English
(= Vaikhānasa Smārtasūtra 8-10)
Digital text produced by Hiromichi Hikita, and collated by Yuuko Matsuda and Yasuke Ikari, March 1992, May 1996. Converted to Unicode plain text without hyphens, sandhi resolution, and analytical markers by Timothy Lubin, October 2021.
Text: edited by W. Caland, Vaikhanasasmārtasūtram, the domestic rules of the Vaikhānasa school belonging to the Black Yajurveda, Calcutta 1927.
विस्तारः (द्रष्टुं नोद्यम्)
TRIVANDRUM SANSKRIT SERIES.
NO. XXVIII.
THE
VAIKHANASADHARMAPRASNA
OF
VIKHANAS
EDITED
BY
T GANAPATI SÂSTRÎ
Curator of the Department for the publication of Sanskrit manuscripts,
TRIVANDRUM
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM
PRINTED AT THE TRAVANCORE GOVERNMENT PRESS.
1913.
अनन्तशयन संस्कृतग्रन्थावलिः,
ग्रन्थाङ्कः २८.
वैखानसधर्मप्रश्नः
महर्षिणा विखनसा प्रणीतः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितः ।
स च
अनन्तशयने
महामहिम श्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः ।
कोलम्बाब्दाः १०८८, कैस्ताब्दाः १९१३.
PREFACE.
The Vaikhânasadharmaprasna which consists of three Prasnas treats of the castes (), mixed castes (f) and âsramas as also the respective duties thereof. This Dharmasutra, as is evident from the name of the work itself as well as from the closing line, ‘a fa’, of the work, is written by the sage, Vikhanas.
4
The manuscript on which the edition is based was obtained from Mr. Kasivadhyar of Mahadanapuram. It is written in Tamil grantha character on palm leaves and almost
correct.
TRIVANDRUM
T. GANAPATI SÂSTRÎ.
निवेदना ।
वैखानसधर्मप्रश्नाभिधोऽयं ग्रन्थः प्रश्नत्रयात्मकः । वर्णा जातय आ- श्रमा वर्णजात्याश्रमाणां धर्माचात्र प्रतिपाद्यन्ते । अस्य धर्मसूत्रस्य प्रणेता महर्षिर्विखना इति ग्रन्थसमाख्यया ‘इति विखना’ इति ग्रन्थान्तिमवाक्यो- क्त्या चावगम्यते । एतत्संशोधनाधारभूतो ग्रन्थस्तु महादानपुरवास्तव्यस्य श्रीकाश्युपाध्यायस्य समीपादानीतः शुद्धप्रायस्तालपत्रमयो द्रमिलग्रन्थलिपिः ।
अनन्तशयनम् .
त. गणपातशास्त्री.॥ श्रीः ॥
वैख्ध्स् ०१।०१।<११२।१> अथ वर्णाश्रमधर्मम्
वैख्ध्स् ०१।०१।<११२।१-२> ब्राह्मणक्षत्रियवैश्यशूद्रामुखबाहूरुपादेषु जाताश् चत्वारो वर्णा
वैख्ध्स् ०१।०१।<११२।२-३> यस्माद् ब्राह्मणो अस्य मुखम् आसीद् इति श्रुतिः
वैख्ध्स् ०१।०१।<११२।३-४> पूर्वेषां त्रयाणां निषेकाद्याः संस्काराविधीयन्ते
वैख्ध्स् ०१।०१।<११२।४> तेषां द्विजन्मनां वेदाधिकारः
वैख्ध्स् ०१।०१।<११२।४-५> तस्माद् ब्राह्मणस्याध्ययनाध्यापनयजनयाजनदानप्रतिग्रहाणि षट् कर्माणि भवन्ति
वैख्ध्स् ०१।०१।<११२।६> क्षत्त्रियवैश्ययोर् यजनाध्ययनदानानि
वैख्ध्स् ०१।०१।<११२।६-७> क्षत्रियस्य प्रजापालयदुष्टनिग्रहयुद्धाः
वैख्ध्स् ०१।०१।<११२।७> वैश्यस्य पाशुपाल्यकुसीदवाणिज्यानि
वैख्ध्स् ०१।०१।<११२।८> शूद्रस्य द्विजन्मनां शुश्रूषा कृषिश् चैव
वैख्ध्स् ०१।०१।<११२।८-९> ब्राह्मणस्याश्रमाश् चत्वारः क्षत्रियस्याद्यास् त्रयो वैश्यस्य द्वाव् एव
वैख्ध्स् ०१।०१।<११२।९-१०> तदाश्रमिणश् चत्वारो ब्रह्मचारी गृहस्थोवानप्रस्थो भिक्षुर् इति
वैख्ध्स् ०१।०२।<११२।११-१३> उपनीतो ब्रह्मचारीमेखलोपवीताजिनदण्डधारी स्नात्वा तर्पणं ब्रह्मयज्ञं सायंप्रातः सन्ध्योपासनसमिद्धोमौ चकुर्वन् गुरोः पादाव् उपसंगृह्य नित्याभिवन्दी व्रतेनाध्ययनं करोति
वैख्ध्स् ०१।०२।<११२।१३-१५> स्थिते गुरौ स्थेयाद् उत्थिते पूर्वम् उत्थायव्रजन्तम् अनुगच्छेद् आसीने शयाने च नियुक्तो नीचैर् अन्वासनशयने कुर्याद्
वैख्ध्स् ०१।०२।<११२।१५-१६> अनुक्तो यत् किञ्चित् कर्म नाचरति
वैख्ध्स् ०१।०२।<११२।१६> अनुक्तो ऽपि स्वाध्यायनित्यकर्माण्य् आचरेद्
वैख्ध्स् ०१।०२।<११२।१६-११३।३> उष्णाम्बुस्नानदन्तधावनाञ्जनानुलेपनगन्धपुष्पोपानट्छत्रदिवास्वापरेतःस्कन्दस्त्रीदर्शनस्पर्शनमैथुनानिकामक्रोधलोभमोहमदमात्सर्यहिंसादीनि वर्जयित्वा सदाशुश्रूषुर् गुरोः प्रियहितकर्माणि कुर्वीत
वैख्ध्स् ०१।०२।<११३।३> अद्वेषी वाक्चित्तानुकूलः प्रियं सत्यं वदत्य्
वैख्ध्स् ०१।०२।<११३।३-४> आर्तो ऽप्य् असत्याप्रियं निन्दं नाचक्षीत
वैख्ध्स् ०१।०२।<११३।४-५> मधुमांसमत्स्यरसशुक्ताद्यभोज्यभोजनवर्जी भैक्षाचरणं कृत्वा गुरुणानुज्ञातो भैक्षान्नम् अश्नीयाद्
वैख्ध्स् ०१।०२।<११३।५-६> गुरुवृद्धदीक्षितानाम् आख्यां न ब्रूयाद्
वैख्ध्स् ०१।०२।<११३।६-७> गुर्वभावे तत्पुत्रे च गुरुवत् कर्माचरति
वैख्ध्स् ०१।०३।<११३।८-९> ब्रह्मचारिणश् चतुर्विधा गायत्रो ब्राह्मःप्राजापत्यो नैष्ठिकेति
वैख्ध्स् ०१।०३।<११३।९-१०> गायत्रोपनयनाद् ऊर्ध्वं त्रिरात्रमक्षारलवणाशी गायत्रीम् अधीत्या सावित्रव्रतसमाप्तेर् अत्र व्रतचारी
वैख्ध्स् ०१।०३।<११३।१०-१४> ब्राह्मः सावित्रव्रताद् ऊर्ध्वमनभिशस्तापतितानां गृहस्थानां गृहेषु भैक्षाचरणं वेदव्रतचरणं च कृत्वाद्वादश समा विंशति समा वा गुरुकुले स्थित्वा वेदान् वेदौ वेदं वा सूत्रसहितमध्ययनं कृत्वा गार्हस्थ्यानुसरणं कुर्यात्
वैख्ध्स् ०१।०३।<११३।१४-१५> प्राजापत्यः स्नात्वा नित्यकर्मब्रह्मचर्यशीलो नारायणपरायणो वेदवेदाङ्गार्थान् विचार्य दारसंग्रहणं करोति
वैख्ध्स् ०१।०३।<११३।१५-१६> प्राजापत्ये त्रिसंवत्सराद् ऊर्ध्वं न तिष्ठेदित्य् ऋषयो वदन्ति
वैख्ध्स् ०१।०३।<११३।१६-११४।३> नैष्ठिकः काषायं धातुवस्त्रम् अजिनंवल्कलं वा परिधाय जटी शिखी वा मेखली दण्डी सूत्राजिनधारीब्रह्मचारी शुचिर् अक्षारलवणाशी यावद् आत्मनो विप्रयोगस् तावद् गुरुकुले स्थित्वानिवेदितभैक्षभोजी भवति
वैख्ध्स् ०१।०४।<११४।४-७> दारान् संगृह्य गृहस्थो ऽपिस्नानादिनियमाचारो नित्यम् औपासनं कृत्वा पाकयज्ञयाजी वैश्वदेवहोमान्ते गृहागतं गुरुंस्नातकं च प्रत्युत्थायाभिवन्द्यासनपाद्याचमनानि प्रदायघृतदधिक्षीरमिश्रं मधुपर्कं च दत्त्वान्नाद्यैर् यथाशक्ति भोजयति
वैख्ध्स् ०१।०४।<११४।७-१०> भिक्षून् ब्रह्मचारिणो ऽतिथीन् वेदविदः श्रोत्रियान् पितृव्याचार्यऋत्विज्मातुलश्वशुरादीन् अभ्यागतान् बालवृद्धान् अनाथार्ताध्वश्रान्तांश् च यथार्थं पूजयत्य्
वैख्ध्स् ०१।०४।<११४।१०> अशक्तो ऽप्य् अग्रं भिक्षां वा सोदकं दत्त्वाशेषं भुञ्जीत
वैख्ध्स् ०१।०४।<११४।११-१३> दयासत्यशौचाचारयुतःस्वाध्यायतर्पणाभ्याम् ऋषीन् यज्ञ्नबलिहोमजलपुष्पाद्यैर् देवाञ् छ्राद्धैः पुत्रैश् च पितॄन्बलिना भूतान् अन्नाद्यैर् मनुष्यांश् च नित्यम् अर्चयेद्
वैख्ध्स् ०१।०४।<११४।१३> ऋणत्रयेण मुक्तो ऽनृणो भवति
वैख्ध्स् ०१।०५।<११४।१४> गृहस्थाश् चतुर्विधा वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोराचारिकश् चेति
वैख्ध्स् ०१।०५।<११४।१४> वार्तावृत्तिः कृषिगोरक्ष्यवाणिज्योपजीवी
वैख्ध्स् ०१।०५।<११४।१४-१५> शालीनवृत्तिर् नियमैर् युतः पाकयज्ञैर्ष्ट्वाग्नीन् अधाय पक्षे पक्षे दर्शपूर्णमासयाजी चतुर्षु चतुर्षु मासेषु चातुर्मास्ययाजीषट्सु षट्सु मासेषु पशुबन्धयाजी प्रतिसंवत्सरं सोमयाजी च
वैख्ध्स् ०१।०५।<११५।१-३> यायावरो हविर्यज्ञैः सोमयज्ञैश् च यजतेयाजयत्य् अधीते ऽध्यापयति ददाति प्रतिगृह्णाति षट्कर्मनिरतो नित्यमग्निपरिचरणम् अतिथिभ्यो ऽभ्यागतेभ्यो ऽन्नाद्यं च कुरुते
वैख्ध्स् ०१।०५।<११५।३-७> घोराचारिको नियमैर् युक्तो यजते नयाजयत्य् अधीते नाध्यापयति ददाति न प्रतिगृह्णात्य् उञ्च्छवृत्तिम् उपजीवतिनारायणपरायणः सायंप्रातर् अग्निहोत्रं हुत्वा मार्गशीर्षज्येष्ठमासयोर् असिधाराव्रतंवनौषधिभिर् अग्निपरिचरणं करोति
वैख्ध्स् ०१।०६।<११५।८-११> गृहस्थः सपत्नीकः पञ्चाग्निभिस् त्रेताग्निभिर्वा गृहाद् वनाश्रमं यास्यन्न् आहिताग्निर् अनाहिताग्निश् चाउपासनम् अरण्यामारोप्य गृहे मथित्वा श्रामणकीयविधानेनाधायाघारं हुत्वाश्रामणकाग्निम् आदाय तृतीयम् आश्रमं गच्छेत्
वैख्ध्स् ०१।०६।<११५।११-१२> पूर्ववद् अग्न्यालयप्रोक्षणोल्लेखनादिकर्म कुर्यात्
वैख्ध्स् ०१।०६।<११५।१२-१४> तृतीयाम् अपि वेदिं परिमृज्य षडङ्गुलाग्नेर्दर्भैर् ग्रथिते ऽधस् त्रिधाकृतं रज्जुवत्- मूले बद्धं षट्त्रिंशद् अङ्गुलप्रमाणंपरिस्तरणकूर्चं कृत्वा मध्यवेद्यां परिस्तृणाति श्रामणकं
वैख्ध्स् ०१।०६।<११५।१५-१७> श्रामणकयज्ञं यज्ञदैवविश्वान् देवानित्य् अन्तम् आवाह्याज्यं निरूप्य श्रामनकाय स्वाहा श्रामणकयज्ञाय स्वाहायज्ञदैवतविश्वेभ्यो देवेभ्यः स्वाहेत्य् अन्तं हुत्वा चरुं जुहुयाद् इत्य् आधारविशेषः
वैख्ध्स् ०१।०६।<११५।१८-११६।१> श्रामणकाग्नेश् चोर्ध्ववेदिर्द्वात्रिंशदङ्गुल्यायता चतुरङ्गुलिविस्तारोन्नता
वैख्ध्स् ०१।०६।<११६।१-२> मध्यमा तत्परिगता पञ्चाङ्गुलिविस्ताराचतुरङ्गुलोत्सेधा
वैख्ध्स् ०१।०६।<११६।२> अधस्ताद् ऊर्ध्ववेदिविस्तारोन्नता तृतीया वेदिर्
वैख्ध्स् ०१।०६।<११६।२-५> द्वादशाङ्गुलं मध्ये निम्नं त्रिवेदिसहितंकुण्डं कृत्वाधाय वनस्थो नित्यम् औपासनवत् सायंप्रातराहुतीर् हुत्वा महाव्याहृतिभिः श्रामणकाग्निं जुहुयाद्
वैख्ध्स् ०१।०६।<११६।५> पत्नीको दारैर् अग्निभिर् विना वनं गच्छेत्
वैख्ध्स् ०१।०७।<११६।६> वानप्रस्थाः सपत्नीकापत्नीकाश् चेति
वैख्ध्स् ०१।०७।<११६।६-७> सपत्नीकाश् चतुर्विधा
वैख्ध्स् ०१।०७।<११६।७> औदुम्बरो वैरिञ्चो वालखिल्यः फेनपश् चेति
वैख्ध्स् ०१।०७।<११६।७-११> औदुम्बरो ऽकृष्टफलावाप्यौषधिभोजी मूलफलाशी वाअणहिङ्गुलशुनमधुमत्स्यमांसपूत्यन्नधान्याम्लपरस्पर्शनपरपाकवर्जी देवऋषिपितृमनुष्यपूजी वनचरो ग्रामबहिष्कृतःसायंप्रातरग्निहोत्रं हुत्वा श्रामणकाग्निहोमं वैश्वदेवहोमं कुर्वंस् तपः समाचरति
वैख्ध्स् ०१।०७।<११६।१२> श्रामणकाग्निम् एकम् एवाधाय जुहोतीत्य् एके
वैख्ध्स् ०१।०७।<११६।१२-१५> वैरिञ्चः प्रात्र्यां दिशं प्रेक्षते तां दिशंगत्वा तत्र प्रियङ्गुयवश्यामाकनीवारादिभिर् लब्धैः स्वकीयान् अतिथींश् चपोषयित्वाग्निहोत्रश्रामणकवैश्वदेवहोमी नारायणपरायणस् तपःशीलोभवति
वैख्ध्स् ०१।०७।<११६।१५-१७> वालखिल्यो जटाधरश्चीरवल्कलवसनो ऽर्काग्निः कार्त्तिक्यां पौर्णमास्यां पुष्कलं भुक्तम् उत्सृज्यान्यथा शेषान् मासान् उपजीव्यतपः कुर्यात्
वैख्ध्स् ०१।०७।<११६।१८> अस्य सूर्यैवाग्निर् भवतीत्य् आमनन्ति
वैख्ध्स् ०१।०७।<११६।१८-११७।२> फेनप उद्दण्डक उन्मत्तको निरोधकः शीर्णपतितपत्त्राहारी चान्द्रायणव्रतं चरन् पृथिवीशायीनारायणं ध्यायन् मोक्षम् एव प्रार्थयते
वैख्ध्स् ०१।०८।<११७।३> अपत्नीका बहुविधाः
वैख्ध्स् ०१।०८।<११७।३-११> कालाशिका उद्दण्डसंवृत्ता अश्मकुट्टा उदग्रफलिनो दन्तोलूखलिका उञ्छवृत्तिकाः संदर्शनवृत्तिकाः कपोतवृत्तिकामृगचारिका हस्तादायिनः शैलफलकादिनो ऽर्कदग्धाशिनो बैल्वाशिनःकुसुमाशिनः पाण्डुपत्त्राशिनः कालान्तरभोजिन एककालिकाश् चतुष्कालिकाःकण्टकशायिनो वीरासनशायिनः पञ्चाग्निमध्यशायिनो धूमाशिनःपाषाणशायिनो ऽभ्यवगाहिन उदकुम्भवासिनो मौनिनश् चावाक्शिरसः सूर्यप्रतिमुखा ऊर्ध्वबाहुका एकपादस्थिताश् चेति विविधाचारा भवन्तीति विज्ञायते
वैख्ध्स् ०१।०९।<११७।१२-१३> अथ भिक्षुका मोक्षार्थिनः कुटीचकाबहूदका हंसाः परमहंसाश् चेति चतुर्विधा भवन्ति
वैख्ध्स् ०१।०९।<११७।१३-१५> तत्र कुटीचका गौतमभारद्वाजयाज्ञवल्क्यहारीतप्रभृतीनाम् आश्रमेष्व् अष्टौ ग्रासांष् चरन्तो योगमार्गतत्त्वज्ञा मोक्षम् एवप्रार्थयन्ते
वैख्ध्स् ०१।०९।<११७।१५-११८।१> बहूदकास् त्रिदण्डकमण्डलुकाषायधातुवस्त्रग्रहणवेषधारिणो ब्रह्मर्षिगृहेषु चान्येषु साधुवृत्तेषु मांसलवणपर्युषितान्नं वर्जयन्तः सप्तागारेषुभैक्षं कृत्वा मोक्षम् एव प्रार्थयन्ते
वैख्ध्स् ०१।०९।<११८।१-४> हंसा नाम ग्रामे चैकरात्रं नगरेपञ्चरात्रं वसन्तस् तदुपरि न वसन्तो गोमूत्रगोमयाहारिणो वा मासोप्वासिनो वानित्यचान्द्रायणव्रतिनो नित्यम् उत्थानम् एव प्रार्थयन्ते
वैख्ध्स् ०१।०९।<११८।४-५> परमहंसा नाम वृक्षैकमूले शून्यागारेश्मशाने आ वासिनः साम्बरा दिगम्बरा वा
वैख्ध्स् ०१।०९।<११८।५-६> न तेषां धर्माधर्मौ सत्यानृतेशुद्ध्यशुद्ध्यादि द्वैतं
वैख्ध्स् ०१।०९।<११८।६-७> सर्वसमाः सर्वात्मनः समलोष्टकाञ्चनाःसर्ववर्णेषु भैक्षाचरणं कुर्वन्ति
वैख्ध्स् ०१।०९।<११८।७-८> ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणांत्रयाश्रम्यं वैश्यानां द्व्याश्रम्यं विहितं
वैख्ध्स् ०१।०९।<११८।८-९> तत्फलं हि सकामं निष्कामं चेति द्विविधंभवति
वैख्ध्स् ०१।०९।<११८।९-११> सकामं नामेह संसारे ऽभिवृद्धिं ज्ञात्वा पुत्रलाभाद्यभिकाङ्क्षणम् अन्यत् स्वर्गादिफलकाङ्क्षणं वा
वैख्ध्स् ०१।०९।<११८।११-१२> निष्कामं नाम किञ्चिद् अनभिकाङ्क्ष्य यथाविहितानुष्ठानम् इति
वैख्ध्स् ०१।०९।<११८।१२-१३> तत्र निष्कामम् द्विविधं भवति प्रवृत्तिर्निवृत्तिश् चेति
वैख्ध्स् ०१।०९।<११८।१३-१५> प्रवृत्तिर् नाम संसारम् अनादृत्यसङ्ख्यज्ञानं समाश्रित्य प्राणायामासनप्रत्याहारधारणायुक्तो वायुजयं कृत्वाणिमाद्यैश्वर्यप्रापणं
वैख्ध्स् ०१।०९।<११८।१५-११९।१> तत् पुनर् अपि तपःक्षयाज् जन्मप्रापकत्वाद्व्याधिबाहुल्याच् च नाद्रियन्ते परमर्षयो
वैख्ध्स् ०१।०९।<११९।१-६> निवृत्तिर् नाम लोकानाम् अनित्यत्वं ज्ञात्वा परमात्मनो ऽन्यन् न किञ्चिद् अस्तीति संसारम् अनादृत्य च्छित्वा भार्यामयं पाशंजितेन्द्रियो भूत्वा शरीरं विहाय क्षेत्रज्ञपरमात्मनोर् योगं कृत्वातीन्द्रियंसर्वजगद्बीजम् अशेषविशेषं नित्यानन्दम् अमृतरसपानवत् सर्वदा तृप्तिकरं परं ज्योतिःप्रवेशकम् इति विज्ञायते
वैख्ध्स् ०१।१०।<११९।७-८> निवृत्त्याचारभेदाद् धि योगिनस् त्रिविधाभवन्ति सारङ्गा एकार्थ्या विसरगाश् चेति
वैख्ध्स् ०१।१०।<११९।८-९> अनिरोधका निरोधका मार्गगा विमार्गगाश्चेति चतुर्विधा सारङ्गा
वैख्ध्स् ०१।१०।<११९।९-१०> दूरगा अदूरगा भ्रूमध्यगा असंभक्ताःसंभक्ताश् चेत्य् एकार्थ्याः पञ्चधा भवन्ति
वैख्ध्स् ०१।१०।<११९।१०-११> न सङ्ख्यावन्तो विसरगाः
वैख्ध्स् ०१।१०।<११९।११-१३> तत्र सारङ्गाः सारं क्षेत्रज्ञस् तंगच्छन्तीति सारङ्गास् तेष्व् अनिरोधका अहं विष्णुर् इति ध्यात्वा ये चरन्ति तेषांप्राणायामादयो न सन्ति
वैख्ध्स् ०१।१०।<११९।१३-१४> ये तु निरोधकास् तेषां प्राणायामप्रत्याहारधारणादयः षोडश कलाः सन्ति
वैख्ध्स् ०१।१०।<११९।१४-१५> ये मार्गगास् तेषां षड् एव प्राणायामादयो
वैख्ध्स् ०१।१०।<११९।१५-१७> ये विमार्गास् तेषां यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयश्चेत्य् अष्टाङ्गान् कल्पयन्तो ध्येयम् अप्य् अन्यथा कुर्वन्ति
वैख्ध्स् ०१।११।<१२०।१> अथैकार्ष्या
वैख्ध्स् ०१।११।<१२०।१> एक एव ऋषिर् येषां ते एकर्ष्याः
वैख्ध्स् ०१।११।<१२०।१-२> तेषु ये दूरगास् तेषाम् अयं मार्गः
वैख्ध्स् ०१।११।<१२०।२-५> पिङ्गलया नाडिकयादित्यमण्डलम् अनुप्रविश्यतत्रस्थेन पुरुषेण संयुज्य ततश् चन्द्रमण्डलं तत्रस्थेन पुरुषेण ततोविद्युतं तत्रस्थेन पुरुषेण पुनः क्रमेण वैकुण्ठसायुज्यं यन्ति
वैख्ध्स् ०१।११।<१२०।५> ये ऽदूरगास् तेषाम् अयं धर्मः
वैख्ध्स् ०१।११।<१२०।५-७> क्षेत्रज्ञपरमात्मनोर् योगं क्षेत्रज्ञद्वारेणकारयित्वा तत्रैव समस्तविनाशं ध्यात्वाकाशवत् सत्तामात्रो ऽहम् इति ध्यायन्ति
वैख्ध्स् ०१।११।<१२०।७-१०> भ्रूमध्यगाः क्षेत्रज्ञपरमात्मनोर् योगे सत्त्वरूपाग्निद्वारेण भ्रूमध्यं नीत्वा पञ्चभ्यो ऽङ्ग्ष्टादिभ्यःस्थानेभ्याकर्षणं पुनः पिङ्गलाद्वारेण निष्क्रमणं प्रलयान्तंक्षेत्रज्ञयोगान्तं वा कुर्वन्ति
वैख्ध्स् ०१।११।<१२०।१०-११> असंभक्ता नाम मनसा ध्यानं कुर्वन्ति
वैख्ध्स् ०१।११।<१२०।११> तत्प्रतिपादनागमं श्रोत्रेण शृण्वन्ति
वैख्ध्स् ०१।११।<१२०।११-१२> चक्षुषा देवताकारं पश्यन्ति
वैख्ध्स् ०१।११।<१२०।१२> घ्राणेन गन्धम् अनुभवन्ति
वैख्ध्स् ०१।११।<१२०।१२-१३> पाणिना देवतां नमस्कुर्वन्ति
वैख्ध्स् ०१।११।<१२०।१३-१४> संभक्ता नाम ब्राह्मणः सर्वव्यापकत्वाद्युक्तम् अयुक्तं यो ऽसौ परमात्मा तत् स व्याप्याकाशवत् तिष्ठति
वैख्ध्स् ०१।११।<१२०।१५> तस्माद् ब्रह्मणो ऽन्यन् न कुत्रचिद् आत्मानंप्रतिपद्यते ऽसौ
वैख्ध्स् ०१।११।<१२०।१६> भ्रूमध्यगतस्यापि संशयान् निष्प्रमाणमेवेत्य् उक्तं
वैख्ध्स् ०१।११।<१२०।१६-१२१।१> तस्माद् ब्रह्मव्यतिरिक्तम् अन्यन् नोपपद्यते
वैख्ध्स् ०१।११।<१२१।१-२> विविधसरणाद् विविधदर्शनात्कुपथगामित्वाद् विसरगाः
वैख्ध्स् ०१।११।<१२१।२-३> पुरा प्रजापतिर् उपदेशगूहनार्थंविसरगपक्षं दृष्टवान्
वैख्ध्स् ०१।११।<१२१।३> तं दृष्ट्वा मुनयो ऽपि मोहं जग्मुः किं पुनर् मनुष्याः
वैख्ध्स् ०१।११।<१२१।४> विसरगपशूनाम् अहंकारयुक्तानां जन्मान्तरेषुमुक्तिर् नास्मिञ् जन्मनि
वैख्ध्स् ०१।११।<१२१।५> तस्माद् विसरगपक्षो नानुष्ठेयो
वैख्ध्स् ०१।११।<१२१।५-८> केचिद् विसर्गाः कायक्लेशात् केचिन् मन्त्रजपात्केचिद् येन केनचिद् ध्यानेन केचिद् येन केनचिद् अक्षरेण केचिद् वायुजयाद् अन्ये परमात्मनाक्षेत्रजं संयोज्य ध्यायन्त्य् एते परमात्मसंयोगम् एव नेच्छन्ति
वैख्ध्स् ०१।११।<१२१।८-९> हृदिस्थैव पुरुषेति वदन्ति
वैख्ध्स् ०१।११।<१२१।९-१०> केचिन् न किञ्चिद् ध्यानम् इति यथोक्तानुष्ठानं योगम् इति ज्ञात्वा मुक्तिम् इच्छन्ति
वैख्ध्स् ०१।११।<१२१।१०-११> तेषां विसरगपशूनाम् अन्तरेषु मुक्तिर् नास्मिञ् जन्मनि
वैख्ध्स् ०१।११।<१२१।११-१२> तस्मिन्न् एव जन्मनि मोक्षकाङ्क्षिणा विसरगपक्षो नानुष्ठेयः
वैख्ध्स् ०१।११।<१२१।१२-१५> सगुणे ब्रह्मणि बुद्धिं निवेश्य पश्चान् निर्गुणं ब्रह्माश्रित्य यत्नं कुर्याद् इति विज्ञायते
वैख्ध्स् ०२।०१।<१२२।१> अथ वनस्थस्य श्रामणकविधानं
वैख्ध्स् ०२।०१।<१२२।१-३> गृहस्थः सोमयाजी पुत्रं पौत्रं च दृष्ट्वा तत्पुत्रादीन् गृहे संस्थाप्य मौण्ड्यं कृत्वा प्राजापत्यं कृच्छ्रं चरेत्
वैख्ध्स् ०२।०१।<१२२।३-४> वसन्ते शुक्लपक्षे पुण्यक्षेत्रे पत्न्या सार्धंवनाश्रमं याति
वैख्ध्स् ०२।०१।<१२२।४-५> पूर्वस्मिन् दिवसे कृतस्नानः संकल्प्यकुशोदकं पीत्वोपवासं कुर्याद्
वैख्ध्स् ०२।०१।<१२२।५-६> औपासनहोमं हुत्वाग्निमयं ते योनिर् इत्यरण्याम् आरोपयेद्
वैख्ध्स् ०२।०१।<१२२।६-८> दर्शपूर्णमासविधानेन दर्भादीन् संगृह्यपूर्ववत् परिस्तरणकूर्चान् परिधीन् समिधोवेणुदण्डोपवीतकमण्डलुवल्कलादीन् संभरति
वैख्ध्स् ०२।०१।<१२२।८> पूर्वोक्तविधिनाग्निकुण्डं कुर्याद्
वैख्ध्स् ०२।०१।<१२२।८-१०> अपरस्मिन् दिवसे वैश्वानरसूक्तेनाग्निंमथित्वा प्रज्वाल्याग्नायाह्य्। उपावरोहेत्य् अग्निं निधाय पूर्ववत्- श्रामणकाग्न्याघारं जुहोति
वैख्ध्स् ०२।०१।<१२२।१०-१३> प्रणम्याग्निं परिषिच्याग्ने प्रायश्चित्ते त्वम् इति पञ्चप्रायश्चित्तं हुत्वापोहिरण्यावमानैर् आत्मानं प्रोक्ष्यब्रह्मदैवत्यं वैष्णवं पञ्चवारुणं च प्रधानान् व्याहृत्यन्तं यजेत्
वैख्ध्स् ०२।०२<१२२।१४-१७> अग्नेः प्रतीच्यां द्वौ कुशौ पूर्वाग्रौ न्यस्योर्ध्वे ऽश्मानं निधाय तत् सवितुर् वरेण्यम् इति दक्षिणपादाङ्गुष्ठाग्रेणाश्मानम् अधितिष्ठेत् तेजोवत्सव इति वल्कलम् अजिनं चीरं वा परिधाय पूर्ववन् मेखलादींस् त्रीण्य् उपवीतान्य् उत्तरीयं कृष्णाजिनं चाददात्य् {ओन् थे रेअदिन्ग् ओफ़् थे मन्त्र, च्फ़्। चल् प्१२२ न्४}
वैख्ध्स् ०२।०२<१२२।१७-१२३।१> आचम्य स्वस्ति देवेत्य् अग्निं प्रदक्षिणंप्रणामं च कृत्वासीत
वैख्ध्स् ०२।०२<१२३।१-३> शं नो वेदीर् इति स्वमूर्ध्नि प्रोक्ष्य जयान् अभ्यातानान् राष्ट्रभृतो व्याहृतीश् च हुत्वाज्यशेषं प्राणायामेन प्राश्नीयाद्
वैख्ध्स् ०२।०२<१२३।३-५> योगे योग इति द्विर् आचम्य शतम् इन् नु शरदेतिप्रणामम् आगन्त्रा समगन् महीति प्रदक्षिणं चादित्यस्य कुर्वीत
वैख्ध्स् ०२।०२<१२३।५-६> राष्ट्रभृद् असीत्य् ऊर्ध्वाग्रं कूर्चं गृह्णीयात्
वैख्ध्स् ०२।०२<१२३।६-१०> ॐ भूस् तत् सवितुर् ॐ भुवो भर्गो देवस्यों सुवर् धियो यो न इति पच्छो व्यस्ताम् ॐ भूर् भुवस् तत् सवितुर् ॐ सुवर्धियो यो न इत्य् अर्धर्चाम् ॐ भूर् भुवः सुवस् तत् सवितुर् इति समस्तां चसावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्यव्रतं संकल्पयेत्
वैख्ध्स् ०२।०३<१२३-११> तत्पत्नी च तथा ब्रह्मचारिणी स्यात्
वैख्ध्स् ०२।०३<१२३।११-१४> स्वयम् एवाग्निं प्रदक्षिणीकृत्याज्येन प्राजापत्यं धातादीन् मिन्दाहुती विच्छिन्नम् ऐन्द्रं वैश्वदेवं वैश्णवं बाह्यं विष्णोर्नुकादीन् प्राजापत्यसूक्तं तद्व्रतबन्धं च पुनः प्रधानान् हुत्वाप्राजापत्यव्रतं बध्नाति
वैख्ध्स् ०२।०३<१२३।१४-१६> स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्चसप्तनवान्यतमैः पर्वभिर् युक्तं केशान्तायतंवाप्य् अवक्रं वैष्णवं द्विदण्डम् आददाति
वैख्ध्स् ०२।०३<१२३।१६-१७> येन देवा इति कमण्डलुमृद्ग्रहिण्यौ पूर्ववदुपानट्छत्रे च गृह्णात्य्
वैख्ध्स् ०२।०३<१२३।१७-२०> अग्नीन् गार्हपत्यादींश् चोज्ज्वाल्याग्निहोत्रंहुत्वाहवनीये प्राजापत्यं विष्णुसूक्तं च सर्वत्राग्नये स्वाहा सोमाय विष्णवेस्वाहेति हुत्वाग्नीन् अरण्याम् आरोपयति
वैख्ध्स् ०२।०३<१२३।२०-१२४।१> वने ऽद्रौ विविक्ते नदीतीरे वनाश्रमंप्रक्ल्प्य यथोक्तम् अग्निकुण्डानि कुर्यात्
वैख्ध्स् ०२।०३<१२४।१-२> पत्न्या सहाग्नीन् आदायपात्रादिसंभारयुक्तो वनाश्रमं समाश्रयत्य
व्क्ःड्ःष् ०२।०४<१२४।३-४> अग्न्यायतने प्रोक्ष्य खनित्वा लेखाः षड् उल्लिख्यसुवर्णशकलं व्रीहींश् च निधाय श्रामणकाग्निं निदध्यात्
वैख्ध्स् ०२।०४<१२४।४-७> वन्यान् एव पार्थिवान् वानस्पत्यान्कुलीरोद्घाताञ्छणान् पुराणान् कुशदर्भान् ऊर्णास्तुकां प्लक्षाग्रं सुगन्धितेजनं गुग्गुलुं हिरण्यशकलान् सूर्यकान्तं च संभरति
वैख्ध्स् ०२।०४<१२४।७-९> वानप्रस्थान् ऋत्विजो वृत्वाग्निं मथित्वागार्हपत्यादींस् त्रेताग्नीन् पञ्चाग्नीन् वाग्न्याधेयक्रमेणाधायाहुती द्वे द्वेहुत्वा नित्यं द्विकालं वन्यैर् एव जुहोति
वैख्ध्स् ०२।०४<१२४।९-१२> वनाश्रमी मुनिः स्नानशौचस्वाध्यायतपोदानेज्योपवासोपस्थनिग्रहव्रतमौनानीति नियमान् दशैतान्सत्यानृशंस्यार्जवक्षमादमप्रीतिप्रसादमार्दवाहिंसामाधुर्याणीति यमान्दशामूंश् च समाचरति
वैख्ध्स् ०२।०४<१२४।१२-१५> भक्त्या विष्णुंध्यायन्न् अग्निहोत्रश्रामणकाग्निहोमौ द्विकालं नोत्सृजन् ग्राम्याशनं त्यक्त्वा वन्यौषधीः फलं मूलंशाकं वा नित्याशनं संकल्प्य तिरोधा भूर् इत्य् आहृत्यापराह्णे स्वयं पत्नीवा हविष्यम् आस्रावितं पचति
वैख्ध्स् ०२।०४<१२४।१६> वैश्वदेवान्ते ऽथितीन् अभ्यागतान् प्राशयित्वामितं प्राश्नाति
वैख्ध्स् ०२।०५।<१२५।१> रात्रौ नाश्नीयाद्
वैख्ध्स् ०२।०५।<१२५।१-२> अधस्ताद् दर्भांस् तृणानि पर्णानि वास्तीर्यसुव्रतः सुव्रतां पत्नीं विनैकः शयीत
वैख्ध्स् ०२।०५।<१२५।२-३> सास्य शुश्रूषां करोत्य् एनां नोपगच्छेत्
वैख्ध्स् ०२।०५।<१२५।३> मातृवन् निष्कामः प्रेक्षेतोर्ध्वरेता जितेन्द्रियो
वैख्ध्स् ०२।०५।<१२५।४-५> दर्शपूर्णमासौ चातुर्मास्यं नक्षत्रेष्टिमाग्रयणेष्टिं च वन्यौषधीभिः पूर्ववद् यजेद् अनुक्रमान्
वैख्ध्स् ०२।०५।<१२५।५-७> मूलैः फलैः पत्त्रैः पुष्पैर् वा तत्तत्कालेन पक्वैः स्वयम् एव संशीर्णैः प्राणं प्रवर्तयन्न् उत्तरोत्तरे ऽप्य् अधिकं तपःसंयोगंफलादिविशिष्तम् आचरेद्
वैख्ध्स् ०२।०५।<१२५।७-१०> अथ वाहिताग्निः सर्वान् अग्नीन् अरण्यामारोप्य सर्वैः संवापमन्त्रैः पार्थिवान् वानस्पत्यांश् च सर्वान् समूह्यनिर्मन्थ्यैतेन विधिनाग्निम् अग्न्याधेयविधानेन च मन्त्रैः सर्वैः सभ्याग्न्यायतनेश्रामणकाग्निम् आधायाहरेत्
वैख्ध्स् ०२।०५।<१२५।१०> सभ्यस्य भेदः श्रामणकाग्निर् इत्य् आहुः
वैख्ध्स् ०२।०५।<१२५।१०-१३> अपत्नीकश् च भिक्षुवद् अग्नौ होमंहुत्वारण्यादिपात्राणि च प्रक्षिप्य पुत्रे भार्यां निधाय तथाग्नीन् आत्मन्य् आरोप्यवल्कलोपवीतादीन् भिक्षापात्रं च संगृह्यानग्निर् अदारो गत्वा वने निवसेत्
वैख्ध्स् ०२।०५।<१२५।१३-१५> तपसां श्रमणम् एतन् मूलं तस्माद् एतद्विधानम् एनम् अग्निं च श्रामणकम् इत्य् आह विखनाः
वैख्ध्स् ०२।०६।<१२५।१६-१७> संन्यासक्रमं सप्तत्यूर्ध्वंवृद्धो ऽनपत्यो विधुरो वा जन्ममृत्युजरादीन् विचिन्त्य योगार्थी यदा स्यात् तद्
वैख्ध्स् ०२।०६।<१२५।१७-१८> अथ वा पुत्रे भार्यां निक्षिप्य परमात्मनिबुद्धिं निवेश्य वनात् संन्यासं कुर्यात्
वैख्ध्स् ०२।०६।<१२५।१९-१२६।४> मुण्डितो विधिना स्नात्वा ग्रामाद् बाह्येप्राजापत्यं चरित्वा पूर्वाह्णे त्रिदण्डं शिक्यं काषायं कमण्डलुम् अप्पवित्रं मृद्ग्रहणीं भिक्षापात्रं च संभृत्य त्रिवृतं प्राश्य- उपवासंकृत्वा दिने ऽपरे प्रातः स्नात्वाग्निहोत्रं वैश्वदेवं च हुत्वा वैश्वानरं द्वादशकपालं निर्वपेत्
वैख्ध्स् ०२।०६।<१२६।४-६> गार्हपत्याग्नाव् आज्यं संस्कृत्याहवनीयेपूर्णाहुती पुरुषसूक्तं च हुत्वाग्नये सोमाय ध्रुवाय ध्रुवकरणाय परमात्मने नारायणाय स्वाहेति जुहोति
वैख्ध्स् ०२।०७।<१२६।७-८> स्रुचि स्रुवेण चतुर् गृहीतं गृहीत्वा सर्वाग्निष्वों स्वाहेति जुहुयाद्
वैख्ध्स् ०२।०७।<१२६।८-९> अग्निहोत्रहवणीम् आहवनीये मृच्छिलामयेभ्यो ऽन्यानि पात्राणि गार्हपत्ये प्रक्षिपति
वैख्ध्स् ०२।०७।<१२६।९-१०> गृहस्थो ऽनाहिताग्निर् औपासने वनस्थश् चश्रामणकाग्नौ होमं हुत्वा पात्राणि प्रक्षिपेत्
वैख्ध्स् ०२।०७।<१२६।१०-१२> पच्छो ऽर्धर्चशो व्यस्तां समस्तां चसावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामीति तं प्रविशति
वैख्ध्स् ०२।०७।<१२६।१२-१४> अन्तर् वेद्यां स्थित्वा गार्हपत्यादीन् या तेअग्ने यज्ञियेति प्रत्येकं त्रिर् आघ्राय भवतं नः समनसाव् इत्य् आत्मन्य् आरोपयेत्
वैख्ध्स् ०२।०७।<१२६।१४-१६> भूर् भुवः सुवः संन्यस्तं मयेति त्रिरुपांशूच्चैश् च प्रैषम् उक्त्वा दक्षिणहस्तेन सकृज् जलं पीत्वाचम्य तथैवोक्त्वा त्रिर् जलाञ्जलिं विसृजेन्
वैख्ध्स् ०२।०७।<१६-१७> मेखलां चत्वार्य् उपवीतान्य् एकं वोपवीतंकृष्णाजिनम् उत्तरीयं च पूर्ववद् ददाति
वैख्ध्स् ०२।०८।<१२६।१८-२०> देवस्य त्वा यो मे दण्डः सखा मे गोपायेतित्रिभिस् त्रिदण्डं यद् अस्य पारे रजस इति शिक्यं येन देवाः पवित्रेण- इत्य् अप्पवित्रं येनदेवा ज्योतिषेति कमण्डलुमृद्ग्रहण्याव् आददीत
वैख्ध्स् ०२।०८।<१२७।१> स्नात्वाघमर्षणसूक्तेनाघमर्षणं कुर्यात्
वैख्ध्स् ०२।०८।<१२७।१-३> आचम्य षोडच प्राणायामान् कृत्वा सहस्रं शतं वा सावित्रीं जप्त्वा तथा भिक्षापात्रम् अलाबु दारवं मृन्मयं वागृह्णाति
वैख्ध्स् ०२।०८।<१२७।३-५> प्रणवाद्यादिभिः पृथक् पृथक् सप्तव्याहृतिभिस् तर्पयामीति देवेभ्यो जले ऽद्भिस् तर्पयित्वाद्याभिश् चतसृभिः स्वधेति पितृभ्यस् तर्पयेत् {च्फ़्। चल् प्१२७न्२}
वैख्ध्स् ०२।०८।<१२७।५-६> उद् वयं तमस इत्य् आदित्यम् उपतिष्ठेत
वैख्ध्स् ०२।०८।<१२७।६-७> जलाञ्जलिं विसृज्याभयं सर्वभूतेभ्यो दद्याद्
वैख्ध्स् ०२।०८।<१२७।७-८> अध्यात्मरतो यतिर् भिक्षाशी नियमयमांश् चसमाचरन् संयतेन्द्रियो ध्यानयोगेन परमात्मानम् ईक्षते
वैख्ध्स् ०२।०९।<१२७।९> धर्म्यं सदाचारं
वैख्ध्स् ०२।०९।<१२७।९-११> निवीती दक्षिणे कर्णे यज्ञोपवीतंकृत्वोत्कटिकम् आसीनो ऽहन्य् उदङ्मुखो रात्रौ दक्षिणामुखस् तृणैर् अन्तरिते मूत्रपुरीषे विसृजेन्-
वैख्ध्स् ०२।०९।<१२७।११-१२> नद्यां गोष्ठे पथि छायायां भस्मन्य् अप्सुकुशे दर्भे वा नाचरेत्
वैख्ध्स् ०२।०९।<१२७।१२-१३> गोविप्रोदकाग्निवाय्वर्कतारेन्दून् नपश्यन् कुर्यात्
वैख्ध्स् ०२।०९।<१२७।१३-१६> वामहस्तेन लिङ्गं संगृह्योत्थायोदकस्यपार्श्वे तथासीनो ब्रह्मचारी गृहस्थो ऽपि शिश्ने द्विर् हस्तयोश् च द्विर्द्विर् गुदेषट्कृत्वस्- मृदं दत्त्वोद्धृतैर् एव जलैः शौचं कुर्यात्
वैख्ध्स् ०२।०९।<१२७।१६-१७> करं वामं दश कृत्वः कराव् उभौ च तथामृदाद्भिः प्रक्षालयेत्
वैख्ध्स् ०२।०९।<१२७।१७> वनस्थस्य भिक्षोश् चैतद् द्विगुणं भवति
वैख्ध्स् ०२।०९।<१२७।१७-१८> रात्रौ यथोक्तार्धं वा
वैख्ध्स् ०२।०९।<१२७।१८-१२८।१> रेतोविसर्गे मूत्रवच् छौचं कर्तव्यंरेतसस् त्रिर् इत्य् एके
वैख्ध्स् ०२।०९।<१२८।१-३> सोपवीती प्राङ्मुख उदङ्मुखोवान्यत्रासित्वा मृदाम्बुना पूर्ववत् पादौ पाणी च प्रक्षाल्याचम्य मन्त्रेणाचमति
वैख्ध्स् ०२।१०।<१२८।४-५> ब्राह्मणो हृद्गाभिः क्षत्रियः कण्ठगाभिर् वैश्यस्तालुगाभिर् अद्भिर् आचामेत
वैख्ध्स् ०२।१०।<१२८।५-६> आत्मानं प्रोक्ष्य प्रत्यर्कम् अपो विसृज्यार्कं पर्येत्य्
वैख्ध्स् ०२।१०।<१२८।६-८> उदकस्याग्नेर् वामपार्श्वं प्राणान् आयम्यप्रत्येकम् ओंकारादिसप्तव्याहृतिपूर्वां गायत्रीम् अन्ते सशिरस्कां त्रिर्जपेत् स प्राणायामः त्रीन् एकं वा प्राणायामं कृत्वा पूतः
वैख्ध्स् ०२।१०।<१२८।८-१०> शतं दश अष्टौ वा सावित्रींअ सायंप्रातः सन्ध्याम् उपास्य नैशिकम् आह्निकं चैनो ऽपमृज्यते
वैख्ध्स् ०२।१०।<१२८।१०> द्विजातिः सन्ध्योपासनहीनः शूद्रसमो भवति
वैख्ध्स् ०२।१०।<१२८।११> ब्रह्मचारी स्वनाम संकीर्त्याभिवादयेद् अहंभो इति
वैख्ध्स् ०२।१०।<१२८।११-१३> श्रोत्रे च संस्पृश्य गुरोः पादं दक्षिणंदक्षिणेन पाणिना वामं वामेन व्यत्यस्यर् आपादम्गृह्णन्न् आनतशीर्षो ऽभिवादयत्य्
वैख्ध्स् ०२।१०।<१२८।१४> आयुष्मान् भव सौम्येत्य् एनं शंसेद्
वैख्ध्स् ०२।१०।<१२८।१४> अनाशीर् वादी नाभिवन्द्यो
वैख्ध्स् ०२।१०।<१२८।१४-१५> माता पिता गुरुर् विद्वांसश् च प्रत्यहमभिवादनीयाः
वैख्ध्स् ०२।११।<१२८।१६> अन्ये बान्धवा विप्रोष्य प्रत्यागत्याभिवन्द्याः
वैख्ध्स् ०२।११।<१२८।१६-१८> ज्येष्ठो भ्राता पितृव्यो मातुलः श्वशुरश् च पितृवत् पितृष्वसा मातृष्वसा ज्येष्ठभ्हर्या भगिनी ज्येष्ठा च मातृवत्पूजितव्याः
वैख्ध्स् ०२।११।<१२८।१८-१९> सर्वेषां माता श्रेयसी गुरुश् च श्रेयान्
वैख्ध्स् ०२।११।<१२८।१९-१२९।१> परस् त्रियं युवतिम् अस्पृशन् भूमावभिवादयेद्
वैख्ध्स् ०२।११।<१२९।१> वन्द्यानां वन्दनादायुर्ज्ञानबलारोग्यशुभानि भवन्ति
वैख्ध्स् ०२।११।<१२९।२> यज्ञोपवीतमेखलाजिनदण्डान् परेण धृतान्न धारयेत्
वैख्ध्स् ०२।११।<१२९।२-४> उपाकृत्यानालस्यः शुचिः प्रणवाद्यं वेदमधीयानो ऽमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोर् अष्टम्योश् च नाधीयीत
वैख्ध्स् ०२।११।<१२९।४-५> नित्यजपे होमे चानध्यायो नास्ति
वैख्ध्स् ०२।११।<१२९।५-८> मार्जारनकुलमण्डूकश्वसर्पगर्दभवराहपश्वादिष्व् अन्तरागतेष्व् अहोरात्रं सूतकप्रेतकयोर् आशौचे तावत् कालं तिस्रो ऽष्टकासु गुरौ प्रेते च त्रिरात्रम् अनध्यायः स्यात्
वैख्ध्स् ०२।१२।<१२९।९-१०> तद्भार्यापुत्रयोः स्वशिष्यस्य चोपरमेमनुष्ययज्ञे श्राद्धभोजने चैकाहम् अनध्यायः स्यात् आपदार्त्योर् अप्रायत्ये
वैख्ध्स् ०२।१२।<१२९।१०-१४> वृक्षनौयानशयनेष्व् आरूढः प्रसारितपादो मूत्रपुरीषरेतोविसर्गे ग्रामे ऽन्तःशवे सत्यभक्ष्यान्नभोजने छर्दने श्मषानदेशे सन्ध्यास्तनिते भूकम्पे दिग्दाहे ऽशन्युल्कानिपाते रुधिरोपलपांसुवर्षे सूर्येन्दुराहुग्रहणे च तत् तत् काले नाधीयीत
वैख्ध्स् ०२।१२।<१२९।१४-१५> परत्रेह श्रेयःकरो वेदः तद् अध्येतव्यो
वैख्ध्स् ०२।१२।<१२९।१५> अन्ते विसृज्य प्रणवं ब्रवीति
वैख्ध्स् ०२।१२।<१२९।१५-१६> लौकिकाग्नौ समिधौ हुत्वा भिक्षान्नंमेधाप्रदं शुद्धं मौनी भुञ्जीत
वैख्ध्स् ०२।१२।<१२९।१६-१३०।३> पौषे माघे वा म्सासे ग्रामाद् बहिर्जलान्ते पूर्ववद् व्रतविसर्गहोमं हुत्वा स्वाध्यायम् उत्सृज्य पक्षे शुक्ले वेदं कृष्णेवेदाङ्गं च यावद् अन्तं समधीत्य गुरोर् दक्षिणां दत्त्वा समावर्तीस्यात्
वैख्ध्स् ०२।१३।<१३०।४-५> मध्याह्ने शुद्धे जले मृदद्भिः पादौ हस्तौ चधावयित्वाचम्याङ्गानि संशोध्यापः पुनन्त्व् इति जले निमज्जेद्
वैख्ध्स् ०२।१३।<१३०।५-७> आचान्तो वैष्णवैर् मन्त्रैर् विष्णुं हिरण्यशृङ्गमिति वरुणं च प्रणम्याघमऋषणसूक्तेनाघमऋषणं कृत्वेदम् आपः शिवाइतिस्नायाद् व्क्ःड्ःष् ०२।१३।<१३०।७-९> आश्रमिणश् चत्वारः स्नानं नित्यम् एवंपूर्वोक्तेन विधिना काम्यं नैमित्तिकं च कुर्वन्ति
वैख्ध्स् ०२।१३।<१३०।९-१०> धौतवस्त्रेणाछाद्य पूर्ववद् आचम्यप्रोक्ष्यासीनस् तिष्ठन् वा कृतप्राणायामः सावित्रीं जप्त्वादित्यम् उपतिष्ठेत
वैख्ध्स् ०२।१३।<१३०।१०-१४> दक्षिणपाणिना तीर्थेन ब्राह्मेणभूपत्यादीन् दैवेन नारायणादीन् कूप्यादींश् चार्षेण विश्वामित्रादीन् पैतृकेणपितृआदीन् अद्भिस् तर्पयित्वा ब्रह्मयज्ञं करिष्यन्न् इत्य् अमिषे त्वोर्जे त्वेति यथाकामंयजुःसंहिताम् आद्यां स्त्रीन् अनुवाकान् स्वाध्यायं कुर्वीत
वैख्ध्स् ०२।१३।<१३०।१४-१५> नैमित्तिकम् ऋतं च सत्यं चेत्य् आदिसूक्तानिचतुर् वेदादिमन्त्रान् वाप्य् अधीयीत
वैख्ध्स् ०२।१३।<१३०।१५-१६> सर्वयज्ञानाम् आदिर् ब्रह्मयज्ञः
वैख्ध्स् ०२।१३।<१३०।१६> तस्माद् उपनयनप्रभृत्य् एव द्विजैः कर्तव्यो
वैख्ध्स् ०२।१३।<१३०।१७-१८> नद्यां तीर्थे देवखाते सरसि तटाके वासामान्ये स्नानं कुर्यात्
वैख्ध्स् ०२।१४।<१३१।१> परस्योदके मृत्पिण्डान् पञ्चोद्धृत्य स्नायात्
वैख्ध्स् ०२।१४।<१३१।१-२> कूपे तत्तीरे त्रिः कुम्भेनाभिषिञ्चेद्
वैख्ध्स् ०२।१४।<१३१।२> उच्छिष्टो नग्नो वा न स्नायात् तथा न शयीत
वैख्ध्स् ०२।१४।<१३१।३> आतुरो ऽप्सु नावगाहेत
वैख्ध्स् ०२।१४।<१३१।३-५> आतुरस्य स्नाने नैमित्तिके दश कृत्वो द्वादशकृत्वो वा तम् अनातुरो जले ऽवगाह्याचम्य स्पृशेत् ततः स पूतो भवति
वैख्ध्स् ०२।१४।<१३१।५-७> द्विकालं होमान्ते पादौप्रक्षाल्याचम्यासने प्राङ्मुखः प्रत्यङ्मुखः वा स्थित्वा चतुरश्रोपलिप्ते मण्डले शुद्धं पात्रं न्यसेत्
वैख्ध्स् ०२।१४।<१३१।७> तत्रान्नं प्रक्षिप्य तत् पूजयति
वैख्ध्स् ०२।१४।<१३१।७-९> द्वौ पादाव् एकं वा भूमौ निधाय प्रसन्नऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति सत्यं त्व् अर्तेनपरिषिञ्चामीति प्रातर्
वैख्ध्स् ०२।१४।<१३१।९-११> अमृतोपस्तरणम् असीत्य् आधावं पीत्वाविधिना प्राणाहुतीर् हुत्वान्नम् अनिन्दन्न् अश्नाति
वैख्ध्स् ०२।१४।<१३१।११> भुक्त्वामृतापिधानम् असीत्य् अपःपीत्वाचम्याचामेद्
वैख्ध्स् ०२।१४।<१३१।११-१२> एकवासाः शयानस् तिष्ठन्न् अस्नानजपहोमीशुष्कपाद उदङ्मुखो वा नाश्नाति
वैख्ध्स् ०२।१४।<१३१।१३> भिन्नपात्रे ऽन्नं पर्युषितंशयनासनोत्सङ्गस्थं वा न भुञ्जीत
वैख्ध्स् ०२।१४।<१३१।१३-१४> अञ्जलिनापो न पिबेद्
वैख्ध्स् ०२।१४।<१३१।१४-१५> उच्छिष्टाशुच्याशौचिपतिततैः स्पृष्ठंसूतकप्रेतके चान्नं नाश्नीयात्
वैख्ध्स् ०२।१५।<१३२।१> तिलसक्तुदधिलाजं च रात्राव् अभक्ष्यम्
वैख्ध्स् ०२।१५।<१३१।१-२> अन्नं पर्युषितम् आज्येन दध्ना वा युक्तं भोज्यं
वैख्ध्स् ०२।१५।<१३१।२-३> क्रिमिकेशकीटयुतं गवाघ्रातं पक्षिजग्धं च भस्माद्भिः प्रोक्षितं शुद्धं
वैख्ध्स् ०२।१५।<१३१।३-५> श्वकाकाद्युपहते बह्वन्ने तस्मिन् पुरुषाशमनमात्रं तत्रैवोद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्मजलैः प्रोक्ष्य दर्भोल्कया स्पर्शयित्वा गृह्णीयात्
वैख्ध्स् ०२।१५।<१३२।६-७> प्रसूते ऽन्तर्दशाहे गोक्षीरंसदैकशफोष्ट्रस्त्रीणां पयश् च पलाण्डुकवकलशुनगृञ्चनविड्जम् अनुक्तं । मत्स्यमांसं च वर्जनीयं
वैख्ध्स् ०२।१५।<१३२।८> यज्ञशिष्टं मांसं भक्षणीयम् {रेअदिन्ग् उन्चेर्तैन् चल् प्१३२न्१}
वैख्ध्स् ०२।१५।<१३२।८-९> उदक्यास्पृष्टं शूद्रानुलोमैः स्पृष्टं तेषामन्नं च वर्जयेत्
वैख्ध्स् ०२।१५।<१३२।९-१०> स्वधर्मानुवर्तिनां शूद्रानुलोमानाम् आमंक्षुधितस्य संग्राह्यं
वैख्ध्स् ०२।१५।<१३२।१०-११> सर्वेषां प्रतिलोमान्तरालव्रात्यानाम् आमंपक्वं च क्षुधितो ऽपि यत्नान् न गृह्णीयात्
वैख्ध्स् ०२।१५।<१३२।११-१२> तैः स्पृष्टिसंमिश्रं परपक्वं च संत्यजति
वैख्ध्स् ०२।१५।<१३२।१२-१३> नित्यं श्रुतिस्मृत्युदितं कर्म कुर्वन्मनोवाक्कायकर्मभिः शनैर् धर्मं समाचरति
वैख्ध्स् ०३।०१।<१३३।१-२> गृहस्थाश्रमी द्वे यज्ञोपवीते वैणवंदण्डं कमण्डलुं च धारयेत्
वैख्ध्स् ०३।०१।<१३२।२-३> स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणिश्रौताग्निषु श्रौतानि कुर्यात्
वैख्ध्स् ०३।०१।<१३३।३-४> सायं च होमान्ते ऽतिथीन् अभ्यागतान्प्राशयित्वा मितं प्राश्य पत्न्या शयीत
वैख्ध्स् ०३।०१।<१३३।४-५> आर्द्रपादः प्रत्यगुत्तरशिराश् न स्वपित्य्-
वैख्ध्स् ०३।०१।<१३३।५> ऋतुरात्रिषु स्वभार्याम् उपगच्छेद्
वैख्ध्स् ०३।०१।<१३३।५-६> आदौ त्रिरात्रमृतुमतीगमनसहासनशयनानि वर्जयेत्
वैख्ध्स् ०३।०१।<१३३।६-७> परदारान् न संगच्छेत्
वैख्ध्स् ०३।०१।<१३३।७> परदारगमनाद् आयुः श्रीर् ब्रह्मवर्चसंविनश्यति
वैख्ध्स् ०३।०१।<१३३।७-८> भार्यया सह नाश्नात्य्
वैख्ध्स् ०३।०१।<१३३।८> अश्नन्तीं तां जृम्भमाणां नग्नां च नावलोकयेत्
वैख्ध्स् ०३।०१।<१३३।९> असत्यवादं वर्जयत्य्
वैख्ध्स् ०३।०१।<१३३।९> असत्यात् परं पापं सत्यात् परो धर्मश् च नास्ति
वैख्ध्स् ०३।०१।<१३३।१०-११> सर्वप्राणिहितो ऽद्रोहेणैवजीवेच्-शुद्धार्थवान् कुसूलधान्यः कुम्भीधान्यो ऽश्वस्तनिको वा स्यात्
वैख्ध्स् ०३।०१।<१३३।११-१२> द्विजातिः पतितान्त्यजातान् न स्पृशेद्
वैख्ध्स् ०३।०१।<१३३।१२> उदये ऽस्तमये च सूर्यं नेक्षेत
वैख्ध्स् ०३।०१।<१३३।१२-१३> देवगुरुविप्रघृतक्षीरदधिमृत्तोयसमिद्दर्भाग्निवनस्पतीन्प्रदक्षिणं गच्छेत्
वैख्ध्स् ०३।०२।<१३३।१४> स्नातकराजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां देयो {चल् रेअद्स् ज्येष्ठ इन्स्त् ओफ़् श्रेष्ठ, ट्र्प्२१४न्१}
वैख्ध्स् ०३।०२।<१३३।१५> वातार्करश्मिभिः पन्थानः शुध्यन्ति
वैख्ध्स् ०३।०२।<१३३।१५-१६> परस्यासनशयनान्य् अदत्तानि नोपयुञ्जीत
वैख्ध्स् ०३।०२।<१३३।१६> अदत्तेषूपयुक्तेषु स्वपुण्यचतुर्थांशो जहाति
वैख्ध्स् ०३।०२।<१३३।१७> अन्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणिनैव धारयेद्
वैख्ध्स् ०३।०२।<१३३।१७-१९> अग्नौ पादं न तापयेन् । नैनं मुखेनधमेन् नपादेन स्पृशेद् । अधः पादतो न कुर्याद्
वैख्ध्स् ०३।०२।<१३३।१९-१३४।१> अग्नाव् अग्निं वा देवालये ऽग्नौ जले च मूत्रपुरीषपूयशोणितरेतःश्लेष्मोच्छिष्टाङ्गनिष्पेषान् न प्रक्षिपेत्
वैख्ध्स् ०३।०२।<१३४।१-२> नग्नां परस् त्रियं विण्मूत्रे च न पश्येद्
वैख्ध्स् ०३।०२।<१३४।२-३> उच्छिष्टो देवार्कचन्द्रग्रहऋक्षतारा नेक्षेत
वैख्ध्स् ०३।०२।<१३४।३-४> देवगुरुस्नातकदीक्षितराजगोश्रेष्ठानांछायां नाक्रमति
वैख्ध्स् ०३।०२।<१३४।४> इन्द्रधनुः परस्मै न दर्शयेन् न वदेत्
वैख्ध्स् ०३।०२।<१३४।४-५> स्वपन्तं नावबोधयेद्
वैख्ध्स् ०३।०२।<१३४।५> एको ऽध्वानं न गच्छेत्
वैख्ध्स् ०३।०२।<१३४।५-६> परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च नवारयेन् । नैवाचक्षीत
वैख्ध्स् ०३।०२।<१३४।६> जीर्णमलवासा न स्यात्
वैख्ध्स् ०३।०३।<१३४।७> अक्षैः क्रीडां प्रेतधूमं बालातापं च वर्जयेत्
वैख्ध्स् ०३।०३।<१३४।७-९> केशरोमतुषाङ्गारकपालास्थिविण्मूत्रपूयशोणितरेतःश्लेष्मोच्छिष्टान् नाधितिष्ठेत्
वैख्ध्स् ०३।०३।<१३४।९-१०> अमेध्यलिप्ते ऽङ्गे यावत् तल्लेपगन्धमनःशङ्का न स्यात् । तावन् मृत्तोयैः शोधयेत्
वैख्ध्स् ०३।०३।<१३४।१०-११> पतितान्त्यजमूर्खाधार्मिकवैरिभिः सार्धं न वसेद्
वैख्ध्स् ०३।०३।<१३४।११> उच्छिष्टो ऽशुचिर् वा देवगोविप्राग्नीन् न स्पृशेत्
वैख्ध्स् ०३।०३।<१३४।११-१२> देवान् वेदान् राजगुरुमातापितॄन्विद्वद्ब्राह्मणान् नावमन्येत । न निन्देद्
वैख्ध्स् ०३।०३।<१३४।१२-१३> अवमन्ता निन्दकश् च विनश्यति
वैख्ध्स् ०३।०३।<१३४।१३-१४> सर्वभूतकुत्सां ताडनं च न कुर्वीत
वैख्ध्स् ०३।०३।<१३४।१४-१५> गुरुणा मातापितृभ्यां तत्पितृआद्यैर् भ्रातृपितृभ्रातृमातुलाचार्यऋत्विगाद्यैर् विवादं नाचरेत्
वैख्ध्स् ०३।०३।<१३४।१५-१६> सर्वशुद्धिषु पुरुषस्यार्थशुद्धिःस्त्रीशुद्धिर् अन्नशुद्धिश् च श्रेष्ठतमा स्यात्
वैख्ध्स् ०३।०३।<१३४।१६-१३५।१> द्रव्येषु रत्नसौवर्णरजतमयान्य् अद्भिः शोधयति । अग्नौ वा स्पर्शयति
वैख्ध्स् ०३।०३।<१३५।१-३> ताम्रत्रपुसीसायसाद्यान्य् अम्लवारिभिर्दारुदन्तजातानि तक्षणाद् धावनाद् वा यज्ञपात्राणि दक्षिणपाणिना मार्जनात्क्षालनाद् वा संशोध्यानि
वैख्ध्स् ०३।०४।<१३५।४-५> चर्ममयसंहतानि वस्त्राणि शाकमूलफलानिच प्रोक्षयेद् । अल्पानि क्षालयेत्
वैख्ध्स् ०३।०४।<१३५।५-६> घृतादीनि द्रव्याण्य् उत्पूयोल्कया दर्शयेत्
वैख्ध्स् ०३।०४।<१३५।६-९> कौशेयाविकान्य् ऊषैर् अंशुतट्टानि । श्रीफलैः शङ्खशुक्तिगोशृङ्गाणि सर्षपैः सवारिभिर्मृत्मयानि पुनर् दाहेन गृहं मार्जनोपलेपनाप्सेकैर् भूमिं खननादन्यमृत्पूरणगोवासकाद्यैर् मार्जनाद्यैश् च शोधयेद् {चल् रेअद्स् अंशुपट्ट- इन् हिस् त्र् प्२१६}
वैख्ध्स् ०३।०४।<१३५।९> गोतृप्तिकरं भूगतं तोयं दोषविहीनं सुपूतं
वैख्ध्स् ०३।०४।<१३५।९-१०> वाक्शस्तं वारिनिर्णिक्तम् अदृष्टं
वैख्ध्स् ०३।०४।<१३५।१०-११> योषिदास्यं कारुहस्तः प्रसारितपण्यं चसर्वदा शुद्धं
वैख्ध्स् ०३।०४।<१३५।११> शकुन्युच्छिष्टं फलम् अनिन्द्यं
वैख्ध्स् ०३।०४।<१३५।११-१२> मशकमक्षिकानिलीनं तद्विप्रुषश् च न दूष्याणि
वैख्ध्स् ०३।०४।<१३५।१२-१३> वाय्वग्निसूर्यरश्मिभिः स्पृष्टं च मेध्यम्
वैख्ध्स् ०३।०४।<१३५।१३-१४> आतुरे बाले पचनालये च शौचं नविचारणीयं यथाशक्ति स्याद्
वैख्ध्स् ०३।०४।<१३५।१४> विण्मूत्राभ्यां बह्वापो न दूष्याः
वैख्ध्स् ०३।०४।<१३५।१४-१५> परस्याचामतस् तोयबिन्दुभिर् भूमौनिपत्योद्गतैः पादस्पृष्तैर् आचामयन् नाशुचिः स्यात्
वैख्ध्स् ०३।०५।<१३६।१-२> वानप्रस्थो नित्यस्वाध्यायी कुशेध्मादीनग्न्यर्थं शाकमूलफलान्य् अशनार्थं च शुचौ जातान्य् आहरेद्
वैख्ध्स् ०३।०५।<१३६।२-३> अन्याधीनम् अन्योत्सृष्टम् अशुचौ जातं गोरसंच वर्जयेत्
वैख्ध्स् ०३।०५।<१३६।३> धान्यधनसंचयं न कुर्वीत
वैख्ध्स् ०३।०५।<१३६।४> वस्त्रं नाछादयेत्
वैख्ध्स् ०३।०५।<१३६।४> मधूक्ते तोयं मांसोक्ते पैष्टिकं गृह्णाति
वैख्ध्स् ०३।०५।<१३६।५-९> सर्वभूतेषु दयालुः समः क्षान्तः शुचिर्निरसूयकः सुखे निःस्पृहो मङ्गल्यवाणीर्ष्याकार्पण्यवर्जी मत्स्यादीन् दंशकान्सीरकृष्टजातानि कन्दमूलफलशाकादीनि च त्यजञ् जटाश्मश्रुरोमनखानि धारयंस् त्रिकालस्नायी धरा आशयो वन्यैर् एव चरुपुरोडशान् निर्वपेत्
वैख्ध्स् ०३।०५।<१३६।९-११> पलाण्ड्वादीन् निर्यासं श्वेतवृन्ताकं सुनिषण्णकं श्लेष्मातकं व्रजकलिं चित्रकं शिग्रुं भूस् तृणं कोविदारं मूलकं चवर्जयति
वैख्ध्स् ०३।०५।<१३६।११-१२> मुनेः सर्वं मांसं गोमांसतुल्यं धान्याम्लं सुरासमं भवति
वैख्ध्स् ०३।०५।<१३६।१२> पूर्वसंचिताशनं पूर्वाणि वसनान्य् आश्वयुजेमासि त्यजति
वैख्ध्स् ०३।०५।<१३६।१३> वेदवेदान्तेन ध्यानयोगी तपः समाचरति
वैख्ध्स् ०३।०५।<१३६।१३-१३७।२> अपत्नीको ऽनग्निर् अदारो ऽनिकेतनोवृक्षमूले वसन् वनस्थाश्रमेषु गृहस्थानां गृहेषु वा भिक्षांभिक्षित्वाम्बुपार्श्वे शुद्धे पर्णे प्राणयात्रामात्रम् अन्नं भिक्षुवद् अश्नाति
वैख्ध्स् ०३।०५।<१३७।२> शरीरं शोषयन्न् उत्तरम् उत्तरं तीव्रं तपः कुर्यात्
वैख्ध्स् ०३।०६।<१३७।४> भिक्षुः स्नात्वा नित्यं प्रणवेनात्मानं तर्पयेत्
वैख्ध्स् ०३।०६।<१३७।४-५> तेनैव नमस्कुर्यात्
वैख्ध्स् ०३।०६।<१३७।५-६> षड् अवरान् प्राणायामान् कृत्वा शतावरांसावित्रीं जप्त्वा सन्ध्याम् उपासीत
वैख्ध्स् ०३।०६।<१३७।६> अप्पवित्रेणोत्पूताभिर् अद्भिर् आचामेत्
वैख्ध्स् ०३।०६।<१३७।६-७> काषायधारणं सर्वत्यागं मैथुनवर्जनमस्तैन्यादीन् अप्य् आचरेत्
वैख्ध्स् ०३।०६।<१३७।७-१०> असहायो ऽनग्निर् अनिकेतनो निःसंशयीसंमानावमानसमो विवादक्रोधलोभमोहानृतवर्जी ग्रामाद् बहिर् विविक्ते मठेदेवालये वृक्षमूले वा निवसेत्
वैख्ध्स् ०३।०६।<१३७।१०> चातुर्मासाद् अन्यत्रैकाहाद् ऊर्ध्वम् एकस्मिन् देशे न वसेद्
वैख्ध्स् ०३।०६।<१३७।१०-११> वर्षाः शरच् चातुर्मास्यम् एकत्रैव वसेत्
वैख्ध्स् ०३।०६।<१३७।११-१३> त्रिदण्डे काषायाप्पवित्रादीन् योजयित्वा कण्ठे वामहस्तेन धारयन् दक्षिणेन भिक्षापात्रं गृहीत्वैककाले विप्राणांशुद्धानां गृहेषु वैश्वदेवान्ते भिक्षां चरेत्
वैख्ध्स् ०३।०६।<१३७।१४> भूमौ वीक्ष्य जन्तून् परिहरन् पादं न्यसेद्
वैख्ध्स् ०३।०६।<१३७।१४-१५> अधोमुखस् तिष्ठन् भिक्षाम् आलिप्सते
वैख्ध्स् ०३।०७।<१३७।१६> गोदोहनकालमात्रं तदर्धं वा स्थित्वा व्रजेद्
वैख्ध्स् ०३।०७।<१३७।१६-१७> अलाभे ऽप्य् अवमाने ऽप्य् अविषादी लब्धेसंमाने ऽप्य् असंतोषी स्यात्
वैख्ध्स् ०३।०७।<१३७।१७-१८> द्रुतं विलम्बितं वा न गच्छेत्
वैख्ध्स् ०३।०७।<१३७।१८> भिक्षाकालाद् अन्यत्र परवेश्म न गन्तव्यं
वैख्ध्स् ०३।०७।<१३७।१९> भिक्षितुं क्रोशाद् ऊर्ध्वं न गच्छेत्
वैख्ध्स् ०३।०७।<१३७।१९-१३८।३> भिक्षां चरित्वा तोयपार्श्वेप्रक्षालितपाणिपादाचम्योद् उ त्यम् इत्य् आदित्यायातो देवा इति विष्णवे ब्रह्म जज्ञाम् इति ब्रह्मणे च भिक्षाग्रं दत्त्वा सर्वभूतेभ्येति बलिं प्रक्षिपेत्
वैख्ध्स् ०३।०७।<१३८।३-४> पाणिनाग्निहोत्रविधानेनात्मयज्ञं संकल्प्य प्राणयात्रामात्रम् अष्टौ ग्रासान् वाश्नीयात् कामं नाश्नाति
वैख्ध्स् ०३।०७।<१३८।५> वस्त्रपूतं जलं पीत्वाचम्याचामति
वैख्ध्स् ०३।०७।<१३८।५> निन्दाक्रोशौ न कुर्वीत
वैख्ध्स् ०३।०७।<१३८।६> बन्धूञ् ज्ञातींस् त्यजेद्
वैख्ध्स् ०३।०७।<१३८।६> वंशचारित्रं तपः श्रुतं न वदेत्
वैख्ध्स् ०३।०७।<१३८।६-८> सङ्गं त्यक्त्वा नियमयमी प्रियं सत्यं वदन्सर्वभूतस्याविरोधी समः सदाध्यात्मरतो ध्यानयोगी नारायणं परं ब्रह्मपश्यन् धारणां धारयेद्
वैख्ध्स् ०३।०७।<१३८।८-९> अक्षरं ब्रह्माप्नोति
वैख्ध्स् ०३।०७।<१३८।९> नारायणः परं ब्रह्मेति श्रुतिः
वैख्ध्स् ०३।०८।<१३८।१०-१३> संन्यासिनो ऽनाहिताग्नेर् देहं मृतं पुत्रो ऽन्योवा तृणैर् अन्तरीकृत्य शुद्धैर् ब्राह्मणैर् यन्त्रेण वा संनिधाय समुद्रगाम्यांनद्यां तीरे वा सैकते देशे सृगालादिभिर् अस्पृश्यं यथा तथावटं खनति
वैख्ध्स् ०३।०८।<१३८।१३-१३९।१> गायत्र्या स्नापयित्वा तथातत्रासयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्णवैर् मन्त्रैस् त्रिदण्डं संन्यस्य सव्ये यद् अस्य पारेरजस इति शिक्यम् अप्पवित्रम् उदरे सावित्र्या भिक्षापात्रं गुह्यप्रदेशे भूमिर् भूमिमिति काषायं मृद्ग्रहणीं कमण्डलुं च संन्यस्य पिदध्यात्
वैख्ध्स् ०३।०८।<१३९।१-२> तस्मिन् सृगालादिभिः स्पृष्टे तत्कर्ता पापीयान्भवति
वैख्ध्स् ०३।०८।<१३९।२-६> आहिताग्नेर् अग्नीन् आत्मन्य् आरोप्य संन्यसिनो मृतंदेहं गायत्र्या स्नापयित्वा पूर्ववद् वाहयित्वा शुद्धे देशे निधाय लौकिकाग्नौ तदग्निम् उपावरोहेत्य् अवरोप्य पवित्रं तेति घृतक्षीरम् आस्ये प्रक्षिप्य पूर्ववत्त्रिदण्डादीन् विन्यस्य ब्रह्ममेधेन पितृमेधेन वाहिताग्निमन्त्रैस् तदग्निभिर् दहनमाचरति
वैख्ध्स् ०३।०८।<१३९।७> तयोर् आशौचोदकबलिपिण्डदानैकोद्दिष्टादीन्नैव कुर्यात्
वैख्ध्स् ०३।०८।<१३९।८> नारायणबलिं करोति
वैख्ध्स् ०३।०८।<१३९।८-९> तद्वहनं खनित्वा पिधानं दहनंनारायणबलिं वा यः कुर्यात् । सो ऽश्वमेधफलं समाप्नुयात्
वैख्ध्स् ०३।०९।<१३९।१०-१४> नारायणबलिं नारायणाद् एवसर्वार्थसिद्धिर् इति ब्रह्मणाद्यैर् नरैर् हतस्यात्मघातिनोरज्जुशस्त्रोदकाशनिदंष्ट्रिपशुसर्पादिभिः सर्वपापमृतस्यादाह्यानाम् अन्येषां भिक्षोश् चैकादशदिनाद् ऊर्ध्वं महापातकिनां पञ्चानां द्वादशसंवत्सराद् ऊर्ध्वंसपिण्डीकरणस्थाने मृतकार्थम् अपरपक्षे द्वादश्यां श्रवणे वा करोति
वैख्ध्स् ०३।०९।<१३९।१४-१५> पूर्वे ऽहनि द्वादश ब्राह्मणान् निमन्त्रयेद्
वैख्ध्स् ०३।०९।<१३९।१५-१६> अपरे ऽहनि विष्णोर् आलयपार्श्वे नदीतीरेगृहे वाग्न्यायतनं कृत्वाघारं जुहुयाद्
वैख्ध्स् ०३।०९।<१३९।१६-१५०।२> अग्निं परिस्तीर्याग्नेर् वायव्यां विष्टरेदर्भेषु तद्रूपं सुवर्णं वा संस्थाप्य पुरुषं ध्यायन्न् ॐ भूः पुरुषम् इत्याद्यैः प्राङ्मुखं देवं नारायणम् आवाह्यासनपाद्याचमनानि दद्यात्
वैख्ध्स् ०३।०९।<१४०।२-४> पुरुषसूक्तेन स्नापयित्वा नारायणायविद्महेत्य् अष्टाक्षरमन्त्रेण वा वस्त्रोत्तरीयाभरणपाद्याचमनपुष्पगन्धधूपदीपाक्षताचमनैर् अर्चयति
वैख्ध्स् ०३।१०।<१४०।५> केशवाद्यैर् द्वादशनामभिर् अद्भिस् तर्पयेत्
वैख्ध्स् ०३।१०।<१४०।५-६> परिषिच्य सहस्रशीर्षाद्यैर् विष्णोर् नुकाद्यैर्द्वादशनामभिश् चाज्यं चरुं जुहुयात्
वैख्ध्स् ०३।१०।<१४०।७-८> गुडाज्यफलयुक्तं पायसं हविर् विष्णुगायत्र्या देवेशाय निवेद्य पाद्याचमनमुखवासं दद्यात्
वैख्ध्स् ०३।१०।<१४०।८-१३> अग्नेर् दक्षिणे दर्भेषूतराग्रेषु दक्षिणाद्यर्चयित्वा । नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादायपरमपुरुषाय परमात्मने परंज्योतिषे परब्रह्मणे ऽव्यक्ताय सर्वकारणाय यज्ञेश्वराययज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्येत्य् अन्तैः पायसं बलिंदत्त्वाज्यम् एभिर्जुहोति
वैख्ध्स् ०३।१०।<१४०।१३-१६> ब्राह्मणान् पादौ प्रक्षाल्य नवानिवस्त्रोत्तरीयाभरणानि दत्त्वा पुष्पाद्यैः पूजयित्वा द्वादशमूर्तिं ध्यायन्न् उपदंशघृतगुडदधिफलयुक्तं श्वेतम् अन्नं भोजयित्वायथाशक्ति सुवर्णं दक्षिणां ददाति
वैख्ध्स् ०३।१०।<१४०।१६-१४१।१> सहस्रशीर्षाद्यैः स्तुत्वाद्वादशनामभिः प्रणमेद् अन्तहोमं जुहोत्य्
वैख्ध्स् ०३।१०।<१४१।१-२> अभीष्टां परां गतिं स गत्वा विष्णोर् लोकेमहीयते
वैख्ध्स् ०३।११।<१४१।३-४> चातुर्वर्ण्यसंकरेणोत्पन्नानाम् अनुलोमप्रतिलोमान्तरालव्रात्यानाम् उत्पत्तिं नाम वृत्तिं च
वैख्ध्स् ०३।११।<१४१।४-५> ऊर्ध्वजाताद् अधोजातायां जातो ऽनुलोमः
वैख्ध्स् ०३।११।<१४१।५> अधरोत्पन्नाद् ऊर्ध्वजातायां जातः प्रतिलोमः
वैख्ध्स् ०३।११।<१४१।५-६> ततो ऽनुलोमाद् अनुलोम्यां जातो ऽन्तरालः
वैख्ध्स् ०३।११।<१४१।६-७> प्रतिलोमात् प्रतिलोम्यां जातो व्रात्यो भवति
वैख्ध्स् ०३।११।<१४१।७-८> ब्रह्मणो मुखाद् उद्भूता ब्राह्मणा ब्राह्मण्यश् च ब्रह्मऋषयः पत्न्यो बभूवुः
वैख्ध्स् ०३।११।<१४१।८-९> तेषां गात्रोत्पन्नाद् ब्राह्मण्यां असगोत्रायांविधिना समन्त्रकं गृहीतायां जातो ब्राह्मणः शुद्धो भवेत्
वैख्ध्स् ०३।११।<१४१।१०-११> विधिहीनम् अन्यपूर्वायां गोलकोहर्तृकायां कुण्डश् च विप्रौ द्वौ निन्दितौ स्यातां
वैख्ध्स् ०३।११।<१४१।११-१२> तस्माद् अधो बाहुभ्यामात् क्षत्रियात् क्षत्रियायां विधिवज् जातः क्षत्रियः शुद्धः
वैख्ध्स् ०३।११।<१४१।१२-१४> तयोर् अविधिकं गूढोत्पन्नो ऽशुद्धोभोजाख्यो नैवाभिषेच्यः पट्टबन्धो राज्ञः सैनापत्यं करोति
वैख्ध्स् ०३।११।<१४१।१४-१५> शुद्धाभावे ऽपट्टबन्धो नॄन् पायात्
वैख्ध्स् ०३।११।<१४१।१५> तद्वृत्तं राजवत् स्यात्
वैख्ध्स् ०३।११।<१४१।१५-१४२।१> अधस्ताद् ऊरुभ्यामाद् वैश्याद् वैश्यायां तथा वैश्यः शुद्धो
वैख्ध्स् ०३।११।<१४२।१-२> विधिवर्जं मणिकारो ऽशुद्धो मणिमुक्तादिवेधः शङ्खवलयकारी स्यात्
वैख्ध्स् ०३।१२।<१४२।३> अथ पद्भ्याम् उत्पन्नाच् छूद्राच् छुद्रायां न्यायेनशूद्रः शुद्धः
वैख्ध्स् ०३।१२।<१४२।४-५> जारान् मालवको निन्दितःशूद्रो ऽश्वपालो ऽश्वतृणहारी च
वैख्ध्स् ०३।१२।<१४२।५> इत्य् एते चातुर्वर्णिकाः
वैख्ध्स् ०३।१२।<१४२।५-६> तेषाम् एव संस्करेणोत्पन्नाः सर्वे ऽनुलोमाद्याः
वैख्ध्स् ०३।१२।<१४२।६-७> ब्राह्मणात् क्षत्रियकन्यायां जातः सवर्णो ऽनुलोमेषु मुख्यो
वैख्ध्स् ०३।१२।<१४२।७-८> अस्य वृत्तिर् आथर्वणंकर्माश्वहस्तिरथसंवाहनम् आरोहणं रज्ञः सैनापत्यं चायुर्वेदकृत्यं
वैख्ध्स् ०३।१२।<१४२।८> गूढोत्पन्नो ऽभिनिषक्ताख्यो-
वैख्ध्स् ०३।१२।<१४२।९> अभिषिक्तश् चेन् नृपो भूयाद् अष्टाङ्गम् आयुर्वेदंभूततन्त्रं वा संपटेत्
वैख्ध्स् ०३।१२।<१४२।९-११> तदुक्ताचारो दयायुक्तः सत्यवादीतद्विधानेन सर्वप्राणिहितं कुर्यात्
वैख्ध्स् ०३।१२।<१४२।११> ज्योतिर् गणनादिकाधिकवृत्तिर् वा
वैख्ध्स् ०३।१२।<१४२।११-१२> विप्राद् वैश्यायाम् अम्बष्ठःकक्ष्याजीव्याग्नेयनर्तको ध्वजविश्रावी शल्यचिकित्सी
वैख्ध्स् ०३।१२।<१४२।१३> जरात् कुम्भकारः कुलालवृत्तिर् नापितो नाभेरूर्ध्ववप्ता च
वैख्ध्स् ०३।१२।<१४२।१४-१५> क्षत्रियाद् वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महानर्माख्यश् च वैश्यवृत्तिः क्षात्रम् कर्म नाचरति
वैख्ध्स् ०३।१२।<१४२।१५> गूढाद् आश्विको ऽश्वक्रयविक्रयी स्यात्
वैख्ध्स् ०३।१३।<१४३।१-२> विप्राच् छूद्रायां पारशवो भद्रकालीपूजनचित्रकर्माङ्गविद्यातूर्यघोषणमर्दनवृत्तिर्
वैख्ध्स् ०३।१३।<१४३।२-३> जारोत्पन्नो निषादो व्याडादिमृगहिंसाकारी
वैख्ध्स् ०३।१३।<१४३।३> राजन्यतः शूद्रायाम् उग्रः सुदण्ड्यदण्डनकृत्यो
वैख्ध्स् ०३।१३।<१४३।३-४> जाराच् छूलिकः शूलारोहणादियातनाकृत्यो
वैख्ध्स् ०३।१३।<१४३।४-५> वैश्यतः शूद्रायां चूचुकः क्रमुकताम्बूलशर्करादिक्रयविक्रयी
वैख्ध्स् ०३।१३।<१४३।५-६> गूढात् कटकारः कटकारी चेति
वैख्ध्स् ०३।१३।<१४३।६-७> ततो ऽनुलोमाद् अनुलोमायां जातश् चानुलोमःपितुर् मातुर् वा जातं वृत्तिं भजेत
वैख्ध्स् ०३।१३।<१४३।७-९> क्षत्रियाद् विप्रकन्यायां मन्त्रवत्- जातः सूतःप्रतिलोमेषु मुख्यो ऽयं मन्त्रहीनोपनीतो द्विजधर्महीनो
वैख्ध्स् ०३।१३।<१४३।९> अस्य वृत्तिर् धर्मानुबोधनं राज्ञो ऽन्नसंस्कारश् च
वैख्ध्स् ०३।१३।<१४३।१०-११> जारेण मन्त्रहीनजो रथकारोद्विजत्वविहीनः शूद्रकृत्यो ऽश्वानां पोषणदमनादिपरिचर्याजीवी
वैख्ध्स् ०३।१३।<१४३।११-१३> वैश्याद् ब्राह्मण्यां मागधः शूद्रैर् अप्यभोज्यान् नो ऽस्पृश्यः सर्ववन्दी प्रशंसाकीर्तनगानप्रेषणवृत्तिर्
वैख्ध्स् ०३।१३।<१४३।१३> गूढाच् चक्री लवणतैलविक्रेता स्यात्
वैख्ध्स् ०३।१४।<१४३।१४-१५> वैश्यान् नृपायाम् आयोगवस् तन्तुवायः पटकर्ता वस्त्रकांस्योअप्जीवी
वैख्ध्स् ०३।१४।<१४३।१५> गूढाचारात् पुलिन्दो ऽरण्यवृत्तिर्दुष्टमृगसत्त्वघाती
वैख्ध्स् ०३।१४।<१४३।१६-१७> शूद्रात् क्षत्रियायां पुल्कसः कृतकां वाआर्क्षां वा सुरां हुत्वा पाचको विक्रीनीत
वैख्ध्स् ०३।१४।<१४३।१७> चोरवृत्ताद् वेलवो जन्भननर्तनगानकृत्यः
वैख्ध्स् ०३।१४।<१४४।१-२> शूद्राद् वैश्यायां वैदेहकः शूद्रास्पृश्यस्तैर् अप्य् अभोज्यान्नो वन्यवृत्तिर् अजमहिषगोपालस् तद्रसान् विक्रयी
वैख्ध्स् ०३।१४।<१४४।२-३> चौर्याच् चक्रिको लवणतैलपिण्याकजीवी
वैख्ध्स् ०३।१४।<१४४।३-६> शूद्राद् ब्राह्मण्यां चण्डालःसीसकालायसाभरणो वर्ध्राबन्धकण्ठः कक्षेरीयुक्तो यतस् ततश् चरन् सर्वकर्मबहिष्कृतः पूर्वाह्णे ग्रामादौ वीथ्याम् अन्यत्रापि मलान्य् अपकृष्य बहिर् अपोहयति
वैख्ध्स् ०३।१४।<१४४।६> ग्रामाद् बहिर् दूरे स्वजातीयैर् निवसेत्
वैख्ध्स् ०३।१४।<१४४।६-७> मध्याह्नात् परं ग्रामे न विशत्य्। अयं
वैख्ध्स् ०३।१४।<१४४।७> विशेच् चेद् राज्ञा वध्यो
वैख्ध्स् ०३।१४।<१४४।७-८> अन्यथा भ्रूणहत्याम् अवाप्नोत्य्
वैख्ध्स् ०३।१४।<१४४।८> अन्तराल्व्रत्याश् च
वैख्ध्स् ०३।१४।<१४४।८-१०> चूचुकाद् विप्रायां तक्षको ऽस्पृश्योझल्लरीहस्तो दारुकारः सुवर्णकारो ऽयस्कारः कांस्यकारो वा
वैख्ध्स् ०३।१४।<१४४।१०> क्षत्रियायां मत्स्यबन्धुर् मत्स्यबन्धी
वैख्ध्स् ०३।१४।<१४४।१०-११> वैश्यायां सामुद्रः समुद्रपण्यजीवीमत्स्यघाती च स्यात्
वैख्ध्स् ०३।१५।<१४४।१२-१३> अम्बष्ठाद् विप्रायां नाविकःसमुद्रपण्यमत्स्यजीवी समुद्रलङ्घनां नावं प्लावयति
वैख्ध्स् ०३।१५।<१४४।१३-१४> क्षत्रियायाम् अधोनापितो नाभेर् अधो रोमवप्ता
वैख्ध्स् ०३।१५।<१४४।१४> मद्गोर् विप्रायां वेणुको वेणुवीणावादी
वैख्ध्स् ०३।१५।<१४४।१४-१५> क्षत्रियायां कर्मकरः कर्मकारी
वैख्ध्स् ०३।१५।<१४४।१५> वैदेहकाद् विप्रायां चर्मकारश् चर्मजीवी
वैख्ध्स् ०३।१५।<१४४।१६> नृपायां सूचिकः सूचीवेधनकृत्यवान्
वैख्ध्स् ०३।१५।<१४४।१६-१७> आयोगवाद् विप्रायां ताम्रस् ताम्रजीवी
वैख्ध्स् ०३।१५।<१४४।१७> नृपायां खनकः खननजीवी
वैख्ध्स् ०३।१५।<१४४।१७-१८> खननान् नृपायाम् उद्बन्धकः शूद्रास्पृश्यो वस्त्रनिर्णेजकः
वैख्ध्स् ०३।१५।<१४४।१८-१९> पुल्कसाद् विप्रायां रजको वस्त्राणांरजोनिर्णेजकश्
वैख्ध्स् ०३।१५।<१४४।१९-१४५।२> चण्डालाद् विप्रायां श्वपचः चण्डालवच्चिह्नयुक्तो नित्यनिन्द्यः सर्वकर्मबहिष्कार्यो नगर्यादौ मलापोहकः श्मशाने वसन् हेयपात्रग्राही प्रेतम् अबन्धुकं विसृजेत
वैख्ध्स् ०३।१५।<१४५।३-४> वध्यान् हत्वा तद्वस्त्रादिग्राहीपराधीनाहारो भिन्नपात्रभोजी श्वमांसभक्षी चर्मवारवाणवाणिज्यकारी स्यात्
वैख्ध्स् ०३।१५।<१४५।४-५> तस्मान् निकृष्टे सुते समुत्पन्ने पतितो नष्टोघोरान् नरकान् व्रजति
वैख्ध्स् ०३।१५।<१४५।५-६> सत्पुत्रो नरकेभ्यस् त्रायकः पितॄन्पावयित्वा । शुभांल् लोकान् नयति
वैख्ध्स् ०३।१५।<१४५।६-८> तस्माद् ब्राह्मणाद्याः सवर्णायां विधिवत् पुत्रम् उत्पादयेयुर् इति विखनाः