उपनयनम् ब्रह्मचर्यञ्च

कालः

उपनयनं व्याख्यास्यामः १
सप्त-वर्षं ब्राह्मणम् उपनयीत २ एकादश-वर्षं राजन्यं, द्वादश-वर्षं वैश्यम् ३
वसन्ते ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् ४
आपूर्यमाण-पक्षे पुण्ये नक्षत्रे विशेषेण पुं-नामधेये ५

पुण्याहः

युग्मान् ब्राह्मणान् अन्नेन परिविष्य पुण्याहं स्वस्त्य्-अयनम् ऋद्धिम् इति वाचयित्वा ६

कुमारसाधनम्

आशितस्य कुमारस्य केशान् वापयित्वा स्नातम् अलंकृतम् ७ अहतं वासः परिधाय ८

होमः

अग्निसादनम्

प्राचीन-प्रवण उदीचीन-प्रवणे प्राग्-उदक्-प्रवणे समे वा देश उद्धत्यावोक्ष्य ९
अग्निं मथित्वा, लौकिकं वाहृत्य न्युप्योपसमादधाति ९०

परिस्तरणम्

प्रागग्रैर् दर्भैर् अग्निं परिस्तृणाति ११ अपि वोदगग्राः पश्चात् पुरस्ताच् च भवन्ति १२
दक्षिणान् उत्तरान् करोत्य् उत्तरान् अधरान् यदि प्रागुदगग्राः +++(यत्र प्राक् स्थापितान् दर्भान् स्पृशन्ति)+++ १३

अग्नेर् ग्रहणम्

दक्षिणेनाग्निं ब्रह्मायतने दर्भान् संस्तीर्य १४ “मयि गृह्णामि । यो नो अग्निः ।” इति द्वाभ्याम् आत्मन्न् अग्निं गृहीत्वा १५

पात्रसादनम्

उत्तरेणाग्निं दर्भान् संस्तीर्य यथार्थं द्रव्याणि प्रयुनक्ति १६ - अश्मानम् अहतं वासोजिनं, मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य, ज्यां राजन्यस्यावीसूत्रं वैश्यस्य, बैल्वं पालाशं वा दण्डं ब्राह्मणस्य, नैय्यग्रोधं राजन्यस्यौदुम्बरं वैश्यस्य १७

एकविंशतिदारुम् इध्मं संनह्यत्य् आहुति-परिमाणं वा १८
तस्मिञ् छम्याः परिधीन् इध्म उपसंनह्यति +++(बन्धनेन)+++ १९

दर्वीं, कूर्चम्, आज्यस्थालीं, प्रणीताप्रणयनं, येन +++(वस्वन्तरेण)+++ चार्थः २०
सकृदेव सर्वाणि, यथोपपदं वा +++(क्रमेण)+++ २१

एतस्मिन् काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निं+++(→पश्चिमतः)+++ दक्षिणातिक्रम्य
ब्रह्मसदनात् तृणं +++(नैरृत्यायाम्)+++ निरस्याप उपस्पृश्याग्निम् अभिमुख उपविशति २२

पवित्रसृष्टिः

समाव् अप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वान्येन नखाच् छित्त्वा, ऽद्भिरनुमृज्य

प्रणीताप्रणयनम्

पवित्रान्तर्हिते पात्रेप आनीयोपबिलं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति २३

प्रोक्षणम्

तिरः+++(=तिर्यक्)+++पवित्रं प्रोक्षणीः +++(आपः)+++ संस्कृत्य यथा पुरस्ताद्

बिलवन्त्य् उत्तानानि कृत्वा
विषाय+++(=विस्रस्य)+++ +इध्मं
त्रिः सर्वाभिः +++(प्रोक्षणीभिः पात्राणि)+++ प्रोक्षति २४

दर्वीसंस्कारः

दर्वीं निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति २५

सम्मार्गक्षेपः

संमार्गान्+++(=इध्मबन्धनदर्भान्)+++ अभ्युक्ष्याग्नावादधाति २६

आज्यसंस्कारः

आज्यं विलाप्य
पवित्रान्तर्हितायाम् आज्य-स्थाल्याम् आज्यं निरूप्य
उदीचोङ्गारान् निरूह्य तेष्व् अधिश्रित्यावद्योत्य
दर्भतरुणाभ्यां प्रत्यस्य+++(=अन्तः क्षिप्त्वा)+++
त्रिः पर्यग्नि कृत्वा
+उदग् उद्वास्याङ्गारान् प्रत्यूह्य कुण्डे
+उदगग्राभ्यां पवित्राभ्यां पुनर्-आहारम् आज्यं त्रिरुत्पूय

पवित्रे ऽग्नाव् आधाय २७ १

परिधिः

शम्याभिः परिदधाति १
अपरेणाग्निम् उदीचीन-कुम्बां+++(=स्थूलभागां)+++ मध्यमां निदधाति २
दक्षिणेनाग्निं संस्पृष्टां मध्यमया +++(समिधा स्पृष्ट्वा)+++ प्राचीन-कुम्बाम् ३
उत्तरेणाग्निं संस्पृष्टां मध्यमया +++(समिधा स्पृष्ट्वा)+++ प्राचीन-कुम्बाम् ४

उपवेशनम्

अपरेणाग्निं प्राङ्मुख उपविशति ५
दक्षिणतो यज्ञोपवीत्य् आचान्तः कुमार +++(आचार्यम्)+++ उपविश्यान्वारभते+++(=अन्वालभते)+++ ६

परिषेचनम्

अथ परिषिञ्चति ७ अदितेनुमन्यस्व । इति दक्षिणतः प्राचीनम् ८
अनुमतेनुमन्यस्व । इति पश्चादुदीचीनम् ।
सरस्वतेनुमन्यस्व । इत्युत्तरतः प्राचीनम् ९
देव सवितः प्रसुव । इति सर्वतः प्रदक्षिणम् १०

इध्माधानम्

+++(कुण्डम्)+++ परिषिच्येध्मम् +++(आज्येन)+++ अङ्क्त्वा ऽभ्यादधाति +++(अग्नौ)+++ ।
अयं त इध्म आत्मा जातवेदस्
तेनेध्यस्व वर्धस्व चेन्द्धि ।
वर्धय चास्मान् प्रजया पशुभिर्
ब्रह्मवर्चसेनान्नाद्येन समेधय ।
स्वाहा । इति ११

आघारहोमः

अथ दर्व्या जुहोति १२
उत्तरं परिधि-संधिम् अन्ववहृत्य दर्वीम् - “प्रजापतये मनवे स्वाहा” इति मनसा ध्यायन् दक्षिणाप्राञ्चम् ऋजुं दीर्घं सन्ततं जुहोति १३ दक्षिणं परिधिसंधिम् अन्ववहृत्य +++(दर्वीं)+++ - “इन्द्राय स्वाहा” इति प्राञ्चम् उदञ्चम् ऋजुम् …१४

आज्यभागौ

आघारावाघार्याज्यभागौ जुहोति १५
अग्नये स्वाहा । इत्य् उत्तरार्ध-पूर्वार्धे ।
सोमाय स्वाहा । इति दक्षिणार्ध-पूर्वार्धे १६

+++(अग्रे)+++ ताव् अन्तरेणेतरा +++(आहुतीर्)+++ जुहोति १७

४ पोषक्य आहुतयः

युक्तो वह जातवेदः पुरस्ताद् अग्ने
विद्धि कर्म क्रियमाणं यथेदम् ।
त्वं भिषग् भेषजस्यासि कर्ता
त्वया गा अश्वान् पुरुषान् सनेम । स्वाहा ।

या तिरश्ची निपद्यसे ‘ऽहं विधरणी’ इति ।
तां त्वा घृतस्य धारयाग्नौ संराधनीं यजे । स्वाहा ।

संराधन्यै देव्यै स्वाहा ।

प्रसाधन्यै देव्यै स्वाहा । इति १८ २

हवनकल्पः

सर्व-दर्विहोमाणाम् एष कल्पः १
मन्त्रान्ते नित्यः स्वाहाकारः २
अमन्त्रासु - अमुष्मै स्वाहा - इति यथादेवतम् ३

उत्तराङ्गम्

व्याहृतिहोमः

भूः । भुवः । सुवः । इति व्याहृतिभिर् जुहोत्य् एकैकशः समस्ताभिश् च ४

आयुःप्रार्थनम्

आयुर्दा अग्ने । इत्येषा ।
आयुर्दा देव जरसं गृणानो
घृत-प्रतीको घृत-पृष्ठो अग्ने ।
घृतं पिबन्न् अमृतं चारु गव्यं
पितेव पुत्रं जरसे नयेमम् । स्वाहा ५

वरुणहोमः

इमं मे वरुण ।
तत्त्वा यामि ।

अग्नये होमः

त्वं नो अग्ने ।
स त्वं नो अग्ने ।
त्वमग्ने अयास्यया सन्मनसा हितः ।
अया सन्हव्यमूहिषेया नो धेहि भेषजम् । स्वाहा ।

प्राजापत्यम्

प्रजापते । इत्येषा ६

स्विष्टकृत्

यदस्य कर्मणो ऽत्य्-अरीरिचं यद्वा न्यूनम् इहाकरम् ।
अग्निष् टत् स्विष्टकृद् विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे ।
अग्नये स्विष्टकृते सुहुत-हुते सर्व-हुत आहुतीनां कामानां समर्धयित्रे स्वाहा ।
इत्य् उत्तरार्ध-पूर्वार्धे ऽसंसक्ताम् इतराभिर् आहुतीभिर् जुहोति ७ +++(5)+++

जयादयः स्विष्टकृतः प्राक्

अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्य् उपजुह्वति पुरस्तात् स्विष्टकृतः ८

“चित्तं च स्वाहा । चित्तिश्च स्वाहा …” इति जयाञ् जुहोति । “चित्ताय स्वाहा । चित्तये स्वाहा ।…” इति वा ९

अग्निर्भूतानाम् अधिपतिः स मावतु … इत्यभ्यातानान् १० अस्मिन्ब्रह्मन्नस्मिन्क्षत्रे । इत्यभ्यातानेष्व् अनुषजति ११ पितरः पितामहाः । इति प्राचीनावीती जुहोत्य् +++(प्राञ्जलिर्)+++ उपतिष्ठते वा १२ +++(5)+++

ऋताषाडृतधामा … इति राष्ट्रभृतः । पर्यायम् अनुद्रुत्य - तस्मै स्वाहा - इति पूर्वामाहुतिं जुहोति । ताभ्यः स्वाहा । इत्युत्तराम् १३

कुमारस्य शिलायां स्थापनम्

अग्रेणोत्तरं परिधि-संधिम् अश्मानं निधाय दक्षिणेन पादेन १४ ३

कुमारम् आस्थापयति ।
आतिष्ठेमम् अश्मानम् अश्मेव त्वं स्थिरो भव ।
प्रमृणीहि दुरस्यून् सहस्व पृतनायतः । इति १

वासःपरिधानम्

अथैनम् अहतं वासः परिधापयति पूर्वं निधाय ।
या अकृन्तन्न् अवयन् या अतन्वत
याश्च देवीर् अन्तान् अभितोददन्त।
तास् त्वा देवीर् जरसा संव्ययन्त्व्
आयुष्मानिदं परिधत्स्व वासः ।
परिधत्त धत्त वाससैनं
शतायुषं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छद्वास एतत्
सोमाय राज्ञे परिदातवा उ ।
जरां गच्छासि परिधत्स्व वासो
भवा कृष्टीनाम् अभिशस्तिपावा ।
शतं च जीव शरदः सुवर्चा
रायश्च पोषमुपसंव्ययस्व । इति २

परिधाप्याभिमन्त्रयते ।
परीदं वासो अधिधाः
स्वस्तये ऽभूरापीणाम् अभिशस्तिपावा ।
शतं च जीव शरदः पुरूचीर्
वसूनि चाय्यो विभजा स जीवन् । इति ३

मेखला

अथैनं मेखलया नाभि-देशे त्रिः प्रदक्षिणं परिव्ययति । द्विरित्येके ।
या दुरिता परिबाधमाना
शर्मवरूथे पुनती न आगात् ।
प्राणापानाभ्यां बलम् आवहन्ती
स्वसा देवानां सुभगा मेखलेयम् । इति ४

उत्तरतो नाभेस् त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति +++(कथम् एतत्?? चित्रम् ईहे।)+++ ५

अजिनदानम्

अथास्मा अजिनम् उत्तरीयं करोति ।

मित्रस्य चक्षुर् धरुणं धरीयस्
तेजो यशस्वि स्थविरं समिद्धम् ।
अनाहनस्यं वसनं जरिष्णु
परीदं वाज्य् अजिनं धत्स्वासौ ।

अदितिस् ते कक्षां बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय ।
इति ६

कृष्णाजिनं ब्राह्मणस्य, रौरवं+++(← रौतीति - barasingha? Chital?)+++ राजन्यस्य, बस्ताजिनं वैश्यस्य ७

परिदानम्

अथैनं परिददाति ।

परीममिन्द्र ब्रह्मणे
महे श्रोत्राय दध्मसि ।
अथैनं जरिमा णयेज्
ज्योक्श्रोत्रे अधिजागरत् ।
इति ब्राह्मणम् ।

परीममिन्द्र ब्रह्मणे
महे राष्ट्राय दध्मसि ।
अथैनं जरिमा णयेज्
ज्योग्राष्ट्रे अधिजागरत् ।
इति राजन्यम् ।

परीममिन्द्र ब्रह्मणे
महे पोषाय दध्मसि ।
अथैनं जरिमा णयेज्
ज्योक्पोषे अधिजागरत् ।
इति वैश्यम् ८

प्राशनम्

तम् अपरेणाग्निम् उदञ्चम् उपवेश्य हुतोच्छेषणं प्राशयति । त्वयि मेधां त्वयि प्रजाम् । इत्येतैः सन्नतैः ९
पृषदाज्यम्+++(=दध्याज्यम्)+++ एके प्राशयन्ति १०

योगे योगे तवस्तरम् । इममग्न आयुषे वर्चसे कृधि । इति द्वाभ्यां प्राश्नन्तं समीक्षते ११
प्राशयन्त्येके १२

आचान्तम् उपस्पर्शयित्वाभिमन्त्रयते ।

तदङ्गंशतमिन्नु शरदो अन्ति देवा
यत्रा नश् चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति
मा नो मध्या रीरिषतायुर्गन्तोः । इति १३

संवादः

आगन्त्रा समगन्महि
प्र स मृत्युं युयोतन ।
अरिष्टाः सञ्चरेमहि
स्वस्ति चरताद् इह ।
स्वस्त्या गृहेभ्यः । इति प्रदक्षिणम् अग्निं परिक्रामन्तम् अभिमन्त्रयते १

अथैनम् अभिव्याहारयति ।
ब्रह्मचर्यम् आगाम्
उप मा नयस्व
ब्रह्मचारी भवानि
देवेन सवित्रा प्रसूतः । इति २

तं पृच्छति ३ को नामासि । इति ४
असौ । इत्याचष्टे यथानामा भवति ५

स्वस्ति देव सवितर् अहम् अनेनामुनोदृचम् अशीय । इति +++(छात्रस्य)+++ नामनी गृह्णाति ६
शं नो देवीरभिष्टय
आपो भवन्तु पीतये ।
शं योरभिस्रवन्तु नः ।
इति मार्जयेते ७

अङ्गस्पर्शः

हस्तग्रहणम्

अथास्य दक्षिणेन हस्तेन दक्षिणम् अंसम् अन्वारभ्य, सव्येन सव्यं,
व्याहृतिभिः सावित्र्येति - दक्षिणं बाहुम् अभ्यात्मन्न् उपनयते ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् उपनयेसौ । इति च ८

अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति ।
अग्निष्टे हस्तम् अग्रभीत्।
सोमस्ते हस्तम् अग्रभीत्।
सविता ते हस्तम् अग्रमीत्।
सरस्वती ते हस्तम् अग्रभीत्।
पूषा ते हस्तम् अग्रभीत्।
बृहस्पतिस् ते हस्तम् अग्रभीत्।
मित्रस् ते हस्तम् अग्रभीत्।
वरुणस् ते हस्तम् अग्रभीत्।
त्वष्टा ते हस्तम् अग्रभीत्।
धाता ते हस्तम् अग्रभीत्।
विष्णुस् ते हस्तम् अग्रभीत्।
प्रजापतिस् ते हस्तम् अग्रभीत् । इति ९

सविता त्वा ऽभिरक्षतु
मित्रस् त्वम् असि धर्मणा ।
अग्निराचार्यस् तव । देवेन सवित्रा प्रसूतो बृहस्पतेर् ब्रह्मचारी भवासाव्
अपोशानः समिध आधेहि, कर्म कुरु, मा दिवा स्वाप्सीः । इत्येनं संशास्ति १०

हृदय-नाभि-स्पर्शः

अथास्य दक्षिणेन हस्तेन दक्षिणम् अंसम् उपर्य् उपर्य् अन्ववमृश्य हृदय-देशम् अभिमृशति ।
मम हृदये हृदयं ते अस्तु।
मम चित्तं चित्तेनान्वेहि ।
मम वाचम् एकमना जुषस्व।
बृहस्पतिस् त्वा नियुनक्तु मह्यम् ।
माम् एवानुसंरभस्व।
मयि चित्तानि सन्तु ते ।
मयि सामीच्यम् अस्तु ते।
मह्यं वाचं नियच्छतात् +++(यदा भाषे)+++ । इति ११

प्राणानां ग्रन्थिर् असि - स मा विस्रसः । इति नाभिदेशम् १२

भूर्भुवः सुवः
सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः ।
इत्येनम् अभिमन्त्र्य।

पुनः परिदानम्

भूर् ऋक्षु त्वाग्नौ पृथिव्यां वाचि ब्रह्मणि ददेसौ ।
भुवो यजुःषु त्वा वायाव् अन्तरिक्षे प्राणे ब्रह्मणि ददेसौ ।
सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेसौ ।

हस्तग्रहणम्

इष्टस् ते प्रियोऽसान्य् असौ!
अनलस्य ते प्रियो ऽसान्य् असौ ।
इदं वत्स्यावः! प्राण आयुषि वत्स्यावः! प्राण आयुषि वसासौ । इति च १३

अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति - अग्निर् आयुष्मान् - इति पञ्चभिः पर्यायैः १४

अभिमन्त्रणम्

आयुष् टे विश्वतो दधत् । इति दक्षिणे कर्णे जपति १
आयुर्दा अग्ने । इत्युत्तरे २
अग्नौ पृथिव्यां प्रतितिष्ठ
वायाव् अन्तरिक्षे सूर्ये दिवि ।
यां स्वस्तिम् अग्निर् वायुर् आदित्यश् चन्द्रमा आपो ऽनुसञ्चरन्ति - तां स्वस्तिम् अनुसञ्चरासौ ।
प्राणस्य ब्रह्मचार्य् अभूर् असौ ।
इत्य् उभयत्रानुषजति ३

मेधां त इन्द्रो ददातु मेधां देवी सरस्वती ।
मेधां ते अश्विनावुभावाधत्तां पुष्करस्रजौ ।
इति तस्य मुखेन मुखं सन्निधाय जपति ४

पुनः परिदानम्

अथैनं परिददाति ।
कषकाय त्वा परिददाम्य्
अन्तकाय त्वा परिददाम्य्
अघोराय त्वा परिददामि गदाय त्वा परिददामि
यमाय त्वा परिददामि
मखाय त्वा परिददामि
वशिन्यै त्वा परिददामि
पृथिव्यै त्वा सवैश्वानरायै परिददाम्य्
अद्भ्यस्त्वा परिददाम्य्
ओषधीभ्यस्त्वा परिददामि
वनस्पतिभ्यस्त्वा परिददामि
द्यावापृथिवीभ्यां त्वा परिददामि
सुभूताय त्वा परिददामि
ब्रह्मवर्चसाय त्वा परिददामि
विश्वेभ्यस् त्वा देवेभ्यः परिददामि
सर्वेभ्यस् त्वा भूतेभ्यः परिददामि
सर्वाभ्यस् त्वा देवताभ्यः परिददामि । इति ५

सावित्र्य्-उपदेशः

अत्र सावित्रीं वाचयति यदि पुरस्ताद् उपेतो भवति +++(अधुना च तस्यावर्तनम् प्रायश्चित्ताद्यर्थम्)+++ ६
यद्य् अनुपेतस् त्र्यहे पर्य्-अवेते +++(वाचयति)+++७
सद्यः पुष्करसादिः ८

अपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् प्राङ्मुख उपविशति - “राष्ट्रभृदस्य् आचार्यासन्दी मा - त्वद्योषम्” - इति ९
आदित्यायाञ्जलिं कृत्वाचार्यायोपसङ्गृह्य दक्षिणतः कुमार उपविश्य - “अधीहि भो” इत्य् उक्तो ऽथाह - “सावित्रीं भो अनुब्रूहि” इति १०

“गणानां त्वा गणपतिं हवामहे” इत्य् एनम् अभिमन्त्र्याथास्मै पच्छो ऽग्रेन्वाह, अथार्धर्चशो, ऽथ सन्तताम् +++(एवम्)+++-
भूस् - तत्सवितुर्वरेण्यम् ।
भुवो - भर्गो देवस्य धीमहि ।
सुवर् - धियो यो नः प्रचोदयात् ।
भूर्भुवस् - तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
सुवर् - धियो यो नः प्रचोदयात् ।
भूर्भुवः सुवस् - तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । इति ११

समिदाधानम्

अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रीर् घृतान्वक्ता आभ्याधापयति १
अग्नये समिधम् आहार्षं बृहते जातवेदसे ।
यथा त्वमग्ने समिधा समिध्यस
एवं मां मेधया प्रज्ञया प्रजया पशुभिर् ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । इत्येकाम् २
अग्नये समिधौ । इति द्वे ३
अग्नये समिधः । इति चतस्रः ४

होमसमापनम्

अथ परिषिञ्चति यथा पुरस्तात् ५ अन्वमंस्थाः, प्रासावीः - इति मन्त्रान्तान् संनमति ६

देवतोपस्थानम्

अथ देवता उपतिष्ठते ७

व्रतसङ्कल्पः

अग्ने व्रतपते व्रतं चरिष्यामि । इत्यग्निम् ।
वायो व्रतपते । इति वायुम् ।
आदित्य व्रतपते । इत्यादित्यम् ।
व्रतानां व्रतपते । इति व्रतपतिम् ८

वरदानम्

अत्र गुरवे वरं ददाति ९

परिदानम्

“उदायुषा …” इत्युत्थाप्य,
सूर्यैष ते पुत्रस् तं ते परिददामि इति परिदाय ।
तच्चक्षुर्देवहितं पुरस्ताच् छुक्रमुच्चरत् ।

पश्येम शरदः शतं
जीवेम शरदः शतम् ।
नन्दाम शरदः शतं
मोदाम शरदः शतम् ।
भवाम शरदः शतं शृणवाम शरदः शतम् ।
प्रब्रवाम शरदः शतम्
अजिताः स्याम शरदः शतम् ।
ज्योक् च सूर्यं दृशे ।
इत्यादित्यमुपतिष्ठते १०

दण्डामत्र-दानम्

अग्निष् ट आयुः प्रतरां कृणोत्व्
अग्निष् टे पुष्टिं प्रतरां दधातु ।
इन्द्रो मरुद्भिर् इह ते दधात्व्
आदित्यस् ते वसुभिर् आदधातु । इति दण्डं प्रदायामत्रं प्रयच्छति ११

भिक्षा

अथाह ।
भिक्षाचर्यं चर । इति १२
स मातरम् एवाग्रे भिक्षेत १३
अतो ऽन्येषु राति+++(=दातृ)+++-कुलेषु १४
आहृत्य - “भैक्षम्” इति गुरवे प्राह १५
तत् “सुभैक्षम्”- इत्युक्त्वा १६
यस्य ते प्रथम-वास्यं+++(=वस्त्रम्)+++ हरामस् तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुहृदो वर्धमानम् अनुजायन्तां बहवः सुजातम् । इति प्रथम-वास्यम् अस्याऽऽदत्ते १७

वैश्वदेवहोमः

उप-स्थिते +++(भैक्ष्याद् भिन्नेऽपि पक्वे )+++ ऽन्न ओदनस्या-पूपानां सक्तूनाम् इति समवदाय सर्पिर्-मिश्रस्य जुहोति +++(शिष्यः)+++-
अग्नये स्वाहा।
सोमाय स्वाहा ।
अग्नयेन्नादाय स्वाहा ।
अग्नयेन्नपतये स्वाहा ।
प्रजापतये स्वाहा ।
विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा ।
अग्नये स्विष्टकृते स्वाहा । इति १८

होमे साधारणनियमाः

सर्वत्रैवम् अनादिष्ट-देवते १९
अमुष्मै स्वाहा । इति यथादेवतम् आदिष्टदेवते २०

बलिहरणम्

एतेषामेवान्नानां समवदाय प्रागग्रेषु दर्भेषु बलिं करोति । वास्तुपतये स्वाहा । इति २१

ब्राह्मणभोजनम्

त्रिवृता +++(→त्रिः)+++ ऽन्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्य्-अयनम् ऋद्धिम् इति वाचयित्वा २२ ७

त्र्यहव्रतम्

त्र्यह-व्रतं चरति १
अक्षारम् अलवणम् अशमी-धान्यं+++(=अमाषादिकम्)+++ भुञ्जानोधःशाय्य् अमृन्मय-पाय्य् अ-शूद्रो-च्छिष्ट्य्+++(=शूद्रायोच्छिष्टम् अददन्)+++ अमधु-मांसाश्य् अदिवास्वाप्य्
उभौ कालौ भिक्षाचर्यम्, उद-कुम्भम् इत्याहरन्न् अहर् अहः काष्ठ-कलापम् उभौ कालौ, सायं सायं वा समिधो ऽभ्यादधाति +++(एवम्-)+++ २

समिदाधानम्

पुरस्तात् परिषेचनात् ।
यथा ह तद् वसवो गौर्यम्- इति प्रदक्षिणम् अग्निं परिमृज्य परिषिञ्चति यथा पुरस्तात् ३

  • व्याहृतिभिः समिधो ऽभ्यादधात्य् एकैकशः समस्ताभिश् च ।

  • एषा ते अग्ने समित् - तया वर्धस्व चा च प्यायस्व ।
    वर्धिषीमहि च वयमा च प्यासिषीमहि । स्वाहा ।

  • मेधां म इन्द्रो ददातु
    मेधां देवी सरस्वती ।
    मेधां मे अश्विनाव्
    उभाव् आधत्तां पुष्करस्रजौ । स्वाहा ।

  • अप्सरासु च या मेधा
    गन्धर्वेषु च यन्मनः ।
    दैवीं मेधा मनुष्यजा
    सा मां मेधा सुरभिर् जुषताम् । स्वाहा ।

  • आ मां मेधा सुरभिर् विश्वरूपा
    हिरण्यवर्णा जगती जगम्या ।
    ऊर्जस्वती पयसा पिन्वमाना
    सा मां मेधा सुप्रतीका जुषताम् । स्वाहा । इति ४

  • तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् ५

  • यत्ते अग्ने तेजस्तेनाहम् । इत्येतैर्मन्त्रैर् उपतिष्ठते ।

  • मयि मेधां मयि प्रजाम् । इति च ६

त्र्यहव्रतसमाप्तिः

त्र्यहे पर्यवेते तथैव त्रिवृता ऽन्नेन ब्राह्मणान्परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते ।
अग्ने व्रतपते व्रतमचारिषम् । इत्येतैः सन्नतैः ७

ब्रह्मचर्यव्रतम्

एतद् व्रत एवात ऊर्ध्वम् ८

आचार्यकुल-वास्य् अश्नाति - क्षारं लवणं शमीधान्यम् इति +++(अपि)+++ ९
दण्डी जटी मेखली १०
शिखाजटो वा स्यात् ११
काषायम् अजिनं वा वस्ते १२
न स्त्रियम् उपैति १३
अष्टाचत्वारिंशद् वर्षाणि चतुर्विंशतिं द्वादश यावद्-+++(वेदादि)+++ग्रहणं वा १४
न त्व् एवाव्रतः स्यात् १५

काण्डाध्ययनम्

काण्डोपाकरणे काण्ड-विसर्गे च ।
सदसस्पतिम् अद्भुतं
प्रियमिन्द्रस्य काम्यम् ।
सनिं मेधाम् अयासिषम् । स्वाहा । इति

काण्डर्षिर् द्वितीयः ।
इमं मे वरुण ।
तत्त्वा यामि ।
त्वं नो अग्ने ।
स त्वं नो अग्ने ।
त्वमग्ने अयासि ।
प्रजापते।
यदस्य कर्मणोत्यरीरिचम् ।

इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्य् उपजुह्वति यथा पुरस्तात् १६