अथ वर्णाश्रमधर्मं १
ब्राह्मणक्षत्रियवैश्यशूद्रा
मुखबाहूरुपादेषु जाताश्चत्वारो वर्णा २
यस्माद्ब्राह्मणोऽस्य मुखमासीदिति
श्रुतिः ३
पूर्वेषां त्रयाणां नि-षेकाद्याः संस्कारा विधीयन्ते ४
तेषां
द्विजन्मनां
वेदाधिकारस्तस्माद्ब्राह्म-णस्याध्ययनाध्यापनयजनयाजनदानप्रतिग्रहाणि
षट्कर्माणि भवन्ति ५
क्षत्त्रियवैश्ययोर्यजनाध्ययनदानानि ६
क्षत्रियस्य
प्रजापालयदुष्टनिग्रहयु-द्धाः वैश्यस्य पाशुपाल्यकुसीदवाणिज्यानि ७
शूद्रस्य द्विजन्मनां शुश्रूषा कृषिश्चैव ८
ब्राह्मणस्याश्रमाश्चत्वारः
क्षत्रियस्याद्यास्त्रयो वैश्यस्य ९
द्वावेव तदाश्रमिणश्चत्वारो
ब्रह्मचारी गृहस्थो वानप्रस्थो भिक्षुः १०
इति उप-नीतो ब्रह्मचारी
मेखलोपवीताजिनदण्डधारी स्नात्वा तर्पणं ब्रह्मयज्ञं सायम्प्रातः
सन्ध्योपासनसमिद्धोमौ च कुर्वन्गुरोः पादावुपसङ्गृह्य
नित्याभिवन्दी व्रतेना-ध्ययनं करोति १३
स्थिते गुरौ
स्थेयादुत्थिते पूर्वमुत्थाय व्रजन्तमनुगच्छेदा-सीने शयाने च
नियुक्तो नीचैरन्वासनशयने कुर्याद् १४
अनुक्तो यत्किञ्चित्कर्म नाचरति १५
अनुक्तोऽपि स्वाध्यायनित्यकर्माण्याचरेद् १६
१
उष्णाम्बुस्नानदन्तधावनाञ्जनानुलेपनगन्धपुष्पोपानट्छत्रदिवास्वापरेतःस्कन्दस्त्रीदर्शनस्पर्शनमैथुनानि कामक्रोधलोभमोहमदमात्सर्यहिंसादीनि
वर्ज-यित्वा सदा शुश्रूषुर्गुरोः प्रियहितकर्माणि कुर्वीत
१
अद्वेषी वाक्चित्तानुकूलः प्रियं सत्यं वदति ३
आर्तोऽप्यसत्याप्रियं
निन्दं नाचक्षीत ४
मधुमांसम-त्स्यरसशुक्ताद्यभोज्यभोजनवर्जी
भैक्षाचरणं कृत्वा गुरुणानुज्ञातो भैक्षान्नम-श्नीयाद् ५
गुरुवृद्धदीक्षितानामाख्यां न ब्रूयाद् ६
गुर्वभावे तत्पुत्रे च
गुरुवत्कर्माचरति ७
ब्रह्मचारिणश्चतुर्विधा गायत्रो
ब्राह्मः प्राजापत्यो नैष्ठिकेति ९
गायत्रोपनयनादूर्ध्वं
त्रिरात्रमक्षारलवणाशी गायत्रीमधीत्या
सावित्रव्रतस-माप्तेरत्र व्रतचारी १०
ब्राह्मः
सावित्रव्रतादूर्ध्वमनभिशस्तापतितानां
गृह-स्थानां गृहेषु भैक्षाचरणं वेदव्रतचरणं च कृत्वा द्वादश समा विंशति समा
वा गुरुकुले स्थित्वा वेदान्वेदौ वेदं वा सूत्रसहितमध्ययनं कृत्वा
गार्ह-स्थ्यानुसरणं कुर्यात् १४
प्राजापत्यः स्नात्वा
नित्यकर्मब्रह्मचर्यशीलो नाराय-णपरायणो वेदवेदाङ्गार्थान्विचार्य
दारसङ्ग्रहणं करोतिप्राजापत्ये त्रिसंवत्सरादूर्ध्वं न तिष्ठेदित्यृषयो
वदन्ति १६
२
नैष्ठिकः काषायं धातुवस्त्रमजिनं वल्कलं वा परिधाय जटी
शिखी वा मेखली दण्डी सूत्राजिनधारी ब्रह्मचारी शुचिरक्षारलवणाशी
यावदात्मनो वि-प्रयोगस्तावद्गुरुकुले स्थित्वा निवेदितभैक्षभोजी
भवति ३
दारान्सङ्गृह्य गृ-हस्थोऽपि स्नानादिनियमाचारो नित्यमौपासनं कृत्वा
पाकयज्ञयाजी वैश्वदे-वहोमान्ते गृहागतं गुरुं स्नातकं च
प्रत्युत्थायाभिवन्द्यासनपाद्याचमनानि
प्र-दाय घृतदधिक्षीरमिश्रं मधुपर्कं च दत्त्वान्नाद्यैर्यथाशक्ति भोजयति ७
भिक्षू-न्ब्रह्मचारिणोऽतिथीन्वेदविदः
श्रोत्रियान्पितृव्याचार्यर्त्विङ्मातुलश्वशुरादीन-भ्यागतान्बालवृद्धाननाथार्ताध्वश्रान्तांश्च
यथार्थं पूजयति ९
अशक्तोऽप्यग्रं भिक्षां वा सोदकं दत्त्वा शेषं भुञ्जीत १०
दयासत्यशौचाचारयुतः
स्वाध्याय-तर्पणाभ्यामृषीन्यज्ञबलिहोमजलपुष्पाद्यैर्देवान्श्राद्धैः
पुत्रैश्च पितॄन्बलिना भूतानन्नाद्यैर्मनुष्यांश्च नित्यमर्चयेद् १२
ऋणत्रयेण मुक्तोऽनृणो भवति १३
गृ-हस्थाश्चतुर्विधा
वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोराचारिकश्चेति
वा-र्तावृत्तिः कृषिगोरक्ष्यवाणिज्योपजीवी १४
शालीनवृत्तिर्नियमैर्युतः
पाकय-ज्ञैरिष्ट्वाग्नीनाधाय पक्षे पक्षे दर्शपूर्णमासयाजी चतुर्षु चतुर्षु
मासेषु चातुर्मास्ययाजी षट्सु षट्सु मासेषु पशुबन्धयाजी पतिसंवत्सरं
सोमयाजी च १५
३
यायावरो हविर्यज्ञैः सोमयज्ञैश्च यजते
याजयत्यधीतेऽध्यापयति ददाति प्रति-गृह्णाति
षट्कर्मनिरतो नित्यमग्निपरिचरणमतिथिभ्योऽभ्यागतेभ्योऽन्नाद्यं च कुरुते २
घोराचारिको नियमैर्युक्तो यजते न याजयत्यधीते नाध्यापयति ददाति न
प्रतिगृह्णात्युञ्छवृत्तिमुपजीवति नारायणपरायणः
सायम्प्रातरग्निहोत्रं हुत्वा
मार्गशीर्षज्येष्ठमासयोरसिधाराव्रतं
वनौषधिभिरग्निपरिचरणं करोति ७
गृहस्थः सपत्नीकः
पञ्चाग्निभिस्त्रेताग्निभिर्वा
गृहाद्वनाश्रमं यास्यन्नाहिताग्निर-नाहिताग्निश्चौपासनमरण्यामारोप्य गृहे
मथित्वा श्रामणकीयविधानेनाधा-याघारं हुत्वा श्रामणकाग्निमादाय
तृतीयमाश्रमं गच्छेत् १०
पूर्ववदग्न्याल-यप्रोक्षणोल्लेखनादि
कर्म कुर्यात् ११
तृतीयामपि वेदिं परिमृज्य
षडङ्गुला-ग्रेर्दर्भैर्ग्रथितेऽधस्त्रिधा
कृतं रज्जुवद्मूले बद्धं षट्त्रिंशदङ्गुलप्रमाणं परिस्तरणकूर्चं कृत्वा
मध्यवेद्यां परिस्तृणाति श्रामणकं १४
श्रामणकयज्ञं
यज्ञदैवतविश्वा-न्देवानित्यन्तमावाह्याज्यं
निरूप्य श्रामणकाय स्वाहा श्रामणकयज्ञाय स्वाहा यज्ञदैवतविश्वेभ्यो
देवेभ्यः स्वाहेत्यन्तं हुत्वा चरुं जुहुयादित्याघारविशेषः १७
श्रामणकाग्नेश्चोर्ध्ववेदिर्द्वात्रिंशदङ्गुल्यायता
चतुरङ्गुलिविस्तारोन्नता १८
४
मध्यमा तत्परिगता पञ्चाङ्गुलिविस्तारा चतुरङ्गुलोत्सेधा १
अधस्तादूर्ध्ववे-दिविस्तारोन्नता तृतीया वेदिः २
द्वादशाङ्गुलं मध्ये निम्नं त्रिवेदिसहितं कु-ण्डं कृत्वाधाय वनस्थो
नित्यमौपासनवत्सायम्प्रातराहुतीर्हुत्वा महाव्याहृति-भिः
श्रामणकाग्निं जुहुयाद् ४
अपत्नीको दारैरग्निभिर्विना वनं
गच्छेत् ५
वानप्रस्थाः सपत्नीका अपत्नीकाश्चेति ६
सपत्नीकाश्चतुर्विधा । औदुम्बरो वै-रिञ्चो वालखिल्यः
फेनपश्चेति ७
औदुम्बरोऽकृष्टफलावाप्यौषधिभोजी मू-लफलाशी
वावणहिङ्गुलशुनमधुमत्स्यमांसपूत्यन्नधान्याम्लपरस्पर्शनपर-पाकवर्जी
देवर्षिपितृमनुष्यपूजी वनचरो ग्रामबहिष्कृतः सायम्प्रातरग्निहोत्रं हु-त्वा
श्रामणकाग्निहोमं वैश्वदेवहोमं कुर्वंस्तपः समाचरति ११
श्रामणका-ग्निमेकमेवाधाय जुहोतीत्येके
१२
वैरिञ्चः प्रातर्यां दिशं प्रेक्षते तां दिशं ग-त्वा तत्र
प्रियङ्गुयवश्यामाकनीवारादिभिर्लब्धैः
स्वकीयानतिथींश्च
पोषयि-त्वाग्निहोत्रश्रामणकवैश्वदेवहोमी
नारायणपरायणस्तपःशीलो भवति १४
वालखिल्यो जटाधरश्चीरवल्कलवसनोऽर्काग्निः
कार्त्तिक्यां पौर्णमास्यां पु-ष्कलं भुक्तमुत्सृज्यान्यथा
शेषान्मासानुपजीव्य तपः कुर्यात् १७
अस्य सूर्य
एवाग्निर्भवतीत्यामनन्ति १८
५
फेनप उद्दण्डक
उन्मत्तको निरोधकः शीर्णपतितपत्त्राहारी चान्द्रायणव्रतं
च-रन्पृथिवीशायी नारायणं ध्यायन्मोक्षमेव प्रार्थयते २
अपत्नीका बहुविधाः
३
कालाशिका उद्दण्डसंवृत्ता अश्मकुट्टा उदग्रफलिनो दन्तोलूखलिका
उञ्छवृत्तिकाः सन्दर्शनवृत्तिकाः कपोतवृत्तिका
मृगचारिका हस्तादायिनः शै-लफलकादिनोऽर्कदग्धाशिनो बैल्वाशिनः
कुसुमाशिनः पाण्डुपत्त्राशिनः कालान्तरभोजिन एककालिकाश्चतुष्कालिकाः
कण्टकशायिनो वीरासनशा-यिनः पञ्चाग्निमध्यशायिनो
धूमाशिनःपाषाणशायिनोऽभ्यवगाहिन उदकुम्भ-वासिनो
मौनिनश्चावाक्शिरसः सूर्यप्रतिमुखा ऊर्ध्वबाहुका एकपादस्थिता-श्चेति
विविधाचारा भवन्तीति विज्ञायते ११
अथ भिक्षुका मोक्षार्थिनः कु-टीचका
बहूदका हंसाः परमहंसाश्चेति चतुर्विधा भवन्ति १२
तत्र कुटीच-का
गौतमभारद्वाजयाज्ञवल्क्यहारीतप्रभृतीनामाश्रमेष्वष्टौ
ग्रासांश्चरन्तो योगमार्गतत्त्वज्ञा मोक्षमेव प्रार्थयन्ते १५
६
बहूदकास्त्रिदण्डकमण्डलुकाषायधातुवस्त्रग्रहणवेषधारिणो
ब्रह्मर्षिगृहेषु चान्येषु साधुवृत्तेषु मांसलवणपर्युषितान्नं
वर्जयन्तः सप्तागारेषु भैक्षं कृत्वा मोक्षमेव
प्रार्थयन्ते १
हंसा नाम ग्रामे चैकरात्रं नगरे
पञ्चरात्रं वसन्तस्तदुपरि न वसन्तो गोमूत्रगोमयाहारिणो वा
मासोपवासिनो वा नित्यचान्द्रायणव्रतिनो नित्यमुत्थानमेव प्रार्थयन्ते
३
परमहंसा नाम वृक्षैकमूले शून्यागारे श्मशाने वा वासिनः साम्बरा दिगम्बरा
वा ४
न तेषां धर्माधर्मौ सत्यानृते शुद्ध्यशुद्ध्यादि द्वैतं ५
सर्वसमाः
सर्वात्मनः समलोष्टकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कुर्वन्ति ६
ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणां त्रयाश्रम्यं
वैश्यानां द्व्याश्रम्यं विहितं ७
तत्फलं हि सकामं निष्कामं चेति
द्विविधं भवति ८
सकामं नामेह संसारेऽभिवृद्धिं ज्ञात्वा
पुत्रलाभाद्यभिकाङ्क्षणमन्यत्स्वर्गादिफलकाङ्क्षणं वा १०
निष्कामं नाम किञ्चिदनभिकाङ्क्ष्य यथाविहितानुष्ठानमिति ११
तत्र
निष्कामं द्विविधं भवति प्रवृत्तिर्निवृत्तिश्चेति १२
प्रवृत्तिर्नाम
संसारमनादृत्य सङ्ख्यज्ञानं समाश्रित्य प्राणायामासनप्रत्याहारधारणायुक्तो
वायुजयं कृत्वाणिमाद्यैश्वर्यप्रापणम् १५
७
तत्पुनरपि
तपःक्षयाज्जन्मप्रापकत्वाद्व्याधिबाहुल्याच्च
नाद्रियन्ते परमर्षयो १
निवृत्तिर्नाम लोकानामनित्यत्वं ज्ञात्वा
परमात्मनोऽन्यन्न किञ्चिदस्तीति संसारमनादृत्य
च्छित्वा भार्यामयं पाशं जितेन्द्रियो भूत्वा शरीरं विहाय
क्षे-त्रज्ञपरमात्मनोर्योगं कृत्वातीन्द्रियं सर्वजगद्बीजमशेषविशेषं
नित्यानन्दममृत-रसपानवत्सर्वदा तृप्तिकरं परं ज्योतिः
प्रवेशकमिति विज्ञायते ६
निवृत्त्या-चारभेदाद्धि
योगिनस्त्रिविधा भवन्ति सारङ्गा एकार्ष्या विसरगाश्चेति ७
अनिरोधका
निरोधका मार्गगा विमार्गगाश्चेति चतुर्विधा सारङ्गा ८
दूरगा अदूरगा
भ्रूमध्यगा असम्भक्ताः सम्भक्ताश्चेत्येकार्ष्याः पञ्चधा
भवन्ति ९
न स-ङ्ख्यावन्तो विसरगास् १०
तत्र सारङ्गाः सारं
क्षेत्रज्ञस्तं गच्छन्तीति सारङ्गा-स्तेष्वनिरोधका अहं
विष्णुरिति ध्यात्वा ये चरन्ति तेषाम्प्राणायामादयो न सन्ति १२
ये तु
निरोधकास्तेषां प्राणायामप्रत्याहारधारणादयः षोडश कलाः सन्ति १३
ये
मार्गगास्तेषां षडेव प्राणायामादयो १४
ये विमार्गगास्तेषां
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयश्चेत्यष्टाङ्गान्कल्पयन्तो
ध्येयमप्यन्यथा कुर्वन्ति १७
८
अथैकार्ष्या १
एक एवर्षिर्येषां ते
एकार्ष्यास् २
तेषु ये दूरगास्तेषामयं मार्गः ३
पिङ्गलया
नाडिकयादित्यमण्डलमनुप्रविश्य तत्रस्थेन पुरुषेण संयुज्य ततश्चन्द्रमण्डलं
तत्रस्थेन पुरुषेण ततो विद्युतं तत्रस्थेन पुरुषेण पुनः क्रमेण
वैकुण्ठसायुज्यं यन्ति ४
येऽदूरगास्तेषामयं धर्मः ५
क्षेत्रज्ञपरमात्मनोर्योगं क्षेत्रज्ञद्वारेण कारयित्वा तत्रैव
समस्तविनाशं ध्यात्वाकाशवत्सत्तामा-त्रोऽहमिति ध्यायन्ति ६
भ्रूमध्यगाः क्षेत्रज्ञपरमात्मनोर्योगे सत्त्वरूपाग्निद्वारेण
भ्रूमध्यं नीत्वा पञ्चभ्योऽङ्गुष्ठादिभ्यः स्थानेभ्य आकर्षणं
पुनः पिङ्गलाद्वारेण निष्क्रमणं प्रलयान्तं क्षेत्रज्ञयोगान्तं वा
कुर्वन्ति ९
असम्भक्ता नाम मनसा ध्यानं कुर्वन्ति १०
तत्प्रतिपादनागमं
श्रोत्रेण शृण्वन्ति ११
चक्षुषा देवताकारं प-श्यन्ति १२
घ्राणेन
गन्धमनुभवन्ति । पाणिना देवतां नमस्कुर्वन्ति १३
सम्भक्ता नाम
ब्रह्मणः सर्वव्यापकत्वाद्युक्तमयुक्तं योऽसौ परमात्मा
तत्स व्याप्याकाशवत्तिष्ठति १४
तस्माद्ब्रह्मणोऽन्यन्न
कुत्रचिदात्मानं प्रतिपद्यतेऽसौ १५
भ्रूमध्यगतस्यापि
संशयान्निष्प्रमाणमेवेत्युक्तम्
१६
९
तस्माद्ब्रह्मव्यतिरिक्तमन्यन्नोपपद्यते
विविधसरणाद्विविधदर्शनात्कुपथगामि-त्वाद्विसरगाः
१
पुरा प्रजापतिरुपदेशगूहनार्थं विसरगपक्षं दृष्टवान् २
तं दृष्ट्वा
मुनयोऽपि मोहं जग्मुः किं पुनर्मनुष्याः ३
विसरगपशूनामहङ्कारयुक्तानां
जन्मान्तरेषु मुक्तिर्नास्मिञ्जन्मनि ४
तस्माद्विसरगपक्षो नानुष्ठेयो ५
केचि-द्विसरगाः
कायक्लेशात्केचिन्मन्त्रजपात्केचिद्येन केनचिद्ध्यानेन केचिद्येन केन
चिदक्षरेण केचिद्वायुजयादन्ये परमात्मना क्षेत्रजं संयोज्य
ध्यायन्त्येते परमा-त्मसंयोगमेव नेच्छन्ति ७
हृदिस्थ एव
पुरुष इति वदन्ति ८
केचिन्न किञ्चिद्ध्यानमिति यथोक्तानुष्ठानं
योगमिति ज्ञात्वा मुक्तिमिच्छन्ति ९
तेषां विसरगपशूनां
जन्मान्तरेषु मुक्तिर्नास्मिञ्जन्मनि १०
तस्मिन्नेव जन्मनि
मोक्षकाङ्क्षिणा विसरगपक्षो नानुष्ठेयः ११
सगुणे ब्रह्मणि बुद्धिं निवेश्य
पश्चान्निर्गुणं ब्रह्माश्रित्य यत्नं कुर्यादिति विज्ञायते १५
१०
अथ
वनस्थस्य श्रामणकविधानम् १
गृहस्थः सोमयाजी पुत्रं पौत्रं च दृ-ष्ट्वा
तत्पुत्रादीन्गृहे संस्थाप्य मौण्ड्यं कृत्वा प्राजापत्यं कृच्छ्रं चरेत्
२
वसन्ते शुक्लपक्षे पुण्यक्षेत्रे पत्न्या सार्धं वनाश्रमं याति ३
पूर्वस्मिन्दिवसे कृतस्ना-नः सङ्कल्प्य कुशोदकं पीत्वोपवासं
कुर्याद् ४
औपासनहोमं हुत्वाग्निमयं ते योनिरित्यरण्यामारोपयेद् ५
दर्शपूर्णमासविधानेन
दर्भादीन्सङ्गृह्यपूर्वव-त्परिस्तरणकूर्चान्परिधीन्समिधो
वेणुदण्डोपवीतकमण्डलुवल्कलादीन्सम्भरति ७
पूर्वोक्तविधिनाग्निकुण्डं
कुर्याद् ८
अपरस्मिन्दिवसे वैश्वानरसूक्तेनाग्निं मथित्वा
प्रज्वाल्याग्न आयाह्युपावरोहेत्यग्निं निधाय पूर्ववच्छ्रामणकाग्न्याघारं
जुहोति ९
प्रणम्याग्निं परिषिच्याग्ने प्रायश्चित्ते त्वमिति
पञ्चप्रायश्चित्तं
हुत्वा-पोहिरण्यपवमानैरात्मानं
प्रोक्ष्य ब्रह्मदैवत्यं वैष्णवं पञ्चवारुणं च प्रधानान्व्या-हृत्यन्तं
यजेत् १२
अग्नेः प्रतीच्यां द्वौ कुशौ पूर्वाग्रौ
न्यस्योर्ध्वेऽश्मानं निधाय
तत्सवितुर्वरेण्यमिति
दक्षिणपादाङ्गुष्ठाग्रेणाश्मानमधितिष्ठेत्तेजोवत्सव
इति वल्कलमजिनं चीरं वा परिधाय पूर्ववन्मेखलादींस्त्रीण्युपवीतान्युत्तरीयं
कृष्णाजिनं चाददाति १७
११
आचम्य स्वस्ति देवेत्यग्निं प्रदक्षिणं प्रणामं
च कृत्वासीत १
शं नो देवीरिति स्वमूर्ध्नि प्रोक्ष्य
जयानभ्यातानान्राष्ट्रभृतो
व्याहृतीश्च हुत्वाज्यशेषं प्राणायामेन प्राश्नीयाद् २
योगे योग इति
द्विराचम्य शतमिन्नु शरद इति प्रणाममागन्त्रा समगन्महीति प्रदक्षिणं
चादित्यस्य कुर्वीत ४
राष्ट्रभृदसीत्यूर्ध्वाग्रं कूर्चं
गृ-ह्णीयात् ५
ॐ भूस्तत्सवितुरॐ भुवो भर्गो देवस्यॐ
सुवर्धियो यो न इति पच्छो व्यस्तामॐ भूर्भुवस्तत्सवितुरॐ
सुवर्धियो यो न इत्यर्धर्चामॐ भूर्भुवः सुवस्त-त्सवितुरिति समस्तां च
सावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्यव्रतं
सं-कल्पयेत् १०
तत्पत्नी च तथा ब्रह्मचारिणी स्यात् ११
स्वयमेवाग्निं प्रद-क्षिणीकृत्याज्येन प्राजापत्यं
धातादीन्मिन्दाहुती विच्छिन्नमैन्द्रं
वैश्वदेवं वै-श्णवं बाह्यं विष्णोर्नुकादीन्प्राजापत्यसूक्तं
तद्व्रतबन्धं च पुनः प्रधानान्हुत्वा-प्राजापत्यव्रतं बध्नाति
१४
स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्चसप्तनवान्यतमैः
पर्वभिर्युक्तं केशान्तायतं वाप्यवक्रं वैष्णवं द्विदण्डमाद-दाति १५
येन देवा इति कमण्डलुमृद्ग्रहिण्यौ पूर्ववदुपानट्छत्रे च गृह्णाति १७
अग्नीन्गार्हपत्यादींश्चोज्ज्वाल्याग्निहोत्रं हुत्वाहवनीये
प्राजापत्यं विष्णुसूक्तं च सर्वत्राग्नये स्वाहा सोमाय
स्वाहा विष्णवे स्वाहेति हुत्वाग्नीनरण्यामारोपयति २०
१२
वनेऽद्रौ विविक्ते नदीतीरे वनाश्रमं प्रकल्प्य
यथोक्तमग्निकुण्डानि कुर्यात् १
पत्न्या
सहाग्नीनादाय पात्रादिसम्भारयुक्तो वनाश्रमं समाश्रयति २
अग्न्या-यतने
प्रोक्ष्य खनित्वा लेखाः षडुल्लिख्य सुवर्णशकलं व्रीहींश्च निधाय
श्रामणकाग्निं निदध्यात् ३
वन्यानेव
पार्थिवान्वानस्पत्यान्कुलीरोद्धाताञ्छ-णान्पुराणान्कुशदर्भानूर्णास्तुकां
प्लक्षाग्रं सुगन्धितेजनं गुग्गुलुं हिरण्यशक-लान्सूर्यकान्तं च सम्भरति ६
वानप्रस्थानृत्विजो वृत्वाग्निं मथित्वा
गार्हप-त्यादींस्त्रेताग्नीन्पञ्चाग्नीन्वाग्न्याधेयक्रमेणाधायाहुती
द्वे द्वे हुत्वा नित्यं द्विकालं वन्यैरेव जुहोति ८
वनाश्रमी मुनिः
स्नानशौचस्वाध्यायतपोदानेज्योपवा-सोपस्थनिग्रहव्रतमौनानीति
नियमान्दशैतान्सत्यानृशंस्यार्जवक्षमादमप्रीति-प्रसादमार्दवाहिंसामाधुर्याणीति
यमान्दशामूंश्च समाचरति १२
भक्त्या वि-ष्णुं
ध्यायन्नग्निहोत्रश्रामणकाग्निहोमौ
द्विकालं नोत्सृजन्ग्राम्याशनं त्यक्त्वा व-न्यौषधीः फलं मूलं शाकं वा
नित्याशनं सङ्कल्प्य तिरोधा भूरिति । आहृ-त्यापराह्णे स्वयं पत्नी
वा हविष्यमास्रावितं पचति १५
वैश्वदेवान्तेऽतिथीनभ्यागतान्प्राशयित्वा
मितं प्राश्नाति १६
१३
रात्रौ नाश्नीयाद् १
अधस्ताद्दर्भांस्तृणानि
पर्णानि वास्तीर्य सुव्रतः सुव्रतां प-त्नीं विनैकः शयीत २
सास्य
शुश्रूषां करोत्येनां नोपगच्छेत् । मातृवन्नि-ष्कामः
प्रेक्षेतोर्ध्वरेता जितेन्द्रियो ३
दर्शपूर्णमासौ
चातुर्मास्यं नक्षत्रेष्टिमा-ग्रयणेष्टिं च वन्यौषधीभिः
पूर्ववद्यजेद् अनुक्रमान् ४
मूलैः फलैः पत्त्रैः
पु-ष्पैर्वा तत्तत्कालेन पक्वैः स्वयमेव संशीर्णैः प्राणं
प्रवर्तयन्नुत्तरोत्तरेऽप्यधिकं त-पःसंयोगं
फलादिविशिष्टमाचरेद् ६
अथवाहिताग्निः
सर्वानग्नीनरण्यामा-रोप्य सर्वैः
संवापमन्त्रैः पार्थिवान्वानस्पत्यांश्च
सर्वान्समूह्यनिर्मन्थ्यैतेन
वि-धिनामग्न्याधेयविधानेन च मन्त्रैः सर्वैः सभ्याग्न्यायतने
श्रामणकाग्निमा-धायाहरेत् ९
सभ्यस्य भेदः
श्रामणकाग्निरित्याहुः १०
अपत्नीकश्च भिक्षुव-दग्नौ होमं
हुत्वारण्यादिपात्राणि च प्रक्षिप्य पुत्रे भार्यां निधाय
तथाग्नीनात्म-न्यारोप्य वल्कलोपवीतादीन्भिक्षापात्रं च
सङ्गृह्यानग्निरदारो गत्वा वने
निव-सेत् १२
तपसां श्रमणमेतन्मूलं तस्मादेतद्विधानमेनमग्निं
च श्रामणकमि-त्याह विखनाः १५
सन्न्यासक्रमं सप्तत्यूर्ध्वं वृद्धोऽनपत्यो
विधुरो वा ज-न्ममृत्युजरादीन्विचिन्त्य योगार्थी यदा स्यात्तद् १६
अथवा
पुत्रे भार्यां निक्षिप्य परमात्मनि बुद्धिं निवेश्य वनात्सन्न्यासं
कुर्यात् १८
१४
मुण्!डितो विधिना स्नात्वा ग्रामाद्बाह्येप्राजापत्यं
चरित्वा पूर्वाह्णे त्रिदण्डं शि-क्यं काषायं कमण्डलुमप्पवित्रं
मृद्ग्रहणीं भिक्षापात्रं च सम्भृत्य त्रिवृतं
प्रा-श्योपवासं कृत्वा दिनेऽपरे प्रातः
स्नात्वाग्निहोत्रं वैश्वदेवं च हुत्वा
वैश्वानरं द्वादशकपालं निर्वपेत् ३
गार्हपत्याग्नावाज्यं
संस्कृत्याहवनीये पूर्णाहुती पु-रुषसूक्तं च हुत्वाग्नये
सोमाय ध्रुवाय ध्रुवकरणाय परमात्मने नारायणाय स्वाहेति जुहोति ६
स्रुचि
स्रुवेण चतुर्गृहीतं गृहीत्वा सर्वाग्निष्वॐ स्वाहेति जुहुयाद् ७
अग्निहोत्रहवणीमाहवनीये मृच्छिलामयेभ्योऽन्यानि
पात्राणी गार्हपत्ये प्रक्षिपति ८
गृहस्थोऽनाहिताग्निरौपासने
वनस्थश्च श्रामणकाग्नौ होमं हुत्वा पात्राणि प्रक्षिपेत् ९
पच्छोऽर्धर्चशो
व्यस्तां समस्तां च सावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामीति तं
प्रविशति ११
अन्तर्वेद्यां स्थित्वा गार्हपत्यादीन्या ते
अग्ने यज्ञियेति प्रत्येकं त्रिराघ्राय भवतं नः
समनसावित्यात्मन्यारोपयेत् १३
भूर्भुवः सुवः सन्न्यस्तं मयेति त्रिरुपांशूच्चैश्च
प्रैषमुक्त्वा दक्षिणहस्तेन सकृज्जलं पीत्वाचम्य
तथैवोक्त्वा त्रिर्जलाञ्जलिं विसृजेन् १५
मेखलां चत्वार्यु-पवीतान्येकं
वोपवीतं कृष्णाजिनमुत्तरीयं च पूर्ववद्ददाति १७
देवस्य त्वा यो मे दण्डः
सखा मे गोपायेति त्रिभिस्त्रिदण्डं यदस्य पारे रजस इति शिक्यं येन
देवाः पवित्रेणेत्यप्पवित्रं येन देवा ज्योतिषेति कमण्डलुमृद्ग्रहण्यावाददीत २०
१५
स्नात्वाघमर्षणसूक्तेनाघमर्षणं कुर्यात् १
आचम्य षोडश
प्राणायामान्कृत्वा सहस्रं शतं वा सावित्रीं जप्त्वा तथा भिक्षापात्रमलाबु
दारवं मृन्मयं वा गृ-ह्णाति २
प्रणवाद्यादिभिः पृथक्
पृथक्सप्तव्याहृतिभिस्तर्पयामीति
देवेभ्यो जलेऽद्भिस्तर्पयित्वाद्याभिश्चतसृभिः स्वधेति पितृभ्यस्तर्पयेत्
४
उद्वयं तमस इत्यादित्यमुपतिष्ठेत ५
जलाञ्जलिं विसृज्याभयं सर्वभूतेभ्यो
दद्याद् ६
अध्यात्मरतो यतिर्भिक्षाशी नियमयमांश्च समाचरन्संयतेन्द्रियो
ध्यानयोगेन परमात्मानमीक्षते ८
धर्म्यं सदाचारम् ९
निवीती दक्षिणे कर्णे
यज्ञोपवीतं कृत्वोत्कटिकमासीनोऽहन्युदङ्मुखो रात्रौ
दक्षिणामुखस्तृणैरन्तरिते मूत्रपुरीषे
विसृजेन् १०
नद्यां गोष्ठे पथि छायायां भस्मन्यप्सु कुशे दर्भे वा
नाचरेत् ११
गोविप्रोदकाग्निवाय्वर्कतारेन्दून्नपश्यन्कुर्यात् १२
वामहस्तेन लिङ्गं सं-गृह्योत्थायोदकस्य पार्श्वे तथासीनो ब्रह्मचारी
गृहस्थोऽपि शिश्ने द्विर्हस्तयोश्च द्विर्द्विर्गुदे
षट्कृत्वो मृदं दत्त्वोद्धृतैरेव जलैः शौचं कुर्यात् १५
करं वामं दश कृत्वः करावुभौ च तथा मृदाद्भिः प्रक्षालयेत् १६
वनस्थस्य भिक्षोश्चैतद्द्विगुणं भवति १७
रात्रौ
यथोक्तार्धं वा १८
१६
रेतोविसर्गे मूत्रवच्छौचं कर्तव्यं
रेतसस्त्रिरित्येके १
सोपवीती प्राङ्मुख उदङ्मुखो वान्यत्रासित्वा
मृदाम्बुना पूर्ववत्पादौ पाणी च प्रक्षाल्याचम्य
मन्त्रे-णाचमति ३
ब्राह्मणो हृद्गाभिः क्षत्रियः
कण्ठगाभिर्वैश्यस्तालुगाभिरद्भिरा-चामेत ४
आत्मानं प्रोक्ष्य
प्रत्यर्कमपो विसृज्यार्कं पर्येति ५
उदकस्या-ग्नेर्वामपार्श्वं
प्राणानायम्य प्रत्येकमॐकारादिसप्तव्याहृतिपूर्वां गायत्रीमन्ते सशि-रस्कां
त्रिर्जपेत्स प्राणायामस्त्रीनेकं वा प्राणायामं कृत्वा पूतः ७
शतं दशाष्टौ
वा सावित्रीं जप्त्वा सायम्प्रातः सन्ध्यामुपास्य नैशिकमाह्निकं
चैनोऽपमृज्यते ९
द्विजातिः सन्ध्योपासनहीनः
शूद्रसमो भवति १०
ब्रह्मचारी स्वनाम सङ्कीर्त्याभिवादयेदहं भो
इति ११
श्रोत्रे च संस्पृश्य गुरोः पादं दक्षिणं दक्षिणेन पाणिना वामं
वामेन व्यत्यस्य जान्वोरापादमुपसङ्गृह्णन्नानतशीर्षोऽभिवादयति १३
आयुष्मान्भव सौम्येत्येनं शंसेद् । अनाशीर्वादी नाभिवन्द्यो १४
माता पिता
गुरुर्विद्वांसश्च प्रत्यहमभिवादनीयाः १५
अन्ये बान्धवा विप्रोष्य
प्रत्यागत्याभिवन्द्याः १६
ज्येष्ठो भ्राता पितृव्यो
मातुलः श्वशुरश्च पितृवत्पितृष्व-सा मातृष्वसा ज्येष्ठभार्या भगिनी
ज्येष्ठा च मातृवत्पूजितव्याः १८
सर्वेषां माता श्रेयसी गुरुश्च श्रेयान्
१९
१७
परस्त्रियं युवतिमस्पृशन्भूमावभिवादयेद् । वन्द्यानां
वन्दनादायुर्ज्ञानबला-रोग्यशुभानि भवन्ति १
यज्ञोपवीतमेखलाजिनदण्डान्परेण धृतान्न धारयेत् २
उपाकृत्यानालस्यः शुचिः प्रणवाद्यं वेदमधीयानोऽमावास्यायां
पौर्णमास्यां चतुर्दश्योः प्रतिपदोरष्टम्योश्च नाधीयीत ३
नित्यजपे होमे
चानध्यायो नास्ति ४
मार्जारनकुलमण्डूकश्वसर्पगर्दभवराहपश्वादिष्वन्तरागतेष्वहोरात्रं
सूतकप्रे-तकयोराशौचे तावत्कालं तिस्रोऽष्टकासु गुरौ प्रेते च
त्रिरात्रमनध्यायः स्यात् ८
तद्भार्यापुत्रयोः
स्वशिष्यस्य चोपरमे मनुष्ययज्ञे श्राद्धभोजने चैकाह-मनध्यायः
स्यादापदार्त्योरप्रायत्ये ९
वृक्षनौयानशयनेष्वारूढः प्रसारितपादो
मूत्रपुरीषरेतोविसर्गे ग्रामेऽन्तःशवे सत्यभक्ष्यान्नभोजने छर्दने
श्मशानदेशे सन्ध्यास्तनिते भूकम्पे दिग्दाहेऽशन्युल्कानिपाते
रुधिरोपलपांसुवर्षे सूर्येन्दुरा-हुग्रहणे च तत्तत्काले
नाधीयीत १३
परत्रेह श्रेयस्करो वेदस्तदध्येतव्यो १४
अन्ते विसृज्य
प्रणवं ब्रवीति १५
लौकिकाग्नौ समिधौ हुत्वा भिक्षान्नं मेधाप्रदं
शुद्धं मौनी भुञ्जीत १६
१८
पौषे माघे वा मासे ग्रामाद्बहिर्जलान्ते
पूर्ववद्व्रतविसर्गहोमं हुत्वा स्वाध्या-यमुत्सृज्य पक्षे शुक्ले वेदं
कृष्णे वेदाङ्गं च यावदन्तं समधीत्य गुरोर्दक्षिणां दत्त्वा
समावर्ती स्यात् ३
मध्याह्ने शुद्धे जले मृदाद्भिः पादौ हस्तौ च
धाव-यित्वाचम्याङ्गानि संशोध्यापः पुनन्त्विति जले निमज्जेद् ४
आचान्तो
वै-ष्णवैर्मन्त्रैर्विष्णुं हिरण्यशृङ्गमिति वरुणं च
प्रणम्याघमर्षणसूक्तेनाघमर्षणं
कृत्वेदमापः शिवा इति स्नायाद् ६
आश्रमिणश्चत्वारः स्नानं
नित्यमेवं पूर्वो-क्तेन विधिना काम्यं नैमित्तिकं च कुर्वन्ति ८
धौतवस्त्रेणाच्छाद्य पूर्ववदा-चम्य प्रोक्ष्यासीनस्तिष्ठन्वा
कृतप्राणायामः सावित्रीं जप्त्वादित्यमुपतिष्ठेत ९
दक्षिणपाणिना
तीर्थेन ब्राह्मेण भूपत्यादीन्दैवेन नारायणादीन्कूप्यादींश्चार्षेण
विश्वामित्रादीन्पैतृकेण पित्रादीनद्भिस्तर्पयित्वा ब्रह्मयज्ञं
करिष्यन्नित्यमिषे त्वोर्जे त्वेति यथाकामं
यजुःसंहितामाद्यां
स्त्रीननुवाकान्स्वाध्यायं
कुर्वीत १३
नैमित्तिकमृतं च सत्यं चेत्यादिसूक्तानि
चतुर्वेदादिमन्त्रान्वाप्यधीयीत १४
सर्वयज्ञानामादिर्ब्रह्मयज्ञः १५
तस्मादुपनयनप्रभृत्येव द्विजैः कर्तव्यो १६
नद्यां तीर्थे देवखाते सरसि तटाके वा सामान्ये स्नानं कुर्यात् १८
१९
परस्योदके मृत्पिण्डान्पञ्चोद्धृत्य स्नायात् १
कूपे तत्तीरे त्रिः
कुम्भेनाभिषिञ्चेद् । उच्छिष्टो नग्नो वा न स्नायात्तथा न शयीत २
आतुरोऽप्सु नावगाहेत ३
आतुरस्य स्नाने नैमित्तिके दश
कृत्वो द्वादश कृत्वो वा तमनातुरो जलेऽव-गाह्याचम्य स्पृशेत्ततः स पूतो
भवति ४
द्विकालं होमान्ते पादौ प्रक्षाल्या-चम्यासने प्राङ्मुखः
प्रत्यङ्मुखः वा स्थित्वा चतुरश्रोपलिप्ते मण्डले
शुद्धं पात्रं न्यसेत् ६
तत्रान्नं प्रक्षिप्य तत्पूजयति ७
द्वौ
पादावेकं वा भूमौ निधाय प्रसन्न ऋतं त्वा सत्येन परिषिञ्चामीति
सायं परिषिञ्चति सत्यं त्वर्तेन परिषिञ्चामीति प्रातर् ८
अमृतोपस्तरणमसीत्याधावं पीत्वा विधिना
प्राणाहुतीर्हुत्वान्नम-निन्दन्नश्नाति १०
भुक्त्वामृतापिधानमसीत्यपः
पीत्वाचम्याचामेद् ११
एक-वासाः
शयानस्तिष्ठन्नस्नानजपहोमीशुष्कपाद उदङ्मुखो वा
नाश्नाति १२
भिन्नपात्रेऽन्नं पर्युषितं शयनासनोत्सङ्गस्थं वा न भुञ्जीत
१३
अञ्जलिनापो न पिबेद् १४
उच्छिष्टाशुच्याशौचिपतिततैः स्पृष्ठं
सूतकप्रेतके चान्नं नाश्नीयात् १५
२०
तिलसक्तुदधिलाजं
च रात्रावभक्ष्यम् १
अन्नं पर्युषितमाज्येन दध्ना वा युक्तं भोज्यम् २
क्रिमिकेशकीटयुतं गवाघ्रातं पक्षिजग्धं च भस्माद्भिः प्रोक्षितं
शुद्धं ३
श्वकाकाद्युपहते बह्वन्ने तस्मिन्पुरुषाशनमात्रं
तत्रैवोद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्मजलैः
प्रोक्ष्य दर्भोल्कया स्पर्शयित्वा गृह्णीयात् ५
प्रसूतेऽन्तर्दशाहे गोक्षीरं
सदैकशफोष्ट्रस्त्रीणां पयश्च
पलाण्डुकवकलशुन-गृञ्जनविड्जमनुक्तं मत्स्यमांसं च वर्जनीयम् ७
यज्ञशिष्टं मांसं भक्षणीयम् ८
उदक्यास्पृष्टं शूद्रानुलोमैः
स्पृष्टं तेषामन्नं च वर्जयेत् ९
स्वधर्मानुवर्तिनां शूद्रानुलोमानामामं
क्षुधितस्य सङ्ग्राह्यम् १०
सर्वेषां प्रतिलोमान्तरालव्रा-त्यानामामं
पक्वं च क्षुधितोऽपि यत्नान्न गृह्णीयात् ११
तैः
स्पृष्टिसम्मिश्रं परप-क्वं च सन्त्यजति १२
नित्यं श्रुतिस्मृत्युदितं कर्म कुर्वन्मनोवाक्कायकर्मभिः शनैर्धर्मं
समाचरति १३
२१
गृहस्थाश्रमी द्वे यज्ञोपवीते वैणवं दण्डं कमण्डलुं
च धारयेत् १
स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणि
श्रौताग्निषु श्रौतानि कुर्यात् २
सायं च
होमान्तेऽतिथीनभ्यागतान्प्राशयित्वा मितं प्राश्य
पत्न्या शयीत ३
आर्द्रपादः प्रत्यगुत्तर-शिराश् च स्वपिति ४
ऋतुरात्रिषु स्वभार्यामुपगच्छेद् ५
आदौ त्रिरात्रमृतुमतीगमनसहासनशयनानि
वर्जयेत् ६
परदारान्न सङ्गच्छेत् । परदारगमनादायुः श्रीर्ब्रह्मवर्चसं
विनश्यति ७
भार्यया सह नाश्नाति । अश्नन्तीं तां जृम्भमाणां नग्नां च नावलोकयेत् ८
असत्यवादं वर्जयति । असत्यात्परं पापं सत्यात्परो धर्मश्च नास्ति ९
सर्वप्राणिहितोऽद्रोहेणैव
जीवे-च्छुद्धार्थवान्कुसूलधान्यः कुम्भीधान्योऽश्वस्तनिको वा
स्यात् १०
द्विजातिः पतितान्त्यजातान्न स्पृशेद् ११
उदयेऽस्तमये च सूर्यं नेक्षेत १२
देवगुरु-विप्रघृतक्षीरदधिमृत्तोयसमिद्दर्भाग्निवनस्पतीन्प्रदक्षिणं
गच्छेत् १३
स्नातक-राजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां पन्था देयो १४
वातार्करश्मिभिः पन्थानः शु-ध्यन्ति १५
परस्यासनशयनान्यदत्तानि
नोपयुञ्जीतादत्तेषूपयुक्तेषु स्व-पुण्यचतुर्थांशो जहाति १६
अन्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणि नैव धारयेद् १७
अग्नौ
पादं न तापयेन्नैनं मुखेन धमेन्न पादेन स्पृशेदधः पादतो न कुर्याद् १९
२२
अग्नावग्निं । जलं वा देवालयेऽग्नौ जले च
मूत्रपुरीषपूयशोणितरेतःश्ले-ष्मोच्छिष्टाङ्गनिष्पेषान्न
प्रक्षिपेत् १
नग्नां परस्त्रियं विण्मूत्रे च न पश्येद् २
उच्छिष्टो
देवार्कचन्द्रग्रहर्क्षतारा नेक्षेत ३
देवगुरुस्नातकदीक्षितराजगोश्रे-ष्ठानां
छायां नाक्रमति । इन्द्रधनुः परस्मै न दर्शयेन्न वदेत् ४
स्वपन्तं
नावबोधयेद् । एकोऽध्वानं न गच्छेत् ५
परक्षेत्रे चरन्तीं
गां धयन्तं वत्सं च न वारयेन्नैवाचक्षीत । जीर्णमलवासा न स्यात् ६
अक्षैः
क्रीडां प्रेतधूमं बालातापं च वर्जयेत् ७
केशरोमतुषाङ्गारकपालास्थिविण्मूत्रपूयशोणित-रेतःश्लेष्मोच्छिष्टान्नाधितिष्ठेत्
८
अमेध्यलिप्तेऽङ्गे यावत्तल्लेपगन्धमनःशङ्का न स्यात्तावन्मृत्तोयैः
शोधयेत् ९
पतितान्त्यजमूर्खाधार्मिकवैरिभिः सार्धं न वसेद् १०
उच्छिष्टोऽशुचिर्वा देवगोविप्राग्नीन्न स्पृशेत् ११
देवान्वेदान्रा-जगुरुमातापितॄन्विद्वद्ब्राह्मणान्नावमन्येत
न निन्देद् १२
अवमन्ता निन्दकश्च विनश्यति १३
सर्वभूतकुत्सां ताडनं च न
कुर्वीत १४
गुरुणा मातापितृभ्यां
तत्पित्राद्यैर्भ्रातृपितृभ्रातृमातुलाचार्यर्त्विगाद्यैर्विवादं
नाचरेत् १५
सर्वशुद्धिषु पुरुषस्यार्थशुद्धिः स्त्रीशुद्धिरन्नशुद्धिश्च
श्रेष्ठतमा स्यात् १६
२३
द्रव्येषु
रत्नसौवर्णरजतमयान्यद्भिःशोधयत्यग्नौ
वा स्पर्शयति १
ताम्रत्रपुसी-सायसाद्यान्यम्लवारिभिर्दारुदन्तजातानि
तक्षणाद्धावनाद्वा यज्ञपात्राणि द-क्षिणपाणिना
मार्जनात्क्षालनाद्वा संशोध्यानि ३
चर्ममयसंहतानि वस्त्राणि शाकमूलफलानि च
प्रोक्षयेदल्पानि क्षालयेत् ४
घृतादीनि
द्रव्याण्युत्पूयो-ल्कया दर्शयेत् ५
कौशेयाविकान्यूषैरंशुतट्टानि
श्रीफलैः शङ्खशुक्तिगोशृ-ङ्गाणि सर्षपैः सवारिभिर्मृन्मयानि
पुनर्दाहेन गृहं मार्जनोपलेपनाप्सेकैर्भूमिं
खननादन्यमृत्पूरणगोवासकाद्यैर्मार्जनाद्यैश्च
शोधयेद् ८
गोतृप्तिकरं भूगतं तोयं दोषविहीनं सुपूतम् ९
वाक्शस्तं
वारिनिर्णिक्तमदृष्टं १०
योषिदास्यं कारुहस्तः
प्रसारितपण्यं च सर्वदा शुद्धं शकुन्युच्छिष्टं
फलमनिन्द्यं ११
मशकम-क्षिकानिलीनं तद्विप्रुषश्च न
दूष्याणि १२
वाय्वग्निसूर्यरश्मिभिः स्पृष्टं च मेध्यम् १३
आतुरे बाले
पचनालये च शौचं न विचारणीयं यथाशक्ति स्याद् । विण्मूत्राभ्यां बह्वापो न
दूष्याः १४
परस्याचामतस्तोयबिन्दुभिर्भूमौ निपत्योद्गतैः
पादस्पृष्टैराचामयन्नाशुचिः स्यात् १५
२४
वानप्रस्थो नित्यस्वाध्यायी कुशेध्मादीनग्न्यर्थं शाकमूलफलान्यशनार्थं च
शुचौ जातान्याहरेद् १
अन्याधीनमन्योत्सृष्टमशुचौ जातं गोरसं च वर्जयेत् २
धान्यधनसञ्चयं न कुर्वीत ३
वस्त्रं नाच्छादयेत् । मधूक्ते तोयं मांसोक्ते
पैष्टिकं गृह्णाति ४
सर्वभूतेषु दयालुः समः क्षान्तः शुचिर्निरसूयकः
सुखे निःस्पृहो मङ्गल्यवाणीर्ष्याकार्पण्यवर्जी
मत्स्यादीन्दंशकान्सीरकृष्टजातानि
कन्दमूलफलशाकादीनि च त्यजञ्जटाश्मश्रुरोमनखानि धारयंस्त्रिकालस्नायी
धराआ!शयो वन्यैरेव चरुपुरोडाशान्निर्वपेत् ८
पलाण्ड्वादीन्निर्यासं
श्वेतवृन्ताकं सुनिषण्णकं श्लेष्मातकं व्रजकलिं
चित्रकं शिग्रुं भूस्तृणं कोविदारं मूलकं चवर्जयति १०
मुनेः सर्वं मांसं
गोमांसतुल्यं धान्याम्लं सुरासमं भवति ११
पूर्वसञ्चिताशनं पूर्वाणि
वसनान्याश्वयुजे मासि त्यजति १२
वेदवेदान्तेन ध्यानयोगी तपः
समाचरति १३
२५
अपत्नीकोऽनग्निरदारोऽनिकेतनो वृक्षमूले वसन्वनस्थाश्रमेषु
गृहस्थानां गृहेषु वा भिक्षां भिक्षित्वाम्बुपार्श्वे शुद्धे पर्णे
प्राणयात्रामात्रमन्नं भिक्षुवदश्नाति १
शरीरं
शोषयन्नुत्तरमुत्तरं तीव्रं तपः कुर्यात्
२
भिक्षुः स्नात्वा नित्यं प्रणवेनात्मानं तर्पयेत् ३
तेनैव नमस्कुर्यात्
४
षडवरान्प्राणायामान्कृत्वा शतावरां सावित्रीं जप्त्वा सन्ध्यामुपासीत ५
अप्पवित्रेणोत्पूताभिरद्भिराचामेत् ६
काषायधारणं सर्वत्यागं
मैथुनवर्जनमस्तैन्यादीनप्याचरेत् ७
असहायोऽनग्निरनिकेतनो निःसंशयी
सम्मानावमानसमो विवादक्रोधलोभमोहानृतवर्जी
ग्रामाद्बहि-र्विविक्ते मठे देवालये वृक्षमूले
वा निवसेत् ९
चातुर्मासादन्यत्रैकाहादूर्ध्वमे-कस्मिन्देशे न वसेद् १०
वर्षाः शरच्चातुर्मास्यमेकत्रैव वसेत् ११
त्रिदण्डे
काषायाप्पवित्रादीन्योजयित्वा कण्ठे वामहस्तेन
धारयन्दक्षिणेन भिक्षापात्रं गृहीत्वैककाले विप्राणां शुद्धानां गृहेषु
वैश्वदेवान्ते भिक्षां चरेत् १३
भूमौ वीक्ष्य जन्तून्परिहरन्पादं न्यसेद्
१४
अधोमुखस्तिष्ठन्भिक्षामालिप्सेत १५
गोदोहनकालमात्रं तदर्धं वा
स्थित्वा व्रजेद् १६
अलाभेऽप्यवमानेऽप्यविषादी लब्धे
सम्मानेऽप्यसन्तोषी स्यात् १७
द्रुतं विलम्बितं वा न
गच्छेत् । भिक्षाका-लादन्यत्र परवेश्म न गन्तव्यं १८
भिक्षितुं
क्रोशादूर्ध्वं न गच्छेत् १९
२६
भिक्षां चरित्वा तोयपार्श्वे
प्रक्षालितपाणिपाद आचम्योदु त्यमित्यादित्यायातो दे-वा इति
विष्णवे ब्रह्म जज्ञामिति ब्रह्मणे च भिक्षाग्रं दत्त्वा
सर्वभूतेभ्य इति ब-लिं प्रक्षिपेत् १
प्राणाग्निहोत्रविधानेनात्मयज्ञं
सङ्कल्प्य प्राणयात्रामात्रमष्टौ ग्रासान्वाश्नीयात्कामं
नाश्नाति ३
वस्त्रपूतं जलं पीत्वाचम्याचामति ४
निन्दाक्रोशौ न
कुर्वीत ५
बन्धूञ्ज्ञातींस्त्यजेद् ६
वंशचारित्रं तपः श्रुतं न वदेत्
७
सङ्गं त्यक्त्वा नियमयमी प्रियं सत्यं वदन्सर्वभूतस्याविरोधी समः
सदाध्यात्मरतो ध्यानयोगी नारायणं परं ब्रह्म पश्यन्धारणां
धारयेद् ८
अक्षरं ब्रह्माप्नोति नारायणः परं ब्रह्मेति श्रुतिः ९
सन्न्यासिनोऽनाहिताग्नेर्देहं मृतं पुत्रोऽन्यो वा
तृणैरन्तरीकृत्य शुद्धैर्ब्राह्मणैर्यन्त्रेण वा सन्निधाय
समुद्रगाम्यां नद्यां तीरे वा सैकते देशे सृगालादिभिरस्पृश्यं यथा तथावटं
खनति १३
२७
गायत्र्या स्नापयित्वा तथा तत्रासयित्वा शाययित्वा वा
दक्षिणे हस्ते वैष्ण-वैर्मन्त्रैस्त्रिदण्डं सन्न्यस्य सव्ये
यदस्य पारे रजस इति शिक्यमप्पवित्रमुदरे सावित्र्या भिक्षापात्रं
गुह्यप्रदेशे भूमिर्भूमिमिति काषायं मृद्ग्रहणीं कमण्डलुं च
सन्न्यस्य पिदध्यात् १
तस्मिन्सृगालादिभिः स्पृष्टे तत्कर्ता
पापीयान्भवति २
आहिताग्नेरग्नीनात्मन्यारोप्य सन्न्यसिनो मृतं देहं
गायत्र्या स्नापयित्वा पू-र्ववद्वाहयित्वा शुद्धे देशे निधाय
लौकिकाग्नौ तदग्निमुपावरोहेत्यवरोप्य पवित्रं त इति घृतक्षीरमास्ये
प्रक्षिप्य पूर्ववत्त्रिदण्डादीन्विन्यस्य ब्रह्ममेधेन
पि-तृमेधेन वाहिताग्निमन्त्रैस्तदग्निभिर्दहनमाचरति ६
तयोराशौचोदकबलिपि-ण्डदानैकोद्दिष्टादीन्नैव
कुर्यात् ७
नारायणबलिं करोति ८
तद्वहनं खनि-त्वा पिधानं दहनं नारायणबलिं
वा यः कुर्यात्सोऽश्वमेधफलं समाप्नुयात् ९
नारायणबलिं नारायणादेव
सर्वार्थसिद्धिरिति ब्रह्मणाद्यैर्नरैर्हतस्यात्मघातिनो
रज्जुशस्त्रोदकाशनिदंष्ट्रिपशुसर्पादिभिः
सर्वपापमृतस्यादाह्यानामन्येषां
भिक्षो-श्चैकादशदिनादूर्ध्वं महापातकिनां पञ्चानां द्वादशसंवत्सरादूर्ध्वं
सपिण्डीकर-णस्थाने मृतकार्थमपरपक्षे द्वादश्यां श्रवणे वा करोति १३
पूर्वेऽहनि द्वादश ब्राह्मणान्निमन्त्रयेद् १४
अपरेऽहनि
विष्णोरालयपार्श्वे नदीतीरे गृहे वाग्न्यायतनं कृत्वाघारं
जुहुयाद् १६
२८
अग्निं परिस्तीर्याग्नेर्वायव्यां विष्टरे दर्भेषु
तद्रूपं सुवर्णं वा संस्थाप्य पुरुषं ध्या-यन्नॐ भूः
पुरुषमित्याद्यैः प्राङ्मुखं देवं
नारायणमावाह्यासनपाद्याचमनानि
दद्यात् १
पुरुषसूक्तेन स्नापयित्वा नारायणाय विद्महेत्यष्टाक्षरमन्त्रेण
वा वस्त्रोत्तरी-याभरणपाद्याचमनपुष्पगन्धधूपदीपाक्षताचमनैरर्चयति ३
केशवाद्यैर्द्वाद-शनामभिरद्भिस्तर्पयेत् अग्निं ५
परिषिच्य
सहस्रशीर्षाद्यैर्विष्णोर्नुकाद्यैर्द्वादश-नामभिश्चाज्यं
चरुं जुहुयात् ६
गुडाज्यफलयुक्तं पायसं हविर्विष्णुगायत्र्या देवेशाय
निवेद्य पाद्याचमनमुखवासं दद्यात् ७
अग्नेर्दक्षिणे
दर्भेषूतराग्रेषु दक्षिणाद्यर्चयित्वा
नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादाय परम-पुरुषाय
परमात्मने परञ्ज्योतिषे परब्रह्मणेऽव्यक्ताय सर्वकारणाय यज्ञेश्वराय
यज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्य इत्यन्तैः
पायसं बलिं दत्त्वाज्यमेभिर्जुहोति १२
ब्राह्मणान्पादौ प्रक्षाल्य
नवानि वस्त्रोत्तरीयाभरणा-नि दत्त्वा पुष्पाद्यैः पूजयित्वा
द्वादशमूर्तिं ध्यायन्नुपदंशघृतगुडदधिफलयुक्तं श्वेतमन्नं
भोजयित्वा यथाशक्ति सुवर्णं दक्षिणां ददाति १६
२९
सहस्रशीर्षाद्यैः स्तुत्वा द्वादशनामभिः
प्रणमेदन्तहोमं जुहोति १
अभीष्टां परां गतिं स
गत्वा विष्णोर्लोके महीयते २
चातुर्वर्ण्यसङ्करेणोत्पन्नानामनुलोम-प्रतिलोमान्तरालव्रात्यानामुत्पत्तिं
नाम वृत्तिं च ३
ऊर्ध्वजातादधोजातायां
जातोऽनुलोमोऽधरोत्पन्नादूर्ध्वजातायां
जातः प्रतिलोमः ४
ततोऽनुलोमाद-नुलोम्यां जातोऽन्तरालः ५
प्रतिलोमात्प्रतिलोम्यां जातो
व्रात्यो भवति ६
ब्रह्मणो मुखादुद्भूता ब्राह्मणा
ब्राह्मण्यश्च ब्रह्मर्षयः पत्न्यो बभूवुस् ७
तेषां गात्रोत्पन्नाद्ब्राह्मण्यामसगोत्रायां विधिना समन्त्रकं
गृहीतायां जातो ब्राह्मणः शुद्धो भवेत् ९
विधिहीनमन्यपूर्वायां
मृतभर्तृकायां गोलको जीवभर्तृकायां कुण्डश्च विप्रौ द्वौ निन्दितौ स्यातां
१०
तस्मादधो बाहुभ्याम् उत्पन्नात् क्षत्रियात् क्षत्रियायां विधिवज्जातः क्षत्रियः शुद्धस् ११
तयोरविधिकं गूढोत्पन्नोऽशुद्धो भोजाख्यो
नैवाभिषेच्यः पट्टबन्धो राज्ञः सैनापत्यं करोति १३
शुद्धाभावेऽपट्टबन्धो नॄन्पायात् १४
तद्वृत्तं
राजवत्स्यात् १५
३०
अधस्तादूरुभ्यामुत्पन्नाद्वैश्याद्वैश्यायां
तथा वैश्यः शुद्धो १
विधिवर्जं मणि-कारोऽशुद्धो मणिमुक्तादिवेधः
शङ्खवलयकारी स्यात् २
अथ
पद्भ्यामुत्पन्ना-च्छूद्राच्छूद्रायां
न्यायेन शूद्रः शुद्धः ३
जारान्मालवको निन्दितः शूद्रोऽश्वपा-लोऽश्वतृणहारी
चेत्येते चातुर्वर्णिकास् ४
तेषामेव संस्करेणोत्पन्नाः सर्वेऽनु-लोमाद्याः
५
ब्राह्मणात्क्षत्रियकन्यायां जातः सवर्णोऽनुलोमेषु मुख्यो ६
अस्य
वृत्तिराथर्वणं कर्माश्वहस्तिरथसंवाहनमारोहणं राज्ञः सैनापत्यं
चायुर्वेदकृत्यं ७
गूढोत्पन्नोऽभिषिक्ताख्यो ८
अभिषिक्तश्चेन्नृपो
भूयादष्टाङ्गमायुर्वेदं भूततन्त्रं वा सम्पटेत् ९
तदुक्ताचारो दयायुक्तः सत्यवादी तद्विधानेन सर्वप्राणिहितं
कुर्यात् १०
ज्योतिर्गणनादिकाधिकवृत्तिर्वा ११
विप्राद्वैश्यायामम्बष्ठः
कक्ष्याजी-व्याग्नेयनर्तको ध्वजविश्रावी शल्यचिकित्सी १२
जरात्कुम्भकारः कुलाल-वृत्तिर्नापितो
नाभेरूर्ध्ववप्ता च १३
क्षत्रियाद्वैश्यायां
मद्गुः श्रेष्ठित्वं प्राप्तो महा-नर्माख्यश्च वैश्यवृत्तिः
क्षात्रं कर्म नाचरति १४
गूढादाश्विकोऽश्वक्रयविक्रयी स्यात्
१५
३१
विप्राच्छूद्रायां पारशवो
भद्रकालीपूजनचित्रकर्माङ्गविद्यातूर्यघोषणमर्दनवृत्तिः
१
जारोत्पन्नो निषादो व्याडादिमृगहिंसाकारी २
राजन्यतः शूद्रायामुग्रः
सुदण्ड्यदण्डनकृत्यो ३
जाराच्छूलिकः शूलारोहणादियातनाकृत्यो ४
वैश्यतः शूद्रायां चूचुकः क्रमुकताम्बूलशर्करादिक्रयविक्रयी ५
गूढात्क-टकारः कटकारी चेति ६
ततोऽनुलोमादनुलोमायां
जातश्चानुलोमः पितु-र्मातुर्वा जातं वृत्तिं भजेत ७
क्षत्रियाद्विप्रकन्यायां मन्त्रवज्जातः सूतः प्रति-लोमेषु मुख्योऽयं
मन्त्रहीनोपनीतो द्विजधर्महीनो ८
अस्य वृत्तिर्धर्मानुबोधनं
राज्ञोऽन्नसंस्कारश्च ९
जारेण मन्त्रहीनजो
रथकारो द्विजत्वविहीनः शूद्रकृ-त्योऽश्वानां पोषणदमनादिपरिचर्याजीवी १०
वैश्याद्ब्राह्मण्यां मागधः शूद्रैर-प्यभोज्यान्नोऽस्पृश्यः सर्ववन्दी
प्रशंसाकीर्तनगानप्रेषणवृत्तिः १२
गूढाच्चक्री लवणतैलविक्रेता
स्यात् १३
वैश्यान्नृपायामायोगवस्तन्तुवायः पटकर्ता
व-स्त्रकांस्योपजीवी १४
गूढाचारात्पुलिन्दोऽरण्यवृत्तिर्दुष्टमृगसत्त्वघाती
१५
शूद्रात्क्षत्रियायां पुल्कसः कृतकां वार्क्षां वा सुरां हृत्वा पाचको
विक्रीणीत १६
चोरवृत्ताद्वेलवो जम्भननर्तनगानकृत्यः १७
३२
शूद्राद्वैश्यायां वैदेहकः
शूद्रास्पृश्यस्तैरप्यभोज्यान्नो
वन्यवृत्तिरजमहिषगोपा-लस्तद्रसान्विक्रयी १
चौर्याच् चक्रिको
लवणतैलपिण्याकजीवी २
शू-द्राद्ब्राह्मण्यां
चण्डालः सीसकालायसाभरणो वर्ध्राबन्धकण्ठः कक्षे झल्ल-रीयुक्तो
यतस्ततश्चरन्सर्वकर्मबहिष्कृतः पूर्वाह्णे ग्रामादौ
वीथ्यामन्यत्रापि मला-न्यपकृष्य बहिरपोहयति ५
ग्रामाद्बहिर्दूरे स्वजातीयैर्निवसेत् ६
मध्या-ह्नात्परं ग्रामे न विशत्ययं । विशेच्
चेद्राज्ञा वध्यो ७
अन्यथा भ्रूणह-त्यामवाप्नोति ।
अन्तरालव्रात्याश्च ८
चूचुकाद्विप्रायां
तक्षकोऽस्पृश्योझ-ल्लरीहस्तो दारुकारः
सुवर्णकारोऽयस्कारः कांस्यकारो वा ९
क्षत्रियायां
मत्स्यबन्धुर्मत्स्यबन्धी १०
वैश्यायां सामुद्रः समुद्रपण्यजीवी मत्स्यघाती च स्यात् ११
अम्बष्ठाद्विप्रायां नाविकः समुद्रपण्यमत्स्यजीवी
समुद्रलङ्घनान्नावं प्लावयति १२
क्षत्रियायामधोनापितो नाभेरधो
रोमवप्ता १३
मद्गोर्विप्रायां वेणुको वेणुवीणावादी १४
क्षत्रियायां
कर्मकरः कर्मकारी । वैदेहकाद्विप्रायां चर्मकारश्चर्मजीवी १५
नृपायां
सूचिकः सूचीवेधनकृत्यवान् १६
आयो-गवाद्विप्रायां ताम्रस्ताम्रजीवी ।
नृपायां खनकः खननजीवी १७
खनना-न्नृपायामुद्बन्धकः शूद्रास्पृश्यो
वस्त्रनिर्णेजकः १८
पुल्कसाद्विप्रायां रजको वस्त्राणां
रजोनिर्णेजकश् १९
३३
चण्डालाद्विप्रायां श्वपचः
चण्डालवच्चिह्नयुक्तो नित्यनिन्द्यः सर्वकर्मबहि-ष्कार्यो
नगर्यादौ मलापोहकः श्मशाने वसन्हेयपात्रग्राही प्रेतमबन्धुकं
वि-सृजेत १
वध्यान्हत्वा तद्वस्त्रादिग्राही पराधीनाहारो भिन्नपात्रभोजी
श्वमांस-भक्षी चर्मवारवाणवाणिज्यकारी स्यात् ३
तस्मान्निकृष्टे सुते
समुत्पन्ने पति-तो नष्टो घोरान्नरकान्व्रजति ४
सत्पुत्रो
नरकेभ्यस्त्रायकः पितॄन्पावयित्वा
ठशुभांल्लोकान्नयति ५
तस्माद्ब्राह्मणाद्याः सवर्णायां
विधिवत्पुत्रमुत्पादयेयुरिति विखनाः ८
३४
गृह्ये दशमो धर्मे
तृतीयः प्रश्नः समाप्तः