम्यादीन्द्रान्तं सँराधन्ये देव्यै स्वाहेतीन्द्रादियाम्यान्तं प्रसाधन्यै देव्यै स्वाहेति याम्यादिवारुणान्तं स्रावयन् हुत्वा मध्यमास्यमिति बुद्ध्वा तत्र व्याहृतीर्जुहोति तदग्निमुखमिति ब्रह्मवादिनो वदन्ति सत्येनेत्यभिमृश्याज्येन जुहोत्यग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्याँ स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहेन्द्राय स्वाहा वसुभ्यः स्वाहा मरुद्भ्यः स्वाहा रुद्रेभ्यः स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहा मित्राय स्वाहा वरुणाय स्वाहादित्येभ्यः स्वा-हाश्विभ्याँ स्वाहा पूष्णे स्वाहा कक्षाय स्वाहा कक्षदैवतसोमाय स्वाहौ-पासनयज्ञाय स्वाहा यज्ञदैवतविश्वेभ्यो देवेभ्यः स्वाहा सर्वदेवेभ्यः स्वाहेत्यन्तं हुत्वा दर्व्याभिघार्य चरुं सावित्र्या गृहीत्वा जुह्वा व्याहृतीर्जुहोति अतो देवा इदं विष्णुरित्याज्यं समृद्ध्यै जुहुयात्पैतृके वैश्वदेवयज्ञाय स्वाहा यज्ञदैव-तविश्वेभ्यो देवेभ्यः स्वाहेत्यन्तं हुत्वा पक्वं जुहुयादिति सर्वहोमानामादिराघारो विज्ञायते १५
अथ सामान्यतः क्रियाया होममन्त्राः धाता ददातु नो रयिं धाता प्रजाया धाता ददातु नो रयिं प्राचीं धाता ददातु दाशुषेऽनु नोऽद्यानुमतिरन्विदनुमते त्वमा मा वाजस्य समाववर्त्त्यनुमन्यतां यस्यामिदं राकामहँ यास्ते राके सिनीवालि या सुपाणिः कुहूमहुँ कुहूर्देवानामिति धातादि षोडश १६
इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययासन्निति पञ्च वारुणं प्रजापते न त्वत्प्रजापतिर्जयानित्युपांशुयाजे प्राजापत्ये चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं चाविज्ञानं च मनश्च शक्वरीश्च दर्शश्च पूर्णमासश्च बृहच्च रथन्तरं च स्वाहेति चित्तादि द्वादश जयाः अग्निर्भूता-नामधिपतिः स मावत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपां समुद्रः स्रोत्यानामन्नं सम्राज्यानामधिपतिं तन्मावतु सोम ओषधीनँ सविता प्रसवानाँ रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपतयस्ते मावन्तु पितरः पितामहाः परेऽवर इत्यष्टादशाग्निर्भूतादयोऽभ्यातानाः १७ ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नामेति सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नामेति सुषुम्नः सूर्य-रश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नामेति भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्तवा नामेति प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो वह्नयो नामेति इषिरो विश्वव्यचा वातो गन्ध-र्वस्तस्यापोऽप्सरसो मुदा नामेति भुवनस्य पत इति परमेष्ठ्यधिपतिर्मृ-त्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नामेति सुक्षितिः सुभूतिर्भद्रकृत्सु-वर्वान्पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचो नामेति दूरेहेतिरमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नामेति चारुः कृपणकाशी कामो गन्धर्वस्तस्याधयोऽप्सरसः शोचयन्तीर्नामेति स नो भुवनस्य पत इति ऋताषाडृतादि भुवनस्य स न इति वर्जयित्वा प्रत्येकं ताभ्योऽन्ता राष्ट्रभृतो द्वादर्शेति प्राजापत्यादि मूलहोमो बभूवपैतृकयच्छान्ते व्याहृतिः १८
अथान्ते होममन्त्राः यदस्याग्नये स्विष्टकृतेऽग्नयेऽन्नादायाग्नयेऽन्नपतये प्रजापतय इन्द्राय विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः सर्वत्रैवाग्नये स्विष्टकृते वास्तुपत इति स्विष्टाकारो यन्म आत्मनः पुनरग्निश्चक्षुरिति मिन्दाहुती इष्टेभ्य इत्यादि दशान्ते व्याहृतिरित्यृद्धिः आश्रावितं ब्रह्म यदकर्मेति कृतान्तं यत्प्रमत्तो मनो ज्योतिरयाश्चाग्ने यदस्मिन्स्वस्ति नो यत इन्द्र इति विच्छिन्नमधोऽस्ये-धिषीमहि स्वाहा बैल्वं समिदसि तेजोऽसि तेजो मयि धेहि स्वाहा पालाशं यमस्य धीमहि मृत्योर्मे पाहि स्वाहा नैयग्रोधं सूर्यस्य धीमहि चक्षुर्मे पाहि स्वाहा आश्वत्थं सोमस्य धीमहि चित्तं मे पाहि स्वाहा औदुम्बरं वायोर्धीमहि प्राणान्मे पाहि स्वाहा शमीं ब्रह्मणो धीमहि बुद्धिं मे पाहि स्वाहा खादिरमिति सप्त समिधः सप्त ते अग्ने ऋतुधा नेति पूर्णाहुती अग्निर्भुक्त-मित्युपजुह्वामाज्यं गृहीत्वाग्निर्जीर्णमिति जुह्वा चरुमवदाय हुत्वा समङ्तां बर्हिरिति स्रावय-ञ्जुहोति ततो वामेन स्रुवं गृहीत्वा दक्षिणेनाज्यपात्रं सङ्गृह्याग्नेरुपरि धारयन्नाज्यशेषमिन्द्राय स्वाहेति जुहुयात् १९
तत्पात्रेणाधावमादाय स्रुवेणान्तरितमग्निस्तृप्यत्वित्युपाग्नि पश्चिमतो वेदिस्तृप्यत्विति वेद्यां द्यौस्तृप्यत्वित्याकाशे पृथिवी तृप्यत्विति भूमौ ब्रह्माद्या-स्तृप्यन्तामिति दक्षिणस्यां तर्पयति प्रणीतायां दक्षिणस्यां दैवेनापो गृही-त्वौषधिवनस्पतिगन्धर्वाप्सरसश्चैव तृप्यन्तामित्युत्तरस्यां वेद्यां तर्पयति तथो-त्तरस्यां प्रणीतायां सापसव्यमपो गृहीत्वा पैतृकेण दक्षिणतः पितरः पितामहाः प्रपितामहाश्चाक्षय्यमस्तु तृप्यन्तामिति दक्षिणस्यां तर्पयति प्रासावीरित्य-न्तैश्चतुर्भिः प्रवाहणं कृत्वा दक्षिणादिप्रणिध्योरुपान्ताङ्गुष्ठानामिकाभिः पवित्र-मक्षतं गृहीत्वा पवित्रमसि पूर्णमसि सदसि सर्वमसीति पर्यायतो जुहो-त्यक्षितमसीति प्रणिधिमुत्तरां चालयित्वा तदाधावेन प्राच्यां दिशि दक्षिणायां दिशि प्रतीच्यां दिश्युदीच्यां दिश्यूर्ध्वायां दिश्यधोधराधरैरिति यथादिशं परिषिच्य माहं प्रजामिति गृहीत्वा दक्षिणप्रणिधौ स्वल्पमाधावं स्रावयित्वा स्वां योनिमिति दक्षिणप्रणिध्यां जलमुदकपात्रे स्रावयति आपोहिष्ठादिना तदद्भिः प्रोक्ष्य प्रणिधी विसर्जयति २०
पुनर्देवेभ्यो हव्यं वहेत्यग्नेर्दर्शनेन स्रुवं विसृज्य वर्षिष्ठा गह्वरेष्ठोऽग्रिमिति वर्षिष्ठसमिधौ जुहुयादूर्ध्वं यज्ञं नयतमित्यूर्ध्वसमिधौ पश्चिमतः परिधि-मपनयेत्येवं दक्षिणत उत्तरतश्च परिधीन् पश्चिमतो विष्णोः सदनमसीत्येवं दक्षिणत उत्तरतः प्राच्यामिति च परिस्तरणबर्हिषः सर्वान्परिसमूह्याप्याय-न्तामिति जुहोति शुध्यन्तां पितृषदनँ शुध्यन्तां देवसदनमित्यविच्छिन्नमास्तीर्य नैरृते दहेदविच्छिन्नेन ब्रह्मवर्चसायेति भूतिः स्मेति भस्म गृहीत्वा लला-टहृद्बाहुकण्ठादीनादित्यः सोमो नम इत्यूर्ध्वाग्रमालिप्यापो हि ष्ठेति प्रोक्ष्य ॐ च मे स्वर इति बालकृतं वेति चाग्निं पूर्ववदादित्यं चोपस्थाय पुनर्वे-दिमूलमासाद्याग्निं वैश्वानरसूक्तेनोपस्थाय प्रणामं कुर्यादिति क्रियान्ते होमः ॐ च मे खर इति लौकिकाग्निविसर्जनमिति विज्ञायते २१
प्रथमः प्रश्नः समाप्तः अथ शारीरेषु संस्कारेष्वृतुसङ्गमनवर्जं नान्दीमुखं कुर्यात् श्वः कर्तास्मीति गर्भाधानादिक्रियां यदहः करोति तदहर्नन्दी भवति तस्या मुखं सर्वदेव-पितृदैवत्यं नान्दीमुखमभ्युदयश्राद्धं दैविकवत्करोति पूर्वेद्युरेव पूर्वाह्णे युग्मा-न्ब्राह्मणान्सुप्रक्षालितपाणिपादाञ्छ्रोत्रियानन्नेन परिवेष्याथेडामभ्युक्ष्याथाव-नीदमिति मण्डलान्युपलिप्यास्त्वासनमित्यासनानि सदर्भयवानि निधाय तेष्वामीनान्पुष्पःद्यैर्यथोपपादमलङ्करोति शुक्लबलिश्वेतसर्षपदधितण्डुलमि-त्यामनन्ति चतुःशुक्लमेतदादायाग्नेर्दक्षिणतोऽग्नये सोमाय प्रजेशाय विश्वेभ्यो देवेभ्य ऋषिभ्यः पितृभ्यो भूतेभ्यः सर्वाभ्यो देवताभ्यो नम इत्यन्तेन तन्नाम्ना पुष्पादिभिरभ्यर्च्य बलिं ददाति १
चरुमपूपादि च निवेद्योदकुम्भं धारास्वित्यद्भिरापूर्य नमः सुलोमीति पाप्मनोऽपहत्यै सपल्लवं कूर्चं पवित्रमाभरणं तस्मिन्निदधाति प्रतिसरां कुतपस्य दुकूलस्य वा त्रिवृतां पुष्पाद्यपि सम्भृत्यादाय जुहुयादृचोऽग्ने नयाद्यग्निदेवत्याः सोमो धेन्वादि सौमदैवत्या ब्रह्मजज्ञानादि ब्रह्मदैवत्ये रुद्रमन्यमित्यादि रुद्रदैवत्ये अतो देवादि विष्णुदैवत्या आनोविश्वादि विश्वेदेवदैवत्या यतः स्वमसीत्यादि सप्तर्षिदैवत्या ये भूता इत्यादि भूतदैवत्या व्याहृतीरग्नये कव्यवाहनाय सोमाय पितृमते यमाय चाङ्गिरस्पतये एते य इह पितर उगन्तस्त्वा सा नो ददात्वित्यृचः पितृदैवत्याः पृथिवीगतेभ्यः पितृभ्यो ऽन्तरिक्षगतेभ्यः पितामहेभ्यो दिविगतेभ्यः प्रपितामहेभ्यः स्वधा नमः स्वाहेति पितृभ्यः पैतृकमुपवीती हुत्वा व्याहृतीः सामान्यतो देवताभ्यस्ताभ्योऽष्टाभ्यो जुहोति पात्रेष्वाज्यभागं स्रुवेणाभिघार्य द्विर्देवशेषं पितृभ्यः प्रागन्तं क्षिप्त्वा तदङ्गुष्ठेन तच्चरुं स्पर्शयति ततो नमस्कृत्या सत्येन रजसेति क्षीरेण दध्ना वा श्वेतमन्नं ब्राह्मणान्भोजयेत् अनुत्थितेभ्यः समूह्योच्छिष्टं शोधयित्वाचान्ता-ननुमान्य पुण्याहं वाचयित्वा स्वस्तिसूक्तेन तामभिमृश्य स्वस्तिदा विश-स्पतिरिति प्रतिसरां बध्नाति नान्दीमुखेभ्यः पितृभ्यः स्वधा नमो नान्दीमुखेभ्यः पितामहेभ्यः स्वधा नमो नान्दीमुखेभ्यः प्रपितामहेभ्यः स्वधा नम इत्युक्ते स्वधास्त्विति प्रतिवदतो देवान्तं विसर्जयति तेनोदकुम्भेनापरेद्युः स्नायान्नान्दीमुखमिति विज्ञायते २
अथ गर्भाधानादिवर्षे पञ्चमे ब्रह्मवर्चसकाममायुष्काममष्टमे नवमे श्रीकामं वसन्ते ब्राह्मणमुपनयीतैकादशे ग्रीष्मे राजन्यं द्वादशे शरदि वैश्यमा षोडशा-द्ब्राह्मणमा द्वाविंशात् क्षत्रियमा चतुर्विंशाद्वैश्यमिति वातीते सावित्रीपतिता भवन्ति तेषामुद्दालकप्रायश्चित्तं द्वौ मासौ यावकेन मासं क्षीरेणामिक्षया-र्धमासमष्टरात्रं घृतेनायाचितं षड्रात्रं त्रिरात्रमुदकेनोपवासमहोरात्रं वर्तत इत्येत-दुद्दालकमनेन वाश्वमेधावभृथस्नानेन वा व्रात्यस्तोमेन वेष्ट्वा पुनर्गर्भाधानादिसंस्कारान्कृत्वा शुद्धा उपनेयाः सावित्रीपतिता भवन्तीति विज्ञायते ३
ब्राह्मणस्य पालाशो बैल्वो वा केशान्तो निर्व्रणोऽनुमृष्टोऽनुद्वेजनो यूपवदवक्रो दण्डः कृष्णमृगस्याजिनं मौञ्जी मेखला क्षत्रियस्य नैयग्रोधो ललाटान्तो दण्डो रौरवमजिनं मौर्वी मेखला वैश्यस्यौदुम्बरो नासिकान्तो दण्डो बा-स्तवमजिनं शाणी मेखला ॐ भूर्भुवः सुवस्तत्सवितुरिति सावित्री ॐ भूर्भुवः सुवस्तत्सवितुरापो ज्योती रस इति प्राणायाम ॐ भूर्भुवः सुवः स्वाहेति व्या-हृतिः अग्नये समिधमिति द्वे अग्नये समिधाविति चत्वार्यग्नये समिध इति समि-दाधानमेतानि ब्राह्मणस्य ॐ भूर्भुवस्तत्सवितुरिति सावित्री ॐ भूर्भुवस्तत्स-वितुस्तेजो ज्योती रस इति प्राणायाम ॐ भूर्भुवः स्वाहेति व्याहृतिः अग्नये स-मिधमिति द्वे अग्नये समिधाविति समिदाधानमेतानि क्षत्रियस्य ॐ भूस्तत्स-वितुरिति सावित्री ॐ भूस्तत्सवितुरग्निर्ज्योती रस इति प्राणायाम ॐ भूः स्वाहेति व्याहृतिः अग्नये समिधमिति समिदाधानमेतानि वैश्यस्य भवन्ति ४
प्रोष्ठपदहस्तावश्विन्यनूराधापूर्वोत्तरपुनर्वसू मृगशिरो वा यावन्ति पुन्नामानि नक्षत्राणि तत्राग्नेर्वायव्यामुपवीताजिनमेखलाहतवस्त्रदण्डशरावाश्मसमिद्द-र्भादिसम्भारान्दर्भेषु सम्भृत्य सं च त्वे जग्मुरिति प्रोक्षयत्यथाज्येनाघारं हुत्वाचान्तं मङ्गलयुक्तं कुमारमासयित्वाग्नेर्नैरृत्यां मस्तके दर्भौ प्रागुत्तराग्रौ विन्यस्य सरोमाणं दर्भमिन्द्र शस्त्रमिति चतुर्भिः प्रदक्षिणं चतुर्दिशं छित्त्वा येनाव-पद्यत्क्षुरेणेति सर्वतो वपति नाधो जत्रोर्गोशकृद्युक्ते शरावे केशान्गृह्णीयात् यत्र मौण्ड्यं शिखाभ्रूवर्जमानखं वपति स्नात्वाचान्तं पुण्याहं वाचयित्वा भुक्त-वन्तमामयति दक्षिणे कुमारमथ परिस्तीर्यायुर्दा अग्न आयुर्दा देवेति प्रधानं पञ्च वारुणं व्याहृतिपर्यन्तं जुहोत्यातिष्ठेति वायव्यामश्म पादाङ्गुष्ठेन दक्षिणेन स्पर्शयति या अकृन्तन्निति वस्त्रमियम् दुरुक्तादिति मेखलां परीदमित्युत्तरीयं यज्ञोपवीतमित्युपवीतं मित्रस्य चक्षुरिति कृष्णाजिनं तस्मै ददाति ५
ततो विधिवदाचमनं कारयित्वा सदस्याननुज्ञाप्य देवस्य त्वेति बाहू आलभ्योत्तरे प्राङ्मुखः प्राङ्मुखमुपनयीतायुष्टे विश्वत इति दक्षिणपाणिं गृहीत्वो-द्धरत्यग्निष्टे हस्तमग्रभीदिति विसर्जत्यसावपोऽशानेत्याचारं मम हृदय इति तस्य हृदयस्पर्शनं कृत्वा भूर्भुव सुवः सुप्रजा इति प्रशंसति भूरृक्षु त्वेति भुवो यजुःषु त्वेति सुवः सामसु त्वेतीष्टुतस्त इत्यनलस्य त इतीदं वत्स्याव इति षड्भिः कर्णे जपित्वा नाम शर्मान्तं कुर्यादग्निरायुष्मानित्यादिकैः पञ्चभि-र्दक्षिणहस्ते कनिष्ठाद्यङ्गुल्यग्राणि पर्यायेण विसृजेदायुर्दा इति दक्षिणे कर्णे प्रतिष्ठ वायाविति वामे च जपति स्वस्ति देवेत्यग्निं प्रदक्षिणं कारयित्वा दक्षिणे निवेश्य राष्ट्रभृदसीति कूर्चं दत्त्वा शं नो देवीरिति प्रोक्ष्य मूलहोमं व्याहृतिपर्यन्तं जुहोत्यदितिस्ते कक्ष्यामिति हुतशेष भोजयित्वा योगे योगे तवस्तरमित्याचमनं ददाति शतमिन्न्वित्यादित्यं नमस्कृत्यागन्त्रा समगन्महीति प्रदक्षिणं कारयि-त्वा शकाय त्वेत्युत्तमाङ्गमभिमृश्याधीहि भो इति तेन प्रार्थितो गुरुरथाह सा-वित्रीं भो इति शिष्यमनुशास्ति गणानां त्वेति गणमुख्यमोजोऽसीति सावित्रीं पावका नः सरस्वतीति सरस्वतीं च प्रणम्य यथोक्तं सावित्रीं पच्छोऽर्धर्चशो व्यस्तां समस्तामध्यापयेत् ६ धातादिपूर्वं सवित्रे काण्डर्षये सदसस्पतिमा देवो यात्वभीवृतं स घा नो वि जनाञ्छ्यावा वि सुपर्णो भगं धियमिति सावित्रव्रतसूक्तमग्ने वायविन्द्रादित्य व्रतानामिति सावित्रव्रतबन्धं पञ्चभिर्व्याहृत्यन्तं जुहोत्यग्नये समिधमिति द्वे अग्नये समिधाविति चत्वार्यग्नये समिध इति सप्त पालाशाङ्कुराणि घृताक्तानि जुहोति सूर्य एष ते पुत्र इत्यादित्यं दर्शयत्यष्टाभिः समिद्भिर्होमकर्मणि शिष्यं योजयेद्यथा हेति दक्षिणादिप्रदक्षिणं वेदिं परिमृज्य पूर्ववत्परिस्तृणाति व्याहृतीरेषा ते मेधां म इन्द्रो ददात्वप्सरास्वा मां मेधेत्यष्टौ जुहोति यथा हेति तथा परिमृज्य प्रासावीरित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा भूतिः स्मेति भस्मा-लिप्यापोहि ष्ठेति प्रोक्ष्य यत्ते अग्ने तेजस्तेनेत्यग्निमुद्वयामित्यादित्यं चोपतिष्ठेत नित्यं सायम्प्रातरेवं जुहुयाद्यतो ब्रह्मदत्तमिदमिज्यमग्निहोत्रमेतन्मूलास्तदग्नय इति ब्रह्मवादिनो वदन्ति ७
अग्निष्ट आयुरिति दण्डमिन्द्रो मरुद्भिरिति शरावं कठिनं वा भैक्षपात्रं दद्यात् भवति भिक्षां देहीति ब्राह्मणो ब्रूयात्क्षत्रियो भिक्षां भवति देहीति वैश्यो भिक्षां देहि भवतीति मौनव्रतेन ब्राह्मणेभ्यो भैक्षमाममितरेभ्यो गृह्णीयाद्यस्य त इति गुरुर्भैक्षमादाय सुश्रव इति प्रोक्षयति हविषापूपलाजसमायुतेन मिन्दाहुती हुत्वान्तहोमो हूयते मौनव्रतेना सन्ध्यागमात्तिष्ठति तस्मा आश्रमधर्माण्या-चक्षीत चोदितातिक्रमे दण्डेन न हन्याद्दुष्टवाक्यैर्न शपत्यतिक्रमानुरूपं कृच्छ्र-मादिशति गुरुणा शिष्यो रक्षितव्यो यस्माच्छिष्यकृतं दुरितं प्राप्नोत्यव-श्यमकुर्वन्तं शिष्यं त्यजत्यन्यथा त्यागे पत्नीपुत्रशिष्याणां पतति काषायाजि-नयोरन्यतरवासा जटी शिखी वा मेखली दण्डी सूत्राजिनधारी ब्रह्मचारी शुचिरक्षारलवणाशी यथोक्तेषु वर्णेषु ब्रह्मचारिधर्माण्यनुतिष्ठतीति विज्ञायते ८
अथ पारायणव्रतानि चतुर्थे पञ्चमे सप्तमे वा पुण्ये पुन्नाम्नि नक्षत्रे शिष्यमाचान्तं पुण्याहं वाचयित्वाग्निं परिस्तीर्य प्राङ्मुखमुपवेशयति तस्योत्तरे माता ब्रह्मचारी वासीत धातादिपूर्वं सावित्रव्रतसूक्तमग्ने वायविन्द्रादित्य व्रताना-मित्यूहित्वाचारिषं विसर्जयामीति सावित्रव्रतविसर्गं हुत्वा पूर्वाणि सूत्रद-ण्डादीन्यप्सु विसृज्य स्नाताय नवान्युपवीतादीनि पूर्ववद्दत्त्वा तमद्भिरभ्युक्ष्य दक्षिणे निवेश्य धातादिपूर्वं प्रजापतये काण्डर्षये सदसस्पतिं प्रजापते न त्वद्रयीणां पतिं प्रजापते त्वं निधिपास्तवेमे लोकाः प्रजापतिं प्रथमं यो राय इत्यग्न्यादिषु पञ्चसु प्राजापत्यमित्युभयत्रोहित्वा वार्षिकं प्राजापत्यव्रतबन्धं हुत्वा शिष्येण व्रतं बन्धयति वर्षे वर्षे तथैव व्रतविसर्गं हुत्वा तत्तद्व्रतं विसृज्यान्यद्व्रतं बध्नाति ९
सोमाय काण्डर्षये सदसस्पतिं सोमो धेनुमषाढं त्वं सोम क्रतुभिर्या ते धामानि हविषा त्वमिमा ओषधीर्या ते धामानि दिवीति सूक्तं सौम्यव्रतस्याग्नये काण्डर्षये सदसस्पतिमग्ने नय प्र वः शुक्रायाच्छा गिरोऽग्ने त्वमस्मदग्ने त्वं पारय प्र कारवो मननेति सूक्तमाग्नेयव्रतस्य विश्वेभ्यो देवेभ्यः काण्डर्षये सदसस्पतिमा नो विश्वे शं नो देवा ये सवितुरग्ने याहि द्यौः पितर्विश्वे देवाः शृणुतेति सूक्तं वैश्वदेवव्रतस्य ब्रह्मणे काण्डर्षये सदसस्पतिं ब्रह्म जज्ञानं पिता विराजां ब्रह्म देवानन्तरस्मिन् ब्रह्मन्देवाश्चतस्र इति सूक्तं ब्राह्मव्रतस्य ऋतं च सत्यं च देवकृतस्य यन्मे गभ तरत्स मन्दीति प्राजापत्ये वसोः पवित्रं पवस्व विश्वचर्षण इति सौम्ये जातवेदस इत्याग्नेये विष्णोर्नु कं सहस्रशीर्षा त्वमग्ने रुद्रा त्वाहार्षमिति वैश्वदेवे एकाक्षरं त्वक्षरितेति ब्राह्मे तत्तद्व्रतदैवत्यं स्वाध्यायसूक्तं तत्तत्काण्डं चाधीयीत १०
तथैव धातादिव्रतविसर्गं हुत्वा ब्राह्मव्रतं विसृज्य नवान्युपवीतादीनि पूर्ववद्दत्त्वा प्रवर्ग्यदेवताभ्यः कल्पयामि सांराज्यै कल्पयामि महावीराय क-ल्पयामि पृथिव्यै कल्पयामि स्वाहेत्युत्तरे सोमाय कल्पयामि पितृभ्यः कल्प-यामि पितृभ्यो मन्त्रपतिभ्यः कल्पयामि रुद्राय कल्पयामि रुद्राय रुद्रहोत्रे कल्पयामि स्वाहेति दक्षिणे चाहुतीरेता हुत्वाग्ने व्रतपते शुक्रियव्रतं बन्ध-यामीति शुक्रियव्रतं षाण्मासिकं त्रैमासिकं वा बध्नीयाच्चितः स्थ परिचितः स्थेत्यादिनानुवाकेन शिरोऽहतेन वाससावेष्टयेद्यथैनमहः सूर्यो नाभितपे-न्मुखमस्य तस्माद्रेफायति स्त्रीशूद्राभ्यामनभिभाष्य शुक्रियब्राह्मणारुणनारायणाद्यारण्यकाण्डमधीयीत इति व्रतपारायणं विज्ञायते ११
अथाषाढोपाकर्म कुर्यादापूर्यमाणपक्षे रिक्तापर्वणी वर्जयित्वा बुधवारे तिथिं गृह्णाति तत्राघारं हुत्वाग्निं परिस्तीर्य शिष्यं वापयित्वा स्नातं पुण्याहं वाच-यित्वा प्रोक्षणैः प्रोक्ष्याग्निं प्रदक्षिणं कारयित्वा कूर्चं ददात्यासयित्वा दक्षिणे शं नो देवीरिति प्रोक्ष्य प्रधानाः पञ्चाशदाहुतीराज्यचरुभ्यामक्षतधानाभ्यां वा जुहोत्यग्नये पृथिव्यै ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदाय वाय-वेऽन्तरिक्षाय दिवसाय सूर्याय दिग्भ्यश्चन्द्रमसेऽध्यायायानध्यायायाध्या-यदेवताया अनध्यायदेवतायै श्रद्धायै मेधायै धारणाया आचार्याय छन्दस ऋषिभ्यः सप्तर्षिभ्यो मुनिभ्यो गुरुभ्योऽहोरात्रेभ्योऽर्धमासेभ्यो मासेभ्य ऋतुभ्यः संवत्सरेभ्यः परिवत्सरेभ्य इदावत्सरेभ्य इद्वत्सरेभ्यो वत्सरेभ्यो ब्रह्मणे सा-वित्र्यै प्रजापतय उशनसे त्र्यवनाय बृहस्पतये सोमायाङ्गिरसे दर्भाय शङ्खाय लिखिताय स्थूलशिरसे वैनतेयाय शिखिन ईश्वरायाधिकृताधिदेवताभ्यः सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् सनिं मेधामयासिषं स्वाहेति पूर्व-वत्प्राजापत्यव्रतबन्धं धातादि पञ्च वारुणं मूलहोमं स्विष्टाकारं च हुत्वा हुतशेषमदितिस्ते कक्ष्यामिति भोजयित्वा योगे योगे तवस्तरमित्याचमनं ददात्यथ प्राङ्मुखमुदङ्मुखं वा ब्रह्माञ्जलिं कारयित्वा दक्षिणमध्यासीनं वेदान्वेदौ वेदं वा सूत्रसहितमध्यापयत्यन्तराप्येवमध्यापयितुकामो हुत्वाध्यापयेदर्ध-पञ्चमानर्धषष्ठान्वा मासानध्यायानुपाकुर्वीतात ऊर्ध्वं शुक्लेषु कामं तु वेदा-ङ्गानीति वेदोपाकरणमथ श्रावणे पौर्णमास्यामग्निं परिस्तीर्य शिष्यं वापयित्वा स्नातं पुण्याहं वाचयित्वा पूर्ववद्व्रतबन्धं धातादि पञ्च वारुणं मूलहोमं स्विष्टाकारं च जुहोत्यध्ययनपारायणायेति श्रावणं तथैव नैष्ठिको यावज्जीवमाश्रमधर्माण्यनु तिष्ठेतोपाकुर्वाणो वेदमधीत्य स्नायादिति विज्ञायते १२
अथ समावर्तनं व्याख्यास्याम उदगयन आपूर्यमाणपक्षे तिष्योत्तरेषु चित्राविशाखयोर्हस्तरोहिण्योर्मृगशिरसि वा नक्षत्रे यत्रापस्तत्रागारे गोष्ठे वाघारं हुत्वाग्निं परिस्तीर्य तथैव धातादिव्रतविसर्गं हुत्वा वयः सुपर्णा इति वस्त्रावकुण्ठनं मोचयित्वा शुक्रियव्रतं विसृजतीमँ स्तोमं त्र्यायुषं जमदग्नेरिति प्रधानं पञ्च वारुणं मूलहोमान्तं हुत्वोद्वयं तमस उदु त्यमित्येताभ्यामादि-त्यमुपस्थायोदुत्तममित्युत्तरीयमथा वयमिति सूत्रदण्डादीन्यप्सु विसृज्य शिवो नामासीति क्षुरमुपलेन कर्षयित्वा साक्षतैराधावैः शिवा न इति शिरोऽञ्जयित्वा गोदानमप उन्दन्त्वोषधे त्रायस्व यत्क्षुरेणेति चतुर्दिशं येनावपदिति सर्वतो नखान्तं वपति शरावे सानडुहगोशकृति केशादीन्यादायेदमहममुष्येत्युदु-म्बरदर्भयोर्मूले गोष्ठे वा गूहयेदन्नाद्याय व्यूहध्वमिति दन्तधावनमौदुम्बरेण काष्ठेन करोति शीतोष्णाभिरद्भिरापो हि ष्ठेत्यादिभिरृग्भिस्तिसृभिः स्नापयित्वा हिरण्यपवमानाभ्यां प्रोक्षयतीति पूर्वं तथा प्रधानान्हुत्वा पुरोदयादादित्यस्य ब्राह्मव्रतं विसृज्य शुक्रियव्रतस्य ग्रहणविसर्गावित्येके १३
दिवि श्रयस्वेत्यहते वाससी गन्धाभरणादीनि च प्रोक्ष्य नमो ग्रहायेति गन्धं गृहीत्वा प्राचीनमञ्जलिं कृत्वाप्सरस्स्विति गात्राण्यनुलेपयेत्तेजोवत्सव इति वस्त्रं परिधाय सोमस्य तनूरसीत्युत्तरीयं गृह्णाति पूर्ववन्मेखलादीन्याददीताभरणकुण्डलमणीन्बदरेण सुवर्णेन वा कृतानाच्छाद्य दर्भेण बध्नीयात् १४
तदग्नावुपरि धारयन्नायुष्यं वर्चम्यमुच्चेर्वादि शुनमहं प्रियं मेयमोषधीति पञ्चभिर्जुहुयात्सुम्राजं च विराजं चेत्युदकपात्रे परिप्लाव्य ऋतुभिरिष्ट्वार्तवैरि-यमोषधीति ताभ्यां कुण्डलाभ्यां दक्षिणादिकर्णयोरलङ्करोति शुभिक इति मणिना कण्ठमामुच्येदं ब्रह्म पुनीमह इत्यङ्गुलीयकं गृहीत्वा यदाञ्जनमिति दक्षिणं चक्षुर्यन्मे मन इति वामं चाञ्जनेनाञ्जयित्वेमाः सुमनस इति स्रजमादाय देवस्य त्वेत्यादर्शमवेक्षेत तेनैव वैणवं दण्डमृजुं गृह्णीयादिन्द्रस्य वज्रोऽसीति वेगवेजमिति त्रिरुन्मार्ष्ट्युपानहावित्युपानहावारुह्य प्रजापतेः शरणं भुवः पुनात्विति द्वाभ्यां छत्त्रं गृह्णीयाद्यो मे दण्ड इति पुनर्दण्डं प्रमादे सत्याहरेत्ततो वाहनं पूजयित्वा प्रतिष्ठे स्थो देवतानामित्यभिमृश्य रथन्तरमसीति रथमश्वोऽसि हयोऽसीत्यश्वमिन्द्रस्य त्वा वज्रेणेति हस्तिनमारुह्यावतरेद-भ्यागतमुत्तमं कन्याप्रदः सँस्रवन्त्विति निरीक्ष्य यशोऽसीत्यावसथे विष्टरं कूर्चं पाद्यमर्घ्यमाचमनीयं मधुपर्कं च सङ्कल्पयति १५
तत्रोपवेश्य राष्ट्रभृदसीति कूर्चं दत्त्वापः पादाविति पादौ सव्यादि प्रक्षालयति स धौतपादो विराज इति स्वहस्तेन तद्धस्तं परिमृश्य तेनात्मनो हृदय-मभिमृशति ततो मयि तेज इत्यर्घ्यमाचमनीयं चाददीता मा गन्यशसेति मधुपर्कं दद्याद्देवस्य त्वेति प्रतिगृह्य यन्मधुनो मधव्यमिति प्राश्नीयाद्
योगे योग इत्याचम्याचमेद्
अमृतापिधानमसीति धेनुं बद्ध्वा गौर्धेनुरिति तृणमुष्टिं प्रदाय गौरस्य-पहतेति संस्पृश्य तत्सुभूतमिति विसर्जयति विराज इति पाद्यदानमा मा गन्यशसेत्याचमनममृतोपस्तरणमसीति मधुपर्कदानं पृथिवीति तस्यान्नसङ्कल्पनममृतापिधानमसीति मुखवासदानमिति विशेष इत्येके १६
द्यौस्त्वा ददात्विति ब्राह्मणान्भोजयित्वा इन्द्राग्नी मे वर्च इत्येषां प्रणामं कुर्यात्पुण्याहं वाचयित्वाज्येन व्याहृतीर्हुत्वा बान्धवैः सह धाम भुञ्जीत मधुधाम्नोश्चोदनायां तोयपिष्टौ प्रतिनिधी गृह्णीयाद्यस्मादापो वै सर्वा देवताः सर्वार्थसाधका इति वेद्यर्थं सम्भारार्थं पृथिवी वनस्पतयः पश्वर्थमोषधय इति वेदानुशासनं भवति १७
अथ प्राणाग्निहोत्रविधानं स्वयञ्ज्योतिरात्मा यजमानो बुद्धिः पत्नी हृदयपुण्डरीकं वेदी रोमाणि दर्भाः प्राणो गार्हपत्योऽपान आहवनीयो व्यानोऽन्वाहार्य उदानः सभ्यः समान आवसथ्य इति पञ्चाग्नयो भवन्ति जिह्वादीन्द्रियाणि यज्ञपात्राणि रसादयो विषया हवींष्यस्य फलमोमर्थावाप्तिस्तदेवमेकाध्व-र्युरात्मयज्ञं सङ्कल्प्यामृतोपस्तरणमसीत्यन्नं प्रोक्ष्यान्नसूक्तेनाभिमृश्योर्जस्करमि-त्याधावं पीत्वाङ्गुष्ठानामिकामध्यमैरादायान्नं प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहोदानाय स्वाहा समानाय स्वाहेति पञ्चाहुतीः पात्रं स्पृशन्नेव हुत्वोर्जस्करमिति पुनश्चाधावं पीत्वाश्नीयादाचम्यापो गृहीत्वादित्याभिमुखमॐ प्राणानाप्यायस्वेत्युदरमभिमृशेद्दक्षिणेन कराङ्गुष्ठाग्रेणाणोरणीयानिति दक्षिण-पादाङ्गुष्ठे संस्रावयेदेवं सायम्प्रातः प्राणाग्निहोत्रं यजेतात्मयाजिनामिदमि-ज्यमग्निहोत्रं यावज्जीवकमिति ब्रह्मवादिनो वदन्ति तदेवं भुक्त्वा गच्छन्तमनृणो ब्रह्मपदमभ्येतीति सामपूर्वं माता पिता गुरुर्वा पैतृकादिकमृणत्रयं जायमानस्य ब्राह्मणस्य सहजातमित्युक्त्वा वारयेदिति विज्ञायते १८
द्वितीयः प्रश्नः समाप्तः अथातः पाणिग्रहणमष्टौ विवाहा भवन्ति ब्राह्मो दैवः प्राजापत्य आर्ष आसुरो गान्धर्वो राक्षसः पैशाच इति यदभिरूपं वृत्तवयःसम्पन्नमाहूयार्हयित्वा कन्या-लङ्कृता दास्यते स ब्राह्म इति गीयते यदृत्विजो यज्ञस्यात्मनोऽलङ्कृत्य कन्यां प्रतिपादयति स दैवो युगपद्धर्मानुवर्तिनौ स्यातामिति वाचानुमान्याग्निकार्यं स्वयं कृत्वा यत्कन्यामर्हयित्वा दद्यात्स प्राजापत्यो भवति यद्गोमिथुनेनैकेन द्वाभ्यां वा कन्यां ददाति तमार्षमाचक्षते यत्कन्यामाभरणमारोप्य शक्त्या बन्धु-भ्यो धनं दत्त्वाहरते तमासुरमामनन्ति कामयोगो यदुभयोः स गान्धर्वः प्रसह्य यत्कन्याहरणं स राक्षसः सुप्तां प्रमत्तां वा रहसि यद्गच्छति स पशाचो भवतीत्येतेषां प्रथमे चत्वारस्तोयप्रदानपूर्वकाः शस्ता ब्राह्मणस्य नेतरे जघन्या यस्मात्त्रीन्पूर्वांस्त्रीनपरानार्षीजातः षट् पूर्वान्षडपरान्प्राजापत्येनोढाया जातः सप्त पूर्वान्सप्तापरान्दैवीसुतो दश पूर्वान्दशापरानात्मानं चैकविंशतिकं ब्राह्मीपुत्रः पावयेदिति १ मातुरसपिण्डां पितुरसमानऋषिगोत्रजातां लक्षणसम्पन्नां नग्निकां कन्यां वरयि-त्वा पञ्चाहेषु कुलस्य परिशुद्ध्यै सपिण्डैः श्रोत्रियैः सह भूतं भुञ्जीत यस्मात्स पूतो भवतीति विज्ञायते कनिक्रदादिना कन्यागृह गत्वा प्र सु ग्मन्तेति तामी-क्षित्वाभ्रातृघ्नीमिति तयेक्ष्यमाणो गुरुणाग्निमुखे कृते कन्याप्रदो वरगोत्रनाम शर्मान्तं तथैतामस्य सहधर्मचारिणी भवतीति ब्राह्मे विवाहे धर्मप्रजासम्पत्त्यर्थं यज्ञापत्त्यर्थं ब्रह्मदेवर्षिपितृतृप्त्यर्थं प्रजासहत्वकर्मभ्यो ददामीत्युदकेन तां द-द्यात् तां प्रजापतिः स्त्रियामित्युदकेन हरते वस्त्रगन्धाभरणादीनि सम्भृत्य कनि-क्रदादिना कन्यागृहं सह बान्धवैर्गत्वा तेज आयुः श्रियमिति वस्त्रादिनालङ्कृत्य प्रजापतिः सोममिति तथाभरणमारोप्याददीतेत्येके २
ततः सह स्नाताया बध्वा नववस्त्रालङ्कारायाः पुण्याहान्ते पाणिं गृहीत्वा सुमङ्गलीरियं वधूरित्यग्निशालामागत्य प्राङ्मुखमासयित्वा तस्यै शुद्धाम्बरवेषः कूर्चं ददाति ततः परिस्तीर्याग्निरैत्विमामग्निस्त्रायतां मा ते गृहे द्यौस्ते पृष्ठमप्रजस्तां देवकृतमिति पञ्चवारुणान्तं प्रधानाञ्जुहुयादग्नेरपरस्यामास्तीर्णेषु दर्भेष्वश्मानमातिष्ठेति वध्वाः पादाङ्गुष्ठेन दक्षिणेन स्पर्शयति प्रत्यङ्मुख इति पाणिग्रहणं सरस्वतीति विसर्गमघोरचक्षुरित्यासनं च कृत्वेमांल्लाजानि-त्यभिघार्येयं नारीति तस्या लाजाञ्जलिना जुहोत्युदायुषेत्युत्तिष्ठति प्रत्यङ्मुख इति वधूमुखेक्षणं सरस्वतीति पाणिग्रहणमघोरचक्षुरिति विसर्गमिमांल्लाजानिति लाजपूरणमियं नारीति होममुदायुषेत्यग्निप्रणामं कुर्यादित्येके ३
विश्वा उत त्वयेत्यग्निं प्रदक्षिणं कृत्वातिगाहेमहि द्विष इत्यासित्वा त्रिधैवं लाजहोमं जुहुयात्ततो मूलहोमान्तेऽग्निं पतिघ्न्यन्तं वायुः निन्दितान्तमादित्यं घोरान्तं गन्धर्वं यशोघ्न्यन्तं चन्द्रं पुत्रघ्न्यन्तं हुत्वा व्याहृतिः प्रासावीरि-त्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा पुनः परिस्तीर्य स्विष्टकृन्मिन्दाहुती विच्छिन्न-मृद्धिसप्तसमिद्व्याहृतीश्च जुहुयादग्नेरपरस्यामास्तीर्योदगग्रान्सप्त बर्हिषो वध्वा सह दक्षिणेन पादेनैकमिषे विष्णुरिति द्वे ऊर्ज इति त्रीणि व्रतायेति चत्वारीति पञ्च पशुभ्य इति षड्रायस्पोषायेति सप्त सप्तभ्य इति तान्पर्यायेणाक्रम्य गत्वा सखेति निवर्तेत मम हृदय इति तस्या हृदयमभिमृशति प्रोक्षणैः प्रोक्ष्य पुण्याहं स्वस्तिघोषेणारुन्धतीन्द्राण्यदितिः श्रीरिवेति वध्वा मनुः प्रजापतिः पुरुषोत्तमो महेन्द्र इवेति वरस्य च चत्वारि स्तोमान्यारोपयेयुरिति पाणिग्रहणं ध्रुवदर्शनान्तमित्येके ततः प्रभृति गार्हस्थ्यं धर्ममनुतिष्ठतीति विज्ञायते ४
अथ चतुर्थीवासो वैवाहिकमग्निं वध्वा सहादाय सम्प्रवाहारयन्विति वधूं समं वध्वेत्यग्निं संशास्ति दक्षिणं पादमग्रेऽतिहर देहलिं माधिष्ठा इत्यावसथे प्रविश्य प्राच्यामर्धे समादधीताग्नेरपरस्यामानडुहं चर्म लोहितं कृष्णाजिनं वा प्राचीनग्रीवमुत्तरलोमास्तृणाति तत्र प्राङ्मुखमुदङ्मुखं वा वधूमुपवेश्य पतिरिह गावः प्रजायध्वमिति पश्चान्निषीदेता ज्योतिषां दर्शनाद्वाचंयमावन्यतरानुपे-तावासातामुदिते नक्षत्रे प्राचीमुदीचीं वा देवीः षडुर्वीरिति दिशमुपस्थाय मा हास्महि प्रजयेति चन्द्रं सप्तर्षय इति सप्तर्षीन्कृत्तिका नक्षत्राण्यरुन्धतीं च ध्रुवक्षितिरिति ध्रुवं च दृष्ट्वोपतिष्ठेयातां मनोज्ञं तया सह सम्भाष्याथाग्नेयः स्था-लीपाकः प्रजा स्थालीमिति स्थालीमभिमृश्याग्नये जुष्टं निर्वपामीति स्थाल्यां तण्डुलान्निर्वाप्य वाचस्पतये पवस्वेति वध्वा चरुं श्रपयत्यभिघार्योदगुद्वास्य परिस्तीर्याग्निमुपसमाधाय हव्यवाहमिति स्विष्टकृता यजेत हुतशेषेण श्रोत्रियं ब्राह्मणं तर्पयित्वा तस्मा ऋषभं दत्त्वानृणो भवतीति विज्ञायते ५ अत ऊर्ध्वं पर्वणि स्थालीपाकेन यजेत नित्यं यवैर्व्रीहिभिर्वा हस्तेन सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातराहुती अग्नये स्वाहा प्रजापतये स्वाहेति साय-माहुती जुहुयादग्न्यन्तरसंसर्गेऽनुगते वा पत्नी कृच्छ्रं चरति श्रोत्रियागारान्मथि-त्वा वाग्निमादाय पुनरौपासनमादधीतो दक्याशुष्यादिसंसर्गे च विधानं यज्ञ-प्रायश्चित्ते वक्ष्यामो वियोगे पक्षस्योपावरोहेति समिधं यावत्कृष्णं तावत्तप्त्वा समारोप्य गच्छेदहरहस्तां प्रज्वाल्य हुत्वा तथान्यां समिधं निदधाति ६
पचने वावसथ्ये चरुमभिघार्य वैश्वदेवं यथा हेति मण्डलं प्रदक्षिणमुपलिप्य परिमृज्याग्नये स्वाहा सोमाय स्वाहेत्युत्तरदक्षिणयोर्मध्ये व्याहृतीर्विश्वेभ्यो देवेभ्यः स्वाहा धन्वन्तरये स्वाहा कुह्वै स्वाहानुमत्यै स्वाहा प्रजापतये स्वाहा द्यावापृथिवीभ्याँ स्वाहा व्याहृतीरिमा मे अग्न इति चरुं सेध्मं जुहुयादग्निहोत्राय स्वाहा वैश्वदेवयज्ञाय स्वाहा ब्रह्मयज्ञाय स्वाहा देवयज्ञाय स्वाहा भूतयज्ञाय स्वाहा मनुष्ययज्ञाय स्वाहा पितृयज्ञाय स्वधा नमः स्वाहा पञ्चमहायज्ञाय स्वाहा व्याहृतीः स्विष्टकृद्व्याहृतीरथ गृहदेवताभ्यो यथादिशं बलिहरणं ब्रह्मणे नमो ब्रह्मपुरुषेभ्यो नमो वास्तोष्पतये नम इति गृहमध्ये इन्द्राय नम इन्द्रपुरुषेभ्यो नमो यमाय नमो यमपुरुषेभ्यो नमो वरुणाय नमो वरुणपुरुषेभ्यो नमः सोमाय नमः सोमपुरुषेभ्यो नमोऽग्नये नमो निरृतये नमो वायवे नम ईशानाय नम इति सर्वं दक्षिणे पितृभ्यो ज्ञातिवर्गपत्न्यन्तेभ्यः कृतोपवीती यावन्तोऽन्नार्थिनस्तावद्भ्यो निर्वपामीति निरूप्याकाशे विश्वेभ्यो देवेभ्यो नमो दिवाचरेभ्यो नमो भूतेभ्यो नमो नक्तञ्चरेभ्यो नम इत्युच्छीर्षके श्रिया इति पादतो भद्रकाल्या इति प्रतिद्वारं पूर्वान्तमुत्तरान्तं वा भुवङ्गयोर्मरुद्भ्य इति चुल्याः पक्षयोरग्नय इत्युदधान्यामद्भ्य इति पेषण्योरुभयोर्दृषद इत्युलूखलमुसलयो-र्वनस्पतिभ्य इति शूर्प ओषधीभ्य इति वास्तुपृष्ठे शुनां च पतितानां च श्वपचां पापरोगिणाम् । वयसां च क्रिमीणां च भूमावन्नं वपाम्यहमिति बलिशेषं निर्वपति पूर्ववत्प्रवाहणं कृत्वा भूतिः स्मेति भस्मालिप्यापो हि ष्ठेति प्रोक्ष्य य-त्ते अग्ने तेजस्तेनेत्यग्निमुद्वयमित्यादित्यं चोपतिष्ठेत नित्यं सायम्प्रातः पत्नी वा पुष्टिकामा बलिं हरेद्वैश्वदेवकाले प्राप्तमतिथिं शक्त्या तर्पयेद्वैश्वानरो ह्येष भवति ७
तदेवं त्रिरात्रम् हविष्याशिनौ ब्रह्मचारिणौ धौतवलव्रतचारिणौ स्यातां ततोऽपरस्यां रात्रौ चतुर्थ्यामलङ्कृत्याग्निमुपसमाधाय नव प्रायश्चित्तानि जुहुयादग्ने वायवादित्यादित्य वायवग्नेऽग्ने वायवादित्य व्याहृतिर्भूर्भनमिति चतुर्भिर्वधू-मूÞर्याज्येन जुहुयादग्निं प्रदक्षिणं कृत्वा प्राच्यामुदीच्यां वा तामुपवेश्याभिष्ट्वा पञ्चशाखेनेति योनिमभिमृश्य सं ना मन इत्युपगच्छेदिमामनुव्रतेत्यालिङ्गनं मधु हे मध्विदमिति मैथुनं कुर्वीत सुप्रजास्त्वायेत्युपगमनं सं ना मन इत्यालिङ्गनमिमामनुव्रतेति वधूमुखेक्षणमित्येके ८
अथ त्रिरात्रमृतौ मलवद्वासाः स्नानाञ्जनादीनि वर्जयेदेकभक्ता स्यादखर्वेणाञ्जलिनायसेन वा पिबेन्न शुल्बेनाश्नाति न ग्रहानीक्षेत न दिवा स्वपे द्यथोक्तं व्रतं कुर्याच्चतुर्थ्यां दन्तधावनं गन्धामलकादिभिः स्नात्वा श्वेतवस्त्रानुलेपना स्त्रीशूद्राभ्यामनभिभाष्यापरमदृष्ट्वा भर्तारं पश्येद्यस्मादृतुस्नाता यादृशं पुरुषं पश्येत्तादृशी प्रजा भवति ऋतुरात्रयो द्वादश भवन्ति षोडशेति चाचक्षते प्रथमास्तिस्रो न गम्याः पुमान्समासु विषमासु स्त्री जायते शालिव्रीहि-यवानामन्नं पयसा प्राश्नीयाद्यस्मादाहारमूला धातवो भवन्ति लक्ष्मी-वटशुङ्गसहदेवीनामन्यतममभिषूय प्रक्षिपेद्दक्षिणे नासापुटे पुत्रकामाया वामे स्त्रीकामाया न निष्ठीवनं कुर्याच्छोकरोषौ वर्जयति तत एनां यन्मे गर्भादिभिः प्रोक्षणैः प्रोक्ष्य विष्णुर्योनिं कल्पयत्विति तामुपगच्छेत् परिषिच्य वैश्वदेवं वैष्णवं मूलहोमाङ्गहोमौ हुत्वा विष्णुर्योनिं कल्पयत्वित्युपगमनमित्येके ९
अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुररुचिराहारो लालाप्रकोपः खरता वाचः स्फुरणं योनेरिति गर्भस्य दैवानुबन्धं ज्ञात्वापूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्र आज्येनाघारं हुत्वा तां मङ्गलयुक्तामुपवेश्य परिषिच्य धातादि पञ्च वारुणं मूलहोमं स्विष्टाकारं च हुत्वा वृषोऽसीति यवान्ददाति पयो दधि घृतं समं गृहीतं त्रिवृदित्यामनन्ति भूस्त्वयि ददामीत्येनां त्रिवृत्प्राशयेदाचान्ताया नाभेरूर्ध्वमाभिष्ट्वाहं पराञ्चेति दर्भेण त्रिरुन्मार्ज्य पुण्याहं कुर्याद्ब्राह्मणानन्नेन तर्पयति १०
अथ गर्भाधानादिचतुर्थे मासि पुंसवनं भवति शुक्लपक्षे शुद्धेऽहनि पूर्वाह्नेऽग्निमुपसमाधाय पूर्ववत्स्विष्टकारान्तं हुत्वा दक्षिणतोऽग्नेरपरस्यामासीनाया वृषोऽसीति सर्षपमिश्रितान्यवानाण्डौ स्थ इति दद्यादलाभे माषधान्यौ प्रतिनिधी स्यातामॐ भूर्भुवः सुवो राकामहं यास्ते राके सोम एव विश्वा उत त्वयेत्युदरमभिमृशेत्पूर्ववत्त्रिवृत्प्राशनादीनीति विज्ञायते ११
अथ गर्भाधानाद्यष्टमे मासि सीमन्तोन्नयनं कुर्यात्पक्षो दिनं च व्याख्यातं पूर्ववद्धातादि हुत्वा त्रेण्या शलल्या सह शलाटुग्लप्सं साग्रपत्रं कुशाङ्कुरं च दर्भेण त्रिराबध्यॐ भूर्भुवः सुवरिति गृहीत्वा तस्यास्तथासीनायाः स्रग्गन्धवत्याः सीमन्ते राकामहं यास्ते राक इति स्थापयित्वोन्नयनं कुर्यात्सोम एवेति पुरस्तादिव कुर्यात्पूर्ववत्त्रिवृत्प्राशनं पुण्याहान्तमित्येके १२
अथ विष्णुबलिमुत्तरप्रणिधावग्न्यादीन्देवानॐ भूः पुरुषमॐ भुवः पुरुषोँ सुवः पुरुषमॐ भूर्भुवः सुवः पुरुषं चेत्यावाह्य तथैव निर्वापाद्याघारं हुत्वाग्नेः पूर्वस्यां दर्भासनेषु केशवं नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरमिति नामभिर्देवं विष्णुमावाह्यापोहिर-ण्यपवमानैः स्नापयित्वा तत्तन्नाम्नार्चयत्यतो देवाद्यैर्विष्णोर्नु कं तदस्य प्रियं प्र तद्विष्णुः परोमात्रया विचक्रमे त्रिर्देव इति द्वादशाहुतीराज्येन हुत्वा पायस-माज्यसंयुक्तं हविर्देवं निवेद्य द्वादशनामभिरतो देवाद्यैर्विष्णोर्नुकाद्यैराज्यमिश्रं पायसं जुहुयादृग्यजुःसामाथर्वभिर्मन्त्रैर्वैष्णवैर्देवं संस्तूय नमोऽन्तैर्नामभिः प्रणमेत्पायसशेषं पत्नीं प्राशयति १३
अथ जातकर्म व्याख्यास्यामोऽरिष्टाङ्गारं यथोक्तं कृत्वा वृषभोषितं तिलसर्षपैर्धूपयित्वा तां प्रवेशयेत्तज्ज्ञाः स्त्रियस्तिस्रश्चतस्रो वा परिगृह्यैनां संवाह-येयुः कुक्षौ शिथिले हृदयबन्धं मुक्त्वा सशूले जघने प्रजायत इत्यवधारयेत् गर्भसङ्गेविशल्यां सुवर्चलां वा योनौ निष्पीड्य निदध्याद्धूपयेत्पिण्डी-तकेनाहिकृत्त्या वा योनिं हिरण्यपुष्प्या मूलं हस्तपादयोरादधाति यदा नासाग्रं दृश्यते तदास्य ग्रहस्थितिं ज्ञात्वा शुभाशुभं परीक्षेत यस्मात्तद्गुणान्वितं वर्धयेज्जायमाने मातुरुदकुम्भं दक्षिणतः शिरोभागे स्थापयित्वा ततस्तूर्यन्तीं पादतो निधाय यथैव सोमः पवत इत्युदरमभिमृशेत्कुमारे जाते द्वारवामेऽश्मनि परशुं तस्मिन्हिरण्यं स्थापयित्वाश्मा भवेत्यधरमुत्तरं करोति तस्योपर्यङ्गाद-ङ्गादिति कुमारमेकया स्त्रिया धारयेत्तमद्भिरभ्युक्ष्य तिलदेऽवपद्यस्वेति सतिलमक्षतं मूÞर्याधायौपासनमरण्यां निर्हरति १४
चुल्ल्यां कपालमारोप्य वृषभशकृत्पिण्डैर्जातकाग्निं साधयेत्तमेनमुत्तपनीयमित्युदाहरन्ति तेनैव धूपं दद्याद्द्वारस्य दक्षिणतो निधायाङ्गारवर्णे परिस्तीर्य कणसर्षपैर्हस्तेन शण्डे रथोऽयः शण्डो मर्क आलिखन्विलिखन्नर्यम्ण आन्त्री-मुखः केशिनीरेतान्घ्नतैतान्पूर्व एषां मिश्रवाससो नक्तञ्चारिणो निशीथचारिणी तासां त्वमयं ते योनिर्मम नामेति व्याहृतीश्च हुत्वा प्रक्षाल्य पाणिमवनीमालभ्य यत्ते सुसीम इति मेधायै घृतं करोति वचा पथ्या हिरण्यं मधु सर्पिरिति मेधाजननानि भवन्ति ब्राह्मीघृतं पयो वचाधिकं चामनन्ति सुवर्णं दर्भेण बद्ध्वान्तर्धाय घृतं भूरृच इति प्राङ्मुखं प्राशयति नित्यं सायम्प्रातरेवमहरहर्हुत्वा मेधायै पाययेदुष्णशीताभिरद्भिरेनं स्नापयित्वा क्षेत्रियै त्वेति नीत्वा या दैवीरिति मातुरङ्के स्थापयित्वा तासां त्वेति स्तनौ प्रक्षाल्यायं कुमार इति दक्षिणादि पाययेदापो हविष्ष्विति न्यस्तमुदकुम्भं शोधयित्वा नित्यं सायं-प्रातरादधाति तथैव घृतप्राशनान्तं कर्म कृत्वा स्नात्वौपासननिर्हरणादि करोतीत्येके तृतीये पञ्चमे सप्तमे नवमे चाह्नि शयनादिकं शोधयतीति १५
अथ वास्तुसवनं व्याख्यास्यामो नवे वास्तुन्युषितेऽपि सूतकप्रेतकयोर्वापयित्वा मृन्मयानि भाण्डानि पुराणानि त्यक्त्वा नवानि परिगृह्यान्यान्परि-च्छदान्यथोक्तं शोधयित्वा भूमियज्ञेनेष्ट्वा निवसेद्यस्माद्वास्तुसवनेन शुद्धिव-स्तूनामाघारो वास्तुसवनस्य वास्तोष्पते प्रतिजानीहि वास्तोष्पते शग्मयेति द्वाभ्यां यजेत भूमियज्ञाय स्वाहा यज्ञदैवतं प्रसोदर्यै स्वाहेति द्वौ भूमियज्ञदैवत्यौ मेदिनी देवी देवी हिरण्यगर्भिणी समुद्रवती सावित्री शृङ्गे शृङ्गे वायुपरी जलशयनीति पञ्च भूमिदैवत्या व्याहृतीर्हुत्वा पुण्याहमहमग्ने अग्निं गृह्णामीत्य-ग्निष्ठाद्दर्भपूलेनाग्निं गृहीत्वा प्रथमादैन्द्राद्भुवङ्गादारभ्य वास्तुनः कुड्यमूला-द्बहिरन्तश्च वामं परीत्या ब्रह्मस्थानात्पर्यग्निं कारयित्वापरद्वारेण विसृजेत्तथै-वाणोरणीयानिति पात्रेणान्वपः स्रावयित्वा शिष्टाभिः सर्वत्र प्रोक्षयत्येवं वारुणाद्भुवङ्गाद्वा याम्यात्सौम्यादारभ्य पर्यग्न्याधावस्रुती स्याताम् १६
ये ते शतं वरुणोदुत्तममयाश्चाग्न आपः सृजन्तु स्निग्धानीति चत्वारो वरुणदैवत्या विश्वे देवस्य विश्वे अद्येति द्वौ वैश्वदेवावतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रास इति षड्वैष्णवा द्वावाद्यावित्येके रुद्रमन्यं त्र्यम्बकमिति द्वौ रुद्रदैवत्यौ ब्रह्म जज्ञानं हिरण्यगर्भ इति द्वौ ब्रह्मदैवत्यौ मिश्रवासस एतान्घ्नतैतानिति द्वौ कौबेरौ युवमेतान्यग्नीषोमावान्यं दिव इति त्रयोऽग्नीषोमीया बृहस्पतिर्देवानां बृहस्पतिः सोमं बृहस्पते अति यदुपया-मगृहीत इति चत्वारो बार्हस्पत्याः त्रातारमिन्द्रं महाँ इन्द्रो य ओजसा महाँ इन्द्रो नृवद्भुवस्त्वमिन्द्रेन्द सानसिं प्र ससाहिषेऽस्माकमिन्द्रो भूतस्येन्द्रो द्यौरिन्द्रं प्रणवन्तमिन्द्रो वृत्रमिन्द्रो बभूवेन्द्रोऽस्मानिति त्रयोदशैन्द्राः यमो दाधार नमस्ते निरृतय इति द्वौ याम्यौ मित्रस्य चर्षणीधृतो मित्रो जनान्प्र स मित्रेति त्रयो मैत्राः भूमियज्ञदैवत्यादयो व्याहृत्यन्ता इज्यन्ते तस्माद् द्व्युत्तरं शतमाहुतयो वास्तुसवनस्यान्तहोममिति विज्ञायते १७
अथ दशमे द्वादशे वाह्नि भवत्युत्थानं तथैव जातकाग्निं समारोप्य यावन्त्यस्य कर्माणि तानि सर्वाणि मथित्वास्मिन्नेव कुर्याद्विसृज्य लौकिकाग्नावित्येके स्नात्वागारं यथोक्तं शोधयेत् क्षुरकर्मादिना शुद्धो भूमियज्ञमसगोत्रेण याज-येदित्येके तथा हरणमौपासनस्य धातादि पञ्च वारुणं मूलहोमो भोजनं ब्राह्मणानाम् १८ अथ नामकरणमा चत्वारिंशद्दिवसादा पञ्चाशद्दिनाद्वा पाके नैनां नियुञ्जीत तत्रैव शुभे पुन्नाम्नि नक्षत्रे परिस्तीर्याग्निं तथासीनस्याक्षतं कुमारस्य मूर्ध्नि विन्यस्य पञ्च वारुणं प्राजापत्यं स्विष्टाकारं च हुत्वास्य पूर्ववत्त्रिवृत्प्राशनं दीर्घान्तमभिनिष्ठान्तं वा घोषवदाद्यन्तरं द्विप्रतिष्ठितान्तस्थं मृष्टाक्षरपदस्वरं द्विवर्णं चतुर्वर्णं वा नाम शस्यते यथोक्तं मम नाम प्रथममिति गोत्रनामयुक्तं तदर्हं नाम कुर्यात् द्वे नामनी तु नक्षत्रनाम रहस्यमग्न्याधानात्परमाहिताग्न्या-दिस्वकर्मान्तं प्रकाशं नाम भवेदक्षतोदकपुष्पान्नरसगन्धसमैः पाणिभ्यां दक्षि-णेतराभ्यां कुमारस्य शाङ्करिरिवेति कन्याया नन्देवानन्ददायिनीति वदन्पादत आरभ्य क्रमेण देहाङ्गसन्धौ शिरसि च निक्षिपेत्पुण्याहम् १९
अथ वर्षवर्धनं दारकस्य जन्मनक्षत्रं यद्दैवत्यं सास्य देवता प्रधाना भवति तस्मादाघारं हुत्वा तदधिदेवता नक्षत्राणि च जुहुयादग्नये कृत्तिकाभ्यः प्रजापतये रोहिण्यै सोमाय मृगशीर्षाय रुद्रायार्द्राया अदित्यै पुनर्वसूभ्यां बृहस्पतये तिष्याय सर्पेभ्य आश्रेषाभ्यः पितृभ्यो मघाभ्योऽर्यम्णे फल्गुनीभ्यां भगाय फल्गुनीभ्यां सवित्रे हस्ताय त्वष्ट्रे चित्रायै वायवे निष्ट्याया इन्द्राग्निभ्यां विशाखाभ्यां मित्रायानूराधेभ्य इन्द्राय ज्येष्ठायै प्रजापतये मूलायाद्भ्योऽषाढाभ्यो विश्वेभ्यो देवेभ्योऽषाढाभ्यो ब्रह्मणेऽभिजिते विष्णवे श्रोणायै वसुभ्यः श्रविष्ठाभ्यो वरुणाय शतभिषजेऽजायैकपदे प्रोष्ठपदेभ्योऽहये बुध्नियाय प्रोष्ठपदेभ्यः पूष्णे रेवत्या अश्विभ्यामश्वयुग्भ्यां यमायापभरणीभ्यः स्वाहेति व्याहृतिः २०
ऋषभं वैरवणमग्नीषोमीयं वैष्णवं धातादि मूलहोमं यद्देवादि कूश्माण्डहोममा सावित्रव्रतबन्धाज्जुहोत्युपनीतस्य च तत्तद्व्रतसूक्तानि वेदस्नातकस्य यदह्नि विवाहो भवति मासिके वार्षिके चाह्नि तस्मिन्यत्स्त्रिय आहुः पारम्पर्यागतं शिष्टाचारं तत्तत्करोति तथाग्निष्टोमादियज्ञानामाधाननक्षत्रे वर्षान्ते करोति तदेवं वर्तमानस्य यद्यष्टमासाधिकाशीतिवर्षाणि रविवर्षेणाधिगान्यधिगच्छेयुः स दृष्टसहस्रचन्द्रो भवति तमेनं क्रियायुक्तं पुण्यकृत्तमं ब्रह्मशरीरमित्याचक्षते तस्मान्नान्दीमुखं कृत्वा शुक्लपक्षे शुद्धेऽहनि पूर्वाह्णे पुर्ववद्धुत्वा तथैव कपिल इवेति वृद्धस्य वृद्धाया वा वदन्नक्षतोदकादीन्मूÞर्यादध्यात्सर्वदेवताः सहस्रं च ब्राह्मणानामर्चनबलिभ्यामन्नेन तर्पयेत् ग्रामं प्रदक्षिणीकृत्य सायं स्थण्डिले सहस्रं पिष्टेन सोमरूपाणि करोति राजतेन पात्रेण कुमुदपत्रैः सोमस्यार्चनं तस्य दक्षिणे रोहिणीगणं वामे चानावृष्टिगणमर्चयति सहस्रशः सुवर्णरजतमुक्ता-दीनि शक्त्या वस्त्रतण्डुलापूपानि च दद्यादश्वमेधफलावाप्त्यै वर्षवर्धनमिति विज्ञायते २१
अथ षष्ठे मास्यन्नप्राशनं शुक्लपक्षे दिने शुद्धे तत्राज्येनाघारो धातादि मूलहोमं पूर्ववत्त्रिवृत्प्राशनं प्राङ्मुखं मङ्गलयुक्तं कुमारं विष्टरमारोप्य भूरपामिति पायसमन्नं प्राशयेद्योगे योगे तवस्तरमित्याचमनं ददात्यथ प्रवासागमनं पुष्पापूपदक्षिणादिसम्भारान्कुमारं च गृहीत्वा कनिक्रदादिमालयं गुहस्य गच्छेत्प्रदक्षिणमर्चनं प्रणामो गुहस्य तच्छिष्टेन पुष्पादिना गुहस्य शेषमिति तन्नामोहित्वा बालमलङ्कृत्य शान्तिं वाचयित्वा निवर्तयेत्प्रोक्ष्यागतं सोमस्य त्वेत्यङ्गमारोप्यायुषे वर्चस इति पिता मूर्ध्नि जिघ्रति वृषभं नमस्कृत्य दक्षिणपाणेः साङ्गुष्ठमङ्गुलीर्गृहीत्वा कनिष्ठाद्यग्निरायुष्मानित्यादिकैर्विसर्जन-मायुष्टे विश्वतः प्रतिष्ठ वायाविति दक्षिणादिकर्णयोर्जपनमुदङ्मुखं ब्रह्मादिदेवा-नां गुरूणां च प्रणामं कारयेत् पादोदकं दत्त्वा पूर्ववत्सगुडभक्ष्यस्यान्नस्य सपिण्डैः श्रोत्रियैः सह भोजनं स्वस्तिवाचनं पिण्डवर्धनमिति विज्ञायते २२
अथ वर्षे प्रथमे तृतीये वा चौडकमुत्तरायणे पक्ष आपूर्यमाणे पुन्नाम्न्याघारो मूलहोमान्ते मङ्गलयुक्तमग्नेरपरस्यां कुमारमुपवेश्योत्तरे साक्षतं गोशकृच्छरावे गृहीत्वा माता ब्रह्मचारी वा धारयेच्छिवो नामासीति ग्रहणं क्षुरस्य शिवा नो भवथेति शिलायां तीक्ष्णीकरणं गोदानमुनक्त्विति गवादिदक्षिणाकरणमाप उन्दन्त्वित्यपां सेकं शिरस्योषधे त्रायस्वैनमिति साक्षताङ्कुरदर्भौ प्रागुत्तराग्रौ मस्तके स्थापयेत्स्वधिते मैनँ हिंसीरिति क्षुरं निधायोर्ध्वाग्रमोषधीरिति येनावपदिति येन पूषेत्यसावायुषेति पूर्वादिप्रदक्षिणं दर्भं सरोमाणं छित्त्वा ज्योक् च सूर्यं दृश इति चूडां विभजेदृषिक्रमेण स्वस्यैकार्षद्व्यार्षत्र्या-र्षपञ्चार्षसप्तार्षाच्चूडा विभजेदनुदितस्यैकामिदमहममुष्येत्युदुम्बरदर्भयोर्मूले गोष्ठे वाच्छादयेत्स्नातं वस्त्रादिनालङ्कृत्योपवेश्य दक्षिणे पञ्च प्रायश्चित्तादि धातादि पञ्च वारुणं मूलहोमं हुत्वा पुण्याहं कृत्वा नापितायान्नदानं गवादिदक्षिणां गुरवे सुराणां पूजनं तर्पणं ब्राह्मणानामन्नेन करोतीत्यष्टादश संस्काराः शारीराः २३
तृतीयः प्रश्नः समाप्तः अथ स्थालीपाकमग्नेः पश्चिमतस्तिष्ठन्प्राङ्मुखः प्राणायामं धारयत्येकविंशती-ध्मान्सन्नह्य दर्भान् दर्वीस्रुक्स्रुवप्रणीताज्यस्थालीचरुस्थालीरग्नेरुत्तरेऽवाङ्मुखं सन्न्यस्योद्धरेत्यग्निमुद्धार्येन्धनैरिन्धयेद्वेदिं परिमृज्य प्रागाद्युत्तरान्तं दर्भानास्ती-र्येध्मादीनग्निकुण्डं च प्रोक्षयति प्रणीतामासाद्य पवित्रं निधायाद्भिः पूरयति पृथिव्यापो ग्रहीष्यामीति पूर्ववदुत्पूयोत्तरे निधायाज्यस्थालीं गृहीत्वा पूर्वव-दाज्यं संस्कृत्य चतुर्थीवदाग्नेयं चरुं स्थाल्यां पक्त्वाग्निं परिसमूह्य देवस्य त्वेति दर्वीमादाय प्रक्षाल्योत्तराग्रं निधाय परिषिच्येध्मान् गृहीत्वाज्यमनक्त्येकम-नूयाजमपोह्य त्रीन्परिधीनाघारौ च पूर्ववन्निधाय शेषान्पञ्चदशेध्मान्प्राणाया-मेनाग्नौ क्षिपत्याज्येनाघारौ संस्राव्य हुत्वाग्नये सोमायेति जुहोति दर्व्या चरुं गृहीत्वाभिघार्यावदानं गृहीत्वाग्नये स्वाहाग्नये स्विष्टकृते स्वाहेति हुत्वात्रा-नूयाजमग्नौ प्रक्षिप्य प्राजापत्यं जयान्व्याहृतीश्च पाहि नो अग्न एनसे पाहि नो विश्ववेदसे यज्ञं पाहि विभावसो सर्वं पाहि शतक्रतो कामावकीर्णः कामाभि-द्रुग्धः सं मा समुद्रादिति स्विष्टाकारं च जुहोति परिषिच्य प्रणिधिं चालयति भस्मालिप्यात्मानं प्रोक्ष्याग्निं वैश्वानरसूक्तेनोपस्थाय प्राणायामेन दर्भांश्चतुर्दि-शमुत्थाप्याद्भिः प्रोक्ष्य द्वावपोह्यान्यानाप्यायन्तामिति जुहोति द्वावपि गृही-त्वाद्भिः प्रोक्ष्याग्नये स्वाहा सोमाय स्वाहेति हुत्वा त्रीन्परिधीनाघारसमिधौ च जुहुयाद्धार्यं कर्तुमशक्तः समिधि स्वात्मन्यरण्यां वा समारोपयेदिति विज्ञायते १
अथ सति व्रीहिनीवारश्यामाकयवानामाग्रयणे देवताभ्यः स्थाल्यां चरुं पक्त्वा नवेन तण्डुलेन पक्केनापि जुहोत्यग्नये स्वाहेन्द्राग्निभ्याँ स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सोमाय स्वाहा द्यावापृथिवीभ्याँ स्वाहाग्नये स्विष्टकृते स्वाहेति शतायुधाय ये चत्वार इति पितृभ्यः सोपवीती ग्रीष्मो हेमन्त इदुवत्सराय भद्रान्नः श्रेय इत्यायुष्मा इत्यादिभिस्त्रिभिर्व्याहृत्यन्तं हुत्वा दक्षिणे धरण्यां पितृभ्यो बलिदानमाप्यायन्तामिति तण्डुलैरास्यमभिपूर्याचम्य शिष्टैरन्तर्वंशे परमेष्ठ्यसीति विकिरति तदेवं शालीनयायावरादिवृत्त्यन्तरमाश्रित्य गार्हस्थ्यं धर्ममनुतिष्ठतीति विज्ञायते २
अथाष्टका माघप्रौष्ठपदयोरपरपक्षेऽष्टम्यामष्टकां कुर्यात् सप्तम्यां नवम्यां त्रयोदश्यां वा सायं पूर्वेद्युः स्वाध्यायाचारवतः शुचीनसगोत्रान्ब्राह्मणाना-हूयाभिपूज्य युग्मान् द्व्यवरान्विश्वेदेवार्थे त्र्यवरानयुग्मान्पित्रर्थे द्वयोरेकैकं वा निमन्त्रयेदपरेद्युरपराह्णे देशे शुचावाधायौपासनाग्निं वैश्वदेवाघारं हुत्वा स्थालीं सङ्क्षाल्य विश्वेभ्यो देवेभ्यो जुष्टमिति स्थाल्यां तण्डुलान्निर्वाप्य सतिलं चरुमपूपान्यपि पचेदग्नेर्दक्षिणस्यां नान्दीमुखवन्मण्डलान्युपलिप्यास्त्वास-नमित्यासनानि सदर्भतिलेष्वासनेष्वासयित्वा वस्त्राद्यैरलङ्कृत्य ब्राह्मणान्प्र-त्यङ्मुखान्विश्वेदेवानुदगन्तं पुष्पाद्यैः पितॄनुदङ्मुखान्प्रागन्तं गन्धाद्यैः पूजयति स्वधा नम इत्युक्त्वा तेषां करे तिलोदकं दत्त्वा प्राप्नोतु भवानिति ब्रूयात् ॐ तथा प्राप्नवानीति प्रतिब्रूयुरग्नौ होमं करिष्यामीत्युक्ते कुरुष्वेति तैरनुज्ञा-तोऽग्निं परिषिच्य विश्वे देवस्य विश्वे अद्य प्रजापते न त्वत्सुभूः स्वयम्भूः सं ते पयाँसि सोम यास्त इति रौद्रं ब्राह्मं वैष्णवं व्यहृत्यन्तं देवानां सपि-ण्डीकरणवत्पितॄणामप्याज्येन हुत्वा हव्यं कव्यमित्यभिघार्य पक्वेनापूपमिश्रेण जुहोति गामुपाकृत्य पशुबन्धवत्सञ्ज्ञप्त्वोत्खिद्य वपामुद्धृत्य पक्वया तया वह वपामिति होमं चामनन्ति ३ दक्षिणपश्चिमेऽग्नेरेकोद्दिष्टवन्निर्वापस्थानं तद्दक्षिणस्यामवटं चोपकल्प्योद्धन्यमानमिति दर्भैस्त्रिभिर्दक्षिणान्तं सकृदुल्लिखेत् गायत्र्या प्रोक्ष्य स्थाने निहन्मि सर्वमिति दक्षिणाग्रानयुग्मानुदुम्बरपत्रदर्भांस्तिलैरास्तृणाति पोषाय त्वेति सकूर्चाक्षतं पात्रमुदकेनापूर्य पितरो मे प्रसीदन्त्विति प्रणम्या म आगन्त्विति पितॄनावाह्य दक्षिणाभिमुखोऽभ्यर्चयत्या मा वाजस्येति पात्रं प्रमार्ज्याग्निरिन्द्रेति चरुं निर्वपति दर्भेण तमष्टधा विभज्य साज्यं पिण्डान्कृत्वा सव्योत्तरपाणि-भ्यामयमोदन इति पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो ज्ञातिवर्गेभ्यः पितृ-पत्नीभ्यः पितामहपत्नीभ्यः प्रपितामहपत्नीभ्यो ज्ञातिवर्गपत्नीभ्यः पिण्डं निर्व-पामीति निर्वपत्येवं मातुः पित्रादिभ्यः पिण्डदानं केचिद्वदन्त्यञ्जनदन्तधा-वनदधिसक्तुमधुव्यञ्जनेक्षुबदरीफलान्यर्पयेच्छूर्पेणाछाद्योपरि पुष्पतिलाक्षत-दर्भान्न्यसेदूर्जं वहन्तीरिति परितः स्राव्योदकं दत्त्वा मूर्तीनामिति तत्पात्रोद-केनावटं पूरयति चरुशेषेणान्यैश्चान्नाद्यपूपोपदंशैः पूर्ववद्ब्राह्मणान्यथातृप्ति भो-जयेत्तेषु तृप्तेषु पितरस्तृप्ता भवन्ति वाग्यतान्भुञ्जानानृचः पैतृकाः श्रावयेदुच्छिष्टं संशोध्य तत्रान्नं विकिरेदाचान्तेभ्यो मुखवासं निवेद्य रजतं तिलं सुवर्णं वा दक्षिणां पशुकांस्ययानदासशयनासनादीनि परिच्छदांश्च यथाशक्ति ददा-त्यन्नशेषं तेभ्यो दर्शयित्वा यथोक्तं करणीयमाचमनोच्छिष्टशोधनोत्थापन-विसर्जनादन्यद्विश्वेदेवपूर्वमाचरेदन्यथा रक्षांस्यपहरेयुर्नमो वः पितरः इति पि-तॄनभिवन्द्य पिण्डानुद्वासयेदस्तु तृप्तिरा मा वाजस्येति भुक्तवतस्तान्न-मस्कृत्योत्तिष्ठतेत्युत्थाप्य परेत पितर इति प्रवासयति पितृभुक्तं पितृजीर्णमि-त्यन्तहोमान्तेऽग्निमालये प्रतिष्ठाप्य पञ्च महायज्ञान्करोति दरिद्रो ममेयमष्टकेति कक्षमग्निना दाहयेच्छ्रोत्रियाय पानीयं वा दद्यादिति विज्ञायते ४ अथातोऽमावास्यायां पिण्डपितृयज्ञं यजेत पूर्वेऽहन्यपां मेध्यमिति समूलं बर्हिराहृत्य सकृदेवाच्छिद्य सकृदाच्छिन्नबर्हिषः समाहरत्युपोष्य श्वो भूतेऽप-राह्णेऽग्निं प्रणम्य प्राचीनावीत्यध्वर्युर्दक्षिणाग्नेर्दक्षिणपश्चिमस्यां चरुस्थाल्या-ज्यस्थालीस्रुक्स्रुवेध्ममेक्षणेडापात्रस्फ्यशूर्पोलूखलमुसलादिपात्राण्येकैकशः प्रयुञ्जीत अपहता असुरा इति वेदिं परिमृज्यायात पितर इति दक्षिणाग्निं सकृदाच्छिन्नबर्हिषा परिस्तृणाति पितृभ्यो जुष्टं निर्वपामीति स्थालीं सपवित्रां व्रीहिभिरापूर्य तेनैवाभिमृश्य तथैव ताञ्छूर्पे निरुप्याभिमृशेदन्वाहार्यस्य दक्षि-णस्यां पश्चिमस्यां वोत्तरपश्चिमग्रीवं कृष्णाजिनमास्तीर्योर्ध्वमुलूखलं संस्थाप्य व्रीहीन्प्रक्षिप्य पत्न्यवघातं कृत्वा विवेचनवर्जं परावापं सकृत्करोत्यध्वर्युः स्थाल्यां तण्डुलानद्भिः सकृत्परिप्लाव्यान्वाहार्ये जीवतण्डुलमस्विन्नं चरुं श्रपयेद्दक्षिणतः स्थालीं मेक्षणं च दर्भेष्वासाद्यानुत्पूतसर्पिषा पक्वमभिघार्य शुन्धन्तां पितर इति वेद्यां परितः कूर्चेनापः स्रावयेत्सोपवीती दक्षिणाग्ना-विध्मान्हुत्वा मेक्षणेन चरुमभिघार्यावदायाग्नये कव्यवाहनाय स्वधा नमः स्वाहा सोमाय पितृमते स्वधा नमः स्वाहा यमाय चाङ्गिरस्पतये स्वधा नमः स्वाहेति जुहोति तदग्नेः सधूममेकमुल्मुकमुद्धृत्यापयन्त्वसुरा इति पश्चिमतो वेद्यां सन्न्यस्य निर्धूमं तं विसृजेत् ५
यजमानः प्राचीनावीती दक्षिणपूर्वे स्फ्येनैवोल्लेखनं कृत्वा तत्राद्भिः प्रोक्ष्य स्फ्यं निधाय तस्मिन्नूर्म्योदकान्त इत्युदकेन तर्पयित्वा पश्चिमे सकृदा-च्छिन्नबर्हिषि पितॄन्पितामहान्प्रपितामहानभ्यर्च्यावाचीनपाणिरेतत्ते ततासौ ये च त्वामन्विति प्रत्येकं दक्षिणान्तान्पिण्डान्दद्यादाङ्क्ष्व पितरसावाङ्क्ष्व पितामहासावाङ्क्ष्व प्रपितामहासावित्यभ्यञ्जनमेतानि वः पितर इति कशि-पूपबर्हणवासोऽञ्जनं चार्पयेत्पूर्ववदूर्जं वहन्तीरिति पिण्डं परिषिच्य त्रिरुद-काञ्जलिं दत्त्वा तथैव पितॄनभिवन्द्य प्रवासयति प्रजापते न त्वदिति गार्हप्त्यं गत्वा यदन्तरिक्षमित्युपतिष्ठेतानाहिताग्निश्चैवमौपासनाग्नौ चरुं श्रपयित्वा जुहुयादौपासनस्य संस्काराभावाद्यदन्तरिक्षमिति मन्त्रेण गार्हपत्यशब्दं विनैवोपस्थानं कुर्यादपां त्वौषधीनामिति मध्यमं पिण्डं दत्त्वाधत्त पितर इति पत्नीं प्राशयेदेषा पुमांसं जनयति द्विपिता चेद्यजमानस्तथैव पिण्डं दत्त्वा यन्मे मातेत्येकस्मिन्पिण्डे तौ द्वावपि ध्यात्वात्र पितरो यथाभागमिति प्रणमेद्ये समाना इति सकृदाच्छिन्नमग्नौ हुत्वा पात्राणि द्वन्द्वमाहरतीति विज्ञायते ६
अथ श्राद्धं मासि मास्यपरपक्षेऽन्यतमेऽहन्यजन्मर्क्षे ब्राह्मणनिमन्त्रणादि सर्वमष्टकावत्तथाज्यचरू हुत्वान्नं पिण्डार्थं पात्रे समवदाय ब्राह्मणान्भोजयित्वा नमो वः पितरो रसायेति पिण्डं प्रथमं पितृभ्यो नमो वः पितरः सोम्यास इति द्वितीयतृतीयौ पितामहप्रपितामहाभ्यां पितृभ्यस्तत्पत्नीभ्यः पिण्डानर्पयतीति विशेषः पितरि जीवति पिण्डा न निर्वाप्यास्तमेवान्नादिना यथेष्टं तर्पये-द्यस्मिन्दिने ज्ञातिर्मृतस्तस्मिन्मासि मासि प्रेतायैकं पिण्डं निरुप्यैकं भोजयेदा संवत्सरान्मासिश्राद्धमष्टकां च न कुर्यादा सपिण्डीकरणादित्येके पितृपूजा प्रेतपूजा भवेत्पितॄन्प्रेतं चोद्दिश्य पूजनं सर्वं श्राद्धं भवतीति पिण्डपितृयज्ञः कर्त्तव्य एवेति विज्ञायते ७
अथ चैत्री चैत्र्यां पौर्णमास्यां गृहं शोधयित्वालङ्कृत्य दम्पती नववस्त्रोत्तरीयपुष्पाद्यैरलङ्कुर्यातामाघारे कृते देवताभ्यः स्थाल्यां चरुं श्रपयित्याज्येन ग्रीष्मो हेमन्त ऊर्णं मे पूर्यतां श्रिये जातो वैष्णवं च हुत्वा साज्येन चरुणा मधुश्च स्वाहा माधवश्च स्वाहा शुक्रश्च स्वाहा शुचिश्च स्वाहा नभश्च स्वाहा नभस्यश्च स्वाहेषश्च स्वाहोर्जश्च स्वाहा सहश्च स्वाहा सहस्यश्च स्वाहा तपश्च स्वाहा तपस्यश्च स्वाहर्तुभ्यः स्वाहर्तुदेवताभ्यः स्वाहौषधीभ्यः स्वाहौषधीशाय स्वाहा श्रियै स्वाहा श्रीपतये स्वाहा विष्णवे स्वाहेति जुहोत्यपरेणाग्निं देवीं श्रियं देवं श्रीपतिं च प्राङ्मुखमभ्यर्च्य हविर्निवेदयति चैत्र्याणि पक्वान्यन्नानि ब्राह्मणानन्नसूक्तेन भोजयित्वा सपिण्डैर्युक्तो भुञ्जीत ८
अथाश्वयुजी आश्वयुज्यां पौर्णमास्यां गोष्ठेऽग्निं समाधायाघारं जुहुयादग्नेः प्राच्यां भवं देवमावाह्याभ्यर्च्य तृणानि सम्भृत्य गाः स्थापयति भवायेति स्थाल्यां निर्वापश्रपणं कृत्वाग्नौ परिषेकं कुर्यात् भवाय शर्वायेशानाय पशुपतय उग्राय रुद्राय भीमाय महादेवाय स्वाहेति रुद्रमन्यं त्र्यम्बकमित्याज्यहोमान्ते मेक्षणेन चरुमवदायाभिघार्यावदानं सङ्गृह्य पूर्ववज्जुहुयादर्कपत्रैर्देवं चरुं निवेद्याज्यशेषेण तृणान्यभ्युक्ष्य गोभ्यः प्रदाय प्रदक्षिणनमस्कारौ करोतीति विज्ञायते ९
अथाग्नौ नित्यहोमान्ते विष्णोर्नित्यार्चा सर्वदेवार्चना भवति अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता इति ब्राह्मणं तस्माद्गृहे परमं विष्णुं प्रतिष्ठाप्य सायम्प्रातर्होमान्तेऽर्चयति षडङ्गुलादहीनं तद्रूपं कल्पयित्वा पूर्वपक्षे पुण्ये नक्षत्रे प्रतिष्ठां कुर्यात्तस्मात्पूर्वं तृतीयेऽहन्यौपासनाग्निकुण्डं कृत्वा पूर्ववत्प्रोक्षणोल्लेखनादि कर्म कुर्याद्द्वितीयस्यां वेद्यां षट्त्रिंशदङ्गुलप्र-माणैर्दर्भैः कूर्चेन वा परिस्तीर्य परिधीनूर्ध्वसमिधौ निधायोर्ध्ववेद्यां यथा-दिशमिन्द्रादिदिग्देवान्दक्षिणे ब्रह्माणमुत्तरे सोमं च पुष्पाद्यैरभ्यर्च्य तथैवाघारं जुहोति दद्भ्यः स्वाहा हनूभ्याँ स्वाहेत्यङ्गहोममतोदेवादींश्च हुत्वा पुरुषसूक्तं जपन्सुवर्णेनाक्ष्युन्मेषणं करोति नद्यां तटाके जलपूर्णपात्रे वा ये ते शता-द्यैर्वस्त्राणि कुशांश्चास्तीर्य विष्णुसूक्तेन देवं प्राक्शिरः शाययित्वाधिवासयति द्वितीयदिवसे स्नात्वा रात्रौ पूर्ववदाघारं हुत्वाष्टौ कलशानाहृत्य पञ्चगव्यघृत-दधिक्षीराक्षतोदकफलोदककुशोदकरत्नोदकैः पूरयित्वा देवमभ्यर्च्य वसोः पवित्रमग्न आयाहीषे त्वोर्जे त्वा शं नो देवीश्चत्वारि शृङ्गा सोमो धेनुं चत्वारि वागिदं विष्णुरिति कलशैः स्नापयित्वापोहिरण्यपवमानैर्गन्धतोयैश्च स्नाप-यत्यग्नेरुत्तरस्यां व्रीहिभिर्वेदिं कृत्वा विष्टरं न्यस्य वस्त्राण्यास्तीर्य देवमारोप्य वस्त्राद्यैरलङ्कृत्यार्चयति पुण्याहं कृत्वा स्वस्तिसूक्तेन तामभिमृश्य स्वस्तिदा विशस्पतिरिति प्रतिसरां बद्ध्वा पूर्ववद्देवं शाययीत १०
कालविहीनं कुम्भमुत्पूतैराधावैरापूर्य देवस्य पार्श्वे निधाय प्रणवेनाभिमृश्य कूर्चाक्षतसुवर्णरत्नानि प्रक्षिपेन्निष्कलं देवं हृदये तथाधावे रुक्माभं रक्ता-स्यनेत्रपाणिपादं श्रीवत्साङ्कं चतुर्भुजं पीताम्बरधरं शङ्खचक्रधरं सौम्यं सकलं ध्यात्वा प्रणमेदग्निं परिषिच्य हौत्रं प्रशंस्य दक्षिणप्रणिध्यामॐ भूः पुरुषमॐ भुवः पुरुषमोँ सुवः पुरुषमॐ भूर्भुवः सुवः पुरुषं नारायणं विष्णुं पुरुषं सत्य-मच्युतमनिरुद्धं श्रियं महीमिति नाम्नावाह्य निर्वापं कृत्वाज्येन विष्णु-सूक्तपुरुषसूक्ताभ्यामतोदेवादीञ्छ्रिये जातो मेदिनी देवीति चतुरावर्त्य हुत्वा नाम्ना साज्यं चरुं जुहुयात्प्रभाते स्नात्वा प्रणवेन देवमुत्थाप्य शकुनसूक्तं जप-न्सह कुम्भेन देवमानीय गृहे वायव्यां देवायतनेऽग्निशालायां वार्चापीठे रत्नं सुवर्णं वा सन्न्यस्य विष्णुसूक्तपुरुषसूक्ताभ्यां विष्णुं प्रतिष्ठापयामीति प्रतिष्ठाप्य बिम्बस्य मूर्ध्नि नाभौ पादे च सुवर्भुवर्भूरिति हृदये प्रणवं विन्यस्येदं विष्णुरिति देवं ध्यायन्कुम्भस्थमाधावं शक्तियुतं कूर्चेनादाय बिम्बस्य मूर्ध्नि विष्णुमावाहयामीति संस्राव्यावाहनं करोति विधिनैवाराध्य हविर्निवेदयति ११

अथ नित्यार्चनम् “अतो देवा” इति देवं प्रणम्य
निर्माल्यम् अपोह्योत्पूतैर् आधावैर् व्याहृत्या वेदिं परिमृज्य
पूववद् देवं ध्यात्वा
“प्र तद्विष्णुर्” इति कुश-पुष्प-दर्भान्यतमेनासनं कल्पयित्वा
“त्रीणि पदे"ति पाद्यं, “शं नो देवीर्” इत्य् आचमनं दद्याद्
“इषे त्वोर्जे त्वे"ति स्नापयित्वा
“विष्णोर्नु कम्” इति वस्त्राभरणैर् अलङ्करोति
पूर्ववत् पाद्याचमनं दत्त्वा
“तद्विष्णोः परमं पदम्” इति पुष्पं
“तद् विप्रास” इति गन्धं
“परो मात्रये"ति धूपं
“विष्णोः कर्माणी"ति दीपं
“त्रिर् देव” इत्यर्घ्यं दत्त्वा
पुनर् आचमनं ददाति
“तदस्य प्रियम्” इति हविर् निवेदयेद्
“इदं विष्णुर्” इति पानीयं तथाचमनं
“विचक्रमे पृथिवीम्” इति पुखवासं च दत्त्वा
द्वादशाष्टाक्षराभ्यां पुष्पाणि ददाति
तं यज्ञपुरुषं ध्यायन्
पुरुष-सूक्तेन संस्तूय
प्रणामं कुर्याद्
“यज्ञेषु विहीनं तत्सम्पूर्णं भवती"ति श्रुतिः।
द्विजातिर् अतन्द्रितो नित्यं गृहे देवायतने वा भक्त्या भगवन्तं नारायणमर्चयेत्
“तद्विष्णोः परमं पदं गच्छती"ति विज्ञायते १२

अथ ग्रहशान्तिं व्याख्यास्यामो ग्रहायत्ता लोकयात्रा तस्मादात्मविरुद्धे प्राप्ते ग्रहान्सम्यक् पूजयत्यादित्यश्चन्द्रोऽङ्गारको बुधो बृहस्पतिः शुक्रः शनैश्चरो राहुः केतुश्चेत्येते नव ग्रहा रक्तासितातिरक्तश्यामपीतसितासितकृष्णधूम्रवर्णाः अन-लाप्पतिगुहहरीन्द्रशचीप्रजापतिशेषयमाधिदैवत्याः मध्याग्नेयदक्षिणैशान्यो-त्तरपूर्वपश्चिमनैरृतवायव्याश्रितास्तस्माच्छुद्धे देशे मनोरमे गोमयेनोपलिप्ते स्वे स्वे स्थाने शालिव्रीहिभिः सिकताभिर्वा चतुरश्रं वृत्तं तुट्याकारं त्रिकोणम-ष्टाश्रमर्धचन्द्राकारं वज्राकारं दण्डाकृति ध्वजाकृतीति क्रमेण पीठान्युपक-ल्प्य तेषु कूर्च निधाय तद्दक्षिणपार्श्वे तदधिदैवतामुद्दिश्य पीठान्युपकल्प्या-हवनीयान्वाहार्यगार्हपत्यावसथ्यमभ्यान्क्रमेणोपकल्प्याग्नीन्साधयित्वार्च-येत्करवीरशङ्खपुष्पोत्पलनन्द्यावर्तचम्पकमल्लिकासितगिरिकर्णिकाकल्हा-रतापिञ्छपुष्पैस्तद्वर्णवर्णैः पुष्पैर्गन्धैः पूर्ववदभ्यर्च्य शुद्धोदनपायसगुडोदनदध्योदनगौडिकचित्रोदनकृसरमाषोदनकणोदनानि क्रमेण निवेदयेत् १३
तदधिपांस्तदर्हेणाभ्यर्च्याघारं हुत्वार्कपलाशखदिरापामार्गाश्वत्थोदुम्बरशमीदूर्वाकुशान्यथा क्रमेणा सत्येन सोमो धेनुमग्निर्मूर्धोद्बुध्यस्व बृहस्पते अति य-च्छुक्रं ते अन्यच्छं नो देवीः कया नश्चित्रा केतुं कृण्वन्निति क्रमेणाष्टशतं सप्तविंशतिकं वा त्रिमधुराक्ताभिः समिद्भिश्चरुणाज्येन च जुहुयादाहवनीये शशिशुक्रयोरन्वाहार्येऽङ्गारकराह्वोर्गार्हपत्येऽसितकेत्वोरावसथ्ये गुरुबुधयोः सभ्ये सवितुरित्यग्निं दूतं ये ते शतं सुब्रह्मण्य इदं विष्णुरिन्द्रं प्रणवन्तं गन्धद्वारां ब्रह्म जज्ञानं शं नो निधत्तां यमो दाधारेत्यधिदेवेभ्य आज्येन तत्तत्स्थाने जुहुयाद्विष्णोर्नुकादीन् मिन्दाहुत्याश्रावितादीन्हुत्वा पायसकृसरगौड्याद्यैः पू-र्वोक्तचरुभिर्ब्राह्मणान्भोजयित्वा रक्तधेनुमादित्याय शङ्खं सोमाय ताम्रमङ्गा-रकाय हिरण्यं बुधाय शुक्लं वासो बृहस्पतये हयं शुक्राय कृष्णां गां शनैर्श्चराय राहोश्छागं केतोरायसदण्डमित्यात्मविरुद्धानां तदर्हं दद्यात्सर्वेषामलाभे सुवर्णं जन्मकर्मसाङ्घातिकसामुदायिकवैनाशिकर्क्षसंस्थेषु क्रियाकालविरुद्धेषु ग्रहे-ष्वेतच्छुभर्क्षेष्वारभेतैतेन नवग्रहजा दुःखा व्याधयः शान्तिं यान्ति अन्यथा महत्तरो दोषो भवति ग्रहपूजां पुरस्कृत्य सर्वकर्म समारभेदिति विज्ञायते १४
चतुर्थः प्रश्नः समाप्तः अथाहिताग्नेः पत्न्या गृहस्थस्य स्त्रिया ब्रह्मचारिणो ऽनारोपितकार्यस्य च दहनविधिं व्याख्यास्यामो यथोक्तैस्त्रैवार्षिकैररिष्टैरायुरात्मीयं परीक्ष्य तृतीये पञ्चमे नवमे वाह्नि मुमूर्षुर्बान्धवान्पञ्चविधानाहूय पूर्वं प्रियं भाषित्वैहिकं सम्भोगं पारलौकिकं चात्मनो विभजेदुपस्थितेऽहनि शुचौ प्रदेशे सिकतातले दर्भान्प्रा-गग्रानास्तृणाति दक्षिणाग्रानित्येके तत्रासीत शयीत वा दक्षिणशीर्षमस्याध्वर्युः शं नो मित्र इति शान्तिमात्मनः कृत्वायुषः प्राणमिति मुमूर्षोर्दक्षिणे कर्णे जपेत्सञ्ज्ञानमिति वामे च प्राप्ते प्रयाणकाले शुक्लमहो मासाः षडुत्तरा-यणमग्निर्ज्योतिरनेन पथा ब्रह्मपदमपुनरावृत्त्याभ्येति धूम्रः कृष्णो रात्रिर्मासाः षड् दक्षिणायनं चान्द्रमसमेतज्ज्योतिः प्राप्य निवर्तत इति गती चोभे विज्ञाय शान्तिं ज्योतिष्मतीं जपतीन्द्रियाणीन्द्रियार्थेषु निरुध्य क्रमेण घण्टावसानिके पदत्रये निविष्टे नानाविधे स्वयञ्ज्योतिषि ब्रह्मण्यद्वितीये तद्यो ऽसौ सोऽह-मित्यात्मोपासनक्रमेण वा समादधीत यस्मात्प्रयाणकाले यं धायति तन्मय एव भवत्यात्मेति ब्रह्मवादिनो वदन्ति तदेवं दैवकृते प्रतिसंहारे गन्धात्मकं भूमेर्गु-णमापः प्रथमं ग्रसन्ति तदास्य भ्रमतीव शरीरं व्यावतिष्ठेतापां गुणोद्रे-कादिन्धितोऽग्निः प्रविश्य प्राणायतनमर्माणि दारयन्नाडीमुखेभ्यो रसं दहति तदा दह्यमानमिव शरीरं मन्यते ततः कीलालं शुष्यति मुक्तबन्धे श्लेष्मणि पित्तेन सहाग्नौ पतिते स चाग्निरर्थाभावाच्छाम्यति वायुस्तिर्यगूर्ध्वमधश्चैव शरीरं व्यालोलयति तस्मान्मुह्यति तदा स्वैः स्वैः कर्मभिरुन्मुक्ताः पञ्च वायवो विसृजन्त्यात्मनः स्थितिमभिनिष्क्रामतश्चोच्छ्वास ब्रह्ममुक्ताद्दृतेरिव मन्दं म-न्दमूष्माणमुदावहति तदा वेगेनोत्थाय वायुमूर्तिर्भ्रमन्निवास्य कण्ठे खुरु-खुरायमाणो विश्वमेव विहरञ्जलूकावत्पदात्पदान्तरं विन्दन्नुत्क्रामति धर्माध-र्मावूर्ध्वभावोऽधोभावश्च ज्ञानाज्ञाने सुखदुःखे चेश्वरवशात्तेन सह प्रतिष्ठेयाताम् १
अथ वै विगतानिलचेष्टं देहं मृतकमाज्ञाय गेहाद्बहिः शुचौ देशे चित्तिःस्रुगादिना स्नापयित्वाज्याभिषेचनं ग्राम्यालङ्करणं बर्हिषा पादकरयोरङ्गुष्ठौ बध्नीयाद्यस्याभोक्ता शकल इत्यहतेन वाससा पादतोदशान्तमाछादयति तथैव शयनमभ्युक्ष्य गाङ्गेयेति शाययीत नैतदन्ये स्पृशन्त्यनाहिताग्न्यादीनां सर्वौ-षधिपृक्तेनोदकुम्भन श्मशाने स्नानालङ्कारौ स्यातामिति विशेष उखास्व-ग्नीनादाय यज्ञभाण्डानि नवानि मृन्मयानि घटशरावादीन्यौदुम्बराणि समित्प-रिधिशाखापत्राण्युत्तरबर्हिर्हिरण्यशकलतिलाक्षतदधिमधुक्षीराज्यादीनि सम्भृत्योत्तरस्यां पूर्वतस्तस्मान्न्यस्यति स्नात्वाध्वर्युः पितृमेधविधिनाग्निहोत्रेण यथास्वमग्नौ दक्षिणाभिमुखः प्राचीनावीती परिस्तीर्य सतिलेनाक्षतेन वैश्वदेवं हुत्वा गृहदेवताभ्यो बलिं हरेत् शवस्य भारकाः सपिण्डाः पञ्चसम्बन्धिवर्गा वा तदन्ये समानौ द्वौ चत्वारो वा स्नाता दर्भरज्जुसंवीता दर्भाम्बरधराः स्युः पुत्रास्त्र्यष्टिकायोगेनाग्नीनसङ्करं गृह्णीयुः कुम्भं च पत्नीतराण्यन्येऽनुनयन्ति पश्चादुत्तारेण मेरोरंह इति मृतकमुद्धृत्य यथाप्रवेशं गृहान्निर्गमय्य हरेयुर्ग्रामान्ते पालाश्या शम्या वा शाखयाप्रदक्षिणमपेत वीतेति त्रिवीधीस्त्रिरपक्रमं दक्षि-णान्तं मार्जयित्वाहोभिरद्भिरिति दक्षिणस्यां तामुत्सृजति तत्र तिलाक्षतोदकैः प्रोक्ष्य मेरोरंह इति दक्षिणशीर्षमवतारयेयुरुत्तरत्राप्युद्धारावतारयोरेवमेतेन कुर्वीरंस्तथैवाग्न्यादिसम्भारान्निधाय तस्माद्वायव्यां दक्षिणाग्रेषु दर्भेषु त्रिगुणे-श्वराणि त्रीणि मृत्पिण्डान्यवाच्यन्तं न्यस्य हव्येन विष्णुं ब्रह्माणं तिला-क्षतोदकैर्दक्षिणाभिमुखोऽभ्यर्चयति तथापसव्यं कव्येन रुद्रं पूजयेत् आधा-नक्रमेण शवाभिमुखः स्वे स्वेऽग्नौ जुहुयात् धात्रेऽर्यम्णेऽशाँय मित्राय वरुणाय त्वष्ट्र इन्द्राय पूष्णे भगाय विवस्वते पर्जन्याय विष्णवे स्वाहा व्याहृतीर्ब्रह्मणे स्वाहा व्याहृती रुद्रेभ्योऽपसव्यं होमो मृगव्याधाय शर्वाय भवाय पिनाकिने भवनायेश्वराय स्थाणवे कपालिने निरृतयेऽजायैकपदेऽहये बुध्नियाय स्वाहेति व्याहृतीः २
पूर्ववत्पूजनं मृत्पिण्डानां मृतकस्य चेलोपमार्जनैः सिग्वातं वातास्ते वान्त्विति त्रिः कृत्वा तथा श्मशानेक्षणमुद्धृत्यानु यज्ञभाण्डं नयति मृत्पिण्डं वैष्णवं तेषामप्सु क्षिपति ब्राह्मं तत्रैव पिदधाति रौद्रमादाय गच्छेच्चितोद्देशं वनं नदीतीरं शिलोच्चयं वा प्रत्यग्दक्षिणतश्च प्रवणं गृह्णाति भिन्नच्छिन्नमलवल्मीककेश-कपालास्थितुषाङ्गारोषरेरिणपाषाणवृक्षमूलोद्देशान्वर्जयेत्तत्र चिताप्रमाणं का-यमात्रायामं तदर्धविस्तारं गृहीत्वा पूर्ववच्छाखया सहिरण्यया वा प्रमा-र्ज्योत्सर्जनमभ्युक्षणं च तासु वीधीष्वपसर्पातः सर्पत प्रेता इति तिस्रो नव वा कर्षूर्दक्षिणापवर्गाः स्फ्येन परशुना वा भागावगाढविस्तारं मध्यपूर्वापरतश्च खनति तिलतण्डुलानामपसव्यं मुष्टिभिर्यमाय दहनपतये पितृभ्यः स्वधा नम इति तास्तथा पूरयित्वा शेषान्सर्वतो विकीर्य मध्ये मृत्पिण्डेन सह हिरण्य-शकलमवदधाति दक्षिणाग्रैर्दर्भैस्तत्प्रमाणैरास्तीर्य शङ्कुं तद्विस्तारोच्छ्रयं दक्षि-णाग्राण्येधांसि चिनोति कुरु मध्विति साङ्गं कृष्णाजिनमधोलोम दक्षिणग्रीवं यद्याहिताग्निरास्तृणाति चितापूर्वं मृतकं तथा निधायाग्नींश्च सर्वानथ दक्षि-णामुखः प्राचीनावीती परिस्तीर्य यथास्वमग्नौ जुहोत्यग्नये सोमायेन्द्राय यमाय वरुणाय कुबेराय पृथिव्या अद्भ्यस्तेजसे वायव आकाशायाहङ्काराय बुद्धय इन्द्रियेभ्यः पुरुषाय सूर्याय जीवाय मनसे पञ्चभूताधिपतये परमपुरुषाय सुकृ-ताय धर्माय ध्रुवाय वृषाय स्वाहेति व्याहृतीः शिवं यात्विति मृतकं प्रोक्ष्य चितायां तिलानवकीर्य तत उद्धृत्यावतारयेयुः सप्तसु प्राणमार्गेष्ववा-चीनपाणिर्हिरण्यशकलानि सप्त मधुनाक्तान्या वो वहेति प्रत्यस्यत्याज्याक्तानीत्येके अलाभे सप्ताज्यबिन्दूनिति विज्ञायते ३
तिलतण्डुलदधिमधुक्षीराणां यथालाभमिश्रमास्ये क्षिपेत्तदास्यं दर्भेण स्पृशन्द्विश्चतुर्होत्रं जपति पृथिवी होता द्यौरध्वर्यू रुद्रोऽग्नीद्बृहस्पतिरुपकक्तेति चत्वा-र्यासीदन्तानि चतुर्होत्रं तथा नासिकापुटयोर्दशहोत्रं चित्तिः स्रुक् चित्तमाज्यं वाग्वेदिराधीतं बर्हिः केतोऽग्निर्विज्ञातमग्निर्वाक्पतिर्होता मन उपवक्ता प्राणो हविः सामाध्वर्युरित्येतानि दशासीदन्तानि दशहोत्रं तथाक्ष्णोः षड्ढोतारं सूर्यं ते चक्षुर्वातं प्राणो द्यां पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञं पृथिवीं शरीरैरित्येतानि षडासीदन्तानि षड्ढोतारं तथा कर्णयोः पञ्चहोतारमग्निर्होताश्विनाध्वर्यू त्वष्टा-ग्नीन्मित्र उपवक्तेति पञ्चास्तामासीदन्तानि पञ्चहोतारं तथा कीकसासु सप्तहोतारं महाहविर्होता सत्यहविरध्वर्युरच्युतपाजा अग्नीदच्युतमना उपवक्तानाधृष्य-श्चाप्रतिधृष्यश्च यज्ञस्याभिगरावयास्य उद्गातेति सप्तास्तामासीदन्तानि सप्तहोत्रं जघनेन दक्षिणाग्रेषु दर्भेषु यज्ञपात्राणि प्रयुनक्त्युत्तरेण प्रोक्षणीं संस्कृत्य मृत्पात्र दारुचितां च प्रोक्ष्याथ दर्शपूर्णमासवत्तूष्णीमाज्यानि गृह्णाति जुह्वां घृतमुपभृति दधि ध्रुवायां मधु क्षीरमग्निहोत्रहवण्यामपि वाज्यमेव सर्वासु यान्यासेचनव-न्ति पात्राणि तानि सम्पूरयत्यभ्युक्ष्येतराणि पात्राण्यत्रावचिनोति तथाग्न आया-हीति जुह्वा घृतदानमिषे त्वोर्जे त्वेत्युपभृतादधि देयमग्निमीड इति ध्रुवया मधु शं न इत्यग्निहोत्रहवण्या क्षीरं तानि तिलाक्षतादीनि तथापोह्य दर्शपूर्णमा-सानुयोज्यान्यस्मा उपाहरति अग्ने मृतादिति स्फ्यं जुहू दक्षिणे हस्ते निदध्या-द्राजसनीत्युपभृतं सव्ये विश्वं दिधुक्षुरिति ध्रुवामुरसि तत्रैवाग्निमश्वत्था-दित्यरणिमग्राग्रं या लोका इत्यग्निहोत्रहवणीमास्ये स्यातामित्याज्यस्रुवौ ना-सिकापुटयोर्वारुणावित्याज्यस्थालीं कण्ठे कराविति प्राशित्रं भित्त्वा वा कर्णयोर्मुहुराराण इत्युलूखलमुसलौ हन्वोर्हार्यमिति ग्रावाणकौ दत्सु यदि तै स्यातां षडष्टकमिति कपालानि शिरःस्थाने ललाट एककपालं विष्णो रराटमिति प्रोच्य पिष्टसंयमनीमुदरे परशुमुदिते मेति छित्त्वा चैकं शूर्पं पार्श्वयोरस्येति सान्नाय्यकुम्भं वक्षणे यदि सन्नयेत्सत्यव्रतेति दृषदुपले अण्डयोः सत्यं बर्हिर्ज्योतिषेत्यग्निहोत्रस्थालीमन्वाहार्यपचनं च पृष्ठयोरिन्द्रसेनेत्युपाव-हरणीं पादयोर्यन्मनीषिणां मलदेति वेदं कुर्चं चूडिकायां चन्द्रमा प्रसवेतीडापात्रं शिरःस्थाने तत्रैव तथोपसादनिकमेवं यथास्थानमर्पयित्वावशिष्टानि प्रक्षे-पण्यादीनि लौकिकसम्भारभाण्डानि धेनुर्वहाणामित्यन्तरा सक्थिनी क्षिपेत् स्फ्यादीनि यज्ञपात्राणीममग्ने चमसमिति निर्वपेदित्येके ४
अनाहिताग्नेः स्रुवादीनि धेनुर्वहाणामित्यादधीतेममग्ने चमसमिति कृताञ्जलिः पुरतः स्थित्वा प्रोक्ष्य कृष्णाजिनमादायोर्ध्वलोम्ना तेनाच्छादनं करोति बान्धवाः कनिष्ठप्रथमास्त्रयः सर्वे वा सिग्वातेन पूर्ववत्सव्यापमव्यमुपवीजयन्ति यस्मात्सिग्वातादेष पथि सुखं यातीत्यामनन्ति पत्नी पुत्रो सनाभिरन्यो वा समानो जलपूर्णकुम्भमादाय शिरस्तः प्रसव्यं सिञ्चन्पर्येति पृष्ठतोऽध्वर्युरास्थितः शिरःस्थं परशुना घटं किञ्चिद्भिनत्ति तां धारामनुमन्त्रयत इमा आपो मधुमत्योऽस्मिंस्ते लोक उपदुह्यन्तामिति द्वितीयं पर्येति मध्यतो भिनत्ति तां धारामनुमन्त्रयत इमा आपो मधुमत्योऽन्तरिक्षे ते लोक उपदुह्यन्तामिति तृतीयं पर्येति तत उपरिष्टाद्भिनत्ति तां धारामनुमन्त्रयत इमा आपो मधुमत्यः स्वर्गे ते लोक उपदुह्यन्तामिति ततः स कुम्भं पृष्ठतः क्षिपति यदि पूर्वतः क्षिपेन्न शर्मणे कुलस्येति ताः कपालावशेषाः प्राणस्थानेषु सर्वेषु भूः पृथिवीमित्यपो नयति प्राचीमुदीचीं वा निष्क्रम्य दिशं शिखां यज्ञोपवीत्यप उपस्पृश्य प्राणायामं कृत्वार्द्रा ओषधीर्वनस्पतिं हिरण्यं वालाभे गां ब्राह्मणान्वेक्षयित्वा देवस्य त्वेति शक्त्या दक्षिणामध्वर्युप्रभृतिभ्यो दद्यादत्र वरं ददात्यथाध्वर्युरग्नी-न्प्रज्वाल्य नियुञ्जीत सव्येन मुक्तशिखः प्राचीनावीत्याग्नेय्यामग्निर्यजुर्भिः सवितेति सम्भारैः सेनेन्द्रस्य धेनेति पत्नीभिराहवनीयं ददाति वाचस्पते विधे नामन्निति यहैर्वाचस्पते वाचो वीर्येणेत्यृतुमुखीभिर्नैरृत्यामन्वाहार्यं सोमः सोमस्य वाचस्पतेऽच्छिद्रयेति ग्रहैर्वायव्यां गार्हपत्यं वाग्घोतेत्युत्तरस्यां पुरस्ताच्च सभ्यावसथ्यौ दत्त्वा ब्राह्मण एकहोतेति स्थित्वा हृदयं जपत्या-ज्याक्ताभ्यां पाणिभ्यां परावृत्तमुखोऽङ्गुष्ठबन्धौ विमुच्य पादावुपलिम्पत्यैशान्यां कृताञ्जलिरयं घर्म इत्युपतिष्ठेतानाहिताग्नेः सुवर्णघर्म इत्युपस्थानमितरेषां कपालसन्तपनाग्निनैकर्चया दहनमित्येके ५ स उपवीती सं त्वा सिञ्चामीति शान्तिं जप्त्वोपतिष्ठेतोद्वयं तमस इत्यादित्यमतोऽप्रदक्षिणमनीक्षमाणा ग्रामधर्मेणाधोमुखा निवर्तेरन् श्मशानान्निर्गच्छतो विजने दर्भरज्जु प्रसार्यैको मावतरतेति वारयेन्न पुनरवतरिष्याम इत्यधस्तात्तुल्याः प्रयान्ति विसृज्यान्येऽनुयाता गच्छन्ति तथैव विजनेऽपः प्रपद्यमानान्पूर्वोक्तां शाखां प्रसार्य स्यालो वा सपिण्डो वा राजपुत्रो वा वारयेत्प्रतिमन्त्रेण तोयधिं दक्षिणामुखाः सर्वे प्रकीर्णकेशाः प्रपद्येरन्नप्सु सकृन्नि मज्ज्योत्तीर्याचम्य दक्षि-णामुखा प्राचीनावीतिनो मुक्तशिखाः सर्वे सनाभयो दक्षिणाग्रेषूदुम्बरपर्णेषु तिलाक्षतेषु त्रिरुदकाञ्जलिं तिलमिश्रं प्रेतस्य गोत्रनामपूर्वमास्रावयेदसावेतत्त उदकमिति सव्योत्तराभ्यां पाणिभ्यां ददते सर्वे चाप्ता शमिताम्बरवाससा जलमादय कनिष्ठपूर्वं यावदायान्ति यत्तत्र स्त्रिय आहुस्तत्कुर्वन्ति गोमयेन गृहं शोधयित्वोपलिप्योल्कया त्रिर्दग्ध्वा पुष्पतिलाक्षतैः स्वस्त्यस्तु वो गृहाणा-मिति यस्मिन्देशे प्राणोत्क्रान्तिस्तत्र च विकीर्य द्वारस्य निर्गमनदक्षिणभागे समनुलिप्य पुष्पाद्यवकीर्याश्मवह्निहिरण्यगोमयोदुम्बरपत्त्रतिलाक्षतानि नि-धाय धूपदीपादिनोपगतान्तावत्प्रतिगृह्णीयुः तदश्म सपत्त्रं वस्त्रतोयेनाप्लुत्य धान्याक्षतं सतिलमालभ्य ततो वह्निं सुवर्णं गोमयं च स्पृष्ट्वा तत्र स्थित्वा-नामन्नान्विसृज्य वृद्धाग्रं गृहं प्रविश्य लोकयात्रामासीरन् तदेवमहोरात्रमुपोष्य प्रातः पूर्ववत्पथोपस्थाय चितास्थीन्युपसंहृत्य पयसाज्येन प्रक्षाल्याकृतिं कृत्वा पुष्पादिभिरभ्यर्च्यान्नापूपाद्यैस्तूष्णीं निवेद्यैतेन विधिनाकृतिं दहेद्यस्मात्कुलस्य मङ्गल्यमुत्तरा च गतिर्भवति तदह्नि तं चिन्तयित्वा सतण्डुलं वस्त्रं कांस्यं पानीयं च दद्यात्स एष नग्नप्रतिच्छन्दोऽस्य भवति ६
स्नात्वा गुरवे पानीयार्थं शक्त्या दक्षिणां दत्त्वा सायम्प्रातस्त्रिरुदकाञ्जलिं दत्त्वा नित्यमेकैकं वर्धयित्वा तर्पयेत्पूर्ववदपो वाससादायाश्माप्लुत्याभ्यर्च्य बलिं ददाति जलान्तमा दशाहात्ततः प्रभृत्येकभक्ता निरानन्दा अधःशायिनो भवेयुः मातापित्रोर्हतवासाः परिवत्सरं ब्रह्मचारिव्रतं चरेद्यस्माच्चीर्णपितृव्रतो वंशं वर्धयेच्चतुर्थेऽहन्यस्थिसञ्चयनं कुर्यात्सप्तमेऽहनि चितां पिधाय पैष्टिकमाकारं कृत्वा पुष्पतिलचूर्णलाजधूपदीपाक्षतैः पूजयित्वा बलिं निवेद्य जलं दद्याद्दशमेऽहनि तीर्थस्य विसर्जनमुदकाप्लुतं तदश्म भूमौ तत्रैव तीर्थस्थाने ऽपिधाय बलिस्थाने पायसं प्रस्थतण्डुलैः पक्वं त्रिभिर्मृत्पात्रैर्गृहीत्वा तेनैवाश्मना सह पिदध्यादिति विसर्जनं सायेऽह्न्युच्छिष्टपात्राण्युद्दीप्य तीर्थं विसृज्य स्नात्वैकादश्यामेकोद्दिष्टमन्ये चाचक्षते वानप्रस्थस्य पत्न्याश्च गृहस्थवद्दहनं कुर्यात् ७
यो ह वै धर्माधर्मौ परित्यज्य दक्षिणे देवानदक्षिणे पितॄन्समारोप्य सर्वमात्मनि पश्यन्यतिरात्मयाजिनस्तस्य वेदाग्निरिति ब्रह्मवादिनो वदन्ति तथा योगी देवसायुज्यकः परकायप्रवेशीत्येतेऽप्यनग्नयः शरीरमेतेषां न स्पृश्य काष्ठैर-न्तरीकृत्य रज्जुभिर्बद्ध्वा समुद्रगां नदीं नीत्वा वालुकप्रदेशे श्वभ्रं खनति तत्रासयित्वा वालुकैरेव पिदध्यादत्र गाथा भवन्ति यथा सन्न्यासिनां कायं ये वहन्ति द्विजातयः पदे पदे यज्ञफलं लभेरन्ननुपूर्वतः अनाथानां शवं चैव ये वहन्ति द्विजातयः तत्संस्कारकृतो ये च ये च श्राद्धानि कुर्वते तेषामेव फलं प्रोक्तमश्वमेधस्य धर्मतः मृतानां तु शरीरं यदग्नेर्हविरिति स्मृतम् तस्मात्पुण्यशरीराणि दहन्सद्यः शुचिर्भवेत् परदेशगतस्यापि सद्यः शौचं विधीयते इति विज्ञायते ८
अथापद्दाह्यं स्नातको विधुरः कृतचौडो दन्तजातो वा कुमारः कुमारी च विधवा वीरविधवासूतविधवा सूतिका मूढगर्भिणी पतिघ्नी निन्दिता घोरा यशोघ्नी पुत्रघ्नी दीक्षितोज्झितानार्तवा पाषण्डमूकबधिरा मन्त्रवर्जिता पापबुद्धिर्दुःशीला स्त्री च दहनमेतेषामापद्दाह्यं चाचक्षते यो वात्मयाजी स्नातकोऽप्राप्तगृहवृत्तो मृतदारो वा म्रियेत तस्य ह वै तद्ब्रह्म विफलं मा भूदिति विशेषार्थी यथाविभवानुरूपं दक्षिणां दत्त्वा तुल्यां काञ्चित्कन्यां तस्मै दापयित्वा तया सहोषितस्य प्राप्तगृहवृत्तस्य पूर्वोक्तेन विधिना दहनं कुर्यात् तथैव कन्यां च मृतां प्राप्तयौवनां तुल्येन पुंसा प्राप्तगृहवृत्तां दहेत् दन्तजातस्य कृतचौडस्य वा तदेषां तत्राग्नौ व्याहृतीर्हुत्वा सावित्र्या दहनं कुर्यात् सूतिकां मूढगर्भिणीं पुंश्चलीमनार्तवां पाषण्डमूकबधिरां मन्त्रवर्जितां पापबुद्धिं दुःशीलां स्त्रियं पुरुषं वा तूष्णीं दावाग्निना दहेदित्यापद्दाह्यं विज्ञायते ९ अथावटाहिकं बालस्य मरणेऽलङ्कृत्य वाससा पत्त्रेण वाच्छाद्य केनापि साधारं नयति तत्र श्मशाने दक्षिणोत्तरमवटं तत्प्रमाणं खनति घृतक्षी-राभ्यामवटमभ्युक्ष्य दक्षिणाग्रं दर्भानवकीर्य तत्र साधारमाधाय शवमाज्यमि-श्रैस्तिललाजैरक्षतैर्वास्यं पूरयित्वा पिधायोपरि घृतक्षीराभ्यामुक्षणं बलिदानं वा कृत्वागच्छेन्नास्योदकदानं कुर्यात् त्र्यहं क्षिपेदिति १०
अथादाह्यान्व्याख्यास्यामो न दाह्योऽतुल्यो भवति तुल्योऽपि पापरोगान्वितो रज्जुशस्त्रविषविभ्रमप्रतिषिद्धहतश्चात्मघाती ब्राह्मणादिहीनहतोऽग्निदग्धोऽप्सु मृतो व्याडहस्तिपशुमत्तहतः स्वकिल्बिषाशनिभूतसम्पातभृगुपतनमहौघपरि-सर्पणमहाध्वगमनप्रवासदुर्गव्याध्युपेक्षाव्यर्थप्रायोपवेशनेषु मृतो न दाह्यो भवत्या दन्तजननान्नाग्निरा चौडकाद्वेत्या पञ्चमाद्वर्षाद्दारकस्या सप्तमात्कन्याया नाग्निस्तूष्णीं भूमौ बलिनिर्वपणमित्येके ११ अथाकृतिदहनमन्यथानृणस्येष्टापूर्तं देवाः पितरश्च नाश्नन्ति यस्मात्कुलस्य मङ्गल्यायाकृतिदहनं धीयते तस्मान्मासे संवत्सरे वा काले पालाशशाखानां सपत्त्राणां षष्ट्यधिकशतत्रयं दर्भांश्च गृह्णाति शुद्धे देशे गोमयेनोपलिप्ते तिलाक्षतानवकीर्य यद्याहिताग्निः कृष्णाजिनमास्तीर्य तत्राकृतिं तावतीं करोति तत्रास्थीनि पालाशदण्डाः पत्त्राणि मांसं सिरा रोमाणि च दर्भा भवन्ति तस्याङ्गान्युद्दिश्यास्थिगणना शिरश्चत्वारिंशत्कण्ठं दश बाहू शतमङ्गुलयो दश वक्षस्त्रिंशदुदरं विंशतिर्वृषणे सीवन्यां च सप्त शिश्नं त्रीण्यूरू शतं जानुनी दश शङ्घे विंशतिरङ्गुलयो दशेति विन्यस्य पत्त्राणि मांसं सिरा रोमाणि च दर्भैः कृत्वा बध्नीयात्तदेवमाकृतिं पुरुषस्य स्त्रिया वा कृत्वा तस्य तस्याग्नौ व्याहृतीर्हुत्वा पूर्ववद्दहत्या भस्मसादाकृतिदहनमित्येके १२
अथैकोद्दिष्टं व्याख्यास्यामो दशमे चाह्व्यनशनमत्यये गुरूणां त्रिशुक्लाः कृशवृत्तयो घृणावन्तः सकलेन्द्रिया मुक्तयोनिदोषा ब्राह्मणाः पात्रमित्यामन-न्त्येकस्त्रयः पञ्च सप्त नवैकादश वा शक्त्या निमन्त्रिता भवन्त्येकादशदिने मृतकनिमित्तत्वान्नैमित्तिकमेकोद्दिष्टश्राद्धममन्त्रकमाचक्षीरन् समन्त्रकं संस्कारं कृत्वा कथममन्त्रकं तस्मात्सपिण्डीकरणवद्धुत्वा श्राद्धमित्येके गृहस्य पूर्ववच्छोधनं कृत्वा दर्भेण स्थालीं बद्ध्वा तिलोदनं कव्यमिति पाचयेत्ततः स्नातानुलिप्तानहते वाससी वसानान्स्रक्कुण्डलाङ्गुलीयकधारिणो दक्षिणामु-खान्प्राचीनावीतिनो दक्षिणाग्रेषु दर्भेषु सतिलेष्वासनेषु दक्षिणतोऽग्नेर्निवेश्य सापसव्यं वाचंयतः सिकताभिरुदक्प्रागपरमरत्निमात्रं वितस्त्या दक्षिणतो भा-गोन्नतं स्थानं कल्पयेन्निधायौदुम्बरीं शाखां पूर्ववद्दर्भेणापसव्यं कृत्वा खननं तिलानामुक्षणमयुग्मानां दक्षिणाग्रं बर्हिषामुदुम्बरपत्त्राणां चास्तरणं तत्र सतिलाक्षतं पुष्पमेकं निधाय गोत्रनामादिना तस्यार्चनमभिघार्य कव्यस्थालीं तिलोदनेनाङ्गुलाग्रेषु सूक्ष्मं पिण्डं कृत्वा पवित्रपाणिरवाङ्गुष्ठजानुभ्यां भूमिं पीडयन्निर्वपति वस्त्रोत्तरीयादिदध्युपदंशबदरप्रभृति भक्ष्यं मुखवासं चार्पयेत् सतिलाक्षतपवित्रमुदकुम्भं निदध्याच्छूर्पेणाच्छाद्य पिण्डमुपरिष्टात्सतिलाक्षतं पुष्पं दर्भेण निदध्यात्तदीयं वस्त्रं कांस्याद्युपानट्छत्त्रं च सर्वं निवेद्य तेभ्यो दानं पिण्डशेषादि पात्रेषु तेषामभिघार्यार्पयित्वा भुञ्जतामित्यङ्गुष्ठमूलं गृहीत्वा भोजनं पूर्ववदुच्छिष्टमपनीय बहिर्दक्षिणस्यामवटे प्रक्षिप्य सह पिण्डेन तज्जलं स्रावयेत् वायसेभ्यो बलिदानमथवा श्वचण्डालानुपहते देशे विसर्जनं पि-ण्डस्य श्येनकाकादीन्न वारयेद्यस्मात्तद्रुपाः पितर आगच्छन्ति स्नात्वा स्वस्तिवाचनमन्नाद्यदानमौपासनहरणं वैश्वदेवं च कुर्यात्पूर्ववदेकोद्दिष्टमिति १३
अथ तथा मासि मासि तद्दिने पिण्डनिर्वापो मासे तैलसम्पर्कस्तृतीये वा मङ्गलयोगो भवति यस्मादेकोद्दिष्टात्त्रिमासः षण्मासो वत्सर इति वा प्रेताप्यायनकालस्तस्मात्तेषु कालेष्विष्टकाले पितृस्थानगतायेति क्रमेण त्रिभिः पिण्डैस्तस्य पिण्डस्यारोपणं सपिण्डीकरणं कुर्याद्वैश्वदेवाघारं श्रपणं पूर्व-वत्तिलोदनस्य वैश्वदेवं हुत्वा प्राचीनावीती वीतिहोत्रमिति समिधं कव्यमाविध्य दग्ध्वा पृथिवीगतानन्तरिक्षगतान्दिविगतानिति पितॄणामावा-हनं जुष्टाकारादिसंवापनान्तं कर्म कुर्यादक्षतादिनार्चयित्वा तिस्रः समिधो-ऽग्नये कव्यवाहनाय स्वधा नमः स्वाहेत्युत्तरस्यां सोमाय पितृमते स्वधा नमः स्वाहेति दक्षिणतो यमाय चाङ्गिरस्पतये स्वधा नमः स्वाहेति मध्ये चक्षुरास्यमिति होमश्च एते य इह पितर उशन्तस्त्वा सा नो ददात्वित्यृचः पितृदैवत्या हुत्वा पृथिवीगतेभ्यः पितृभ्योऽन्तरिक्षगतेभ्यः पितामहेभ्यो दिविगतेभ्यः प्रपितामहेभ्यो जुहुयात् १४ पूर्ववद्यथोक्तस्थाने निहन्मि सर्वमिति तिलोदुम्बरपत्त्रदर्भानास्तीर्यार्चयित्वा पितॄंस्तत्स्थानात्प्रमुखतस्तस्य च स्थानं कृत्वा तथैव तन्नाम्नार्चयत्या मा वाजस्येति पात्रं प्रक्षालयति तत्राग्निरिन्द्रेत्यन्नं निक्षिप्य सतिलं घृतं चतुर्धा कृत्वा पिण्डान्करोत्ययमोदन इति पिण्डांस्त्रीन्प्रधानान्निर्वपति प्रथमं ये मृतास्ते पितर इत्युच्यन्ते तत्पूर्वमृताः पितामहास्तेषां पूर्वमृताः प्रपितामहास्तेभ्यः परे ज्ञातिवर्गा भवन्ति तस्मात्तेषां चतुर्णां पिण्डनिर्वापः क्रमेण भवति तस्य च स्थाने तथैव पिण्डमेकं निरुप्य पितृस्थानगतायेति तत्पिण्डं त्रिधा कृत्वा पिण्डे पिण्डे तथैकैकं भागं निक्षिपति यस्मादेष परिवत्सरान्ते पितृत्वं प्राप्तवांस्तस्माद्यत्नेनैनमुद्दिश्य पैतृकं कुर्यात्तत्सर्वं जलपिण्डदानादि विनास्य नाम्ना पितृभ्य इति कुर्यादवाच्यामवटं स्थलवदायतावनतं खनित्वोदकुम्भेनोर्जं वहन्तीरिति तर्पयित्वा मुखवासादिदक्षिणां दत्त्वा शूर्पेणाच्छादयित्वा पितृभुक्तं पितृजीर्ण-मित्युपजुह्वान्तहोमो ब्राह्मणानां तर्पणमन्नेन पूर्ववत् यथैवैतत्स वत्सो गवा-श्वाजमहिषमण्डलेषु यत्र क्वचन गतां गामन्वेष्य तामेव तर्पयति तथैव यथाविधिदत्तजलपिण्डदानादि यत्र वा गतं तमेवानूद्दिश्य प्रीणयति तस्मा-त्प्रयत्नेन पैतृकं कुर्यान्मा स्म नास्तिको भूदिति ब्राह्मणमिति सपिण्डीकरणं तस्माद्द्वितीये तृतीये वाह्नि तेभ्यस्त्रयाणां पिण्डानां क्रमेण निर्वापणमष्टकां करोतीति विज्ञायते १५ पञ्चमः प्रश्नः समाप्तः अथ निषेकादिसंस्काराणां प्रायश्चित्तं व्याख्यास्यामः स्नात्वा सङ्कल्प्य पुण्याहे विधिवत्संस्कारान्कुर्यात् चतुर्दिशं चतुर्हस्तं गोचर्मेत्युक्तं गोचर्ममात्रोपलिप्ते पूर्ववदग्निं निधायाभिमुखमासीनमग्निं ध्यात्वाधारं जुहुयात् सर्वस्यादावाघारे क्रियालोपे विपर्यासे च व्याहृतीर्महाव्याहृतीर्गायत्रीं सावित्रीं मिन्दाहुती वैष्णवं च द्विरावर्त्य हुत्वा पुनराघारं जुहोति स्थण्डिले परिस्तरणादिसम्भारे च प्रमाणवर्जिते हीने मिन्दाहुती सावित्रीं व्याहृतीश्च जुहुयात् ऋत्विजोरभावे दक्षिणोत्तरयोः प्रागग्रं कूर्चं निधाय ब्रह्मसोमौ सङ्कल्पयति सर्वं युग्मं प्राच्यामुदीच्यां वाग्रमन्तं च दैविके करोति सर्वमयुग्मं दक्षिणस्यां पश्चिमस्यां वाग्रमन्तं च पैतृके करोति होमे न्यूनेऽतिरिक्ते च पूर्णाहुती मिन्दाहुती जुहोति विशेषेऽनुक्ते स्रुवेण होतव्यमाज्यं हविर्व्याहृतिर्मन्त्रं प्रायश्चित्ते ऽनुक्ते वैष्णवं प्रायश्चित्तमग्नावाज्ये चरौ वा होमे मक्षिकक्रिमिरोमपिपीलिकादिपतने तद्व्यपोह्य बर्हिषोद्दीप्य प्राजापत्यमाग्नेयमग्न्यायतने गोवराहश्वसर्पमण्डूकमा-र्जाराद्यैर्गमने तत्पदानीदं विष्णुरिति प्रोक्ष्य वैष्णवं रौद्रं च परिस्तरणादिस-म्भाराणां दाहे भेदे च्छेदे नाशे च तत्तत्स्थाने संयोज्य मिन्दाहुती द्विरावर्त्य जुहुयात् आघारे कृते तस्मिन्नग्नौ समुत्सन्नेऽग्निं ध्यात्वा तद्भस्मायं ते योनिरिति समिधमारोप्योद्बुध्यस्वेति लौकिकाग्नौ समिधं निधायोज्ज्वाल्य परिषिच्य मनो ज्योतिरयाश्चाग्ने मिन्दाहुती व्याहृतीश्च जुहुयात् सर्वहोमानामन्ते स्विष्टकृत्प्रभृत्यन्तहोमे हीने विष्णोर्नुकादिमिन्दाहुत्याश्रावितादीञ्जुहुयात् १
ऋतौ सङ्गमनं निषेकमित्याहुः स्वभार्यायामृतुस्नातायां षोडशाहे सङ्गमने हीनेऽग्निमाधायाघारं हुत्वा वैष्णवं ब्राह्ममैन्द्रमाग्नेयं दद्भ्यः स्वाहेत्यङ्गहोमं जयानभ्यातानान्राष्ट्रभृतो हुत्वान्तहोमं जुहोति स्नातामलङ्कृतां भार्यां पूर्ववद्ग-च्छेत् ऋतौ प्रथमे होमं जुहुयात् ऋतावृतौ सङ्गमनं करोति ततः सा भार्या गर्भमाधाय पुत्रं जनयति पुत्रेण पितरः प्रीता भवन्ति तेनैव स्वर्गं गच्छन्ति तस्यां पुत्रहीनायां पुत्रार्थमन्यां विवाहं कुर्यात् यस्य भार्या पतिव्रत पुत्रवती साध्वी स सर्वां सिद्धिमाप्नोति तस्माद्दुष्टामसाध्वीं बान्धवसन्निधौ त्यक्त्वान्या-मुपयच्छेत् गर्भाधानादिसंस्कारेषु नान्दीमुखेऽभ्युदयश्राद्धे हीने दैविकैन सहैकाहे पैतृकवत्कृते च तत्कार्यमशुभं भवति तस्मात्पूर्वद्युर्दैविकवत्कुर्यात् द्वौ विश्वेदेवौ चतुरः पितॄन्ब्राह्मणान्वरयित्वा नान्दीमुखाः पितरः प्रियन्तामिति हस्ते यवोदकं दत्त्वाघारान्ते पूर्ववद्धोमं हुत्वान्ते ब्राह्मणान्भोजयेदुद्यन्तं वा ददा-त्यन्यथा नान्दीमुखं कृत्वा पुनः शुभकर्म कुर्यात् जातकर्मोत्थानयोर्नान्दीमुखं वर्जयेदित्येके २ गर्भाधानकालेऽतीते क्रियाहीने विपर्यासे च पूर्ववदाघारान्ते सुवर्णेन गर्भवत्कृत्वा तस्याः कुक्षौ सन्न्यस्य दर्भेण बन्धयेत्परिषिच्य वैष्णवं ब्राह्मं रौद्रमैन्द्रमाग्नेयं बार्हस्पत्यमङ्गहोमं च हुत्वा पूर्ववद्गर्भाधानं कुर्यात् विष्णु-सूक्तेनोदरमभिमृशति सुवर्णगर्भमादाय ब्राह्मणेभ्यो दत्त्वा तान्भोजयति पुंसव-नसीमन्तयोश्च गर्भाधानवत्प्रायश्चित्तं हुत्वा तौ करोत्यन्तःपुंवद्रूपयुतं सुवर्णगर्भं पुरुषसूक्तेनोदरमभिमृशतीति विशेषो विष्णुबलौ हीने वैष्णवं विष्णुसूक्तं चतुरावर्त्य हुत्वा विष्णुबलिः कर्तव्यो लौकिकाग्नौ गर्भसंस्काराञ्जुहोति पितुरौपासनाग्नावित्येके भर्तुर्मरणे तत्पिता भ्राता सपिण्डो योनिबन्धुर्वा कुर्यात् गर्भिण्याः प्रथमे गर्भे कृता गर्भसंस्कारास्तस्या सर्वगर्भाणां संस्कारा भवन्तीत्येके ३ कुमारस्य कुमार्याश्च जनने सपिण्डनां दशाहमाशौचं विधीयते पुरुषस्य सपिण्डता षष्ठपुरुषावधिः कन्यायास्त्रिपुरुषावधिर्भवति आशौचे सूतके प्रेतके च सन्ध्योपासनादिनित्यकर्माण्यन्यानि दैविकपैतृकाणि स्वाध्यायदानप्रतिग्र-हाणि च वर्जयति कुमारे जाते जातकाग्नौ प्रातर्होमे हीने व्याहृतीश्चतुरावर्त्य हुत्वा सायं द्विगुणं सायं हीने प्रातर्द्विगुणं पूर्ववदा दशाहाज्जुहोत्यतीतेऽप्येवं जातकर्म कुर्यात् जातकाग्नौ समुत्सन्ने तद्भस्म पूर्ववत्समिधमारोप्य लौकिकाग्नौ निधाय प्रायश्चित्तं हुत्वा तथैव जुहुयात् दशमेऽहनि जातकाग्निमरण्यामिध्मे वा समारोप्य तमेवाग्निं मथित्वाधाय वास्तुहोमोत्थानहोमौ हुत्वाग्निं समारोप्याप्रमादं निदधाति उत्थानस्य कालेऽतीते वैष्णवं ब्राह्मं रौद्रं प्रायश्चित्तं हुत्वा पूर्ववत्कुर्यान्नामकरणस्य वैष्णवं मूलहोमं यद्देवादिदिग्दैवत्यं च हुत्वा नामकरणं करोति ४
नक्षत्रहोमे हीने स्कन्ददैवत्यं नवग्रहदैवत्यं वैष्णवं प्रायश्चित्तमन्नप्राशने कालेऽतीते बालेनैवान्ने भुक्ते च जातकाग्नौ वैष्णवं ब्राह्ममाग्नेयमैन्द्रं सौम्यं बार्हस्पत्यं च हुत्वाष्टमे दशमे द्वादशे वा मासेऽन्नप्राशनं ब्राह्मणभोजनं च कुर्यात्तत्तत्काले प्रवासागमनपिण्डवर्धनयोर्हीने मूलहोमं जुहोति चौडके का-लेऽतीते मन्त्रवर्जं कृते च जातकाग्नौ वैष्णवं मूलहोमं ब्राह्मं वारुणमाग्नेयं रौद्रं च हुत्वा यथाशक्ति सुवर्णपशुदानब्राह्मणभोजनानि कृत्वा चौडकं कुर्यात् ५
अथ निषेकादीनां सामान्यप्रायश्चित्तं विष्णोर्नुकादिमिन्दाहुत्याश्रावितादीन्द्विरावर्त्य हुत्वा तत्तत्कर्म कुर्यादिति केचित् अथवाप्युपनयनं यावत्तावत्कालं गर्भाधानादिचौडकान्तेषु हीनेषु तन्त्रयित्वैकहोमे कुर्याच्चेत्पिता चान्द्रायणं पुत्रः प्राजापत्यं चरित्वा ब्राह्मणभोजनसुवर्णपशुदानानि कृत्वा विष्णोर्नुकादिमि-न्दाहुत्याश्रावितादीन्रौद्रं मूलहोमं वैष्णवं च द्विरावर्त्य प्रत्येकं हुत्वा तन्त्रयित्वै-कहोमे गर्भाधानादीन् कुर्यात् आघारान्ते होमश्चैका भवत्यादावन्ते च प्रत्येकं परिषेकं करोतीति विशेषः ६
ब्राह्मण्यां ब्राह्मणाज्जातमात्रस्य ब्राह्मणस्य प्रथमजन्म स्यादुपनयनसंस्कारे द्वितीयं भवति द्वितीयजन्मन्याचार्यः पिता सावित्री माता द्वाभ्यां जन्मभ्यां द्विजो भवत्यष्टवर्षं ब्राह्मणमुपनयीतेति श्रुतिस्तस्माद्गर्भाधानाद्यष्टमे वर्षे ब्राह्मण-स्योपनयनं श्रेष्ठं तदसम्भवे नवमे दशमे वाप्या षोडशात्कुर्यात्षोडशे वर्षेऽतीते पूर्वोक्तमुद्दालकप्रायश्चित्तं गर्भाधानादिसंस्कारं च कृत्वा शुद्धे ब्राह्मणभोजनसुवर्णपशुदानानि कुर्यात्पिता चान्द्रायणं चरित्वा तस्य जातकाग्निमाधायाघारं हुत्वा मिन्दाहुती पूर्णाहुती ब्राह्मं वैष्णवं चाष्टशतमावर्त्य हुत्वा पूर्ववदुपनयनं कुर्यात्पितृभ्रातृज्ञातिसगोत्रमातुलादिषु यः शुचिर्विद्वानुपनयनं करोति अन्यथा मलान्धकारौ तेन याजयति पित्रादिबान्धवालाभेऽन्यं ब्राह्मणमुपनयनार्थं भजेत व्याधिदुर्भिक्षाद्यैरन्त्यजातौ न्यूने समाश्रिते सुवर्णपशुभूम्यादीन्दत्त्वाग्निमाधाय वैष्णवं यद्देवादीन्ब्राह्ममैन्द्रं वारुणं मूलहोमं व्याहृत्यन्तं हुत्वोपनयनं कुर्यात् ७
उपनयनप्रभृति ब्रह्मचारी पूर्ववत्स्नात्वा सन्ध्यामादित्यं चोपस्थाय तर्पणं ब्रह्मयज्ञं च कृत्वा सायम्प्रातरा समावर्तनान्नित्यमग्नौ समिद्भिर्जुहुयात् नित्य-स्नानविहीने पूर्ववत्स्नात्वा जुम्बकाय स्वाहेति निमज्ज्य नारायणं ध्या-यन्सुजुग्बकेनाघमर्षणसूक्तेनाघमर्षणं कृत्वा वैष्णवमन्त्राञ्जपति सन्ध्योपासन-विहीने स्नात्वा दश प्राणायामान्कृत्वाष्टशतं सावित्रीमधीत्य सन्ध्यामुपास्य वैष्णवान्सौरमन्त्रांश्च जपति पुनःसन्ध्यागमादनशनं कृत्वा सन्ध्यामुपासीतेत्येके तर्पणहीने द्विगुणं तर्पयति ब्रह्मयज्ञविहीने पुरुषसूक्तपूर्वं यजुः संहितां स्वाध्यायं करोति प्रातःसमिद्धोमे हीने सायं द्विगुणं सायं हीने प्रातर्द्विगुणं दिनत्रये स्नानादौ हीने पूर्ववत्स्नानजपं कृत्वा सौरमाग्नेयं च हुत्वा समिद्भिर्जुहुयात्सप्तरात्रौ हीने नित्यकर्मण्यवकीर्णो भवति ८
अथावकीर्णप्रायश्चित्तं सप्तरात्रं स्नानसन्ध्योपासनस्वाध्यायसमिद्धोमभैक्षाचर्यादिहीने मेखलोपवीताजिनदण्डधारणादिब्रह्मचर्यवर्जिते च पादकृच्छ्रमुप-वासं वा कृत्वाग्निमाधाय परिस्तीर्य परिषिच्याज्येन पाहि नो अग्न एनसे पाहि नो विश्ववेदसे यज्ञं पाहि सर्वं पाहि कामावकीर्णः कामाभिद्रुग्धः सं मा सिञ्चन्त्विति हुत्वा पुनरूर्जा सह रय्या पाहि चतसृभिः स्वाहेत्यतो देवा इदं विष्णुरिति जुहुयात् पितृज्येष्ठयोरन्येषामुच्छिष्टभोजने मधुमत्स्यमांससूतकप्रेतकान्नाद्यभोज्यभोजने च पुनरुपनयनं करोति ९
अथातः पुनरुपनयनं पादकृच्छ्रमुपवासं वा कृत्वाग्निमाधायाघारान्ते व्याहृत्या पलाशसमिधो हुत्वाज्येन विष्णुसूक्तं मिन्दाहुत्याश्रावितादीन् पूर्णाहुती व्याहृतीश्च हुत्वा पूर्ववदुपनयनं करोति वपनमेखलाजिनदण्डधारणव्रतभैक्ष-चरणानि पुनःसंस्कारे वर्ज्यन्तेऽथवा सावित्रीमष्टशतमावर्त्याभिमृश्य तयैव घृतं प्राश्नीयाद्गुरोरुच्छिष्टं वा भुञ्जीत ततः पूतो भवति १० पारायणव्रतबन्धविसर्गे च कालेऽतीते हीनेऽप्युपनयनाग्निमाधायाघारान्ते तत्तद्व्रतसूक्तं वैष्णव चतुरावर्त्य हुत्वा वेदव्रतानां बन्धं विसर्गं च कुर्यात् उपाकर्मणि चतुर्वदादिमन्त्रान्ब्राह्ममार्षं चतुरावर्त्य हुत्वोपाकर्म कुर्वीत श्रावणहोमं हुत्वान्ते सावित्र्या सहस्रसमिधो जुहोति श्रावणे चोपा-कर्मवत्प्रायश्चित्तं विधीयते प्राजापत्यादिवेदव्रतान्याचरन्वेदानधीयीतानधी-यानः सर्वकर्मबहिष्कार्यो भवत्यशक्तोऽपि यत्किञ्चिच्छाखामधीयीत समाव-र्तनं कृत्वा स्नातको व्याहृत्याग्नावाज्यमा पाणिग्रहणान्नित्यं जुहोति समा-वर्तनक्रियाहीने पाणिग्रहणे कृते चान्द्रायणं चरित्वाग्निमाधाय सावित्रीं वैष्णवं ब्राह्ममार्षमाग्नेयं शतमावर्त्य हुत्वा समावर्तनं कृत्वा पुनर्विवाहं करोति पुनर्विवाहे पूर्ववत्सर्वं कुर्यात् ११
ब्राह्मणो ब्राह्मणीं नग्निकां गौरीं वा कन्यां क्षत्रियः क्षत्रियां वैश्यो वैश्यां वरयेदष्टवर्षादा दशमान्नग्निका रजस्यप्राप्ते दशवर्षादा द्वादशाद्गौरीत्यामनन्ति समावर्तनं कृत्वा विवाहकालेऽतीते क्रियाहीनेऽप्युपनयनाग्नावाघारं हुत्वा ब्राह्मं वैष्णवमाग्नेयं शतमावर्त्य हुत्वाग्न्यर्थं पुत्रार्थं च ब्रह्मादिषु चतुर्षु पूर्वालाभे परेण ब्राह्मणो विवाहं कुर्यादासुरादिष्वसत्पुत्रा जायन्ते तस्मादासुरेण गान्धर्वेण विवाहे कृते चान्द्रायणं चरित्वाग्निमाधाय ब्राह्मं त्रयस्त्रिंशद्वैष्णवं सावि-त्रीमाग्नेयं शतमावर्त्य हुत्वा ब्रह्मादिष्वेकेन पुनर्विवाहं कुर्यादासुराद्द्विगुणं गान्धर्वे गान्धर्वाद्द्विगुणं राक्षसे राक्षसाद्द्विगुणं पैशाचे प्रायश्चित्तं करोत्या-सुराद्यैः शस्तैः क्षत्रियवैश्यौ विवाहं कुर्यातां पूर्वेषामलाभे परेण ब्राह्मणेना-सुरगान्धर्वौ च विधिना कर्तव्यावित्येके होमं हुत्वा राक्षसपैशाचौ चेत्यपरेऽन्यथा कन्यागमनप्रायश्चित्तं करोति १२
रजःप्राप्तौ कन्यां विवाहे कृते कृच्छ्रं चरित्वाग्निमाधाय वैष्णवं सावित्रीं शतमावर्त्य हुत्वा तां पुनर्विवाहं कुरुते विवाहे होमकाले कन्याया रजस्युत्पन्ने तां स्नापयित्वान्यद्वस्त्रं परिधाप्य पुण्याहं कृत्वा प्रोक्षणैः प्रोक्ष्य मिन्दाहुत्या-श्रावितादीन्व्याहृतीश्च हुत्वा कर्म प्रवर्तेत तत्क्रियापरिसमाप्ते सा वधूरशु-चिर्भवति ज्येष्ठे तिष्ठत्यनुजेन विवाहे कृते परिवेत्तानुजश्चान्द्रायणं चरित्वा परिवित्तिं ज्येष्ठं विवाहं कारयित्वा पूर्ववत्प्रायश्चित्तं हुत्वा पुनर्विवाहं कुर्यात् १३
परदेशगते ज्येष्ठे द्वादशवर्षेऽतीते मृतस्येवाकृतिदहनादि कर्म कृत्वा प्रायश्चित्तं हुत्वा विवाहं कुरुते तस्मिन्पुनरागतेऽनुजः पूर्ववत्प्रायश्चित्तं हुत्वा विवाहं करोति ब्रह्महत्याद्यैः पतिते ज्येष्ठे बान्धवसन्निधौ वारिपूर्णघटत्यागेनैव तं त्यक्त्वा चान्द्रायणं चरित्वा विवाहं कुरुते विवाहान्ते वधूगृहाद्विवाहाग्नि-मौपासनं वधूं च स्वगृहमानीयोत्तरस्यां यथोक्तेऽग्निकण्डे पूर्ववद्बर्हिषा खनित्वा प्रादेशमात्राः प्रागन्ताश्चोत्तरान्तास्तिस्रस्तिस्रो लेखाः षडुल्लिखित्वा प्रोक्ष्य हिरण्यशकलं व्रीहीन्वा निधाय तत्राग्निं निदधाति सोऽग्निर्नित्यं धार्यश्चतुर्थेऽहन्याग्नेयस्थालीपाकं वैश्वदेवं च कुर्यादित्येके १४
पाणिग्रहणप्रभृति गृहस्थोऽपि नित्यं स्नानं सान्ध्योपासनं ब्रह्मयज्ञं च कृत्वा नित्यमग्न्याधानाद्विवाहाग्नावौपासने परिस्तीर्य परिषिच्य सायम्प्रातर्व्रीहिभिर-ग्निहोत्रहविषा वा होमं जुहुयात् सायंहोमे हीने प्रातरग्नये स्वाहा वैश्वानराय स्वाहेति प्रातर्होमे हीने सायमग्नये स्वाहा पथिकृते स्वाहेति प्रायश्चित्ताहुतीर्हुत्वा पूर्ववदा त्र्यहाज्जुहोत्यौपासनेऽजस्रे वर्तमाने त्र्यहे होमे विच्छिन्ने पतिरेको-पवासं कृत्वा तत्पुनराधानं करोति सद्योऽनुगते क्षिप्रं त्र्यहाभ्यन्तरेऽग्निं ध्यात्वा तद्भस्मायं ते योनिरिति समिधमारोप्योद्बुध्यस्वेति लौकिकाग्नौ समिधं निधाय पूर्ववत्प्रायश्चित्तं हुत्वा नित्यं जुहुयात् अनुगते त्र्यहेऽतीतेऽन्याग्निनापि संसर्गे च पत्नी प्राजापत्यं पादकृच्छ्रं वा पतिरेकोपवासं कृत्वा पुनराधानं कुर्यात् १५
अथातः पुनराधानं पूर्ववदरण्यां मथितं व्याहृत्या श्रोत्रियागारादाहृतं वाग्निमाधाय पूर्ववदाघारं जुहुयादग्निं परिषिच्योत्पूतमाज्यं स्रुवेणादाय स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुती जुहोति तथा चतुर्गृहीतं गृहीत्वा तन्तुं तन्वन्नुद्बुध्यस्वग्ने त्रयस्त्रिंशत्तन्तव इति तन्तुमतीस्तिस्रोऽग्नेऽभ्यावर्तिन्नग्नेऽङ्गिरः पुनरूर्जा सह रय्येत्यभ्यावर्तिनीश्चतस्रो मनो ज्योतिरिति मनस्वतीं प्रजापति-र्जयानिति प्राजापत्यमन्वग्निरुषसामित्यनुख्यामयाश्चाग्नेऽसीति प्रायश्चित्तीया-मुद्वयं तमस इति ज्योतिष्मतीमायुर्दा अग्न इत्यायुर्दां मिन्दाहुती व्याहृतीश्च प्रत्येकं चतुर्गृहीतं गृहीत्वा पुनराधानं हुत्वा पूर्ववदौपासनं जुहोत्यौपासनं धार्यं कर्तुमशक्तोऽध्वानं गमिष्यन्वाप्ययं ते योनिरित्यरण्यां समारोप्य पुनर्जातवेद इत्यहरहर्मथित्वा जुहुयात् अथवा या ते अग्न इत्यात्मन्युपावरोहेति समिधं वा समारोप्य तेनैव लौकिकाग्नाववरोप्य जुहुयात् समारोपणे कृते होमे विच्छिन्ने पूर्ववत्प्रायश्चित्तमा द्वादशाहाज्जुहोति द्वादशाहे विच्छिन्ने पुनराधानं करोति मासे विच्छिन्ने प्राजापत्यं षण्मासे चान्द्रायणं संवत्सरे प्राजापत्यं तप्तकृच्छ्रं चान्द्रायणं चरित्वा तद्द्रव्यं ब्राह्मणेभ्यो दत्त्वा पुनराधानं कुर्यादग्नौ त्यक्ते भ्रूणहा भवति पर्वणि पर्वणि स्थालीपाकः प्रसिद्ध एवमौपासनं हुत्वा पञ्च महायज्ञान्करोति १६
ब्रह्मयज्ञो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति पञ्च महायज्ञाः सावित्रीपूर्वं नित्यमिषे त्वोर्जे त्वेति यथाकामं नैमित्तिके सावित्रीपूर्वैर्द्वादशसूक्तैरग्निमीडे पुरोहितमिषे त्वोर्जे त्वाग्न आयाहि शं नो देवीरिति चतुर्वेदादिमन्त्रैर्वा स्वाध्यायो ब्रह्मयज्ञः पक्वेनान्नेन वैश्वदेवेन देवेभ्यो होमो देवयज्ञः पितृभ्यो बलिहरणं पितृयज्ञो भूतेभ्यो बलिदानं भूतयज्ञोऽतिथिभ्योऽभ्यागतेभ्योऽन्नप्रदानं मनुष्ययज्ञो गृहस्थो यत्पक्वं भुञ्जीत पक्वेन तेन भोक्ष्यन्नभोक्ष्यन्वापि खगृहे तस्मिन्नौपासनाग्नौ लौकिकाग्नौ वा सायप्रातर्वैश्वदेवं जुहुयात् रात्रावमन्त्रकं बलिहरणं पत्नी वा करोत्येकाहे वैश्वदेवहोमे हीने मनो ज्योतिरिति प्रायश्चित्तं हुत्वा वैश्वदेवं जुहुयात् १७
त्र्यहे होमे हीने तन्तुं तन्वन्नित्यादि तन्तुमतीर्वैष्णवं जुहुयाद्द्वादशाहेऽग्नावौपासने स्थालीपाकं कृत्वा पूर्ववदवकीर्णप्रायश्चित्तं जुहोति प्रवासेऽध्वनि परस्य गेहे च भोक्ष्यन्लौकिकाग्नाविन्धनाभावे भस्मापोह्याङ्गारेऽङ्गाराभावे जले वा जुहोत्यन्नाभावे जलेनैव वैश्वदेवं कुर्याद्वैश्वदेवान्ते यत्नेनातिथिमभ्यागतं च भोजयति तयोरागतयोर्भोजने हीने वैश्वदेववत्प्रायश्चित्तं करोति पाणिग्रहणप्रभृति गृहस्थधर्माण्यनुतिष्ठेत चतुर्थीव्रतक्रियाहीने सङ्गमने कृते चान्द्रायणं चरि-त्वाग्निमौपासनमाधाय वैष्णवं ब्राह्ममार्षमाग्नेयं बार्हस्पत्यं च हुत्वा पुनश्चतुर्थीहोमं कुर्यादौपासने स्थालीपाकादीन्पाकयज्ञसंस्थाञ्जुहोति १८
अथातः पाकयज्ञसंस्थानां प्रायश्चित्तं द्वाविंशद्यज्ञेषु पञ्चमहायज्ञानुष्ठानं प्रथमो यज्ञः तस्य प्रायश्चित्तं पूर्वमेवोक्तं पर्वणि स्थालीपाके हीने पादकृच्छ्रमुपवासं वा कृत्वाग्निं प्रणम्य प्राणायामं कृत्वाग्निदैवत्यं पथिकृद्दैवत्यं च स्थाल्यां द्वौ चरू पक्त्वाग्निं परिस्तीर्य परिषिच्याज्येनाग्नेयं सौम्यं स्विष्टाकारं मिन्दाहुती वैष्णवं व्याहृत्यन्तं हुत्वा पूर्ववत्स्थालीपाकं द्विगुणं जुहुयात् आग्रयणहोमे हीने नवान्ने भुक्ते पादकृच्छ्रमुपवासं वा कृत्वा स्थाल्यामैन्द्राग्नं चरुं श्रपयित्वा पक्वेनाज्यमिश्रेणाग्नेयमैन्द्रं वैश्वदेवं स्विष्टाकारं पूर्णाहुती वैष्णवं च हुत्वा पूर्व-वदाग्रयणं कृत्वा ब्राह्मणान्भोजयित्वा नवान्नं भुञ्जीत यथोक्तकालेऽष्टकाहोमं हुत्वा पितृभ्यः पिण्डं निरुप्य ब्राह्मणान्भोजयेदथवाष्टकेति ब्राह्मणान्भोजयेदुद्यन्तं वा ददात्यष्टकाहीने वैश्वदेवपैतृकौ द्वौ चरू पक्त्वाज्यपक्वाभ्यां वैश्वदेवं वैष्णवं रौद्रं याम्यं पैतृकहोमं च त्रिरावर्त्य पूर्ववदष्टकां कुर्यात् १९ पिण्डपितृयज्ञे मासिश्राद्धे च हीनेऽष्टकावत्प्रायश्चित्तं जुहोति चैत्रीयज्ञविहीने चरुं पक्त्वाज्येन चरुणा सौम्यं श्रीदैवत्यं विष्णुसूक्तं मिन्दाहुत्याश्राविता-दीन्हुत्वा पूर्ववच्चैत्र्या यजेताश्वयुजीयज्ञविहीने चरुं पक्त्वाज्यचरुभ्यां रुद्रसूक्तं मिन्दाहुत्याश्रावितादीन्हुत्वा पूर्ववदाश्वयुज्या यजेत प्रातर्होमान्ते विष्णोर्नि-त्यार्चने हीने सायं द्विगुणं सायं हीने प्रातर्द्विगुणमर्चनं हविर्निवेदनं च कुर्यादा द्वादशाहाद्द्वादशाहेऽतीते पुरुषसूक्तविष्णुसूक्ताभ्यां हुत्वा पूर्ववदभ्यर्च्य हविर्निवेदयति २०
षष्ठः प्रश्नः समाप्तः अथ मृतसंस्कारप्रायश्चित्तं जातकसंस्कारो मृतसंस्कारश्चेति द्वौ संस्कारौ भवतः पूर्वेणेमं लोकं परेण परलोकं जयति मृतसंस्कारः शरीरस्य दहनमित्याहुः निर्दोषशरीराहुतिरग्नेः प्रियतमा भवति तयाहुत्या स मृतको देवलोकं गच्छति मातापित्रोः त्रोऽन्यो भ्राता सपिण्डः सगोत्रः पितुर्मातुश्च योनिबन्धुर्गुरुशिष्य-र्त्विजो वा पत्न्याः पतिः सुतः पत्युर्भ्राता सपिण्डः सगोत्रः पितुर्मातुश्च योनि-बन्धुर्वा पुत्रस्य पित्रादयो मृतस्य शरीरं दाहयति मृतस्य संस्कारे कृते संस्कर्तुः सर्वसम्पत्समृद्धिः स्यादन्यथा भ्रूणहत्यामवाप्नोति तस्माद्ब्रह्ममेधेन पितृमेधेन वा विधानेन पूर्ववदग्निर्यजुर्भिः सेनेन्द्रस्य वाचस्पते विधे नामन्वाचस्पते वाचो वीर्येण सोमः सोमस्य वाचस्पतेऽच्छिद्रया वाग्घोतेति सप्तभिर्मन्त्रैराहिताग्नेः शरीरं पञ्चाग्निभिस्त्रेताग्निभिर्वा दाहयति अग्निर्यजुर्भिः सेनेन्द्रस्येति द्वाभ्या-मौपासनाग्निना गृहस्थमनाहिताग्निं तदपनयनाग्निना ब्रह्मचारिणं च दाहयेत् अस्मात्त्वमधि भूः पृथिवीं गच्छतु भुवोऽन्तरिक्षं गच्छतु सुवर्दिवं गच्छत्विति चतुर्भिर्मन्त्रैरित्येके १ आहिताग्निरनाहिताग्निश्च पूर्वं पत्न्या मरणे स्वकीयाग्नेरर्धमादाय तदग्निना तैर्मन्त्रैस्तां दाहयित्वान्यामुपयम्य पुनरग्निमादधीत सहमरणे सहैकचितायां दम्पती दाहयति कृतचौडमनुपनीतं जातकाग्निना लौकिकाग्निना वास्मा-त्त्वमधीत्येकर्चया दाहयेत् जातदन्तस्य पितृमेधवत्तूष्णीं दहनं कुर्यादजातदन्तं भूम्यामवटेऽपिदधाति अथवा कृतचौडौ कन्याकुमारौ जातदन्तं कुमारं मृतदारं विधवामितरांश्च तूष्णीं मृतकं स्नापयित्वा शाखया श्मशानं पूर्ववदपेत वीतेति सम्मृज्य चितायां प्रेतमारोप्य हिरण्यशकलतिलतण्डुलान्या वो वहेत्यास्ये निदधाति आज्यमस्मात्त्वमधीति व्याहृतीश्च हुत्वा वातास्ते वान्त्विति सिग्वातं कृत्वेमा आपो मधुमत्य इत्यादिभिरुदकुम्भं परीत्योत्क्षिप्य कपालशेषोदकं भूः पृथिवीमित्यास्ये दत्त्वा कपालसन्तपनाग्निनास्मात्त्वमधीत्येकर्चया सावित्र्या वा दाहयति २ शवेऽन्याशौचयुक्ते श्वकुक्कुटसूतिकारजस्वलाद्यस्पृश्यस्पर्शने च मृतकं पञ्चगव्यैः कुशतोयैश्च स्नापयित्वा प्रोक्षणैः प्रोक्ष्य विधिवद्दहनं करोति देशान्तरे मृते दहनविहीने श्वकाकाद्यैः शवे जीर्णे तदस्थीन्यादाय काषायतोयैः पञ्चगव्यैः कुशतोयैश्च प्रक्षाल्याकृतिं कृत्वा तस्याग्नौ वैश्वदेवं याम्यं पैतृकं व्याहृतीश्च प्रायश्चित्तं हुत्वा विधिवद्दहनं कुर्यादमन्त्रकं शवे दग्धे तदस्थीन्यादाय पयसाज्येन प्रक्षाल्याकृतिं कृत्वा पूर्ववत्प्रायश्चित्तं हुत्वा समन्त्रकं दाहयति तदस्थ्नामप्यलाभे दशाहादूर्ध्वं पालाशपर्णैर्विधानेनाकृतिं कृत्वा प्रायश्चित्तान्ते तदग्निना दाहयेत्कर्तुरेवाशौचं भवति त्र्यहं बलिनिर्वापणमाशौचं चेति केचित्सूतिकां मृतामुदक्यां च दावाग्निना मन्त्रहीनं दाहयित्वा दशाहेऽतीते तदस्थिभिः पालाशपर्णैर्वाकृतिं कृत्वा दहनं करोत्यथवा तदह्न्येव काषा-यतोयैः पञ्चगव्यैः कुशतोयैश्च स्नापयित्वा पुण्याहं कृत्वा प्रोक्षणैः प्रोक्ष्य विधिवद्दहनं कुर्यादित्येके ३
सगर्भाया मरणे स्पन्दमानेनोदरेण जीवन्तं गर्भमालक्ष्य भर्ता पुत्रोऽन्यो बन्धुर्वा वैद्यकुशलाभ्यां नाभ्युपस्थयोरन्तरे गर्भं परिहरन्हिरण्यगर्भ इति शस्त्रेणो-त्पाटयति शस्त्रस्पर्शनाद्गर्भस्य मरणे पतितो भवति जीवन्तमपत्यमुन्मुच्य स्ना-पयित्वादाय धात्रीं लोकमातरमभ्यर्च्य तस्यान्यां मातरं कल्पयति प्रेतायाः कुक्षावाज्येन प्राणाय स्वाहापानाय स्वाहेति हुत्वा निर्व्रणं कृत्वा तां स्नापयित्वा विधिवद्दहनं करोति कुमारस्य जातकाग्नौ पूर्ववज्जातकं कुर्यात् सूतकप्रेतकयोरेकाहसन्निपाते तन्त्रयित्वा वास्तुहोमं हुत्वा पृथगेवोत्थानहोमं पिण्डनिर्वापं च करोति ब्राह्मणाद्यैश्चण्डालान्तैरद्भिः सर्पेण दंष्ट्रिनाशनि-पातेनाग्निना पशुना वा पापमरणे तस्याशौचवाक्तोदकम्पनाश्रुशवभरणानुगमनदहनोदकबलिपिण्डदानादि कस्यचिन्नैव कुर्यादेतानि कर्तुश्चान्द्रायणं तप्त-कृच्छ्रं प्रायश्चित्तं भवति पापमृतस्य शरीरं दावाग्निना शूद्रैर्दाहयित्वा दशा-हेऽतीते नारायणबलिं कुर्यादथवा पालाशपर्णैरेवाकृतिदहनं करोति शवस्य दहनकालेऽतीते क्रियाहीने विपर्यासे च प्रेतकर्मणि सर्वत्र तिलैरेव वैश्वदेवं याम्यं पैतृकं व्याहृतीश्च प्रायश्चित्तं जुहोति शवस्य दहनार्थं होमे हुते तदग्नावुत्सन्ने पूर्ववद्भस्म समिधमारोप्य लौकिकाग्नौ निधाय प्रायश्चित्तं हुत्वा तेनाग्निना दहनं कुर्यात् ४ उपनयनादूर्ध्वं ब्राह्मणस्य मरणे सपिण्डानां दशाहमाशौचं विधीयते दन्तजननादूर्ध्वं त्र्यहं नामकरणादूर्ध्वमेकाहं जननादूर्ध्वं मद्यः शौचं स्त्रियाश्च मरणे विवाहादूर्ध्वं दशाहमष्टवर्षादूर्ध्वं त्र्यहं चौडकादूर्ध्वमेकाहं पूर्वं सद्यः शौचं मातापित्रोर्भ्रातॄणां च सर्वत्र दशाहमेव गर्भे मृते गर्भिण्यास्तन्मासतुल्यैर-होभिराशौचं सूतके चान्यसूतके प्राप्ते प्रेतके चान्यप्रेतके प्राप्ते पूर्वाशौचेन शुद्धिः स्यादितरस्य प्राप्तेऽपरस्यैवाहोभिः शुद्धिर्भवति असपिण्डशवस्य स्नानालङ्करणे कृते त्र्यहं दिवसं वा वहने कृते स्नात्वा दश प्राणायामान्कृत्वा नक्षत्रदर्शनात्पूर्वं ग्रामाद्बहिरासीत तावदेवाशौचं रात्रौ सूर्योदयात्पूर्वमासीतान्यथा तद्ग्रामे प्रविष्टे शवभर्तुरेकाहं तद्गृहे प्रविष्टे त्र्यहं तत्र भोजने कृते दशाहं भवति ५
प्रेतं ज्ञातिमज्ञातिं वानुगम्य स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्नीयात् आत्मनः पितुर्मातुश्च योनिबन्धूनां च मरणे विज्ञाते सचेलस्नानं करोति द्वितीयेऽहनि पुनर्दहनप्रभृति तदश्मन्युदकं दत्त्वा दक्षिणाग्रं कूर्चं निधाय तन्नाम्ना प्रेतमावाह्य तैलमञ्जनं स्नानं वासोदकं दत्त्वा पाद्याचमनगन्धपुष्पधूपदीपाक्षताचमनैरभ्यर्च्य सायम्प्रातर्बलिं दत्त्वोदकं ददाति प्रातर्बलौ हीने सायं द्विगुणं सायं हीने प्रातर्द्विगुणमेवमा दशाहात्करोति श्वकुक्कुटसूतिकोदक्यान्त्यजैरश्मनि स्पृष्टे पञ्चगव्यैः प्रक्षाल्य बलिं दद्यात् सप्तमेऽहनि नवे मृत्पात्रे चितास्थीन्यादाय पुण्यनद्यां समुद्रे वा प्रक्षिपति अन्तर्दशाहेऽमावास्या यदि भवेत्तस्यामेव शेषान्बलीन्दत्त्वा बलिकर्म समापयति द्विचन्द्रदर्शने महान्दोषो भवेत् दशमेऽहन्येकदा बलिं दत्त्वाश्मानं विसृजेत् ६
जातदन्तस्य चौडकात्पूर्वं मरणे त्र्यहं भूमौ तूष्णीं बलिनिर्वापणमित्येके दहनप्रभृत्याहिताग्नेर्मरणप्रभृत्यनाहिताग्नेरेकादशेऽहन्येकोद्दिष्टं कुर्यात् एकोद्दिष्टनि-मित्तश्राद्धे तन्नाम्ना प्रेतनिमित्तं भुङ्क्ष्वेति ब्राह्मणं वरयित्वा प्रेताय स्वधेति पाणौ तिलोदकं दत्त्वा होमं पिण्डदानं च कृत्वान्नादि सकृत्सकृद्दत्वा भोजयेदुद्यन्तं वा ददातीति केचित् निमित्तश्राद्धे मासेऽतीते हीने च प्राजापत्यं चरित्वा प्रायश्चित्तं हुत्वा पूर्ववदेकोद्दिष्टं कुर्यात्सपिण्डीकरणात्पूर्वं मासि मासि तन्मरणदिने पिण्डं निरुप्यैकं भोजयति द्वादशे षष्ठे तृतीये वा मासे शुभकार्ये प्राप्ते द्वादशाहे वा सपिण्डीकरणं कुर्यात् ७
पूर्वेद्युर्द्वौ विश्वेदेवार्थं त्रीन्पित्रर्थमेकं प्रेतार्थं सपिण्डीकरणश्राद्धे भोक्ष्यतामिति वरयित्वा स्वाहा स्वधेति तेषां करे तिलोदकं दत्त्वा पितृभ्यः स्वधेति पात्रं तिलोदकैः पूरयित्वा पितॄनावाह्य तन्नाम्ना प्रेताय स्वधेत्यन्यत्पात्रं पूरयित्वा प्रेतमावाह्य तथा होमं हुत्वा पिण्डं निरुप्य विश्वेदेवाभ्यां द्विर्द्विर्दत्त्वा पितृभ्यः प्रेताय सकृत्सकृद्दत्त्वा तान्भोजयति पितृपिण्डैः प्रेतपिण्डं समारोप्य पितृपात्रो-दकैः प्रेतपात्रोदकं संयोजयति सपिण्डीकरणे हीने कृतं शुभकार्यं विनश्यति तस्मात्प्रायश्चित्तं हुत्वा सपिण्डीकरणं कृत्वा भिन्नेऽहनि विष्णुसूक्तं मिन्दा-हुत्याश्रावितादीन्हुत्वा पुनः शुभकर्म कुर्यात् अष्टकाहीने तद्वंशविनाशो भवेद्य-त्नेनाष्टकं करोति यथोक्तजलदानपिण्डनिर्वापब्राह्मणभोजनेषु श्रद्धया कृतेषु सर्वसम्पत्समृद्धिर्वंशविवर्धनं च भवेदिति विज्ञायते ८
गृहस्थस्यौपासने विच्छिन्ने यदि प्राणोत्क्रान्तिर्वृद्धानुज्ञातस्तत्पुत्रः श्रोत्रियागारादग्निमाहृत्य संस्कृतायां भुवि व्याहृतिभिः संस्थाप्योपतिष्ठेत जुष्टो दमूना इत्यथैनं परिसमूह्य परिस्तीर्य पर्युक्ष्याज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सप्त व्याहृतीर्हुत्वा पुनरपि पूर्ववद्गृहीत्वा पूर्वं देवाः प्राणापानाविति द्वाभ्यां मा त्वा वृक्षौ सम्बाधिष्टां मा त्वा वृक्षौ सम्बाधेथामिति द्वाभ्या-मग्नेऽभ्यावर्तिन्नग्ने अङ्गिर इति द्वाभ्यां पुनरूर्जा सह रय्येति द्वाभ्यामयाश्चाग्ने ब्राह्मण एकहोतेति द्वाभ्यां क्रमेण चतुर्गृहीतानि हुत्वा पुनश्चतुगृहीतं गृहीत्वा महाव्याहृतीश्च जुहुयादेवमग्निमुत्पाद्य पूर्वोक्तेन विधिना दहनं कुर्यात् ९
सप्तमः प्रश्नः समाप्तः समाप्तं गृह्यसूत्रम्