२०

01 वैशम्पायनाय पलिङ्गवे तित्तिरायोखायात्रेयाय ...{Loading}...

वैशम्पायनाय पलिङ्गवे तित्तिरायोखायात्रेयाय पदकाराय, कौण्डिण्याय वृत्तिकाराय, सूत्रकारेभ्यः, सत्याषाढाय, प्रवचनकर्तृभ्य आचार्येभ्य, ऋषिभ्यो, वानप्रस्थेभ्य, ऊर्ध्वरेतोभ्य, एकपत्नीभ्य इति १

02 यथास्वम् पितृभ्यो मातामहेभ्यश्च ...{Loading}...

यथास्वं पितृभ्यो मातामहेभ्यश्च कल्पयन्ति २

03 अमुष्मै कल्पयाम्यमुष्मै कल्पयामि ...{Loading}...

अमुष्मै कल्पयाम्यमुष्मै कल्पयामि । इत्यासनेन ३

04 अमुन् तर्पयाम्यमुन् तर्पयामि ...{Loading}...

अमुं तर्पयाम्यमुं तर्पयामि । इत्युदकेन ४

05 अमुष्मै नमोमुष्मै नमः ...{Loading}...

अमुष्मै नमोमुष्मै नमः । इति गन्धपुष्पधूपदीपैः ५

06 अमुष्मै स्वाहामुष्मै स्वाहा ...{Loading}...

अमुष्मै स्वाहामुष्मै स्वाहा । इत्यन्नेन ६

07 अमुन् तर्पयाम्यमुन् तर्पयामि ...{Loading}...

अमुं तर्पयाम्यमुं तर्पयामि । इति फलोदकेन ७

08 अमुष्मै नमोमुष्मै नमः ...{Loading}...

अमुष्मै नमोमुष्मै नमः । इत्युपस्थाय ८

09 अपरेण वेदिमग्निमुपसमाधाय व्याहृतिपर्यन्तङ् ...{Loading}...

अपरेण वेदिमग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा काण्डर्षीञ्जुहोति काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति । हुत्वा प्रथमेनानुवाकेनाधीयते । काण्डादीन्वा सर्वान् । जयादि प्रतिपद्यते । स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति ९

10 काण्डात्काण्डात् या शतेन ...{Loading}...

काण्डात्काण्डात् । या शतेन । इति द्वाभ्यामुदकान्ते दूर्वा रोपयन्ति १०

11 उदधिमूर्मिमन्तङ् कृत्वा प्राचीमुदीचीं ...{Loading}...

उदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशमातमितोराजिं धावन्ति ११

12 प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणांस्तर्पयन्ति ...{Loading}...

प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणांस्तर्पयन्ति १२

13 एवम् पारायणसमाप्तौ दूर्वारोपणोदधिधावनवर्जम् ...{Loading}...

एवं पारायणसमाप्तौ दूर्वारोपणोदधिधावनवर्जम् १३

14 नित्यमेवाद्भिर्देवानृषीन्पितॄंश्च तर्पयन्ति तर्पयन्ति ...{Loading}...

नित्यमेवाद्भिर्देवानृषीन्पितॄंश्च तर्पयन्ति तर्पयन्ति १४


  1. 20, 1. The Kāṇḍānukrama of the Ātreyī-śākhā, which has been printed by Professor Weber in his edition of the Taittirīya Saṃhitā, vol. ii, p. 356, shows that the dative Paliṅgave ought to be corrected to Paiṅgaye. The ‘vṛttikāra’ is there called not Kauṇḍinya, but Kuṇḍina. ↩︎

  2. There is only one difference between the text of this Sutra p. 246 and that of chap. 18, 3-7: instead of hutvā trīn āditoऽnuvākān adhīyate (18, 4) we read here, hutvā prathamenānuvākenādhīyate, which I believe must be translated, ‘Having sacrificed with the first Anuvāka, they recite (that Anuvāka).’ Mātṛdatta says, hutvā prathamottamānuvākam adhīyate. ↩︎

  3. See Sūtras 10 and 11. ↩︎